नारायणाष्टोत्तरशतनामस्तोत्रम्
श्रीगणेशाय नमः ।
नारायणाय सुरमण्डनमण्डनाय नारायणाय सकलस्थितिकारणाय ।
नारायणाय भवभीतिनिवारणाय नारायणाय प्रभवाय नमो नमस्ते ॥ १॥
नारायणाय शतचन्द्रनिभाननाय नारायणाय मणिकुण्डलधारणाय ।
नारायणाय निजभक्तपरायणाय नारायणाय सुभगाय नमो नमस्ते ॥ २॥
नारायणाय सुरलोकप्रपोषकाय नारायणाय खलदुष्टविनाशकाय ।
नारायणाय दितिपुत्रविमर्दनाय नारायणाय सुलभाय नमो नमस्ते ॥ ३॥
नारायणाय रविमण्डलसंस्थिताय नारायणाय परमार्थप्रदर्शनाय ।
नारायणाय अतुलाय अतीन्द्रियाय नारायणाय विरजाय नमो नमस्ते ॥ ४॥
नारायणाय रमणाय रमावराय नारायणाय रसिकाय रसोत्सुकाय ।
नारायणाय रजोवर्जितनिर्मलाय नारायणाय वरदाय नमो नमस्ते ॥ ५॥
नारायणाय वरदाय मुरोत्तमाय नारायणाय अखिलान्तरसंस्थिताय ।
नारायणाय भयशोकविवर्जिताय नारायणाय प्रबलाय नमो नमस्ते ॥ ६॥
नारायणाय निगमाय निरञ्जनाय नारायणाय च हराय नरोत्तमाय ।
नारायणाय कटिसूत्रविभूषणाय नारायणाय हरये महते नमस्ते ॥ ७॥
वारायणाय कटकाङ्गदभूषणाय नारायणाय मणिकौस्तुभशोभनाय ।
नारायणाय तुलमौक्तिकभूषणाय नारायणाय च यमाय नमो नमस्ते ॥ ८॥
नारायणाय रविकोटिप्रतापनाय नारायणाय शशिकोटिसुशीतलाय ।
नारायणाय यमकोटिदुरासदाय नारायणाय करुणाय नमो नमस्ते ॥ ९॥
नारायणाय मुकुटोज्ज्वलसोज्ज्वलाय नारायणाय मणिनूपुरभूषणाय ।
नारायणाय ज्वलिताग्निशिखप्रभाय नारायणाय हरये गुरवे नमस्ते ॥ १०॥
नारायणाय दशकण्ठविमर्दनाय नारायणाय विनतात्मजवाहनाय ।
नारायणाय मणिकौस्तुभभूषणाय नारायणाय परमाय नमो नमस्ते ॥ ११॥
नारायणाय विदुराय च माधवाय नारायणाय कमठाय महीधराय ।
नारायणाय उरगाधिपमञ्चकाय नारायणाय विरजापतये नमस्ते ॥ १२॥
नारायणाय रविकोटिसमाम्बराय नारायणाय च हराय मनोहराय ।
नारायणाय निजधर्मप्रतिष्ठिताय नारायणाय च मखाय नमो नमस्ते ॥ १३॥
नारायणाय भवरोगरसायनाय नारायणाय शिवचापप्रतोटनाय ।
नारायणाय निजवानरजीवनाय नारायणाय सुभुजाय नमो नमस्ते ॥ १४॥
नारायणाय सुरथाय सुहृच्छ्रिताय नारायणाय कुशलाय धुरन्धराय ।
नारायणाय गजपाशविमोक्षणाय नारायणाय जनकाय नमो नमस्ते ॥ १५॥
नारायणाय निजभृत्यप्रपोषकाय नारायणाय शरणागतपञ्जराय ।
नारायणाय पुरुषाय पुरातनाय नारायणाय सुपथाय नमो नमस्ते ॥ १६॥
नारायणाय मणिस्वासनसंस्थिताय नारायणाय शतवीर्यशताननाय ।
नारायणाय पवनाय च केशवाय नारायणाय रविभाय नमो नमस्ते ॥ १७॥
श्रियःपतिर्यज्ञपतिः प्रजापतिर्धियाम्पतिर्लोकपतिर्धरापतिः ।
पतिर्गतिश्चान्धकवृष्णिसात्त्वतां प्रसीदतां मे भगवान् सताम्पतिः ॥ १८॥
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ १९॥
अष्टोत्तराधिकशतानि सुकोमलानि नामानि ये सुकृतिनः सततं स्मरन्ति ।
तेऽनेकजन्मकृतपापचयाद्विमुक्ता नारायणेऽव्यवहितां गतिमाप्नुवन्ति ॥ २०॥
इति नारायणाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran