श्रीमन्नारायणीयाधिष्ठिता भगवन्नामावलिः

श्रीमन्नारायणीयाधिष्ठिता भगवन्नामावलिः

(अवलम्बः - मेल्पत्तूर् नारायण भट्टतिरि महाशयेन विरचितं श्रीमन्नारायणीयं) ॥ ॐ ॥ हरि श्री गणपतये नमः । श्री महासरस्वत्यै नमः । ओं श्री गुरुभ्यो नमः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे । नमश्शिवायै च नमश्शिवाय । ॐ नमो भगवते वासुदेवाय । Number Name (dashaka.shloka) क्रमाङ्क नामानि (दशक.श्लोक)

ब्रह्मदेवनामानि

१. ॐ द्रुहिणाय नमः । (६.४) २. ॐ सत्यलोकनिलये जाताय नमः । (७.१) ३. ॐ धात्रे नमः । (७.१) ४. ॐ हिरण्यगर्भाय नमः । (७.१) ५. ॐ अखिलत्रैलोक्यजीवात्मकाय नमः । (७.१) ६. ॐ स्फीतरजोविकारविकसन्नानासिसृक्षारसाय नमः । (७.१) ७. ॐ विश्वविसर्गदत्तहृदयाय नमः । (७.२) ८. ॐ अनवाप्यविश्वविषयबोधचिन्ताकुलाय नमः । (७.२) ९. ॐ विधये नमः । (७.७) १०. ॐ स्रष्ट्रे नमः । (७.८) ११. ॐ कमलभुवे नमः । (७.९) १२. ॐ ब्रह्मणे नमः । (८.१) १३. ॐ सरोजयोनये नमः । (८.५) १४. ॐ पद्मजन्मने नमः । (८.१२) १५. ॐ पद्मयोनये नमः । (८.१३) १६. ॐ कमलोद्भवाय नमः । (९.१) १७. ॐ भगवत्नाभिपङ्केरुहस्थिताय नमः । (९.१) १८. ॐ स्वोद्भवस्थानेक्षणकुतूहलात् प्रतिदिशं विवृत्ताननाय नमः । (९.१) १९. ॐ विकसदष्टदृष्ट्यम्बुजाय नमः । (९.१) २०. ॐ चतुर्वदनाय नमः । (९.१) २१. ॐ पद्मिनीसम्भवाय नमः । (९.५) २२. ॐ कमलजन्मने नमः । (९.६) २३. ॐ वेधसे नमः । (९.८) २४. ॐ भगवत्प्रसादात् वर्द्धितबलाय नमः । (१०.१) २५. ॐ जीवदेहस्रष्ट्रे नमः । (१०.१) २६. ॐ अम्भोजयोनये नमः । (१०.१) २७. ॐ विरिञ्चाय नमः । (१०.४) २८. ॐ चतुराननाय नमः । (१०.९) २९. ॐ अजाय नमः । (१०.१०) ३०. ॐ भगवदङ्घ्रिसेवातुष्टाशयाय नमः । (१२.१) ३१. ॐ सत्यलोकनिवासाय नमः । (१२.१) ३२. ॐ सरोजभवाय नमः । (१२.२) ३३. ॐ स्वयम्भुवे नमः । (१२.२) ३४. ॐ पङ्कजसम्भवाय नमः । (१४.१) ३५. ॐ कमलभवाय नमः । (१८.८) ३६. ॐ विधात्रे नमः । (२४.२) ३७. ॐ कमलजाय नमः । (२७.२) ३८. ॐ पुण्डरीकोत्भवाय नमः । (३१.७) ३९. ॐ अम्बुजभुवे नमः । (३७.३) ४०. ॐ पाथोजभुवे नमः । (३७.४) ४१. ॐ रजसा पूर्णाय सत्वविरळाय नमः । (९०.३)

शैवनामानि

१. ॐ शङ्कराय नमः । (१.१०) २. ॐ श्रीरुद्राय नमः । (५.६) ३. ॐ मृडाय नमः । (१०.४) ४. ॐ रुद्रनाम्ने नमः । (१०.४) ५. ॐ ब्रह्मणः भ्रूमध्यतः जाताय नमः । (१०.४) ६. ॐ भगवदेकदेशाय नमः । (१०.४) ७. ॐ एकदेशाह्वयतया विभिन्नरूपाय नमः । (१०.५) ८. ॐ रुद्राय नमः । (१०.५) ९. ॐ गिरिशाय नमः । (१६.१) १०. ॐ सतीपतये नमः । (१६.१) ११. ॐ शर्वाय नमः । (१६.९) १२. ॐ दक्षयज्ञभञ्जकाय नमः । (१६.९) १३. ॐ ईशाय नमः । (१६.१०) १४. ॐ कृत्तशीर्षदक्षस्य पुनर्जीवप्रदायकाय नमः । (१६.१०) १५. ॐ हराय नमः । (१६.१०) १६. ॐ भगवत्सेवकदर्शनादृताय नमः । (१९.३) १७. ॐ भवाय नमः । (१९.३) १८. ॐ प्रचेतसां रुद्रगीतोपदेशकाय नमः । (१९.३) १९. ॐ अङ्ककृतवल्लभाय नमः । (२३.९) २०. ॐ अङ्गजारये नमः । (२३.९) २१. ॐ अमरस्तुतिवादमोदनिघ्नाय नमः । (२८.१) २२. ॐ तरळानलं काळकूटं लोकरक्षार्थं पीतवते नमः । (२८.१) २३. ॐ गौरीपतये नमः । (३६.४) २४. ॐ अम्बिकाकमित्रे नमः । (७०.१) २५. ॐ महेश्वराय नमः । (८२.२) २६. ॐ शैलप्रियादुहितृनाथाय नमः । (८२.५) २७. ॐ गुहाय नमः । (८२.५) २८. ॐ सद्यःप्रसादरुषिताय नमः । (८९.२) २९. ॐ घोरतपसा शकुनिजेन वृकासुरेणोपासिताय नमः । (८९.४) ३०. ॐ शिरसि करदानेन निधनं इत्यतिक्षुद्रं रौद्रं वरं वृकासुराय दत्तवते नमः । (८९.४) ३१. ॐ जगन्नाथाय नमः । (८९.४) ३२. ॐ वृत्रासुरस्य कृतघ्नतात् आत्मरक्षार्त्थं वैकुण्ठं गतवते नमः । (८९.५) ३३. ॐ परात्मवपुषे नमः । (९०.२) ३४. ॐ ईश्वराय नमः । (९०.२) ३५. ॐ सदाशिवाय नमः । (९०.२) ३६. ॐ सत्त्वोत्कटाय तमोविकारचेष्टादिकाय नमः । (९०.३) ३७. ॐ शूलिने नमः । (९०.७) ३८. ॐ मार्कण्डेयाग्रे गौर्या सार्द्धं गताय नमः । (९७.९) ३९. ॐ विष्णुप्रियप्रेक्षणार्त्थिने नमः । (९७.९) ४०. ॐ पुरभिदे नमः । (९७.९) ४१. ॐ मार्कण्डेयाय अजरामृत्युतादीन्वरान्दत्तवते नमः । (९७.९) ४२. ॐ स्मररिपवे नमः । (९७.९)

सूर्यादि नामानि

१. ॐ सवित्रे नमः । (६.४) २. ॐ सुधांशवे नमः । (६.७)

देवीनामानि

१. ॐ लक्ष्म्यै नमः । (१.६) २. ॐ गौर्यै नमः । (२१.१) ३. ॐ उमायै नमः । (२३.९) ४. ॐ भगवत्परायै नमः । (२८.३) ५. ॐ कमनीयायै नमः । (२८.३) ६. ॐ अमलायै नमः । (२८.३) ७. ॐ कमलादेव्यै नमः । (२८.३) ८. ॐ देव्यै नमः । (२८.४) ९. ॐ त्रिदशेन्द्रदत्तमणिपीठिकायां उपविष्टायै नमः । (२८.४) १०. ॐ ऋषिभिः सकलोपहृताभिषेचनीयैः श्रुतिगीर्भिः च अभिषिक्तायै नमः । (२८.४) ११. ॐ अमरप्रमुखैर्मणिकुण्डलपीतचेलहारैरलङ्कृतायै नमः । (२८.५) १२. ॐ अभिषेकजलानुपातिमुग्द्धभगवदपाङ्गवल्लीविभूषितायै नमः । (२८.५) १३. ॐ आत्तभृङ्गनादां वरणस्रजं हस्तयोः धृतवत्यै नमः । (२८.६) १४. ॐ कुचकुम्भमन्दयानायै नमः । (२८.६) १५. ॐ पदशिञ्जितमञ्जुनूपुरायै नमः । (२८.६) १६. ॐ कलितव्रीळविलासायै नमः । (२८.६) १७. ॐ सर्वरम्ये भगवति दिव्यमालां निहितवत्यै नमः । (२८.७) १८. ॐ ईक्षणपरिवृष्ट्या विश्वं परिपुष्टं कृतवत्यै नमः । (२८.८) १९. ॐ भगवदुरसि विलसन्त्यै नमः । (२८.८) २०. ॐ भुवनानां जनन्यै नमः । (२८.८) २१. ॐ धरित्र्यै नमः । (३७.३) २२. ॐ पशुपसद्मनि जातायै नमः । (३८.९) २३. ॐ योगनिद्रादेव्यै नमः । (३८.९) २४. ॐ निभृतं आरुदद्बालिकायै नमः । (३९.२) २५. ॐ अजायै नमः । (३९.२) २६. ॐ कपटकन्यकायै नमः । (३९.२) २७. ॐ कृष्णानुजायै नमः । (३९.२) २८. ॐ विकसदष्टबाहुस्फुरन्महायुधधारिण्यै नमः । (३९.५) २९. ॐ मरुद्गणपणायितायै भुवि अनेकमन्दिरेषु प्रतिष्ठितायै नमः । (३९.६) ३०. ॐ अगात्मजायै नमः । (३९.७) ३१. ॐ गिरिजायै नमः । (६०.१) ३२. ॐ दयितो नन्दसुतो भवेत् इति प्रार्थ्य गोपिकाभिः उपहारशतैः पूजितायै नमः । (६०.२) ३३. ॐ रुक्मिण्या वन्दितायै नमः । (७९.३) ३४. ॐ शिवायै नमः । (७९.३) ३५. ॐ रुक्मिण्या परिपूजितायै नमः । (७९.४) ३६. ॐ गिरिसुतायै नमः । (७९.४)

वैष्णवनामानि

१. ॐ सान्द्रानन्दावबोधात्मकाय नमः । (१.१) २. ॐ कालदेशावधिभ्यां निर्मुक्ताय नमः । (१.१) ३. ॐ नित्यमुक्ताय नमः । (१.१) ४. ॐ निगमशतसहस्रेण निर्भास्यमानाय नमः । (१.१) ५. ॐ अस्पष्टोऽपि दृष्टमात्रे उरुपुरुषार्थात्मकाय नमः । (१.१) ६. ॐ ब्रह्मतत्त्वस्वरूपाय नमः । (१.१) ७. ॐ गुरुपवनपुरे जनानां भाग्यार्थं भासते नमः । (१.१) ८. ॐ दुर्लभ्योऽपि भक्तैः सुलभतया हस्तलब्धाय नमः । (१.२) ९. ॐ विश्वपीडापहन्त्रे नमः । (१.२) १०. ॐ गुरुपवनपुराधीशाय नमः । (१.२) ११. ॐ निर्मलसत्वभूतैः भूतेन्द्रियवपुषे नमः । (१.३) १२. ॐ सत्वस्वच्छत्वादाच्छादितपरसुखचिद्गर्भनिर्भासरूपाय नमः । (१.३) १३. ॐ श्रुतिमधुरसुग्रहविग्रहाय नमः । (१.३) १४. ॐ निष्कम्पमाननित्यपूर्णनिरवधिपरमानन्दपीयूषरूपाय नमः । (१.४) १५. ॐ निर्लीनानेकमुक्तावलिसुभगतमनिर्मलब्रह्मसिन्धोः कल्लोलतुल्यविमलतरसत्वस्वरूपाय नमः । (१.४) १६. ॐ निष्कळोऽपि कलासु सकळेति भासते नमः । (१.४) १७. ॐ भूम्ने नमः । (१.४) १८. ॐ अजाय नमः । (१.५) १९. ॐ निर्व्यापारोऽपि निष्कारणं ईक्षणाख्यां क्रियां भजते नमः । (१.५) २०. ॐ असतिकल्पापि कल्पादिकाले प्रकृत्याः उदयकारणाय नमः । (१.५) २१. ॐ स्वमहिमविभवाकुण्ठवैकुण्ठरूपाय नमः । (१.५) २२. ॐ वैकुण्ठाय नमः । (१.५) २३. ॐ संशुद्धसत्वरूपांशं धृत्वा सकळेति वर्तते नमः । (१.५) २४. ॐ प्रत्यग्रधाराधरलळितकळायावलीकेळिकारलावण्यैकसारवपुषे नमः । (१.६) २५. ॐ सुकृतिजनदृशां पूर्णपुण्यावताराय नमः । (१.६) २६. ॐ लक्ष्मीनिःशङ्कलीलानिलयनाय नमः । (१.६) २७. ॐ सञ्चिन्तकानां अन्तोऽमृतस्यन्दसन्दोहं सिञ्चत्वपुषे नमः । (१.६) २८. ॐ मारुतागारनाथाय नमः । (१.६) २९. ॐ चिद्रसार्द्रं निजमधुरतरं वपुः नेत्रैः श्रोत्रैश्च पिबन्तं जीवभाजां परमरसाम्भोधिपूरे रमयते नमः । (१.७) ३०. ॐ अजिताय नमः । (१.७) ३१. ॐ नम्राणां भक्तानां पुरः सततं सन्निधते नमः । (१.८) ३२. ॐ भक्तैः अनभ्यर्थितानपि अर्थान्कामान्परमानन्दसान्द्रां गतिं च अजस्रं वितरते नमः । (१.८) ३३. ॐ निःशेषलभ्याय निरवधिकफलाय पारिजाताय नमः । (१.८) ३४. ॐ हरये नमः । (१.८) ३५. ॐ स्फीतभाग्यैः चेतनाभिः प्रतिपदमधुरे भगवति उच्चैरारमन्तं रमयते नमः । (१.९) ३६. ॐ आत्मारामाय नमः । (१.९) ३७. ॐ अतुलगुणगणाधाराय नमः । (१.९) ३८. ॐ शौरये नमः । (१.९) ३९. ॐ शङ्करादीश्वरविनियमनैश्वर्यवते नमः । (१.१०) ४०. ॐ विश्वतेजोहराणां तेजःसंहारिवीर्यवते नमः । (१.१०) ४१. ॐ निःस्पृहैः उपगीताय नमः । (१.१०) ४२. ॐ विमलयशसे नमः । (१.१०) ४३. ॐ श्रिया सदा अङ्गासङ्गाय नमः । (१.१०) ४४. ॐ अखिलविदे नमः । (१.१०) ४५. ॐ क्वापि सङ्गवार्तारहिताय नमः । (१.१०) ४६. ॐ भगवच्छब्दमुख्याश्रयाय नमः । (१.१०) ४७. ॐ वातागारवासिने नमः । (१.१०) ४८. ॐ मुरहराय नमः । (१.१०) ४९. ॐ सूर्यस्पर्द्धिकिरीटाय नमः । (२.१) ५०. ॐ ऊर्द्ध्वतिलकप्रोद्भासिफालान्तराय नमः । (२.१) ५१. ॐ कारुण्याकुलनेत्राय नमः । (२.१) ५२. ॐ आर्द्रहसितोल्लासाय नमः । (२.१) ५३. ॐ सुनासापुटाय नमः । (२.१) ५४. ॐ गण्डोद्यन्मकरकुण्डलयुगाय नमः । (२.१) ५५. ॐ कण्ठोज्ज्वलत्कौस्तुभाय नमः । (२.१) ५६. ॐ वनमाल्यहारपटलश्रीवत्सदीप्ररूपाय नमः । (२.१) ५७. ॐ केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्किताय श्रीमत्चतुष्कबाहवे नमः । (२.२) ५८. ॐ गदाशङ्खारिपङ्केरुहचतुष्कबाहवे नमः । (२.२) ५९. ॐ काञ्चनकाञ्चिलाञ्छितलसत्पीताम्बरालम्बिनीमूर्तये नमः । (२.२) ६०. ॐ आर्तिच्छिदाभ्यां विमलाम्बुजद्युतिपदाभ्यां नमः । (२.२) ६१. ॐ त्रैलोक्यमहीयसोऽपि महितरूपाय नमः । (२.३) ६२. ॐ मोहनात् सम्मोहनरूपाय नमः । (२.३) ६३. ॐ कान्तिनिधानतोऽपि कान्तरूपाय नमः । (२.३) ६४. ॐ माधुर्यधुर्यादपि मधुररूपाय नमः । (२.३) ६५. ॐ सौन्दर्योत्तरतोऽपि सुन्दरतररूपाय नमः । (२.३) ६६. ॐ आश्चर्यतोऽप्याश्चर्यरूपाय नमः । (२.३) ६७. ॐ भुवने सर्वस्य कुतुकपुष्णरूपवते नमः । (२.३) ६८. ॐ विष्णवे नमः । (२.३) ६९. ॐ विभवे नमः । (२.३) ७०. ॐ परमोत्सुकया सम्पन्मय्या देव्या सम्प्रापित मधुरात्मकवपुषे नमः । (२.४) ७१. ॐ अच्युताय नमः । (२.४) ७२. ॐ लक्ष्मीपतये नमः । (२.५) ७३. ॐ लक्ष्मीहृदयरमणाय नमः । (२.५) ७४. ॐ यस्य ध्यानगुणानुकीर्तनरसासक्तेषु भक्तेषु लक्ष्मीदेवि स्थिरा दयितप्रस्तावदत्तादरा वसति तस्मै नमः । (२.५) ७५. ॐ मनोज्ञतानवसुधानिष्यन्दसन्दोहनाय नमः । (२.६) ७६. ॐ परचिद्रसायनमयाय नमः । (२.६) ७७. ॐ चेतोहररूपाय नमः । (२.६) ७८. ॐ यस्य कथां श‍ृण्वतां भक्तानां मतिं सद्य प्रेरयते मदयते च तस्मै नमः । (२.६) ७९. ॐ यस्य कथाश्रवणं सतां अङ्गकं रोमाञ्चयति आनन्दमूर्च्छोद्भवैः शीतबाष्पविसरैः व्यासिञ्चति च तस्मै नमः । (२.६) ८०. ॐ सौन्दर्यैकरसात्मके भगवति प्रेमप्रकर्षिकया भक्त्या विश्वपुरुषैः निःश्रमलभ्याय नमः । (२.७) ८१. ॐ रमावल्लभाय नमः । (२.७) ८२. ॐ यस्मिन्प्रेमात्मकभक्तिः सततं स्वादीयसी श्रेयसी च विद्यते तस्मै नमः । (२.८) ८३. ॐ चित्तार्द्रत्वमृते बहुभिः जन्मान्तरैः हि सिद्ध्यमानाय नमः । (२.९) ८४. ॐ ब्रह्माख्यवपुषे नमः । (२.९) ८५. ॐ भगवत्कथारसामृतझरी निर्मज्जनेन अक्ळेशतः प्राप्यमानाय नमः । (२.१०) ८६. ॐ विमलप्रबोधपदवीदायकाय नमः । (२.१०) ८७. ॐ द्रुततरं भगवत्प्रेमप्रौढिरसार्द्रता सिद्ध्यर्थं प्रार्थ्यमानाय नमः । (२.१०) ८८. ॐ वातालयाधीश्वराय नमः । (२.१०) ८९. ॐ यस्य नामानि पठन्तः रूपं स्मरन्तः गुणकथा कथयन्तश्चरन्तः रमन्तः भक्ताः समधिगतसर्वाभिलषिताः धन्याश्च भवन्ति तस्मै नमः । (३.१) ९०. ॐ निजपदाम्भोजस्मरणरसिकेषु नामनिवहगायकेषु दयाकराय नमः । (३.२) ९१. ॐ यस्य कृपा जाता चेत् तनुभृतां किमपि नह्यलभ्यं तस्मै नमः । (३.३) ९२. ॐ यस्य कृपया अस्मिन् लोके भक्ताः मुक्ताः अनिशं शोकाभिरहिताः असक्ताः सुखगतिं प्राप्यते तस्मै नमः । (३.३) ९३. ॐ यस्मिन्भक्त्या जगति भगवत्पादाम्भोजस्मरणविरुजाः नारदमुखाः सततनिर्भातपरचित्सदानन्दाद्वैतप्रसरपरिमग्नाः चरन्ति तस्मै नमः । (३.४) ९४. ॐ यस्मिन्भक्तिः स्फीता भवति चेत् अशेषक्ळेशौघं प्रशमयेत् तस्मै नमः । (३.५) ९५. ॐ यस्मिन्गुणरसात् प्रमुखमधुराभक्तिः किमप्यारुढा चेत् अखिलपरितापप्रशमनी भवति तथान्ते स्वान्ते विमलपरिबोधोदयमिळन्महानन्दाद्वैतं दिशति तस्मै नमः । (३.६) ९६. ॐ क्लेशान्विधूय भगवत्क्षेत्रप्राप्तौ चरणयुग्मं पूजनविधौ करं भगवन्मूर्त्यालोके नयनं पादतुळसीपरिघ्राणे घ्राणं भगवत्चारुचरिते श्रवणं च धृतरसं कुरु इति प्रार्थ्यमानाय नमः । (३.७) ९७. ॐ हृदि यस्य परमरसचिद्रूपस्य उदयात् दुरुपशमापीडापरिभवान्विस्मृत्य उदञ्चद्रोमाञ्चगळितबहुहर्षाश्रुनिवहो भवति तस्मै नमः । (३.८) ९८. ॐ मरुत्गेहाधीशाय नमः । (३.९) ९९. ॐ कंसदमनाय नमः । (३.९) १००. ॐ वरदाय नमः । (३.१०) १०१. ॐ विस्फुटावयवसुन्दरवपुषे नमः । (४.५) १०२. ॐ सान्द्रमोदरसरूपाय आन्तरं अवभासमानाय ब्रह्मरूपिणे नमः । (४.६) १०३. ॐ विश्वनायकाय नमः । (४.७) १०४. ॐ अजाय नमः । (४.७) १०५. ॐ जगत्पतये नमः । (४.१५) १०६. ॐ सच्चिदात्मकाय नमः । (४.१५) १०७. ॐ अनिलेशाय नमः । (४.१५) १०८. ॐ एकस्मै परानन्दप्रकाशात्मने नमः । (५.१) १०९. ॐ मायासन्निहितायाप्रविष्टवपुषे नमः । (५.४) ११०. ॐ साक्षीति गीयमानाय नमः । (५.४) १११. ॐ बुद्धितत्त्वं स्रष्टुं मायां सञ्चोदकाय नमः । (५.४) ११२. ॐ मायायां भेदैः प्रतिबिम्बिताय जीवस्वरूपाय नमः । (५.४) ११३. ॐ त्रिगुणैः सम्पुष्टतमोऽतिबहुलसविकल्पक-बोधात्मकाहन्तत्त्वकृते नमः । (५.५) ११४. ॐ भूतग्रामप्रकाशकाय नमः । (५.८) ११५. ॐ भगवते नमः । (५.८) ११६. ॐ देवैः नानाविधसूक्तिभिः नुतगुणाय नमः । (५.९) ११७. ॐ भूतानिन्द्रियगणान्देवांश्च घटयन्तेषां चेष्टाशक्तिं उदीर्य हैरण्यमण्डं विधृतवते नमः । (५.९) ११८. ॐ विराडाह्वयचतुर्दशजगद्रूपभासकाय नमः । (५.१०) ११९. ॐ मरुत्पुराधिपाय नमः । (५.१०) १२०. ॐ सर्वामयात्त्रायकाय नमः । (५.१०) १२१. ॐ चतुर्दशजगन्मयतां गताय नमः । (६.१) १२२. ॐ ईशाय नमः । (६.१) १२३. ॐ पाताळपादतलाय नमः । (६.१) १२४. ॐ रसातलपादोर्द्ध्वदेशाय नमः । (६.१) १२५. ॐ महातलगुल्फद्वयाय नमः । (६.१) १२६. ॐ तलातलजङ्घाभ्यां नमः । (६.२) १२७. ॐ सुतलजानुभ्यां नमः । (६.२ ) १२८. ॐ वितलातलोरुभागयुगळाय नमः । (६.२) १२९. ॐ क्षोणीतलजघनाय नमः । (६.२) १३०. ॐ अम्बरनाभये नमः । (६.२) १३१. ॐ शक्रनिलयवक्षसे नमः । (६.२) १३२. ॐ महर्लोकग्रीवाय नमः । (६.३) १३३. ॐ जनलोकमुखाय नमः । (६.३) १३४. ॐ तपोलोकफालाय नमः । (६.३) १३५. ॐ सत्यलोकशिरसे नमः । (६.३) १३६. ॐ समस्तमयाय नमः । (६.३) १३७. ॐ जगन्मयतनवे नमः । (६.३) १३८. ॐ एवं जगदाश्रितैरन्यैरपि निबद्धवपुषे नमः । (६.३) १३९. ॐ विश्वकन्दाय नमः । (६.४) १४०. ॐ ईश्वराय नमः । (६.४) १४१. ॐ छन्दांसिब्रह्मरन्ध्रपदाय नमः । (६.४) १४२. ॐ घनकेशपाशाय नमः । (६.४) १४३. ॐ केशवाय नमः । (६.४) १४४. ॐ द्रुहिणगेहोल्लासिचिल्लीयुगळाय नमः । (६.४) १४५. ॐ रात्रिदिवसपक्ष्माय नमः । (६.४) १४६. ॐ सवितानेत्राय नमः । (६.४) १४७. ॐ निश्शेषविश्वरचनाकटाक्षमोक्षाय नमः । (६.५) १४८. ॐ दिशाकर्णाय नमः । (६.५) १४९. ॐ अश्वियुगळनासिकाय नमः । (६.५) १५०. ॐ लोभत्रपाधरोत्तरोष्ठाय नमः । (६.५) १५१. ॐ तारागणादशनाय नमः । (६.५) १५२. ॐ शमनदंष्ट्राय नमः । (६.५) १५३. ॐ मायाविलासहसिताय नमः । (६.६) १५४. ॐ समीरश्वसिताय नमः । (६.६) १५५. ॐ जलजिह्वाय नमः । (६.६) १५६. ॐ शकुन्तपङ्क्तिवचनाय नमः । (६.६) १५७. ॐ यस्य स्वरगणाः सिद्धादयस्तस्मै नमः । (६.६) १५८. ॐ यस्य मुखरन्द्रमग्निस्तस्मै नमः । (६.६) १५९. ॐ यस्य भुजाः देवास्तस्मै नमः । (६.६) १६०. ॐ यस्यस्तनयुगं धर्मदेवस्तस्मै नमः । (६.६) १६१. ॐ अम्बुजाक्षाय नमः । (६.७) १६२. ॐ अधर्मपृष्ठाय नमः । (६.७) १६३. ॐ सुधांशुमनसे नमः । (६.७) १६४. ॐ अव्यक्तहृदयाम्बुजाय नमः । (६.७) १६५. ॐ समुद्रनिवहकुक्षये नमः । (६.७) १६६. ॐ सन्ध्यावसनाय नमः । (६.७) १६७. ॐ यस्य शेफः प्रजापतिस्तस्मै नमः । (६.७) १६८. ॐ यस्य वृषणौ मित्रस्तस्मै नमः । (६.७) १६९. ॐ मृगगणाः यस्य श्रोणिस्थलं तस्मै नमः । (६.८) १७०. ॐ हस्त्युष्ट्रसैन्धवमुखाः यस्य पदयोः नखाः तस्मै नमः । (६.८) १७१. ॐ कालगमनाय नमः । (६.८) १७२. ॐ यस्य वदनाब्जबाहुचारूरुयुग्मचरणं विप्रादिवर्णभवनं तस्मै नमः । (६.८) १७३. ॐ करुणाम्बुधये नमः । (६.८) १७४. ॐ चक्रधराय नमः । (६.९) १७५. ॐ संसारचक्रक्रियाकारिणे नमः । (६.९) १७६. ॐ महासुरगणवीर्याय नमः । (६.९) १७७. ॐ शैलाः यस्यास्थिकुलानि तस्मै नमः । (६.९) १७८. ॐ सरित्समुदयः यस्य नाड्यः तस्मै नमः । (६.९) १७९. ॐ तरवः यस्य रोम तस्मै नमः । (६.९) १८०. ॐ अनिर्वचनीयवपुषे नमः । (६.९) १८१. ॐ कर्मभाजां कर्मावसानसमये स्मरणीयाय नमः । (६.१०) १८२. ॐ जगन्मयवपुषे नमः । (६.१०) १८३. ॐ अन्तरात्मवपुषे नमः । (६.१०) १८४. ॐ विमलात्मने नमः । (६.१०) १८५. ॐ वातालयाधिपाय नमः । (६.१०) १८६. ॐ सर्वरोगनिरोधकाय नमः । (६.१०) १८७. ॐ चतुर्दशात्मकजगद्रूपेण जाताय नमः । (७.१) १८८. ॐ यस्योर्ध्वं सत्यलोकनिलयं तस्मै नमः । (७.१) १८९. ॐ चिन्ताशान्त्यर्थं ब्रह्मदेवाय ``तपतपेति'' श्रुतिसुखं वैहायसीं वाणीं श्रावितवते नमः । (७.२) १९०. ॐ ब्रह्मदेवेन दिव्यं वर्षसहस्रतपसा आराधिताय नमः । (७.३) १९१. ॐ धात्रे एकात्भुतं स्वनिलयं वैकुण्ठं विभाविताय नमः । (७.३) १९२. ॐ शोकक्रोधविमोहसाध्वसादिभावरहिते सान्द्रानन्दझरौ परमज्योतिप्रकाशात्मके वैकुण्ठे वसते नमः । (७.४) १९३. ॐ निरस्तसर्वशमलवैकुण्ठे वसते नमः । (७.४) १९४. ॐ भगवत्पादाम्बुजसौरभैककुतुका विद्योतिताशान्तरा लक्ष्मी यत्र स्वयं लक्ष्यते तद्विस्मनीयदिव्यविभवपददायकाय नमः । (७.६) १९५. ॐ रत्नसिंहासनाद्ध्यासिताय नमः । (७.७) १९६. ॐ भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीप्राकृतये नमः । (७.७) १९७. ॐ श्रीवत्साङ्किताय नमः । (७.७) १९८. ॐ आत्तकौस्तुभमणिच्छायारुणाय नमः । (७.७) १९९. ॐ विश्वेषां कारणरूपाय नमः । (७.७) २००. ॐ कालाम्भोदकळायकोमळरुचीचक्रेण दिशां चक्रमावृताय नमः । (७.८) २०१. ॐ उदारहसितस्यन्दप्रसन्नाननाय नमः । (७.८) २०२. ॐ राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलाय नमः । (७.८) २०३. ॐ स्रष्टुः तुष्टिकरवपुषे नमः । (७.८) २०४. ॐ सर्वरोगोद्वासकाय नमः । (७.८) २०५. ॐ यं दृष्ट्वा कमलभूः सम्भृतसम्भ्रमः पादपाथोरुहे निपत्य प्रीत्या कृतार्थी अभवत् तस्मै नमः । (७.९) २०६. ॐ द्वैताद्वैतभगवत्स्वरूपपरज्ञानदायकाय नमः । (७.९) २०७. ॐ ब्रह्मणा विनम्रिताताम्रचरणाभ्यां नमः । (७.१०) २०८. ॐ हस्तेन हस्ते स्पृशन् धात्रे प्रतोषयितवते नमः । (७.१०) २०९. ॐ धातृच्चित्तगूढस्थाय नमः । (७.१०) २१०. ॐ बोधस्ते भविता, न सर्गविधिभिः बन्धोऽपि सञ्जायते इति स्रष्टारं अनुग्रहीतवते नमः । (७.१०) २११. ॐ उल्लाघातोल्लासकाय नमः । (७.१०) २१२. ॐ प्राकृतप्रक्षयान्ते आदिमे लब्धजन्मने ब्रह्मणे वेदान्दत्तवते नमः । (८.१) २१३. ॐ दिनावसाने सुषुप्तिकामस्य सरोजयोनेः लयस्थानाय नमः । (८.५) २१४. ॐ फणिराजशेषे शयानाय नमः । (८.६) २१५. ॐ आनन्दसान्द्रानुभवस्वरूपाय नमः । (८.६) २१६. ॐ स्वयोगनिद्रापरिमुद्रितात्मने नमः । (८.६) २१७. ॐ अखिलजीवधाम्ने नमः । (८.७) २१८. ॐ ``प्रळयावसाने प्रबोधय'' इति कालशक्तिं आदेशं दत्तवते नमः । (८.७) २१९. ॐ कालाख्यशक्त्या प्रथमप्रबुद्धाय नमः । (८.८) २२०. ॐ अद्वितीयाय नमः । (८.८) २२१. ॐ विश्वनाथाय नमः । (८.८) २२२. ॐ जलगर्भशायिने नमः । (८.९) २२३. ॐ विश्वेशाय नमः । (८.९) २२४. ॐ मुकुळायमान निलीननिःशेषपदार्थमालासङ्क्षेपरूप दिव्यपद्मोदञ्चितनाभिरन्ध्राय नमः । (८.१०) २२५. ॐ स्वयं प्रबुद्धाखिलवेदराशेः पद्मजन्मस्य विधेः जनकाय नमः । (८.१२) २२६. ॐ उत्थापितपद्मयोनये नमः । (८.१३) २२७. ॐ अनन्तभूम्ने नमः । (८.१३) २२८. ॐ वातालयवासाय नमः । (८.१३) २२९. ॐ सर्वरोगराशिनिरोधकाय नमः । (८.१३) २३०. ॐ अतिमोहनकळेबराय नमः । (९.३) २३१. ॐ कमलजन्मने दर्शितादृष्टचराय अद्भुतवपुषे नमः । (९.५) २३२. ॐ भुजगभोगभागाश्रयाय नमः । (९.६) २३३. ॐ किरीटमकुटकोल्लसत्कटकहारकेयूरयुताय नमः । (९.६) २३४. ॐ कळायकुसुमप्रभाय नमः । (९.६) २३५. ॐ गळतलोल्लसत्कौस्तुभाय नमः । (९.६) २३६. ॐ श्रुतिप्रकरदर्शितप्रचुरवैभवाय नमः । (९.७) २३७. ॐ द्रुहितवर्णितस्वगुणबंहिम्ने नमः । (९.७) २३८. ॐ विधे अक्षतां भुवनत्रयरचनदक्षतादायकाय नमः । (९.८) २३९. ॐ अखिलसाधनी मयि भक्तिः अत्युत्कटा भवतु इत्यनुगृह्य वेधसं मुदितचेतसं कृताय नमः । (९.८) २४०. ॐ कृपाभराय नमः । (९.१०) २४१. ॐ मरुत्पुराधीश्वराय नमः । (९.१०) २४२. ॐ गुरुदयोक्षितैरीक्षितैः जगत्परिपालकाय नमः । (९.१०) २४३. ॐ विशुद्ध्यै स्मरणीयाय चरणाभ्यां नमः । (१०.२) २४४. ॐ भगवते नमः । (१०.७) २४५. ॐ सर्गवृद्धिप्राप्त्यर्थं चतुराननाश्रितपदाम्बुजाभ्यां नमः । (१०.९) २४६. ॐ गोविन्दाय नमः । (१०.१०) २४७. ॐ मारुतपुरेशाय नमः । (१०.१०) २४८. ॐ रोगनिरोधकाय नमः । (१०.१०) २४९. ॐ विकुण्ठलोकवासाय नमः । (११.१) २५०. ॐ मारुतमन्दिरेशाय नमः । (११.१) २५१. ॐ लक्ष्मीसमेताय नमः । (११.५) २५२. ॐ अम्बुजाक्षाय नमः । (११.५) २५३. ॐ खगेश्वरांसार्पितचारुबाहवे नमः । (११.५) २५४. ॐ अभिराममूर्तये नमः । (११.५) २५५. ॐ युवां संरम्भयोगेन त्रिभिः भवैः मां उपेतं इति अनन्यनाथौ स्वपार्षदौ जयविजयौ आत्तकृपां उक्तवते नमः । (११.६) २५६. ॐ भक्तैकदृश्याय नमः । (११.१०) २५७. ॐ कृपानिधये नमः । (११.१०) २५८. ॐ मरुदालयेशाय नमः । (११.१०) २५९. ॐ अम्भोरुहाक्षाय नमः । (१२.२) २६०. ॐ शिशुकोलरूपिणे नमः । (१२.३) २६१. ॐ विपुलमूर्तये नमः । (१२.६) २६२. ॐ ऊर्द्ध्वप्रसारिपरिधूम्रविधूतरोमाय नमः । (१२.७) २६३. ॐ प्रोक्षिप्तवालधिये नमः । (१२.७) २६४. ॐ अवाङ्मुखघोरघोणाय नमः । (१२.७) २६५. ॐ तूर्णप्रदीर्णजलदाय नमः । (१२.७) २६६. ॐ वराहमूर्तये नमः । (१२.७) २६७. ॐ स्तुवन्तं मुनीन्शिशिरयन्नवतीर्णाय नमः । (१२.७) २६८. ॐ दंष्ट्राङ्कुरेण सलीलं रसातलात् वसुधां उद्धृताय नमः । (१२.९) २६९. ॐ अधिकपीवरात्मने नमः । (१२.१०) २७०. ॐ क्रीडावराहवपुषे नमः । (१२.१०) २७१. ॐ मायविने नमः । (१३.२) २७२. ॐ मृदुस्मेरास्याय नमः । (१३.५) २७३. ॐ दनुजकुलनिर्मूलनचणमहाचक्रं करभुवि दधानं शोभिताय नमः । (१३.५) २७४. ॐ हिरण्याक्षहन्त्रे नमः । (१३.८) २७५. ॐ अध्वरतनवे नमः । (१३.८) २७६. ॐ मुनिभिः सान्द्राभिः स्तुतिभिः नुताय नमः । (१३.८) २७७. ॐ परस्मै पुरुषाय नमः । (१३.९) २७८. ॐ यस्य त्वचि छन्दः तस्मै नमः । (१३.९) २७९. ॐ यस्य रोमसु कुशगणाः तस्मै नमः । (१३.९) २८०. ॐ यस्य चक्षुषि घृतं तस्मै नमः । (१३.९) २८१. ॐ यस्य अङ्घ्रौ चतुर्होतारः तस्मै नमः । (१३.९) २८२. ॐ यस्य वदने स्रुक् तस्मै नमः । (१३.९) २८३. ॐ यस्य उदरे इडा तस्मै नमः । (१३.९) २८४. ॐ यस्य जिह्वायां ग्रहाः तस्मै नमः । (१३.९) २८५. ॐ यस्य कर्णे चमसाः तस्मै नमः । (१३.९) २८६. ॐ यस्य वीर्यं सोमः तस्मै नमः । (१३.९) २८७. ॐ यस्य गळदेशे उपसदः तस्मै नमः । (१३.९) २८८. ॐ मुनीन्द्रैः स्तवनमुखरैः मोदितमनसे नमः । (१३.१०) २८९. ॐ महीयसे मूर्तये नमः । (१३.१०) २९०. ॐ विमलतरकीर्त्या विलसिताय नमः । (१३.१०) २९१. ॐ सुखरसविहारिणे नमः । (१३.१०) २९२. ॐ मधुरिपवे नमः । (१३.१०) २९३. ॐ वातालयपतये नमः । (१३.१०) २९४. ॐ कर्दममहर्षिणा अयुतं समाः निषेविताय नमः । (१४.२) २९५. ॐ निःसर्गरम्याय नमः । (१४.२) २९६. ॐ गरुडोपरिस्थाय नमः । (१४.३) २९७. ॐ काळमेघकम्राय नमः । (१४.३) २९८. ॐ विलसत्केळिसरोजपाणिपद्माय नमः । (१४.३) २९९. ॐ हसितोल्लसिताननाय नमः । (१४.३) ३००. ॐ कर्दमसुताय नमः । (१४.३) ३०१. ॐ कपिलाय नमः । (१४.३) ३०२. ॐ जनानां परमात्मतत्त्वविद्याप्रकाशकाय नमः । (१४.९) ३०३. ॐ जनन्यै देवहूत्यै मतसर्वस्वोपदेशकाय नमः । (१४.१०) ३०४. ॐ कपिलात्मकाय नमः । (१४.१०) ३०५. ॐ गदौघप्रशमनाय नमः । (१४.१०) ३०६. ॐ वायुमन्दिरेशाय नमः । (१४.१०) ३०७. ॐ भक्तियोगोपदेशकाय नमः । (१५.१) ३०८. ॐ कपिलतनवे नमः । (१५.१) ३०९. ॐ साङ्ख्ययोगोपदेशकाय नमः । (१५.२) ३१०. ॐ प्रकृतिपुरुषतत्त्वोपदेशकाय नमः । (१५.३) ३११. ॐ ध्यानयोगोपदेशकाय नमः । (१५.४) ३१२. ॐ कीर्तनादिजपयोगप्राधान्यप्रवाचकाय नमः । (१५.५) ३१३. ॐ वैराग्यप्राधान्यप्रवाचकाय नमः । (१५.६) ३१४. ॐ व्यर्थजीवितदुःखप्रदर्शकाय नमः । (१५.७) ३१५. ॐ कर्मयोगोपदेशकाय नमः । (१५.८) ३१६. ॐ कृतनुतिं सुविदितवेद्यां जनन्यां देवहूत्यां अनुगृह्य जनहितार्थं प्रागुदीच्यां गतवते नमः । (१५.९) ३१७. ॐ सकलभयविनेत्रीं सर्वकामोपनेत्रीं भक्तिप्रदायकाय नमः । (१५.१०) ३१८. ॐ सर्वामयनाशकाय नमः । (१५.१०) ३१९. ॐ गुरुपवनपुरेशाय नमः । (१५.१०) ३२०. ॐ नरसख्ये नमः । (१६.२) ३२१. ॐ नारायणाय नमः । (१६.२) ३२२. ॐ सहस्रकवचदैत्यहन्तृभ्यां नमः । (१६.३) ३२३. ॐ कामदेवत्रासकाय नमः । (१६.४) ३२४. ॐ सर्वस्वर्वासिगर्वशमनीं उर्वशीं शक्राय दत्तवते नमः । (१६.७) ३२५. ॐ प्रशान्तरमणीयतरावताराय नमः । (१६.८) ३२६. ॐ कृष्णोपमतनवे नमः । (१६.८) ३२७. ॐ दक्षयज्ञपूर्तिकारकाय नमः । (१६.१०) ३२८. ॐ शान्तिदायकाय नमः । (१६.१०) ३२९. ॐ प्रशान्तिकराय नमः । (१६.१०) ३३०. ॐ मरुत्पुरेशाय नमः । (१६.१०) ३३१. ॐ नारदनिवेदितमन्त्रमार्गेण ध्रुवेण निषेविताय नमः । (१७.४) ३३२. ॐ करुणार्द्रचेतसे नमः । (१७.६) ३३३. ॐ गरुडाधिरूढाय नमः । (१७.६) ३३४. ॐ ध्रुवस्य कपोलदेशे दरेण संस्पृष्टवते नमः । (१७.७) ३३५. ॐ ध्रुवेण विबोधविमलमनसा नुताय नमः । (१७.८) ३३६. ॐ वासुदेवाय नमः । (१७.८) ३३७. ॐ ध्रुवाय सर्वोत्तरं विनिवृत्तिहीनपदं दत्तवते नमः । (१७.९) ३३८. ॐ स्वभृत्यजनपालनलोलधिये नमः । (१७.११) ३३९. ॐ वातालयाधिपाय नमः । (१७.११) ३४०. ॐ सर्वामयौघनिरोधकाय नमः । (१७.११) ३४१. ॐ मुनीश्वराणां शापाग्नौ दह्यमानस्य वेनस्य दोर्दण्डे परिमथिते आविर्भूताय नमः । (१८.४) ३४२. ॐ पृथवे नमः । (१८.४) ३४३. ॐ तापसोपदिष्टैः सूताद्यैः परिणुतभाविभूरिवीर्याय विख्याताय नमः । (१८.५) ३४४. ॐ कबळितसंपदं धरित्रीं निजधनुषा समां कृतवते नमः । (१८.५) ३४५. ॐ सुरभितनोः भुवः अभिलषितानि अन्नादीनि दुहितवते नमः । (१८.६) ३४६. ॐ सनकमुखोदितं विज्ञानं दधानाय पृथुवपुषे नमः । (१८.१०) ३४७. ॐ वातगेहवासिने नमः । (१८.१०) ३४८. ॐ सर्वरोगौघप्रशमनाय नमः । (१८.१०) ३४९. ॐ प्रचेतसा रुद्रगीतं जपद्भिः सेविताय नमः । (१९.४) ३५०. ॐ पतगेन्द्रवाहनाय नमः । (१९.६) ३५१. ॐ चक्रायुधांशुभिः विराजिताष्टभुजाय नमः । (१९.६) ३५२. ॐ उदञ्चितद्युतये नमः । (१९.६) ३५३. ॐ देहिनां भवद्विचिन्ता शिवाय, असौ रुद्रनुति कामदा च भवतु इत्यादि वरान्प्रचेतसां अयाचतामपि कारुण्यभरात् दत्तवते नमः । (१९.७) ३५४. ॐ वातालयनाथाय नमः । (१९.१०) ३५५. ॐ नाभेः इष्टिमध्ये स्वयं दर्शितवते नमः । (२०.१) ३५६. ॐ इष्टदाय नमः । (२०.१) ३५७. ॐ विश्वमूर्तये नमः । (२०.२) ३५८. ॐ नाभिजाय नमः । (२०.३) ३५९. ॐ मेरुदेवीसुताय नमः । (२०.३) ३६०. ॐ ऋषभाभिधानाय नमः । (२०.३) ३६१. ॐ अवर्षात् परितप्ताजनाभवर्षे निजयोगशक्त्या सुवर्षं कृतवते ऋषभाय नमः । (२०.५) ३६२. ॐ सुतेभ्यः मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गं उपदिश्य स्वयं पारमहंस्यवृत्तिं गतवते नमः । (२०.८) ३६३. ॐ परात्मभूतोऽपि परोपदेशं कुर्वन् अहीनात्मरसाभिलीनो महीं विचरितवते नमः । (२०.९) ३६४. ॐ कुटकाचले दवाहृताङ्गाय नमः । (२०.१०) ३६५. ॐ वातनाथाय नमः । (२०.१०) ३६६. ॐ सर्वतापनाशकाय नमः । (२०.१०) ३६७. ॐ इळावृते शर्वेण मन्त्रनुतिभिः समुपास्यमानाय नमः । (२१.१) ३६८. ॐ सङ्कर्षणात्मकाय नमः । (२१.१) ३६९. ॐ अधीश्वराय नमः । (२१.१) ३७०. ॐ भद्राश्वे भद्रश्रवोभिः ऋषिभिः परिणूयमानाय नमः । (२१.२) ३७१. ॐ कल्पान्तगूढनिगमोद्धरणप्रवीणाय नमः । (२१.२) ३७२. ॐ हयशीर्षतनवे नमः । (२१.२) ३७३. ॐ हरिवर्षे प्रह्ळादमुख्यपुरुषैः परिषेव्यमाणाय नमः । (२१.३) ३७४. ॐ उत्तुङ्गशान्तधवळाकृतये नमः । (२१.३) ३७५. ॐ एकशुद्धज्ञानप्रदाय नमः । (२१.३) ३७६. ॐ नरहरये नमः । (२१.३) ३७७. ॐ केतुमाले लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणाय नमः । (२१.४) ३७८. ॐ लीलाविशेषलसितस्मितशोभनाङ्गाय नमः । (२१.४) ३७९. ॐ लक्ष्म्याः प्रियाय धृतकामतनवे नमः । (२१.४) ३८०. ॐ रम्यकवर्षे तद्वर्षनाम्ना मनुवर्येण सपर्यमाणाय नमः । (२१.५) ३८१. ॐ अमत्सरहृत्सु भान्तं भक्तैकवत्सलाय नमः । (२१.५) ३८२. ॐ मत्स्याकृतये नमः । (२१.५) ३८३. ॐ भुवननाथाय नमः । (२१.५) ३८४. ॐ हिरण्मयवर्षे पितृगणप्रवरेण अर्यम्णा संसेव्यमानाय नमः । (२१.६) ३८५. ॐ अद्रिधृतिकर्मठकामठाङ्गाय नमः । (२१.६) ३८६. ॐ परचिन्मयात्मने नमः । (२१.६) ३८७. ॐ कुरुवर्षे प्रियया धरण्या महितमन्त्रनुतिप्रभेदैः संसेविताय नमः । (२१.७) ३८८. ॐ दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मणे नमः । (२१.७) ३८९. ॐ विज्ञनुताय नमः । (२१.७) ३९०. ॐ यज्ञवराहमूर्तये नमः । (२१.७) ३९१. ॐ किंपुरुषाख्यवर्षे दृढभक्तिभाजाय हनुमता संसेविताय नमः । (२१.८) ३९२. ॐ सीताभिरामपरमाद्भुतरूपशालिने नमः । (२१.८) ३९३. ॐ रामात्मकाय नमः । (२१.८) ३९४. ॐ भारतखण्डमुख्यैः श्रीनारदेन साङ्ख्ययोगनुतिभिः समुपास्यमानाय नमः । (२१.९) ३९५. ॐ आकल्पकालसाधुजनाभिरक्षिणे नमः । (२१.९) ३९६. ॐ प्ळाक्षे अर्करूपेण, शाल्मले इन्दुरूपेण, कुशद्वीपे वह्निरूपेण, क्रौञ्चे अम्बुरूपेण, शाके वायुरूपेण, पुष्करे ब्रह्मरूपेण इति नानारूपभेदेषु भक्तैः भज्यमानाय नमः । (२१.१०) ३९७. ॐ महतां सन्ध्यासु उपास्यमानाय पुच्छादिकेषु अवयवेषु ध्रुवादिसर्वोडुप्रकरैः, ग्रहैश्चाभिकल्प्यमानाय शिंशुमारवपुषे नमः । (२१.११) ३९८. ॐ सिन्धुशायिने नमः । (२१.११) ३९९. ॐ नरकरोधकाय नमः । (२१.११) ४००. ॐ पाताळमूलभुवि उपास्यमानाय नमः । (२१.१२) ४०१. ॐ लोलैककुण्डलविराजिताय नमः । (२१.१२) ४०२. ॐ सहस्रशीर्ष्णे नमः । (२१.१२) ४०३. ॐ नीलाम्बराय नमः । (२१.१२) ४०४. ॐ धृतहलाय नमः । (२१.१२) ४०५. ॐ भुजगाङ्गनाभिः जुष्टाय नमः । (२१.१२) ४०६. ॐ शेषतनवे नमः । (२१.१२) ४०७. ॐ गदहारिणे नमः । (२१.१२) ४०८. ॐ गुरुगेहनाथाय नमः । (२१.१२) ४०९. ॐ नामाक्षरोच्चारणेनैव सर्वपापनाशकाय नमः । (२२.४) ४१०. ॐ प्रभवे नमः । (२२.६) ४११. ॐ अनन्ताय नमः । (२२.७) ४१२. ॐ मुकुन्दाय नमः । (२२.९) ४१३. ॐ अजामिळमोक्षदायकाय नमः । (२२.१०) ४१४. ॐ वातालयनाथाय नमः । (२२.११) ४१५. ॐ अष्टबाहवे नमः । (२३.१) ४१६. ॐ दक्षाय वरदात्रे नमः । (२३.१) ४१७. ॐ नारायणकवचस्तोत्रेण स्तूयमानाय नमः । (२३.३) ४१८. ॐ सर्वजैत्रमहिम्ने नमः । (२३.३) ४१९. ॐ चित्रकेतुना श्रीनारदात् लब्धस्तोत्रेण मन्त्रेण च तपसाराधितशेषवपुषे नमः । (२३.६) ४२०. ॐ चित्रकेतवे विद्याधराधिपतित्वं दत्तवते नमः । (२३.६) ४२१. ॐ मृणाळधवळसहस्रशीर्ष्णरूपाय नमः । (२३.७) ४२२. ॐ बद्धनुतिसिद्धगणावृताय नमः । (२३.७) ४२३. ॐ प्रसन्नाय नमः । (२३.७) ४२४. ॐ चित्रकेतवे आत्मतत्त्वोपदेशं दत्तवते नमः । (२३.७) ४२५. ॐ वृत्रासुराय भगवत्पददायकाय नमः । (२३.१०) ४२६. ॐ यस्य सेवा दुष्टाशयेऽपि शुभदा एव तस्मै नमः । (२३.११) ४२७. ॐ पवनालयेशाय नमः । (२३.११) ४२८. ॐ हिरण्यकशिपोः हृदये सूक्ष्मवपुषा प्रविश्य बहिर्दृष्टेः अन्तर्धानं कृतवते नमः । (२४.३) ४२९. ॐ प्रह्ळादादि भगवत्भक्तानां वरदाय नमः । (२४.४) ४३०. ॐ पितृकृतोपद्रवात् प्रह्ळादं रक्षितवते नमः । (२४.५) ४३१. ॐ प्रह्ळादस्य सर्वपीडादुःखहारकाय नमः । (२४.७) ४३२. ॐ परमात्मने नमः । (२४.७) ४३३. ॐ प्रह्ळादबलदायकाय नमः । (२४.९) ४३४. ॐ सकलजगदात्मने नमः । (२४.१०) ४३५. ॐ कृपात्मने नमः । (२४.१०) ४३६. ॐ विश्वात्मने नमः । (२४.१०) ४३७. ॐ पवनपुरवासिने नमः । (२४.१०) ४३८. ॐ स्तम्भतः सम्भूताय नैव मृगात्मकमनुजात्मकवपुषे नमः । (२५.२) ४३९. ॐ विस्फूर्ज्जद्धवळोग्ररोमविकसद्वर्ष्मणे नमः । (२५.२) ४४०. ॐ तप्तस्वर्णवर्णघूर्णदतिरूक्षाक्षाय नमः । (२५.३) ४४१. ॐ प्रोत्कंपप्रनिकुम्बिताम्बरसटाकेसराय नमः । (२५.३) ४४२. ॐ व्यात्तव्याप्तमहादरीसखमुखाय नमः । (२५.३) ४४३. ॐ खड्गोग्रवल्गन्महाजिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामराय नमः । (२५.३) ४४४. ॐ उत्सर्पद्वलिभङ्गभीषणहनवे नमः । (२५.४) ४४५. ॐ ह्रस्वस्थवीयस्तरग्रीवाय नमः । (२५.४) ४४६. ॐ पीवरदोश्शतोद्गतक्रूरांशुदूरोल्बणनखाय नमः । (२५.४) ४४७. ॐ व्योमोल्लङ्घिघनाघनोपमघनप्रध्वाननिर्धावितस्पर्धालुप्रकराय नमः । (२५.४) ४४८. ॐ नारसिंहवपुषे नमः । () ४४९. ॐ हिरण्यकशिपुं द्वारे ऊरुयुगे निपात्य वक्षोभुवि नखरान्व्युत्खाय निर्भिन्दन् तस्य रक्तं पुनःपुनः पीतवते नमः । (२५.६) ४५०. ॐ जगत्संहारिसिंहारवाय नमः । (२५.६) ४५१. ॐ मांसवपाकराळवपुषे नमः । (२५.८) ४५२. ॐ घोरान्त्रमालाधराय नमः । (२५.८) ४५३. ॐ सर्वेशर्ववासवविरिञ्चमुखाभिः प्रत्येकं स्तुताय नमः । (२५.८) ४५४. ॐ प्रह्ळादे अपभये पदयोः नमति सति तस्य मूर्ध्नि करे न्यस्य वरं दत्तवते नमः । (२५.९) ४५५. ॐ कारुण्यभाराकुलाय नमः । (२५.९) ४५६. ॐ शान्ताय नमः । (२५.९) ४५७. ॐ नाटितरौद्रचेष्टिताय नमः । (२५.१०) ४५८. ॐ श्रीतापनीयाभिधश्रुत्यन्तस्फुटगीतसर्वमहिम्ने नमः । (२५.१०) ४५९. ॐ अलङ्घ्याय नमः । (२५.१०) ४६०. ॐ अत्यन्तशुद्धाकृतये नमः । (२५.१०) ४६१. ॐ प्रह्ळादप्रियाय नमः । (२५.१०) ४६२. ॐ सर्वामयमार्जकाय नमः । (२५.१०) ४६३. ॐ मरुत्पुरपतये नमः । (२५.१०) ४६४. ॐ पाण्ड्यखण्डाधिराजेन इन्द्रद्युम्नेन चन्दनाद्रौ मग्नधिया सेविताय नमः । (२६.१) ४६५. ॐ शान्त्यर्थं स्वकानां श्रान्तिदाय नमः । (२६।१) ४६६. ॐ अखिलगुरवे नमः । (२६.७) ४६७. ॐ ग्राहग्रस्तहस्तिना आर्तिव्यक्तप्राक्तनज्ञानभक्त्या पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं श्रेष्ठस्तोत्रेण स्तुताय नमः । (२६.७) ४६८. ॐ हस्तीन्द्रेण शुण्डोत्क्षिप्तैः पुण्डरीकैः समर्चिताय नमः । (२६.७) ४६९. ॐ भूरिकारुण्यमूर्तये नमः । (२६.८) ४७०. ॐ तार्क्ष्यारूढाय नमः । (२६.८) ४७१. ॐ गजेन्द्रमोक्षदायकाय नमः । (२६.९) ४७२. ॐ वातालयेशाय नमः । (२६.१०) ४७३. ॐ निर्वाणप्रभवाय नमः । (२७.२) ४७४. ॐ ब्रह्माद्यैः स्तुत्यमहिम्ने नमः । (२७.३) ४७५. ॐ मन्थानं मन्दराद्रिं मदेन नयति सति देवेषु भ्रष्टे गिरिं बदरं इव खगेन्द्रे उद्वहन् पयःपयोधौ विनिहितवते नमः । (२७.४) ४७६. ॐ दुग्धाब्धौ निमग्नौ अचलोद्धरणार्थं धृतकठोरपृष्ठकमठतनवे नमः । (२७.६) ४७७. ॐ उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजाय नमः । (२७.९) ४७८. ॐ प्रमोदात् उद्भ्रान्तैः विधिगिरिशाद्यैः पुष्पवृष्ट्या स्तुत्या चाराधिताय नमः । (२७.९) ४७९. ॐ करयुगकृष्टसर्पराजेन संराजते नमः । (२७.११) ४८०. ॐ एकस्मै नमः । (२७.११) ४८१. ॐ पवनपुरेशाय नमः । (२७.११) ४८२. ॐ ऋषिषु सुरभिं अर्पितवते नमः । (२८.२) ४८३. ॐ त्रिधाम्ने नमः । (२८.२) ४८४. ॐ सुरेषु हयरत्नं, इभरत्नं, द्युतरु, अप्सरसां चार्पितवते नमः । (२८.२) ४८५. ॐ लक्ष्मीवल्लभाय नमः । (२८.८) ४८६. ॐ श्रीनिवासाय नमः । (२८.८) ४८७. ॐ तमसः पदवीं मदयन्तीं वारुणीं महासुरेभ्यो दत्तवते नमः । (२८.९) ४८८. ॐ तरुणाम्बुदसुन्दराय नमः । (२८.१०) ४८९. ॐ कराभ्यां कलशे अमृतं वहन् अम्बुराशेः उत्थिताय नमः । (२८.१०) ४९०. ॐ धन्वन्तरीमूर्तये नमः । (२८.१०) ४९१. ॐ अखिलार्तिहराय नमः । (२८.१०) ४९२. ॐ मारुतालयेशाय नमः । (२८.१०) ४९३. ॐ भगवत्करादमृतं दैत्येषु हरत्सु छलेन तद्प्रतिगृहीतुं रुचापि वयसापि श्यामां मोहिनीरूपं धृतवते नमः । (२९.१) ४९४. ॐ तुङ्गकुचमण्डलभङ्गुरां तनुं प्राप्तवते नमः । (२९.२) ४९५. ॐ असुरैः दत्तं सुधाकलशं कराभ्यां धृत्वा देवदैत्यान् पङ्क्तिप्रभेदे विनिवेश्य देवानामेव सुधां दत्तवते नमः । (२९.४) ४९६. ॐ भक्तलोकवशगाय नमः । (२९.५) ४९७. ॐ निजरूपं एत्य अर्द्धपरिपीतामृतस्य स्वर्भानोः गळच्छेदं कृतवते नमः । (२९.५) ४९८. ॐ मालिकालनेमीत्याद्यसुरहन्त्रे नमः । (२९.७) ४९९. ॐ दनुजमोहनकारकयोषावपुषे नमः । (२९.८) ५००. ॐ कन्दुकघातलीलालोलाय नमः । (२९.९) ५०१. ॐ नयनमनोज्ञकमनीरूपाय नमः । (२९.९) ५०२. ॐ मोहिनीरूपेण अनङ्गरिपुमपि सम्मोहिताय नमः । (२९.९) ५०३. ॐ महादेवेन समालिलिङ्गिताय नमः । (२९.९) ५०४. ॐ वातनिकेतनाथाय नमः । (२९.१०) ५०५. ॐ अदित्या द्वादशाहपयोव्रताचारेण भक्तिपूर्वं सेविताय नमः । (३०.२) ५०६. ॐ अदित्या दर्शित श्यामाय चतुर्भुजवपुषे नमः । (३०.३) ५०७. ॐ अदित्या विधात्रा च प्रणुताय नमः । (३०.४) ५०८. ॐ द्वादशीश्रवणपुण्यदिने प्रादुर्भूताय नमः । (३०.४) ५०९. ॐ प्रकटवैष्णवदिव्यरूपाय नमः । (३०.४) ५१०. ॐ हर्षाकुलसुरकुलेन कृततूर्यघोषपुष्पवर्षैरभिवन्द्याय नमः । (३०.५) ५११. ॐ बद्धाञ्जलिभिः पितृभिः जयजयेति नुताय नमः । (३०.५) ५१२. ॐ पटुतमं वटुरूपं धृतवते नमः । (३०.५) ५१३. ॐ प्रजापतिमुखैरुपनीयमानाय नमः । (३०.६) ५१४. ॐ मौञ्जीदण्डाजिनाक्षमालादिभिरर्च्यमानाय नमः । (३०.६) ५१५. ॐ परोष्मतिरणार्थं इव छत्रं, दानवजनेषु सन्निधातुं इव दण्डं च धृतवते नमः । (३०.७) ५१६. ॐ नर्मदोत्तरतटे हयमेधशालायां शुक्रमुखान् रुचा रुद्धनेत्रान् कृतवते नमः । (३०.८) ५१७. ॐ महसा अभिभूतैः भृगुभिरानीताय नमः । (३०.९) ५१८. ॐ रम्यरूपाय नमः । (३०.९) ५१९. ॐ पुळकावृतेन सुकृतिना बलिना भक्त्या परिणिज्यपादाभ्यां नमः । (३०.९) ५२०. ॐ गिरिशेन शिरोभिलाळ्यं भगवत्पदाम्बु दितिजाय बलये अपि उपलभ्यं कृतवते नमः । (३०.१०) ५२१. ॐ जगत्पालकाय नमः । (३०.१०) ५२२. ॐ गुरुपुरालयाय नमः । () ५२३. ॐ कारुण्यपूर्णाय नमः । (३१.२) ५२४. ॐ बलिदयितया विन्ध्यावल्या दत्तपाद्याय नमः । (३१.५) ५२५. ॐ बलिना तोयपूर्वं सकलमही यस्मै प्रार्पयत् तस्मै नमः । (३१.५) ५२६. ॐ विश्वाण्डभाण्डं अवधीकृत्य उच्चैः उच्चैः वर्द्धितरूपाय नमः । (३१.६) ५२७. ॐ बलेः मूर्ध्नि पादं न्यस्य तस्मै त्रिदिवविजयीलोकं, पश्चात् वासवत्वं, पुनः सायुज्यं च दत्तवते नमः । (३१.१०) ५२८. ॐ निद्रोन्मुख ब्रह्ममुखात् वेदेषु हृतेषु तत्प्रतिगृहणार्थं मत्स्यरूपं धृतवते नमः । (३२.१) ५२९. ॐ उच्चैस्तरतेजसे नमः । (३२.७) ५३०. ॐ झषाकृतये नमः । (३२.७) ५३१. ॐ सत्यव्रताय मुनिमण्डलाय च विश्वजगद्विभागान्प्रदर्शयन्परं ज्ञानोपदेशं दत्तवते नमः । (३२.८) ५३२. ॐ स्वतुङ्गश‍ृङ्गक्षतवक्षसं हयग्रीवं निपात्य निगमान्गृहीत्वा प्रीतहृदविरिञ्चये दत्तवते नमः । (३२.१०) ५३३. ॐ प्रभञ्जनागारपतये नमः । (३२.१०) ५३४. ॐ याचनमृतेऽप्यम्बरीषाभिरक्षणार्थं सहस्रधारं चक्रं दत्तवते नमः । (३३.२) ५३५. ॐ दुर्वासकोपात् अम्बरीषं सुदर्शनेन रक्षितवते नमः । (३३.६) ५३६. ॐ भक्तदासाय नमः । (३३.८) ५३७. ॐ पवनेशाय नमः । (३३.१०) ५३८. ॐ गीर्वाणेषु दशमुखनिधने अर्थ्यमाने जातेभ्यो दशरथसुतेभ्यो नमः । (३४.१) ५३९. ॐ श्रीरामाय भरताय लक्ष्मणाय शत्रुघ्नाय च नमः । (३४.१) ५४०. ॐ कौशिकक्रतुरक्षणार्थं याताय लक्ष्मणेन अनुयाताय नमः । (३४.२) ५४१. ॐ ताटकां पाटयितवते नमः । (३४.२) ५४२. ॐ मारीचं द्रावयितवते नमः । (३४.३) ५४३. ॐ अहल्यां पादरजसा कल्यां कृतवते नमः । (३४.३) ५४४. ॐ चान्द्रचूडं धनुं भिन्दनवनिसुतां सीतां लब्धवते नमः । (३४.३) ५४५. ॐ भृगुकुलतिलकदर्पहन्त्रे नमः । (३४.४) ५४६. ॐ तातोक्त्या वनं यातुकामाय अनुजवधूसंयुताय चापधारिणे नमः । (३४.५) ५४७. ॐ गुहनिलयगताय जटाचीरधारिणे नमः । (३४.५) ५४८. ॐ भरतं समाश्वास्य तस्मिन्पादुकां मेदिनीञ्च न्यस्तवते नमः । (३४.६) ५४९. ॐ विराधहन्त्रे नमः । (३४.६) ५५०. ॐ तापसेभ्यः समस्ताशरनिकरसपत्राकृतिप्रतिज्ञां कृतवते नमः । (३४.७) ५५१. ॐ खरदूषणत्रिमूर्द्धहिंसकाय नमः । (३४.८) ५५२. ॐ कान्ताविरहतापार्तोऽपि रावणवधोपायलाभात् मुदं प्राप्तवते नमः । (३४.९) ५५३. ॐ सुहृदः जटायोः प्रेतकार्यं कृतवते मोक्षदायकाय नमः । (३४.१०) ५५४. ॐ कबन्धं हत्वा तस्मै शापमोक्षं दत्तवते नमः । (३४.१०) ५५५. ॐ शबर्या पूर्णभक्त्या सेविताय नमः । (३४.१०) ५५६. ॐ पम्पातटे वातसूनुं प्राप्तवते भृशमुदितमनसे नमः । (३४.१०) ५५७. ॐ अतुलबलं बालिनं व्याजवृत्त्याहतवते नमः । (३५.१) ५५८. ॐ सुग्रीवमित्राय नमः । (३५.१) ५५९. ॐ तारायाः भर्तृवियोगशोकं तत्त्वोपदेशेन मार्जितवते नमः । (३५.१) ५६०. ॐ सुग्रीवं किष्किन्धापतिं तथा अङ्गदं युवराजं कृतवते नमः । (३५.१) ५६१. ॐ अवनम्रां वायुसूनुं सीतामार्गणाय नियोज्य तस्य करे सन्देशं अङ्गुलीयं च दत्तवते नमः । (३५.२) ५६२. ॐ अन्तर्नगरि अशोकवने जनकजां वीक्ष्य लङ्कां दग्द्ध्वा प्रत्यागतहनुमतः सीतायाः मौलिरत्नं गृहीत्वा सन्तुष्टाय नमः । (३५.३) ५६३. ॐ प्रास्ताग्नेयास्त्रतेजस्त्रसदुधिगिरा समुद्रे मध्यमार्गं लब्ध्वा तत्र सेतुं निर्मितवते नमः । (३५.४) ५६४. ॐ कुम्भकर्णहन्त्रे नमः । (३५.६) ५६५. ॐ नारदेन स्तुताय नमः । (३५.६) ५६६. ॐ सौमित्रिणा मेघनादं घातयित्वा सौमित्रिं श्लाघितवते नमः । (३५.६) ५६७. ॐ रावणगळछेत्रे लोकरक्षकाय नमः । (३५.७) ५६८. ॐ अग्निशुद्धां सीतां गृहीतवते नमः । (३५.७) ५६९. ॐ निजनगरं प्राप्य दिव्याभिषिक्ताय नमः । (३५.८) ५७०. ॐ कुशलवयोः पित्रे नमः । (३५.९) ५७१. ॐ चक्रपाणये नमः । (३५.१०) ५७२. ॐ स्वात्मानुभूतये नमः । (३५.१०) ५७३. ॐ सत्त्वैकमूर्तये नमः । (३५.१०) ५७४. ॐ पवनपुरपतये नमः । (३५.१०) ५७५. ॐ अत्रेः पुत्रतया अनसूयायां जाताय नमः । (३६.१) ५७६. ॐ दत्ताभिधाय नमः । (३६.१) ५७७. ॐ भक्ततमस्य हेहयमहीपालस्य अष्टैश्वर्यमुखान्वरान्प्रदत्तवते नमः । (३६.१) ५७८. ॐ जमदग्नितो भृगुकुले रेणुकायां जाताय नमः । (३६.२) ५७९. ॐ रामनाम्ने नमः । (३६.२) ५८०. ॐ ताताज्ञातिगाय सोदरैः समं मातरमपि छितवते नमः । (३६.३) ५८१. ॐ शान्तात् पितुः सोदराणां मातुश्च जीवनयोगं प्राप्तवते नमः । (३६.३) ५८२. ॐ गौरीपतिं आराध्य परशुं तथा दनुजच्छेदि महास्त्रादिकं प्राप्तवते नमः । (३६.४) ५८३. ॐ अकृतव्रणमुनिमित्राय नमः । (३६.४) ५८४. ॐ कार्तवीर्यार्जुनं क्षितिपतिं छितसर्वदोषं ससैन्यं हतवते नमः । (३६.८) ५८५. ॐ विप्रद्रुहान् क्ष्षत्रियान् कुठारयन् विशिखयन् मेदिनीं निःक्षत्रियां कृतवते नमः । (३६.९) ५८६. ॐ यज्ञे क्ष्मां कश्यपादिषु दत्तवते नमः । (३६.१०) ५८७. ॐ अनलास्त्रचकितं सिन्धुं स्रुवक्षेपणात् उत्सार्योद्धृतकेरळाय नमः । (३६.११) ५८८. ॐ भृगुपतये नमः । (३६.११) ५८९. ॐ वातेशाय नमः । (३६.११) ५९०. ॐ सान्द्रानन्दतनवे नमः । (३७.१) ५९१. ॐ भूमेः दीनदशानिवारणार्थं अहं यादवकुले समग्रात्मना भवामि इति विरिञ्चं उक्तवते नमः । (३७.५) ५९२. ॐ देवक्यां जाताय नमः । (३७.१०) ५९३. ॐ सचित्सुखैकात्मकाय नमः । (३७.१०) ५९४. ॐ रोगपटलीनिवारकाय नमः । (३७.१०) ५९५. ॐ परां भक्तिप्रदायकाय नमः । (३७.१०) ५९६. ॐ कृष्णाय नमः । (३७.१०) ५९७. ॐ आनन्दरूपाय नमः । (३८.१) ५९८. ॐ त्रिजगतां क्लेशापहाय नमः । (३८.२) ५९९. ॐ नैशाकरोदयविधौ निशि मध्यमायां अवतीर्णाय नमः । (३८.२) ६००. ॐ उद्यत्किरीटकटकाङ्गदहारभासाय नमः । (३८.३) ६०१. ॐ शङ्खारिवारिजगदापरिभासिताय नमः । (३८.३) ६०२. ॐ मेघासितवपुषे नमः । (३८.३) ६०३. ॐ सुखनिलीनविलासिलक्ष्मीवक्षस्थलाय नमः । (३८.४) ६०४. ॐ लक्ष्मीमन्दाक्षकटाक्षविमोक्षभेदैः खलकंसकृतां अलक्ष्मीं उन्मार्जयन्विराजिताय नमः । (३८.४) ६०५. ॐ धीरमुनिमण्डलचेतसोऽपि दूरस्थिताय वपुषे नमः । (३८.५) ६०६. ॐ निजेक्षणाभ्यां उद्वीक्ष्य आनन्दबाष्पपुळकोद्गमगद्गदार्द्रया वसुदेवेन स्तुताय नमः । (३८.५) ६०७. ॐ दृष्टिमकरन्दरसाय नमः । (३८.५) ६०८. ॐ तापवल्लीनिर्ल्लूनिदात्रसमनेत्रकलाविलासिने नमः । (३८.६) ६०९. ॐ खेदनिवारणकृपागुरुकटाक्षाय नमः । (३८.६) ६१०. ॐ नेत्रसलिलास्तृतगात्रवल्या देवकीदेव्या स्तुताय अभिष्टुतगुणाय नमः । (३८.७) ६११. ॐ करुणालयाय नमः । (३८.७) ६१२. ॐ अम्भोरुहस्थकळहंसकिशोररम्याय नमः । (३८.८) ६१३. ॐ रोगवेगनाशकाय नमः । (३८.१०) ६१४. ॐ मधुहराय नमः । (३९.४) ६१५. ॐ भगवदुपासकानां मृत्युपाशात् प्रमोचकाय नमः । (३९.५) ६१६. ॐ स्तन्यं पीत्वा पुण्यवत्याः यशोदायाः महानन्दं दत्तवते नमः । (३९.९) ६१७. ॐ नवकळाय चेतोहराय नमः । (३९.९) ६१८. ॐ जगत्त्रितयमङ्गळाय नमः । (३९.१०) ६१९. ॐ सर्वामयशोषकाय नमः । (३९.१०) ६२०. ॐ कपटपोतकाय नमः । (४०.४) ६२१. ॐ पूतनामोहककपटात्मने नमः । (४०.६) ६२२. ॐ असुभिः समं पूतनास्तन्यं पीतवते नमः । (४०.८) ६२३. ॐ पूतनामोक्षदायकाय नमः । (४०.८) ६२४. ॐ भुवनमङ्गळाय नमः । (४०.१०) ६२५. ॐ गोपिकाभिः बहुधा कृतरक्षणाय नमः । (४०.१०) ६२६. ॐ वातनिकेतननाथाय नमः । (४०.१०) ६२७. ॐ सेवकानां गदापकर्त्रे नमः । (४०.१०) ६२८. ॐ दहन्तं पूतनादेहं सुगन्धपूरितं कृतवते नमः । (४१.४) ६२९. ॐ प्रमोदसान्द्राय नमः । (४१.६) ६३०. ॐ व्रजवधूभिः मिथः कोमळरूपहासकथासङ्कुलितया अत्यानन्देन लाळिताय नमः । (४१.७) ६३१. ॐ गोपवधूजनेन करात् करं नीताय नमः । (४१.९) ६३२. ॐ आताम्रसरोजमालाव्यालम्बिलोलम्बतुलाय नमः । (४१.९) ६३३. ॐ अङ्के शयानाय स्तनं पीयमानाय स्मितवदनाय नमः । (४१.१०) ६३४. ॐ यशोदानन्ददायकाय नमः । (४१.१०) ६३५. ॐ गदात्पालकाय नमः । (४१.१०) ६३६. ॐ अश्रुजलार्द्रलोचनया यशोदया धृताय नमः । (४२.४) ६३७. ॐ विशङ्कटं शकटं विपाटितवते नमः । (४२.५) ६३८. ॐ शकटविपाटनक्षमलोलपदाम्बुजाय नमः । (४२.६) ६३९. ॐ जातकण्टकाय पित्रा नन्दगोपेन सङ्गृहीताश्लिष्यवते नमः । (४२.९) ६४०. ॐ शकटासुरमोक्षदायकाय नमः । (४२.१०) ६४१. ॐ शुद्धसत्त्वाय नमः । (४२.१०) ६४२. ॐ मरुत्पुराधीशाय नमः । (४२.११) ६४३. ॐ प्रपूजितैः द्विजादिभिः लम्बितमङ्गलाशिषे नमः । (४२.११) ६४४. ॐ गुरुमरुत्पुरनाथाय नमः । (४३.१) ६४५. ॐ जनमानसहारिणे नमः । (४३.२) ६४६. ॐ ग्रावप्रपातपरिपिष्टगरिष्ठदेहभ्रष्टासुदुष्टदनुजोपरि शयानाय नमः । (४३.७) ६४७. ॐ गिरिवरात् नीलरत्नं इव गोपैः गृहीतवते बालकाय नमः । (४३.७) ६४८. ॐ तृणावर्तासुरमुक्तिदायकाय नमः । (४३.७) ६४९. ॐ नन्दादिगोपपरिरब्धविचुम्बिताङ्गाय नमः । (४३.८) ६५०. ॐ गोपनारीहस्ताम्बुजप्रपतिताय नमः । (४३.८) ६५१. ॐ प्रणम्याय नमः । (४३.८) ६५२. ॐ प्रणतार्तिहारिणे नमः । (४३.९) ६५३. ॐ अनिलालयेशाय नमः । (४३.१०) ६५४. ॐ निश्शेषरोगशमनाय नमः । (४३.१०) ६५५. ॐ सहस्रनाम्ने नमः । (४४.४) ६५६. ॐ अनन्तनाम्ने नमः । (४४.४) ६५७. ॐ यस्य साग्रजं नामकरणं गर्गमहर्षिणा कृतं तस्मै नमः । (४४.४) ६५८. ॐ कृष्णनाम्ने नमः । (४४.५) ६५९. ॐ रामानुजाय नमः । (४४.६) ६६०. ॐ रामकृष्णाभ्यां नमः । (४४.७) ६६१. ॐ सुविमलकीर्तये नमः । (४४.८) ६६२. ॐ नन्दितनन्दादिनन्द्यमानाय नमः । (४४.१०) ६६३. ॐ उद्गतकरुणाय नमः । (४४.१०) ६६४. ॐ सबलाय नमः । (४५.१) ६६५. ॐ मुरारये नमः । (४५.१) ६६६. ॐ पाणिजानुप्रचारैः भवनभागान्भूषयद्भ्यां रामकृष्णाभ्यां नमः । (४५.१) ६६७. ॐ मञ्जुमञ्जीरशिञ्जाश्रवणकुतुकभाजचरणौ चलद्भ्यां रामकृष्णाभ्यां नमः । (४५.१) ६६८. ॐ मृदु मृदु विहसद्भ्यां रामकृष्णाभ्यां नमः । (४५.२) ६६९. ॐ उन्मिषद्दन्तवद्भ्यां रामकृष्णाभ्यां नमः । (४५.२) ६७०. ॐ वदनपतितकेशाभ्यां रामकृष्णाभ्यां नमः । (४५.२) ६७१. ॐ दृश्यपादाब्जदेशाभ्यां रामकृष्णाभ्यां नमः । (४५.२) ६७२. ॐ भुजगळितकरान्तव्यालगत्कङ्कणाङ्काभ्यां रामकृष्णाभ्यां नमः । (४५.२) ६७३. ॐ विश्वनॄणां मतिं हरद्भ्यां रामकृष्णाभ्यां नमः । (४५.२) ६७४. ॐ जनौघे कौतुकव्याकुलाक्षे अनुसरति कृतनिनद्भ्यां व्याहसद्भ्यां द्रवद्भ्यां वसुदेवपुत्राभ्यां नमः । (४५.३) ६७५. ॐ वसुदेवपुत्राभ्यां नमः । (४५.३) ६७६. ॐ वलितवदनपद्मं पृष्ठतः दत्तदृष्टीभ्यां वसुदेवपुत्राभ्यां नमः । (४५.३) ६७७. ॐ द्रुतगतिषु पतन्तौ उत्थितद्भ्यां रामकृष्णाभ्यां नमः । (४५.४) ६७८. ॐ लिप्तपङ्कौ अपि दिवि अपङ्कैः मुनिभिः सस्मितं वन्द्यमानाभ्यां रामकृष्णाभ्यां नमः । (४५.४) ६७९. ॐ जननीभ्यां सानुकम्पं गृहीताभ्यां परिरब्धाभ्यां चुम्बिताभ्यां रामकृष्णाभ्यां नमः । (४५.४) ६८०. ॐ धन्यधन्यायाः यशोदायाः मुग्द्धहासाङ्कुरं दशनमुकुळहृद्यं वक्त्रं दर्शयित्वा परमानन्दं दत्तवते नमः । (४५.५) ६८१. ॐ कपटपशुपाय नमः । (४५.५) ६८२. ॐ हलधरसहिताय मुरहराय नमः । (४५.७) ६८३. ॐ नवनीतप्रियाय नमः । (४५.८) ६८४. ॐ चारुणा चोरणेन दधिघृतान् हृतवते नमः । (४५.९) ६८५. ॐ वातगेहाधिनाथाय नमः । (४५.१०) ६८६. ॐ जननीं निजमुखे अखिलभुवनानि प्रदर्शकाय नमः । (४६.१) ६८७. ॐ मृद्भोजनं कृतवानिति मात्रे अर्भके निवेदिते विकसत्पद्मवदने भुवनान्यखिलानि दर्शयितवते नमः । (४६.३) ६८८. ॐ अद्भुतबालाय नमः । (४६.३) ६८९. ॐ कलशाम्बुधिशायिने नमः । (४६.८) ६९०. ॐ परवैकुण्ठपदाधिवासिने नमः । (४६.८) ६९१. ॐ विकसद्भुवने मुखोदरे विश्वरूपं दर्शयित्वा मात्रे जगतां अनवस्थां बोधयितवते नमः । (४६.९) ६९२. ॐ अम्ब! स्तनं दिश, इति उपासजन् जननीं प्रणयेन मोहयितवते नमः । (४६.१०) ६९३. ॐ अर्द्धपीतकुचकुड्मळाय स्निग्द्धहासमधुराननाम्बुजाय नमः । (४७.२) ६९४. ॐ सामिपीतरसभङ्गसङ्गतक्रोधपरिभूतचेतसे नमः । (४७.३) ६९५. ॐ मन्थदण्डमुपगृह्य दधिभाजनं पाटिताय नमः । (४७.३) ६९६. ॐ वेदमार्गपरिमार्गिताय नमः । (४७.५) ६९७. ॐ उलूखलोपविष्टाय ओतवे नवनीतं दीयमानाय नमः । (४७.५) ६९८. ॐ भीतिभावनाभासुराननसरोजाय नमः । (४७.६) ६९९. ॐ उलूखले दाम्ना बन्धनवशगाय नमः । (४७.८) ७००. ॐ यशोदावत्सलाय नमः । (४७.८) ७०१. ॐ नित्यमुक्तवपुषे नमः । (४७.८) ७०२. ॐ अपाशसुगमाय नमः । (४७.१०) ७०३. ॐ दिविजैरभिष्टुताय नमः । (४७.१०) ७०४. ॐ उदारसम्मदैः सुरौघैः दामोदरेत्युदीर्याभिष्टुताय नमः । (४८.१) ७०५. ॐ मन्थरगामिना यमळार्जुनौ समेत्य तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ तौ परिपातिताय नमः । (४८.६) ७०६. ॐ इन्द्रद्रुयुगभूतकुबेरसूनोः शापमुक्तिदायकाय नमः । (४८.६) ७०७. ॐ उत्तमभक्तिसिद्ध्यर्थं नळकूबरमणिग्रीवाभ्यां स्तुताय नमः । (४८.८) ७०८. ॐ विलज्जितभगवद्जननीमुखेक्षिणा नन्दगोपेन वीक्षिताय विमोचिताय च नमः । (४८.९) ७०९. ॐ विमोक्षदाय नमः । (४८.९) ७१०. ॐ महीरुहोर्मध्यगतार्भकाय स्वप्रभवादेव परिरक्षिताय नमः । (४८.१०) ७११. ॐ वृन्दावनप्रियाय नमः । (४९.५) ७१२. ॐ वनश्रियं विलोक्य मुदितवते नमः । (४९.६) ७१३. ॐ अराळमार्गागतनिर्मलापा मराळकूजाकृतनर्मलापा निरन्तरस्मेरसरोजवक्त्रा कळिन्दकन्याप्रियाय नमः । (४९.७) ७१४. ॐ मयूरकेकाशतलोभनीयं, मणीनां मयूखमालाशबळं, उच्चश‍ृङ्गैः विरिञ्चलोकस्पृशं गोवर्द्धनं ईक्षितवते नमः । (४९.८) ७१५. ॐ सरामं गोपैः सहः वत्सगणप्रचारे समुत्सुकाय नमः । (४९.१०) ७१६. ॐ समीरगेहाधिपाय नमः । (४९.१०) ७१७. ॐ वत्सानुपालनलोलुपाय नमः । (५०.१) ७१८. ॐ नेत्राभिरामतनुद्युतये नमः । (५०.१) ७१९. ॐ हलधरसख्ये नमः । (५०.१) ७२०. ॐ विहितजगतीरक्षकाय लक्ष्मीकरम्बुजलाळितचरणाय नमः । (५०.२) ७२१. ॐ कमलापतये नमः । (५०.२) ७२२. ॐ वत्सासुरघातिने नमः । (५०.४) ७२३. ॐ हर्षाद् वृन्दारकैः कुसुमोत्करैः वर्षिताय नमः । (५०.५) ७२४. ॐ खलजनभिदे नमः । (५०.८) ७२५. ॐ चञ्चू प्रगृह्य बकासुरं प्रदारितवते नमः । (५०.८) ७२६. ॐ सुमनोगणे सुमनोवृन्दं किरति वृन्दावनात् गृहं यातवते नमः । (५०.९) ७२७. ॐ जनितजननीनन्दानन्दाय नमः । (५०.१०) ७२८. ॐ समीरणमन्दिरप्रथितवसते नमः । (५०.१०) ७२९. ॐ सर्वामयनिवारकाय नमः । (५०.१०) ७३०. ॐ वनाशने विहितमतये बहुतरवत्समण्डलैः समावृतैः वनं गताय नमः । (५१.१) ७३१. ॐ यस्य चरणाम्बुजद्वयादुदञ्चितत्रिभुवनपावनं रजः महर्षयः पुळकधरैः कळेबरैरुदूहिरे तस्मै भगवते नमः । (५१.२) ७३२. ॐ विशरणं सुहृज्जनं रक्षितुं अघासुरोदरं विवेशितवते नमः । (५१.५) ७३३. ॐ अघासुरं हत्वा पशुपपशून्विमोचयन् तस्योदरात् विनिर्गताय नमः । (५१.६) ७३४. ॐ कमलभवादिभिः त्रिदशगणैर्मुदा नुताय नमः । (५१.८) ७३५. ॐ मरुत्पुरीनिलयाय नमः । (५१.१०) ७३६. ॐ अन्यावतारनिकरेष्वनिरीक्षितभूमातिरेकाय नमः । (५२.१) ७३७. ॐ धातरि वत्सगणान्गोपकुमारांश्च तिरोऽधिते सति तादृक् तादृक् वत्सगोपबालरूपाणि धृत्वा व्रजं प्रत्यागताय नमः । (५२.३) ७३८. ॐ गोरुपिणीभिः गोपवधूमयीभिः अपि जननीभिः अतिप्रहर्षात् आसादिताय पशुवत्सकबालरूपाय नमः । (५२.४) ७३९. ॐ वर्षावधौ विवेकमसृणं द्रुहिणं दृष्ट्वा प्रतिनवान्वत्सगोपबालान्- मकुटाङ्गदादिभूषचतुर्भुजयुतसंज्ञया सूचितवते नमः । (५२.७) ७४०. ॐ नश्यन्मदे धात्रा नमस्कृत्य नुताय नमः । (५२.१०) ७४१. ॐ विश्वपतये नमः । (५२.१०) ७४२. ॐ जगतांपतये नमः । (५३.१) ७४३. ॐ गोत्रापरित्राणकृतेऽवतीर्णाय नमः । (५३.२) ७४४. ॐ रामेण समं वनान्ते धेनुककाननं गताय नमः । (५३.३) ७४५. ॐ धेनुकदानवहन्त्रे बलरामाय नमः । (५३.५) ७४६. ॐ मेदोभरभृन्ति मधुद्रवस्रुन्ति बृहन्ति तालफलानि भुक्त्वा तृप्तैः दृप्तैः फलौघं वहद्भिः बालकैः समं स्वभवनं गतवते नमः । (५३.९) ७४७. ॐ सर्वरोगनाशकाय नमः । (५३.१०) ७४८. ॐ तार्क्ष्यवाहनाय नमः । (५४.२) ७४९. ॐ सीरपाणिने बलरामाय नमः । (५४.५) ७५०. ॐ नश्यज्जीवान्गोगोपालान् वीक्ष्य द्राक् पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः तेषां पुनर्जीवं दत्तवते नमः । (५४.६) ७५१. ॐ गोपैः नन्दिताय वन्दिताय च नमः । (५४.९) ७५२. ॐ स्फीतकारुण्यभूम्ने नमः । (५४.१०) ७५३. ॐ वायुगेहाधिवासाय नमः । (५४.१०) ७५४. ॐ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधिये नमः । (५५.१) ७५५. ॐ विषमारुतशोषितपर्णचयतीरगनीपतरुं आरूढाय नमः । (५५.१) ७५६. ॐ परिघूर्णितघोरतरङ्गगणे ह्रदवारिणि निपतिताय नमः । (५५.२) ७५७. ॐ अनन्तबलाय नमः । (५५.६) ७५८. ॐ फणिबन्धनमाशु विमुच्य हासजुषा जवात् उदगमिताय नमः । (५५.८) ७५९. ॐ फणिराजफणानधिरुह्य कळशिञ्जितनूपुरमञ्जुमिळत्करकङ्कणसङ्कुलितं मृदुपादरुचा नृत्तवते नमः । (५५.९) ७६०. ॐ नृत्तेन गोपान्हर्षयन्मुनिभि स्तुताय सुरेन्द्रगणैः कुसुमवर्षिताय नमः । (५५.१०) ७६१. ॐ मारुतगेहपतये नमः । (५५.१०) ७६२. ॐ वियति दैवतयौवते अमरताडितदुन्दुभिसुन्दरं गायति सति पन्नगे सुचिरं नृत्तवते नमः । (५६.१) ७६३. ॐ रुचिरकम्पितकुण्डलमण्डलाय नमः । (५६.१) ७६४. ॐ काळियस्य यत् यत् शिरः नमति तत् परिविहाय उन्नतं उन्नतं शिरः पदपङ्केरुहा परिमथितवते नमः । (५६.२) ७६५. ॐ करताळमनोहरं चिरं विहरितवते नमः । (५६.२) ७६६. ॐ फणिपतौ अवभग्नविभुग्नफणागणे गळितशोणितशोणितपाथसि अवसीदति सति तस्य पत्न्याः नुताय नताय च नमः । (५६.३) ७६७. ॐ माधवाय नमः । (५६.३) ७६८. ॐ परिश्रुतानुभावविलीनहृदयायाः काळियपत्न्याः मुनिभिः अपि अनवाप्यपथैः स्तवैः स्तुताय नमः । (५६.४) ७६९. ॐ फणिवधूगणभक्तिविलोकनप्रविकसत्करुणाकुलचेतसे भगवतिसमर्पितमूर्तिं फणिपतिं जीवदानं कृतवते नमः । (५६.५) ७७०. ॐ वारिधिमध्यगं रमणकं व्रज इत्युक्त्वा काळियं काळिन्द्यात् निष्कासिताय नमः । (५६.६) ७७१. ॐ फणिवधूजनदत्तमणिव्रजज्ज्वलितहारदुकूलविभूषिताय नमः । (५६.७) ७७२. ॐ स्वजनरक्षार्थं दावानलं पीतवते नमः । (५६.९) ७७३. ॐ दुरितहारिणे नमः । (५६.१०) ७७४. ॐ लसद्वेषाय विपिनं गताय नमः । (५७.१) ७७५. ॐ रामसख्ये नमः । (५७.१) ७७६. ॐ गोपानां सूनुभिः धेनुभिः अपि अभिसंवृताय नमः । (५७.१) ७७७. ॐ काण्डीरैः बालैः सह क्रीडन् भाण्डीरकं वटं गतवते नमः । (५७.२) ७७८. ॐ वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धवते नमः । (५७.४) ७७९. ॐ कल्पितविजेतृवहने समरे स्वदयितारं सुदामानं भक्तदासतां प्रथयन् ऊढाय नमः । (५७.६) ७८०. ॐ रामविजितः सन् भगवद्भीत्या दूरं धावता प्रलम्बासुरेणोढाय बलरामाय नमः । (५७.७) ७८१. ॐ भृशदुष्टं प्रलम्बं दानवं दृढमुष्ट्या पिष्ट्वा हतवते बलभद्राय नमः । (५७.९) ७८२. ॐ कृष्णेनालिङ्गितवते अमरगणैः शिरसि पुष्पवृष्टि कृताय सङ्कर्षणाय नमः । (५७.१०) ७८३. ॐ भुवनानां आलम्बाय नमः । (५७.११) ७८४. ॐ लोलम्बरुचये नमः । (५७.११) ७८५. ॐ क्लेशहारकाय नमः । (५७.११) ७८६. ॐ बालजालैः विहरणलोलाय नमः । (५८.१) ७८७. ॐ धेनुपालकाय नमः । (५८.१) ७८८. ॐ गळितसरणिमुञ्जारण्यसञ्जातखेदं पशुकुलं वीक्ष्य तमानेतुं क्षिप्रं गतवते नमः । (५८.३) ७८९. ॐ सर्वतोऽग्नि जृम्भमाणे शरणमुपगताय आर्तरक्षणाय कृतधिये नमः । (५८.४) ७९०. ॐ भुवनबन्धवे नमः । (५८.४) ७९१. ॐ तापहर्त्रे नमः । (५८.४) ७९२. ॐ ईश जय जय तव माया का इति गोपबालानां नुतिभिः उदितहासाय बद्धनानाविलासाय नमः । (५८.६) ७९३. ॐ गिरीन्द्रेण गोवर्द्धनेन शिखिकुलनवकेकाकाकुभिः स्तोत्रकारिणा नुताय नमः । (५८.९) ७९४. ॐ गरिष्ठाय नमः । (५८.९) ७९५. ॐ देहसौख्यप्रदायकाय नमः । (५८.१०) ७९६. ॐ नवकळायकोमळप्रेमदोहनाशेषमोहनवपुषे नमः । (५९.१) ७९७. ॐ तत्त्वपरचिन्मुदात्मकाय ब्रह्मणे नमः । (५९.१) ७९८. ॐ मनोरमे स्निग्द्धपादपतले स्थिताय क्वणितवेणुनाळिकाय नमः । (५९.४) ७९९. ॐ दृषदामपिद्रावकवेणुकूजकाय नमः । (५९.५) ८००. ॐ वेणुरन्ध्रतरळाङ्गुलीदळेन ताळसञ्चलितपादपल्लवेन व्रजाङ्गनामोहकाय नमः । (५९.६) ८०१. ॐ गोपिकायै भगवत्प्रेमं मोक्षोपायमपि एकीकृत्वा दत्तवते नमः । (५९.१०) ८०२. ॐ भाग्यदायकाय नमः । (५९.१०) ८०३. ॐ मारुतेशाय नमः । (५९.१०) ८०४. ॐ मासं उपाहितव्रताः गोपिकाः अभिवीक्ष्य नदीतटं समागताय नमः । (६०.३) ८०५. ॐ करुणामृदुलाय नमः । (६०.३) ८०६. ॐ नन्दसुताय नमः । (६०.३) ८०७. ॐ गोपिकाभिः अन्तिके निहितं अम्बरजालं परिगृह्य भूरुहः विटपं अधिरूढवते नमः । (६०.५) ८०८. ॐ सुदृशः इहोपेत्य वः वसनं यथायथं नीयतां इति नर्ममृदुस्मितपूर्वं उक्तवते नमः । (६०.६) ८०९. ॐ अम्बुजेक्षणाय नमः । (६०.७) ८१०. ॐ तटं अधिरुह्य कृताञ्जलीः परिशुद्धाः स्वगतीः गोपिकाः निरीक्ष्य अखिलानि वसनानि पुनः अनुग्रहञ्च दत्तवते नमः । (६०.८) ८११. ॐ भगवन्मुखच्युतं मधुनिष्यन्दि वचः उपाकर्ण्य गोपिकाभिः प्रणयात् वीक्षितवदनाब्जाय नमः । (६०.१०) ८१२. ॐ करुणाशिशिराय नमः । (६०.११) ८१३. ॐ सकलामयहारिणे नमः । (६०.११) ८१४. ॐ भक्ततरद्विजाङ्गनाकदम्बकानुग्रहणार्थं वृन्दावनतः अतिदूरतः वनं गतवते नमः । (६१.१) ८१५. ॐ गृहिणीजनाय मां निवेदयध्वं, इमाः अन्नं दिशेयुः इति स्मितार्द्रं उक्त्वा विप्रैः तिरस्कृतान्बालकान् दारजनं प्रति प्रेषिताय नमः । (६१.५) ८१६. ॐ स्वकैर्निरुद्धापि गृहीतकृष्णनाम्नि सम्भ्रमाकुले चतुर्विधभोज्यरसं प्रगृह्यागतैः विप्रपत्नीभिरीक्षिताय नमः । (६१.६) ८१७. ॐ चिकुरे विलोलपिञ्छाय, कपोलयोः समुल्लसत् कुण्डलाय, ईक्षिते आर्द्राय, सुहृदंससीमनि बाहुं निधाय स्थितवते नमः । (६१.७) ८१८. ॐ भोज्यानादाय विप्रपत्नी अनुग्रहान्दत्तवते नमः । (६१.९) ८१९. ॐ पुनर्विचारिभिः प्रबुद्धतत्त्वैः द्विजैरभिष्टुताय नमः । (६१.१०) ८२०. ॐ मघवमदं उद्ध्वंसितुमनाय नमः । (६२.१) ८२१. ॐ महारण्ये वृक्षाः इन्द्राय बलिं किमिव ददते इति पितरं पृष्टवते नमः । (६२.३) ८२२. ॐ असौ बलिः अचलभर्त्रे समुचितः, क्षितितले धरणिदेवाः ननु सुरेभ्यः अपि उत्कृष्टाः इति निजजनानुक्तवते नमः । (६२.४) ८२३. ॐ द्विजेन्द्रानर्चद्भिः क्षितिभृते बलिं ददद्भिः पशुपैः निवेदितं अखिलं बलिं शैलात्मा भूत्वा स्वीकृतवते नमः । (६२.५) ८२४. ॐ त्रिभुवनपतये नमः । (६२.९) ८२५. ॐ मुरवैरिणे नमः । (६२.१०) ८२६. ॐ मरुद्गेहाधीशाय नमः । (६२.१०) ८२७. ॐ तोयधारानिपातैः दिशि दिशि दण्ड्यमानान् पशुपान्``मा बिभीत'' इत्युक्त्वा तान्समाश्वासितवते नमः । (६३.२) ८२८. ॐ इह कुले गोत्रः खलु दैवतं, गोत्रशत्रोः विहतिं सः रुन्ध्यात्, अस्मिन् वः कः नु संशयः इत्युक्तवते सहसितवादिने नमः । (६३.३) ८२९. ॐ गोवर्द्धनाद्रिं बालदोर्भ्यां मूलतः उद्धृतवते नमः । (६३.३) ८३०. ॐ एकहस्तेनोद्धृतगोवर्द्धनेन दिवससप्तकान् धेनुगोपान् इन्द्रकोपात् परिरक्षितवते नमः । (६३.७) ८३१. ॐ वर्षभरे शमं उपेयुषि भुवि समुपाहितभूधराय प्रमुदितैः पशुपैः परिरम्भिताय नमः । (६३.९) ८३२. ॐ त्रिदशैः नुताय नमः । (६३.१०) ८३३. ॐ गुरुपुरालयाय नमः । (६३.१०) ८३४. ॐ शैलोद्धरणादिरूपप्रभावमालोक्य गोपलोकैः विश्वेशरं इति मानिताय नमः । (६४.१) ८३५. ॐ नष्टगर्वसुराधिराजेन मणिमौलिना स्पर्शितपादाब्जाय नमः । (६४.३) ८३६. ॐ सुरभिणा स्नेहस्नुतैः पयोभिरभिषिक्ताय नमः । (६४.४) ८३७. ॐ गोविन्दाय नमः । (६४.४) ८३८. ॐ जगत्त्रयेशाय नमः । (६४.५) ८३९. ॐ गोकुलेशाय नमः । (६४.५) ८४०. ॐ कारणमर्त्यरूपाय नमः । (६४.६) ८४१. ॐ वारुणपुरुषेण हृतं पितरं वरुणलोकात् प्रत्यानीताय नमः । (६४.७) ८४२. ॐ जलाधिपेन वरुणेन प्रपूजिताय नमः । (६४.७) ८४३. ॐ गोपानां परमपदं दर्शयितवते नमः । (६४.८) ८४४. ॐ स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ निमग्नान्गोपान्पुनरुद्धृताय नमः । (६४.९) ८४५. ॐ भक्तिभाजां अनवाप्यपरपददर्शकाय नमः । (६४.१०) ८४६. ॐ पशुपरूपिणे साक्षात् परात्मने नमः । (६४.१०) ८४७. ॐ सान्द्रेण चान्द्रमहसा शिशिरीकृताशे यमुनावनान्ते मुरळिकां प्रापूरियतवते नमः । (६५.१) ८४८. ॐ वेणुनादेन अखिलं भुवनान्तराळं सम्मूर्च्छयितवते नमः । (६५.२) ८४९. ॐ कान्ततनवे नमः । (६५.२) ८५०. ॐ गोपिकाभिः हृदये सुदृढं विभाविताय नमः । (६५.७) ८५१. ॐ परचित्सुखरूपाय नमः । (६५.७) ८५२. ॐ प्रकाशपरमात्मतनवे नमः । (६५.८) ८५३. ॐ अमृतदायकाय नमः । (६५.८) ८५४. ॐ व्रजसुन्दरीभिः वीक्षिताय नमः । (६५.९) ८५५. ॐ मुग्द्धस्मितार्द्रवदनाय नमः । (६५.९) ८५६. ॐ करुणावलोकिने नमः । (६५.९) ८५७. ॐ निस्सीमकान्तिजलधये नमः । (६५.९) ८५८. ॐ रोगहारकाय नमः । (६५.९) ८५९. ॐ विश्वैकहृद्याय नमः । (६५.९) ८६०. ॐ कुसुमायुधबाणपातविवशानां सुदृशां अभिवाञ्छितं विधातुं कृतमतये नमः । (६६.१) ८६१. ॐ गगनगतं मुनिनिवहं श्रावयितुं कुलवधूधर्मं उपदिशितवते नमः । (६६.२) ८६२. ॐ करुणासिन्धवे करुणाकुलमानसाय गोपिकाभिः समं यमुनापुळिनेषु काममभिरन्तुं प्रवृत्ताय नमः । (६६.४) ८६३. ॐ सुमधुरनर्मालपनैः करसङ्ग्रहणैः चुम्बनोल्लासैः गाढालिङ्गनसङ्गैः च अङ्गनालोकं आकुलीकृताय नमः । (६६.६) ८६४. ॐ रसविवशस्वान्तानां सुभ्रुवां कान्ताय नमः । (६६.७) ८६५. ॐ कुन्दळितघर्मलेशाय नमः । (६६.८) ८६६. ॐ कुन्दमृदुस्मेरवक्त्रपाथोजाय नमः । (६६.८) ८६७. ॐ त्रिजगत्सुन्दराय नमः । (६६.८) ८६८. ॐ नन्दसूनवे नमः । (६६.८) ८६९. ॐ विरहेष्वङ्गारमयाय सङ्गमे श‍ृङ्गारमयाय गोपिकाभिः समं सङ्गमेऽपि नितरां अङ्गारमयाय नमः । (६६.९) ८७०. ॐ राधातुङ्गपयोधरसाधुपरीरम्भलोलुपात्मने नमः । (६६.१०) ८७१. ॐ सकलगदशामकाय नमः । (६६.१०) ८७२. ॐ पवनपुराधीशाय नमः । (६६.१०) ८७३. ॐ स्फुरत्परानन्दरसात्मकेन भगवता सह भोगलीला समासाद्य असीमं आनन्दभरं प्रपन्नायाः महान्तं मदं प्राप्तायाः अम्बुजाक्ष्यायाः गर्वहारिणे नमः । (६७.१) ८७४. ॐ गोपिकाः सर्वाः कलिताभिमाना निरीक्ष्य तिरोहिताय नमः । (६७.२) ८७५. ॐ रमापतये नमः । (६७.२) ८७६. ॐ विश्वमनोभिरामाय नमः । (६७.२) ८७७. ॐ अजातगर्वया अतिप्रियया गोपवध्वा राधया सह स्वैरविहारकारिणे नमः । (६७.३) ८७८. ॐ भगवति तिरोहिते जाततापाभिः कमलायताक्षिभिः वने वने परिमार्ग्यवते नमः । (६७.४) ८७९. ॐ पङ्कजाक्षाय नमः । (६७.६) ८८०. ॐ राधायां अपि मानलेशं वीक्ष्य तामपि विमुक्तवते नमः । (६७.७) ८८१. ॐ भगवतः गुणान् गायन्तीः भृशं विलपन्तीः व्यथासङ्कुलमानसां व्रजाङ्गनां वीक्ष्य प्रादुर्भूताय मन्दहासिने नमः । (६७.९) ८८२. ॐ करुणैकसिन्धवे नमः । (६७.९) ८८३. ॐ जगत्रयीमोहनमोहनात्मने नमः । (६७.९) ८८४. ॐ गदात् पालकाय नमः । (६७.१०) ८८५. ॐ प्रमदसङ्कुलाभिः गोपिकाभिः वीक्षिताय नमः । (६८.१) ८८६. ॐ पङ्कजेक्षणाय नमः । (६८.१) ८८७. ॐ काचन गोपिकया कराम्बुजं गृहीत्वा घनपयोधरे सन्निधवते नमः । (६८.२) ८८८. ॐ परया गोपिकया भुजं निजगळान्तरे पर्यवेष्टिताय नमः । (६८.३) ८८९. ॐ अपगतत्रपया कापि कामिन्या भगवत्मुखाम्बुजात् पूगचर्वितं निजवक्त्रपङ्कजे परिगृहीतवते नमः । (६८.४) ८९०. ॐ एकया सरोषया सजललोचनं वीक्षिताय नमः । (६८.५) ८९१. ॐ मुदाकुलैर्वल्लवीजनैः घुसृणभासुरे मृदुकुचाम्बरैः कल्पितासने पर्यशोभिताय नमः । (६८.६) ८९२. ॐ मम ईदृशः प्रियतमः जनः न, तत् इह रम्ययामिनीषु अनुपरोधं रम्यतां इति गोपिकाः उक्तवते नमः । (६८.९) ८९३. ॐ मोदमेदुरैः व्रजवधूजनैः साकं रमयिते रासखेलने कलितकौतुकाय नमः । (६८.१०) ८९४. ॐ गुरुपुरीपतये नमः । (६८.१०) ८९५. ॐ केशपाशधृतपिञ्छिकाविततिसञ्चलन्मकरकुण्डलाय नमः । (६९.१) ८९६. ॐ हारजालवनमालिकालळिताय नमः । (६९.१) ८९७. ॐ अङ्गरागघनसौरभाय नमः । (६९.१) ८९८. ॐ पीतचेलधृतकाञ्चिकाञ्चिताय नमः । (६९.१) ८९९. ॐ उदञ्चदंशुमणिनूपुराय नमः । (६९.१) ९००. ॐ रासकेळिपरिभूषितरूपाय नमः । (६९.१) ९०१. ॐ कञ्जनाभाय नमः । (६९.२) ९०२. ॐ इन्दिरारमणाय नमः । (६९.२) ९०३. ॐ चिन्मयाय नमः । (६९.५) ९०४. ॐ इन्दिराविहृतिमन्दिराय नमः । (६९.७) ९०५. ॐ भुवनसुन्दराय नमः । (६९.७) ९०६. ॐ विलासिनीशतविमोहकाय नमः । (६९.१०) ९०७. ॐ योगिगम्यं कमपि पूर्णसम्मदरसार्णवं अनुभवं कामिनीनां दत्तवते नमः । (६९.११) ९०८. ॐ कामनीयकनिधये नमः । (६९.११) ९०९. ॐ भक्तलोकगमनीयरूपाय नमः । (६९.११) ९१०. ॐ कमनीयकृष्णाय नमः । (६९.११) ९११. ॐ रसाकुलं रमितवल्लभाय नमः । (७०.१) ९१२. ॐ उग्रनागग्रस्तपितरं पदा सर्पस्पर्शेन रक्षितवते नमः । (७०.२) ९१३. ॐ सुदर्शनशापमोचकाय नमः । (७०.३) ९१४. ॐ सुदर्शनधराय नमः । (७०.३) ९१५. ॐ शङ्खचूडं हत्वा तस्य शिरोमणिं हलभृते सीरिणे दत्तवते नमः । (७०.४) ९१६. ॐ मनोभवमनोहराय नमः । (७०.५) ९१७. ॐ रसितवेणुनादामृताय नमः । (७०.५) ९१८. ॐ अमरीदृशां अमृतपारणादायिने नमः । (७०.५) ९१९. ॐ छन्दसां निधये नमः । (७०.७) ९२०. ॐ वृषरूपिणं अरिष्टासुरं हत्वा सुरलोकं सन्तुष्टं कृतवते नमः । (७०.८) ९२१. ॐ उर्व्यां वृषस्थिति सुस्थिरं कृतवते नमः । (७०.९) ९२२. ॐ सुरैरभिनुताय नमः । (७०.९) ९२३. ॐ वृषासुरध्वंसिने नमः । (७०.९) ९२४. ॐ वातपुरेशाय नमः । (७०.१०) ९२५. ॐ तार्क्ष्यार्पिताङ्घ्रये नमः । (७१.३) ९२६. ॐ भृगोः पदाघातवक्षसे नमः । (७१.३) ९२७. ॐ सिन्धुजवाजिरूपिणं केशिं हतवते नमः । (७१.५) ९२८. ॐ हर्षवशात् सुरेन्द्रेण केशवनाम्ना सम्बोधयन् स्तुताय नमः । (७१.६) ९२९. ॐ श्रीनारदेनाभिष्टुताय नमः । (७१.७) ९३०. ॐ शौरिसुताय नमः । (७१.७) ९३१. ॐ गोपैः सह क्रीडनलोलुपाय नमः । (७१.८) ९३२. ॐ व्योमासुरहन्त्रे नमः । (७१.९) ९३३. ॐ परात्मरूपिणे नमः । (७१.१०) ९३४. ॐ अहिनाथशायिने नमः । (७२.१) ९३५. ॐ भगवदङ्घ्रिपरश्चिराय अक्रूरेण आदृताय नमः । (७२.२) ९३६. ॐ वेदशतगीतगतपुंसे नमः । (७२.४) ९३७. ॐ हरविरिञ्चसुराभिवन्द्यवृन्दावनवासिने नमः । (७२.५) ९३८. ॐ भगवद्विहृतिस्थलानि पश्यन् भगवच्चरणाङ्कितेषु पांसुष्ववेष्टितेन अक्रूरेण वन्दिताय नमः । (७२.६) ९३९. ॐ परात्मने नमः । (७२.६) ९४०. ॐ पशुदोहविलोकलोलाय नमः । (७२.८) ९४१. ॐ भक्तोत्तमागतिं प्रतिपालयितवते नमः । (७२.८) ९४२. ॐ अन्तर्ब्रह्मानुभूतिरससिन्धुं उद्वमन्तं इति साग्रजं स्थिताय नमः । (७२.८) ९४३. ॐ सायन्तनाप्ळवविशेषविविक्तगात्राभ्यां रामकृष्णाभ्यां नमः । (७२.९) ९४४. ॐ नीलपीतरुचिराम्बरलोभनीयाभ्यां रामकृष्णाभ्यां नमः । (७२.९) ९४५. ॐ मन्दस्मितार्द्रवदनाभ्यां रामकृष्णाभ्यां नमः । (७२.९) ९४६. ॐ नातिप्रपञ्चधृतभूषणचारुवेषाभ्यां रामकृष्णाभ्यां नमः । (७२.९) ९४७. ॐ भक्तकुलमौलिं अक्रूरं पाणिं प्रगृह्य गृहं निनाय स्वीकृतवते नमः । (७२.१०) ९४८. ॐ मरुत्पुरनाथाय नमः । (७२.१०) ९४९. ॐ करुणानिधये नमः । (७३.२) ९५०. ॐ गोपिकानां परितापभरं शमयितुं एकं सहचरं प्रेषितवते नमः । (७३.३) ९५१. ॐ सबलोऽक्रूररथेन मथुरां गतवते नमः । (७३.५) ९५२. ॐ वल्लवानां अनसा वल्लभानां मनसा च अनुगताय नमः । (७३.६) ९५३. ॐ गान्दिनेयेन वारिणि निमज्ज्याभिवीक्षिताय नमः । (७३.७) ९५४. ॐ पुण्यशालिना अक्रूरेण पुनर्निमज्ज्यालोकिताय नमः । (७३.८) ९५५. ॐ भुजङ्गभोगे शयानाय नमः । (७३.८) ९५६. ॐ अरिकम्बुगदाम्बुजैः स्फुरते नमः । (७३.८) ९५७. ॐ सुरसिद्धौघपरीताय नमः । (७३.८) ९५८. ॐ परमपुरुषाय नमः । (७३.८) ९५९. ॐ परमात्मसौख्यसिन्धौ विनिमग्नेन अक्रूरेण प्रकारभेदैः प्रणुताय नमः । (७३.९) ९६०. ॐ अक्रूरेण चोदितरथवासिने नमः । (७३.१०) ९६१. ॐ दिनार्द्धविगमे मथुरां प्राप्ताय आरामे वसन् विहिताशनाय सखिजनैः सह पुरिमीक्षितुं गताय भगवते नमः । (७४.१) ९६२. ॐ प्रार्थितराजकीयवसननिरसनकृताय भगवद् निन्दाकराय रजकाय पुण्यां गतिं दत्तवते नमः । (७४.३) ९६३. ॐ उचितवेषदायकाय वायकाय स्वपदं दत्तवते नमः । (७४.४) ९६४. ॐ मालाभिः स्तबकैः स्तवैररपि मालाकृतेन मानिताय तस्मै परां भक्तिं लक्ष्मीं च दत्तवते नमः । (७४.४) ९६५. ॐ अङ्गरागे दत्ते सति अब्जविलोचनां त्रिवक्रां कुब्जां जगत्सुन्दरीं कृतवते नमः । (७४.५) ९६६. ॐ दूरात् कातरया आलेपदात्र्या निरीक्षितगतये महोत्सववतीं नगरीं प्रवेशितवते नमः । (७४.७) ९६७. ॐ स्रग्भिर्भूषितमर्चितं यज्ञधनुः ``मा मा'' इति वादात् पुरः भञ्जितवते नमः । (७४.८) ९६८. ॐ कंसारये नमः । (७४.८) ९६९. ॐ श्रीदाम्ना सह राधिकाविरहजं खेदं वदन् सुप्तवते नमः । (७४.१०) ९७०. ॐ अवतारकार्यघटनात् आनन्दितवते नमः । (७४.१०) ९७१. ॐ कुपितकुवलयापीडदन्तोन्मूलकाय नमः । (७५.३) ९७२. ॐ हारमेभिर्ल्लळितविरचितं राधिकायै दिशेत्युक्त्वा गजदन्तोन्मूलगमहितमहामौक्तिकान् आत्ममित्राय प्रदत्तवते नमः । (७५.३) ९७३. ॐ हस्तिदन्तमंसे गृहीत्वा हलिना युतं मल्लरङ्गं प्रवेशितवते नमः । (७५.४) ९७४. ॐ पूर्णाय नमः । (७५.५) ९७५. ॐ निरवधि परमानन्दसान्द्रप्रकाशाय नमः । (७५.५) ९७६. ॐ गोपेषु साक्षात् विलसितवते नमः । (७५.५) ९७७. ॐ चाणूरमुष्टिकादिमल्लध्वंसकाभ्यां रामकृष्णाभ्यां नमः । (७५.७) ९७८. ॐ सुलळितवपुर्भ्यां रामकृष्णाभ्यां नमः । (७५.७) ९७९. ॐ कंसस्य दुष्टोक्तिभिः रुष्टाय नमः । (७५.८) ९८०. ॐ व्याप्तमूर्तये नमः । (७५.८) ९८१. ॐ कंससायुज्यदायकाय नमः । (७५.९) ९८२. ॐ उग्रसेनं यदुकुलराजानं कृतवते नमः । (७५.१०) ९८३. ॐ भक्तानामुत्तमं अमरगुरोराप्तनीतिं उद्धवं सखायं लब्ध्वा तुष्टाय नमः । (७५.१०) ९८४. ॐ सर्वरोगरोधकाय नमः । (७५.१०) ९८५. ॐ मुसलिना सह सान्दीपनीं गत्वा चतुःषष्टिमात्रैः अहोभिः सर्वविद्याः गृहीतवते नमः । (७६.१) ९८६. ॐ सर्वज्ञाय नमः । (७६.१) ९८७. ॐ यमनिलयनात् आहृतं नष्टं पुत्रं गुरवे दक्षिणार्थं दत्तवते नमः । (७६.१) ९८८. ॐ प्रेमभारप्रणुन्नानां गोपिकानां सकलभुवने दुर्ल्लभं भक्त्युद्रेकं दर्शयितुं भक्तवर्यं उद्धवं गोकुलं प्रेषितवते नमः । (७६.२) ९८९. ॐ अमृतवपुषे नमः । (७६.५) ९९०. ॐ नगरसुदृशां कान्ताय नमः । (७६.५) ९९१. ॐ गोपिकानां प्राणनाथाय नमः । (७६.५) ९९२. ॐ रासक्रीडालुळितलळितविश्लथत्केशपाशाय नमः । (७६.६) ९९३. ॐ मन्दोद्भिन्नश्रमजलकणलोभनीयाङ्गाय नमः । (७६.६) ९९४. ॐ कारुण्याब्धये नमः । (७६.६) ९९५. ॐ भुवनमदनाय नमः । (७६.६) ९९६. ॐ गोपिकानां सकलभुवने नेक्षितं भक्तिं पश्यन् गोकुलात् उपगतं आनन्दाकुलं उद्धवं दृष्ट्वा हृष्टाय नमः । (७६.११) ९९७. ॐ गुरुपुरपतये नमः । (७६.११) ९९८. ॐ स्मरातुरां सैरन्ध्रीं रहसि सुखं रमयित्वा कामितं वरं दत्तवते नमः । (७७.३) ९९९. ॐ उपश्लोकं नामानं सात्त्वततन्त्रविदं सुतं सैरन्ध्र्यै दत्तवते नमः । (७७.४) १०००. ॐ निज मन्दिरे आगतेषु अक्रूरेण बहु नुतेभ्यो मोदेनाभ्यर्चितेभ्यो बलोद्धवकेशवेभ्यो नमः । (७७.५) १००१. ॐ जरासन्धस्य त्रयोविंशत्यक्षौहिणीसंहारकाय नमः । (७७.६) १००२. ॐ बलेन बलात् बद्धं बलोत्तरं जरासन्धं भूयः बलोद्यमरसेन मोचनं कृतवते नमः । (७७.७) १००३. ॐ षोडशकृतेषु युद्धेषु जरासन्धस्य सैकनवतित्रिशतं सैन्यं नाशयितवते नमः । (७७.८) १००४. ॐ यवनत्रिकोट्या सह यवनं पुरः दृष्ट्वा पयोधिमध्ये त्वष्ट्रा पुरं निर्माय योगबलात् स्वजनान् तत्र नीतवते नमः । (७७.९) १००५. ॐ वधसुकृतविहीनं म्लेच्छेशं यवनं मुचुकुन्देन भस्मीकृतवते नमः । (७७.१०) १००६. ॐ पद्ममालिने नमः । (७७.१०) १००७. ॐ स्तुवते भगवत्प्रसादैककाङ्क्षिणे मुचुकुन्दाय मुक्तेः तुल्यां भक्तिं आशु मोक्षं अपि दत्तवते नमः । (७७.११) १००८. ॐ दर्पाय जरासन्धाय चरमविजयं प्रदत्वा जलधिनगरीं याताय नमः । (७७.१२) १००९. ॐ वातालयेश्वराय नमः । (७७.१२) १०१०. ॐ त्रिदिववर्द्धकिवर्द्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् जलधिमध्यगतं नवपुरं द्वारकां अञ्चितरोचिषवपुषालङ्कृतवते नमः । (७८.१) १०११. ॐ रेवतभूभृति तनयां रेवतीं हलभृते ददुषि मुदिताय नमः । (७८.२) १०१२. ॐ रेवतीकान्ताय बलरामाय नमः । (७८.२) १०१३. ॐ चिरधृतप्रणयया विदर्भसुतया रुक्मिण्या प्रेषितं दूतं द्विजं आदरपूर्वं स्वीकृतवते नमः । (७८.५) १०१४. ॐ कृपालयाय नमः । (७८.७) १०१५. ॐ जगदेकपतये नमः । (७८.७) १०१६. ॐ प्राप्ते रुक्मिणीसन्देशे प्रमुदितं वैदर्भ्या प्रेषितं द्विजं समं कन्याहरणार्थं कूण्डिनं गतवते नमः । (७८.१०) १०१७. ॐ गुरुमरुत्पुरनायकाय नमः । (७८.१०) १०१८. ॐ बलसमेतबलानुगताय कुण्डिनं प्राप्ताय भीष्मकमानिताय नमः । (७९.१) १०१९. ॐ गिरिसुतायाः पदपङ्कजे निपतित्वा भैष्म्या यस्य पतित्वं याचितो तस्मै नमः । (७९.४) १०२०. ॐ रुक्मिण्यां गिरिजालयात् सुरुचिरं निर्गते ``चन्द्रमुखि क्व नु गमिष्यसि'' इति सरसं उक्त्वा तां रथं समधिरोप्य हृतवते नमः । (७९.७) १०२१. ॐ क्रुधाभिः कृतरणाभिः नृपाभिः पिशुनकैः अनुदचाल्यमानाय नमः । (७९.८) १०२२. ॐ आहवे आगतं रुक्मिणं निबध्य विरूपयन् हृदमदं बलोक्तिभिः मोचनं कृतवते नमः । (७९.९) १०२३. ॐ नवसमागमलज्जितमानसां हसितांशुलसन्मुखीं प्रणयकौतुकजृम्भितमन्मथां रुक्मिणीं यथासुखं रहसि रमयितवते नमः । (७९.१०) १०२४. ॐ एकदा ऋजुमतेः वरतनोः वैदर्भ्याः वक्रगिरा अतिलोलतां कृतवते नमः । (७९.११) १०२५. ॐ अथ तदधिकलाळनकौशलैः प्रणयिनीं अधिकं सुखयितवते नमः । (७९.१२) १०२६. ॐ भगवति रतां तस्य आत्मजां छलतो विवोढुं अर्कलब्धं दिव्यं सत्राजितः स्यमन्तकमणिं याचितवते नमः । (८०.१) १०२७. ॐ स्यमन्तकं गळभुवि वहन् मृगयां गतं भ्रातरं प्रसेनं सिंहेन हते सत्राजित्गिरं अनु जनाभिः यस्मिन् मणिहरणापराधं व्याजेनारोपितस्तस्मै नमः नमः । (८०.३) १०२८. ॐ आत्मनिलिप्तं दुर्यशो मार्ष्टुं सर्वज्ञोऽपि मार्गणपरो भूत्वा अरण्यं गतवते नमः । (८०.३) १०२९. ॐ वने प्रसेनं हरिं अपि हतं दृष्ट्वा सिंहघ्नेन भक्तचूडामणिना जाम्बवता सह स्यमन्तकप्रतिगृहणार्थं मुष्टियुद्धं कृतवते नमः । (८०.४) १०३०. ॐ युद्धे जाम्बवन्तं जित्वा तं अनुगृह्य तेन दत्तं दुहितरं जाम्बवतीं वरमणिं च परिगृहीतवते नमः । (८०.५) १०३१. ॐ सत्राजिते स्यमन्तकरत्नं प्रदत्वा तेन दत्तं दुहितरं विलोलविलोचनां सत्यभामां स्वीकृतवते नमः । (८०.६) १०३२. ॐ गान्दिनेयकृतवर्मयोः गिरा सत्राजितं हत्वा तस्मात् स्यमन्तकं हृतवन्तं शतधन्वानं भामाशोकशान्त्यर्थं हतवते नमः । (८०.८) १०३३. ॐ शतधन्वनाअक्रूरे न्यस्तं स्यमन्तकं सभायां प्रदर्शयित्वा तुष्टाय नमः । (८०.१०) १०३४. ॐ भामाकुचान्तशयनाय नमः । (८०.१०) १०३५. ॐ स्निग्द्धां मुग्द्धां सत्यभामां सततं लाळयितवते नमः । (८१.१) १०३६. ॐ भामया सह याज्ञसेनीविवाहं गत्वा पार्थप्रीत्यै हस्तिनपुर्यां मनागास्थिताय नमः । (८१.१) १०३७. ॐ शक्रप्रस्थपुरसंविधायकाय नमः । (८१.१) १०३८. ॐ भगवदवरजां कौरवेणार्थ्यमानां भद्रां कुहनामस्करिणा शक्रसूनुना हरणं कारितवते नमः । (८१.२) १०३९. ॐ यमुनाकूलदृष्टां काळिन्दीं परिगृहीतवते नमः । (८१.३) १०४०. ॐ अर्जुनप्रीत्यर्थं खाण्डवप्रीणिताग्नये नमः । (८१.३) १०४१. ॐ भ्रातृत्रस्तां प्रणयविवशां पैतृष्वसेयीं अवन्तीं मित्रविन्दां राज्ञां मद्ध्ये हृतवते नमः । (८१.३) १०४२. ॐ सप्तवृषवरान् सप्तमूर्तिः भूत्वा निमेषात् बद्ध्वा नग्नजिन्नन्दनां सत्यां व्यूढवते नमः । (८१.४) १०४३. ॐ सन्तर्दनाद्यैः दत्तं पैतृष्वसेयीं भद्रां स्वीकृतवते नमः । (८१.४) १०४४. ॐ पार्थाद्यैरपि अकृतलवनं तोयमात्राभिलक्ष्यं शफरं लक्षं छित्त्वा भद्रकन्यां लक्ष्मणां वृताय नमः । (८१.५) १०४५. ॐ स्मृतायातं पक्षिप्रवरं अधिरुह्य भामां अङ्के वहन्प्राग्ज्योतिषपुरं गतवते नमः । (८१.६) १०४६. ॐ दुर्गाणि विभिन्दन्त्रुटितपृतनाशोणितरसैः प्राग्ज्योतिषपुरं शोणितपुरं कृतवते नमः । (८१.६) १०४७. ॐ जलधिमध्यात् उदपतितं पञ्चास्यं मुरं चक्रेण प्रदलितशिराः कृतवते नमः । (८१.७) १०४८. ॐ चतुर्दन्तैर्दन्तावळपतिभिः इन्धानसमरं भौमं नरकासुरं रथाङ्गेन छित्वा तीर्णनरकं कृतवते नमः । (८१.७) १०४९. ॐ भूमीदेव्या स्तुताय नमः । (८१.८) १०५०. ॐ राज्यं एकं गजं च नरकतनयाय भगदत्ताय दत्तवते नमः । (८१.८) १०५१. ॐ खलेन नरकासुरेण आबद्धानं स्वगतमनसां षोडशसहस्राणि स्त्रीणां मोचितवते नमः । (८१.८) १०५२. ॐ अदितेः भौमापहृतकुण्डलं दातुं द्युस्त्रीषु दत्तह्रिया दयितया भामया समं दिवं गतवते नमः । (८१.९) १०५३. ॐ भामाप्रीत्यर्थं कल्पतरुं हृतवते नमः । (८१.९) १०५४. ॐ अभिपतितं इन्द्रं जितवते नमः । (८१.९) १०५५. ॐ शक्राद्यैर्महितवते नमः । (८१.९) १०५६. ॐ कल्पद्रुं सत्यभामाभवनभुवि सृजवते नमः । (८१.१०) १०५७. ॐ द्व्यष्टसाहस्रयोषाः स्वीकृतवते नमः । (८१.१०) १०५८. ॐ प्रत्यागारं विहितबहुवपुषा ताः केळिभेदैः लाळितवते नमः । (८१.१०) १०५९. ॐ तत्र तत्रापि गेहे आश्चर्यात् नारदालोकितविविधगतये नमः । (८१.१०) १०६०. ॐ सर्वासु पत्नीषु दश दश तनयान्कृतवते नमः । (८१.१०) १०६१. ॐ शम्बरासुरं हत्वा रत्या सह निजपुरं आगतस्य रौक्मिणेयस्य रुक्मिपुत्रीहारकस्य प्रद्युम्नस्य पित्रे नमः । (८२.१) १०६२. ॐ प्रद्युम्नपुत्रस्य रुक्मिपौत्रीरोचनापतेः अनिरुद्धस्य पितामहाय नमः । (८२.१) १०६३. ॐ अनिरुद्धस्य उद्वाहे द्यूतवैरात् रुक्मिं हतवते बलभद्राय नमः । (८२.१) १०६४. ॐ मुसलिने नमः । (८२.१) १०६५. ॐ बाणस्य बलिसुतस्य दुहित्रा उषया स्वप्नानुभूत्या विरहातुरया कमितस्य अनिरुद्धस्य पितामहाय नमः । (८२.२) १०६६. ॐ उषासख्या अतीवकुशलयोगिन्या चित्रलेखया निशायां योगबलतः द्वारकात् हृतस्य उषारमणस्य अनिरुद्धस्य पितामहाय नमः । (८२.३) १०६७. ॐ शर्वबन्धुना बाणासुरेण बन्धितानिरुद्धस्य पितामहाय नमः । (८२.४) १०६८. ॐ श्रीनारदोक्तोदन्तदुरन्तरोषैः बाणनगरं शोणितपुरं अनिरुद्धमोचनार्थं निरुद्धवते नमः । (८२.४) १०६९. ॐ पुरीपालश्शैलप्रियदुहितृनाथेन भूतव्रातैः समं निरुद्धयदुबलस्य नाथाय नमः । (८२.५) १०७०. ॐ पुरहन्तारं समं घटिताय नमः । (८२.५) १०७१. ॐ निरुद्धाशेषास्त्रं गिरिशं जृम्भणास्त्रेण मोहितवते नमः । (८२.६) १०७२. ॐ ज्ञानिना विष्णुज्वरेणशमितशिवज्वरेण चरितजुषां विज्वरं दत्त्वा गतेन स्तुताय नमः । (८२.७) १०७३. ॐ पुनरभिपतितं नानायुधोग्रं बाणं निर्ल्लूनाशेषदोषं कृतवते नमः । (८२.८) १०७४. ॐ शङ्करेणोपगीताय तद्वाचा शिवभक्तं बाणं उभयतशिष्टबाहुद्वितयं कृत्वा निर्भयं मोचितवते नमः । (८२.८) १०७५. ॐ सानिरुद्धाय सहोषया निजपुरीं गताय नमः । (८२.८) १०७६. ॐ शक्रं तावत् मुहुः, नन्दहरणे वरुणं, बालानीतौ यमं, दवदहनपाने अनिलसखं, वत्सस्तेये विधिं, बाणस्य समरे गिरिशं च जितवते नमः । (८२.९) १०७७. ॐ सर्वावतारात् विश्वोत्कर्षी कृष्णावताराय नमः । (८२.९) १०७८. ॐ द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयं प्रापितवते नमः । (८२.१०) १०७९. ॐ निजजने अनुत्तमां द्विजभक्तिं उपदिशितवते नमः । (८२.१०) १०८०. ॐ पवनेश्वराय नमः । (८२.१०) १०८१. ॐ हूतानुपेतयमुनादमनाय रामाय नमः । (८३.१) १०८२. ॐ सेवकवादमूढस्य पौण्ड्रकवासुदेवस्य ``नारायणोऽहमवतीर्णेहास्मि भूमौ'' इति सन्देशं श्रुत्वा हसितवते नमः । (८३.१) १०८३. ॐ वक्षसि तापेन कृताङ्कं अनल्पमूल्यश्रीकौस्तुभं मकरकुण्डलपीतचेलं पौण्ड्रकीयवपुः दृष्ट्वा तस्य शीर्षं सुदर्शनेन छेदितवते नमः । (८३.३) १०८४. ॐ पौण्ड्रकमित्रकाशिपशिरोऽपि छेद्य काश्यां पातयितवते नमः । (८३.४) १०८५. ॐ जाळ्येन बालकगिरापि किल ``अहं एव श्रीवासुदेव'' इति रूढमतये पौण्ड्रकाय सायूज्यं दत्तवते नमः । (८३.५) १०८६. ॐ काशीश्वरस्य तनयेन सुदक्षिणेन विहिताभिचारेण प्रेषितं कृत्यां पार्श्वस्थं कालचक्रं विसर्ज्य दाहितवते नमः । (८३.७) १०८७. ॐ कृत्यायाः दहनार्थं प्रेषितं कालचक्रेण काशीपुरीमपि दाहितवते नमः । (८३.८) १०८८. ॐ खलतां गतं नरकसचिवं देशक्लेशकरं विविदं तलाहतेन पातयितवते हलिने नमः । (८३.९) १०८९. ॐ कौरव्यपुत्रीहरणनियमितं साम्बं कुरूणां बन्धनात् मोचितवते रामाय नमः । (८३.१०) १०९०. ॐ दुर्बोधलीलाय तापशान्त्यै निषेविताय नमः । (८३.१०) १०९१. ॐ तपनोपरागकाले सुतीर्त्थं समन्तपञ्चकाख्यं समुपागतवते नमः । (८४.१) १०९२. ॐ यदुकुलमहिळावृताय नमः । (८४.१) १०९३. ॐ समन्तकपञ्चके बहुजनहिताय तीर्थतोये विनिमज्जितवते नमः । (८४.२) १०९४. ॐ द्विजकुलपरिमुक्तवित्तराशये नमः । (८४.२) १०९५. ॐ कुरुपाण्डवादि मित्रैः सममिळतवते नमः । (८४.२) १०९६. ॐ गाढभक्तिभारया द्रुपदसुतया चोदितायाः भगवत्पत्नीभिः वर्णितमहानुभावाय नमः । (८४.३) १०९७. ॐ गोपान् नीरीक्ष्य अतिकुतुकात् उपगम्य तान् मानयितवते नमः । (८४.४) १०९८. ॐ चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं अन्वयाताय नमः । (८४.४) १०९९. ॐ भगवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनां अतिरसपरिमुक्तकञ्चुळीके परिचयहृद्यतरे कुचे निलीनवते नमः । (८४.५) ११००. ॐ परिरम्भणेन राधिकां द्राक् अतिविवशां विधाय आत्मनिर्वृतिं दत्तवते नमः । (८४.६) ११०१. ॐ रहसि गोपिकाः अपगतव्यथा विधाय ``परमसुखचिदात्मकोऽहं आत्म इति वः चेतसि स्फुटं एव उदयतु'' इति तत्त्वबोधं दत्तवते नमः । (८४.७) ११०२. ॐ तत्त्वोपदेशेन गोपिकानां भगवद्विचिन्ता परमसुखैक्यमयी कृतवते नमः । (८४.८) ११०३. ॐ भगवदनुषङ्गरसगोपैः सह त्रिमासमात्रं पुरा इव उषितवते नमः । (८४.१०) ११०४. ॐ व्यपगमसमये राधां समेत्य दृढं उपगुह्य तां वीतखेदां निरीक्ष्य प्रमुदितहृदयाय नमः । (८४.११) ११०५. ॐ मगधभूभृता चिरनिरोधसङ्क्लेशितेभ्योः शताष्टकयुतायुतद्वितयभूमिभृत्भ्योः मागधक्षपणाभ्यर्थना प्राप्तवते नमः । (८५.१) ११०६. ॐ अनाथशरणाय नमः । (८५.१) ११०७. ॐ नारदोदीरितयुधिष्ठिरमखोद्यमं ज्ञात्वा उभयकार्यपर्याकुलाय नमः । (८५.२) ११०८. ॐ विरुद्धजयिनः अध्वरात्, उभयसिद्धिः इति उद्धववचनं स्वीकृत्य अशेषदयितायुतं यौधिष्ठिरीं पुरं गतवते नमः । (८५.२) ११०९. ॐ धर्मजेन सभीमार्जुनं मागधं प्रेषिताय नमः । (८५.३) १११०. ॐ द्विजमिषेण गिरिव्रजपुरं संप्राप्य मागधं समरोत्सवं याचितवते नमः । (८५.४) ११११. ॐ अपूर्णसुकृतं जरासन्धं पवनजेन सङ्ग्रामयन् जिष्णुना सह राजयुद्ध्वा निरीक्ष्य स्थिताय नमः । (८५.४) १११२. ॐ अशान्तसमरोद्धतं जरसः सुतं विटपपाटनासंज्ञया पवनजेन निष्पाटितं निपातिताय नमः । (८५.५) १११३. ॐ नृपतीन् विमुच्य तान् समनुगृह्य परां भक्तिं दत्त्वा भुवि धर्मगुप्त्यै नियोजितवते नमः । (८५.५) १११४. ॐ युधिष्ठिरे राजसूयाध्वरं प्रचक्रुषि सति द्विजपदावनेजादिकं कृतवते नमः । (८५.६) १११५. ॐ सहदेववागनुगतेन धर्मजेन सदसि विचार्य सवनिकर्मणि प्रवरं अग्रपूजाविधिं यस्मिन् व्यधत्त तस्मै नमः । (८५.७) १११६. ॐ विश्वभूतात्मने नमः । (८५.७) १११७. ॐ मुनिनृपेषु तिष्ठत्सु सत्सु कृष्णं प्रति सुदुर्वचोविततिं उद्वमन्तं चेदिपस्य शिरः निजपक्षगान् निवार्य दनुजदारिणा स्वारिणा छेदितवते नमः । (८५.९) १११८. ॐ जनुस्त्रितयलब्धया सततचिन्तया शुद्धधिये शिशुपालाय योगिनां दुर्लभां भगवति एकतां दत्तवते नमः । (८५.९) १११९. ॐ सुयोधने स्थलजलभ्रमात् भ्रमिते सति द्रुपदनन्दनाभीमयोः उत्थितं हसितं अपाङ्गकलया उज्जृम्भितवते नमः । (८५.१०) ११२०. ॐ धराभरनिराकृतौ बीजं वपितवते नमः । (८५.१०) ११२१. ॐ जनार्दनाय नमः । (८५.१०) ११२२. ॐ साल्वामात्यं उग्रवीर्यं द्युमन्तं हतवतः प्रद्युम्नस्य पित्रे नमः । (८६.१) ११२३. ॐ साल्वविमानं सौभं गदया चूर्णीकृत्य उदकनिधौ क्षिप्तवते नमः । (८६.३) ११२४. ॐ चक्रेण साल्वं उत्कृत्य तस्मै मोक्षं दत्तवते नमः । (८६.३) ११२५. ॐ दन्तवक्त्रं कौमोदक्या हत्वा तस्मै चैद्यवत् भगवति ऐक्यं प्रापितवते नमः । (८६.३) ११२६. ॐ क्रन्दन्त्या याज्ञसेन्याः चेलमालां सकरुणं अनन्तां कृतवते नमः । (८६.४) ११२७. ॐ शर्वांशजमुनिचकितद्रौपदीचिन्तितोऽथ प्राप्ताय नमः । (८६.४) ११२८. ॐ शाकान्नमश्नन् मुनिगणं तृप्तिमन्तं कृतवते नमः । (८६.४) ११२९. ॐ युद्धोद्योगे फल्गुनेन वृताय नमः । (८६.५) ११३०. ॐ कौरव्ये दत्तसैन्याय नमः । (८६.५) ११३१. ॐ पाण्डवार्थं दूत्यकृते करिपुरं गतवते नमः । (८६.५) ११३२. ॐ कौरवेण भगवद्वचने धिक्कृते मुनिसदसि विश्वरूपं व्यावृण्वन् हस्तिनपुरीं क्षोभितवते नमः । (८६.५) ११३३. ॐ समरमुखे जिष्णुं खिन्नं वीक्ष्य तस्मै भगवद्गीतोपदिश्य विश्वरूपं दर्शयन् वधभियं प्रोज्झ्य प्रकृतिं नीतवते नमः । (८६.६) ११३४. ॐ विश्वरूपं दर्शयन् अर्जुनस्य वधभियं प्रोज्झ्य तं प्रकृतिं नीतवते नमः । (८६.६) ११३५. ॐ भक्तोत्तंसे भीष्मे नित्यं नित्यं अवनिभृदयुतं विभिन्दति सति तं निरोधितुं निश्शस्त्रत्वप्रतिज्ञां विजह्य अरिवरं धारयन् आधावते तं प्राज्ञलिं नतशिरसं वीक्ष्य मोदात् प्रत्यागताय नमः । (८६.७) ११३६. ॐ द्रोणस्य युद्धे भगदत्तेरितं वैष्णवास्त्रं वक्षसि धृतवते नमः । (८६.८) ११३७. ॐ चक्रस्थगितरविमहाः सन्ध्यां निर्माय जयद्रथवधहेतुभूताय नमः । (८६.८) ११३८. ॐ नागास्त्रे कर्णमुक्ते क्षितिं अवनमयन् पार्थं केवलं कृत्तमौलिं कृत्वा तं रक्षितवते नमः । (८६.८) ११३९. ॐ अप्रत्युत्थायिसूतक्षयं कृत्वा तत्पदे तस्य सुतं कल्पितवते तीर्त्थगामिने रामाय नमः । (८६.९) ११४०. ॐ पर्वणि यज्ञघ्नं बल्वलं परिदलयितवते रामाय नमः । (८६.९) ११४१. ॐ स्नाततीर्त्थाय रणान्ते संप्राप्ताय भीमदुर्योधनरणं अशमं वीक्ष्य निजपुरीं गतवते रामाय नमः । (८६.९) ११४२. ॐ विजयाय द्रौणिमुक्तब्रह्मास्त्रसंहरणोपदेशं दत्तवते नमः । (८६.१०) ११४३. ॐ द्रौण्यस्त्रात् उत्तरागर्भं रक्षितवते नमः । (८६.१०) ११४४. ॐ चक्रपाणये नमः । (८६.१०) ११४५. ॐ यं पश्यन् भीष्मो भक्तिभूम्ना सपदि निष्कळब्रह्मभूयं अयात् तस्मै नमः । (८६.११) ११४६. ॐ अतिमहितैः त्रिभिः अश्वमेधैः संयाज्य धर्मजं पूर्णकामं कृतवते नमः । (८६.११) ११४७. ॐ कुचेलसतीर्त्थ्याय नमः । (८७.१) ११४८. ॐ वृत्तिलब्धये निषेव्याय नमः । (८७.२) ११४९. ॐ कुचेलं अतिसम्भावनया स्वीकृताय नमः । (८७.४) ११५०. ॐ कुचेलं प्रपूज्य करे गृहीत्वा पुराकृतं कथयितवते नमः । (८७.५) ११५१. ॐ त्रपाजुषः सतीर्थात् पृथुकं बलात् प्रगृहीतवते नमः । (८७.६) ११५२. ॐ मुष्टौ सकृदाशिते सम्भ्रमात् उपेत्यया रमया ``इयता ननु ननु कृतं'' इत्युक्त्वा गृहीतहस्ताय नमः । (८७.६) ११५३. ॐ भक्तेषु भक्ताय विचित्ररूपानुग्रहदायकाय नमः । (८७.७) ११५४. ॐ कुचेलाय एकमुष्टि पृथुकाशनेनैव सर्वैश्वर्याणि प्रदत्तवते नमः । (८७.८) ११५५. ॐ महात्भुतकरुणामूर्तये नमः । (८७.९) ११५६. ॐ आपूरितभक्तवाञ्चिताय नमः । (८७.१०) ११५७. ॐ मृताग्रजान् सुतलात् आनीय मात्रे प्रदर्श्य तां सन्तुष्टं कृतवते नमः । (८८.१) ११५८. ॐ द्विजेन्द्रं श्रुतदेवं नृपतिं बहुळाश्वं च अनुग्रहीतुकामाय तापसैः समेताय मिथिलां प्राप्तवते नमः । (८८.२) ११५९. ॐ उभयोः निकेतं युगपत् गन्तुं द्विमूर्ती भूताय नमः । (८८.३) ११६०. ॐ उभयेन विहितोपचारैः पूजिताय उभयस्मै मुक्तिं दत्तवते नमः । (८८.३) ११६१. ॐ जिष्णोः गर्वं विनेतुं नवद्विजतनयमृतिवृत्तान्तं श्रुत्वापि किञ्चित् न कृतवते नमः । (८८.४) ११६२. ॐ अर्जुनकृतदशमसुतरक्षाप्रतिज्ञायां मोघे भवति सति हुतभुजिपतनात् पार्त्थं सस्मितं वारितवते नमः । (८८.६) ११६३. ॐ द्विजतनयान्वेषणार्थं पार्त्थं वैकुण्ठं नीतवते नमः । (८८.७) ११६४. ॐ भुजङ्गाधिपतले आसीनाय दिव्यभूषायुधाद्यैरावीताय नमः । (८८.८) ११६५. ॐ पीतचेलाय नमः । (८८.८) ११६६. ॐ प्रतिनवजलदश्यामळाय नमः । (८८.८) ११६७. ॐ श्रीमदङ्गाय नमः । (८८.८) ११६८. ॐ तिसृणां मूर्तीनां ईशित्रे नमः । (८८.८) ११६९. ॐ मां एव अधिकविवृतान्तर्हिततया विभिन्नौ युवां द्वौ इति कृष्णार्जुनौ उक्तवते नमः । (८८.९) ११७०. ॐ वैकुण्ठनाथाय नमः । (८८.९) ११७१. ॐ कृष्णार्जुनाभ्यां दशद्विजसुतान् दत्तवते नमः । (८८.९) ११७२. ॐ द्विजसुतान् वैकुण्ठात् आनीय तेषां पित्रे दत्तवते नमः । (८८.१०) ११७३. ॐ पार्त्थप्रतिज्ञारक्षकाय नमः । (८८.१०) ११७४. ॐ भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णाय नमः । (८८.१०) ११७५. ॐ पूर्णब्रह्मणे नमः । (८८.१०) ११७६. ॐ भक्तानामग्रयायिने उद्धवाय विज्ञानसारं ग्राहितवते नमः । (८८.११) ११७७. ॐ सर्वतः सर्वलोकाः यत्र सौहार्दभीतिस्नेहद्वेषानुराग- प्रभृतिभिरतुलैः अश्रमैर्योगभेदैः समस्तां आर्तिं तीर्त्वा अमृतपदं प्राप्नुवन् तस्मै कृष्णावताराय नमः । (८८.१२) ११७८. ॐ विश्वार्तिशान्तिकराय नमः । (८८.१२) ११७९. ॐ भक्तिपूर्तिकराय नमः । (८८.१२) ११८०. ॐ प्रशान्तेषु क्षिप्रप्रसादकाय नमः । (८९.१) ११८१. ॐ अखिलकामप्रदायकाय नमः । (८९.१) ११८२. ॐ शाकुनेयात् शर्वं रक्षितुं धृतपटुवटुवपुषे नमः । (८९.५) ११८३. ॐ शाकुनेयं मोहयित्वा तस्य करं तस्यैव शिरसि न्यस्य तं घातितवते नमः । (८९.६) ११८४. ॐ रमाङ्कभुविसुप्ताय नमः । (८९.८) ११८५. ॐ पङ्कजलोचनाय नमः । (८९.८) ११८६. ॐ भृगोः पादचिह्नभूषणाय नमः । (८९.८) ११८७. ॐ च्युतिदोषहीनाय नमः । (८९.९) ११८८. ॐ सत्त्वोच्चयैकतनवे नमः । (८९.९) ११८९. ॐ पशुपवनिताभाग्यनिवहाय नमः । (८९.१०) ११९०. ॐ सर्वशर्वादिजेत्रे नमः । (९०.१) ११९१. ॐ त्रिभागे सत्यपदे त्रिरूपाय नमः । (९०.२) ११९२. ॐ विकुण्ठपदाय नमः । (९०.२) ११९३. ॐ सात्त्विकतनवे नमः । (९०.३) ११९४. ॐ त्रिमूर्त्यतिगताय नमः । (९०.४) ११९५. ॐ सर्वमयत्वहेतोः उपासनविधौ शर्वात्मने नमः । (९०.४) ११९६. ॐ यस्य नामसहस्रकादि श्रीशङ्करेण व्याख्यत् तस्मै भगवते नमः । (९०.५) ११९७. ॐ सकलेश्वराय नमः । (९०.६) ११९८. ॐ मूर्तित्रयातिगाय नमः । (९०.६) ११९९. ॐ प्रणवे निष्कळे ध्येयाय नमः । (९०.६) १२००. ॐ त्रिमूर्तियुक् सत्यपदत्रिभागतः परस्मै पदाय नमः । (९०.७) १२०१. ॐ ब्राह्मकल्पे धात्रे अनावृताय वपुषे नमः । (९०.८) १२०२. ॐ भागवतद्वितीयस्कन्धोदितायवपुषे नमः । (९०.८) १२०३. ॐ हरिशर्वमुखनाम्ने नमः । (९०.८) १२०४. ॐ व्यासोक्तिसारमयभागवतोपगीताय नमः । (९०.११) १२०५. ॐ क्लेशनाशकाय नमः । (९०.११) १२०६. ॐ भक्तिदायकाय नमः । (९०.११) १२०७. ॐ श्रीकृष्णाय नमः । (९१.१) १२०८. ॐ अखिलात्मने नमः । (९१.१) १२०९. ॐ देवदेवाय नमः । (९१.१) १२१०. ॐ मायाधिनाथाय नमः । (९१.३) १२११. ॐ सद्सङ्गात् भक्तमुखात् उन्मिषद्भिः भगवद्माहात्म्यप्रकारैः पापात् उद्धार्य भक्तिं सुदृढं कुर्वते नमः । (९१.४) १२१२. ॐ भक्तिदार्ढ्यं विरागं भगवत्तत्त्वबोधं च भगवत्सेवया ददते नमः । (९१.६) १२१३. ॐ कृपाकराय नमः । (९१.६) १२१४. ॐ भुवनपतये नमः । (९१.६) १२१५. ॐ परमसुखमयाय नमः । (९१.१०) १२१६. ॐ अशेषरोगनाशकाय नमः । (९१.१०) १२१७. ॐ हृद्याय नमः । (९२.२) १२१८. ॐ सत्त्वैकरूपाय नमः । (९२.२) १२१९. ॐ अभीष्टमूर्तये नमः । (९२.२) १२२०. ॐ कृते श्वेतच्छायाय मुनिवरवपुषे नमः । (९२.५) १२२१. ॐ त्रेतायां स्रुक्स्रुवाद्यङ्किताय अरुणतनवे यज्ञरूपाय नमः । (९२.५) १२२२. ॐ द्वापरे तन्त्रमार्गैः सेविताय विलसदरिगदाय श्यामळाङ्गाय नमः । (९२.५) १२२३. ॐ कलिसमये सङ्कीर्तनाद्यैरुपासिताय नीलवर्णाय नमः । (९२.५) १२२४. ॐ अखिलदाय नमः । (९२.६) १२२५. ॐ मुररिपवे नमः । (९२.६) १२२६. ॐ कलिकाले निर्यत्नैः सङ्कीर्तनाद्यैः मार्गैः उपासद्भ्यः भक्तानां क्षिप्रप्रसादकाय नमः । (९२.६) १२२७. ॐ कलौ द्रमिळभुवि भक्तानां भूरिसङ्ख्यावर्द्धकाय नमः । (९२.७) १२२८. ॐ गङ्गा गायत्री तुळसिका गोपिकाचन्दनं साळग्रामाभिपूजा एकादशीत्याद्यैः अयत्नोपासिताय नमः । (९२.९) १२२९. ॐ मुक्तिप्रदायकाय नमः । (९२.९) १२३०. ॐ देवर्षीणां पितॄणां ऋणेभ्यो मोचकाय नमः । (९२.१०) १२३१. ॐ शरण्याय नमः । (९२.१०) १२३२. ॐ पापोत्थतापरोधकाय नमः । (९२.१०) १२३३. ॐ चित्तस्थिताय नमः । (९२.१०) १२३४. ॐ भ्रान्तिजन्यमायाविलासनानात्वगुणदोषावबोधनाशकाय नमः । (९३.१) १२३५. ॐ करुणाकराय नमः । (९३.१) १२३६. ॐ भगवति न्यस्तचित्तानां तापत्रयोन्मूलकाय नमः । (९३.२) १२३७. ॐ निश्चलत्वेन भूमिः इव क्षमाशिक्षकाय गुरवे नमः । (९३.३) १२३८. ॐ आत्मनः व्याप्तत्वनिर्लेपताबोधकाय गगनगुरवे नमः । (९३.३) १२३९. ॐ अहं स्वच्छः पावन मधुरः इति बोधकाय उदकगुरवे नमः । (९३.४) १२४०. ॐ सर्वान्नीनोऽपि दोषं मा स्म गृह्णां, ``तरुषु अग्नि इव सर्वभूतेषु आत्मा एकः'' इति बोधकाय वह्निगुरवे नमः । (९३.४) १२४१. ॐ कलानां पुष्टिः नष्टिः इव तनोः न आत्मनः इति बोधकाय शशिरूपगुरवे नमः । (९३.४) १२४२. ॐ तोयादिव्यस्तमार्ताण्डवत् तनुषु आत्मनः एकतां बोधकाय सूर्यगुरवे नमः । (९३.४) १२४३. ॐ व्याधकपोतकथया क्षणिकलौकिकबन्धदुःखप्रबोधकाय गुरवे नमः । (९३.५) १२४४. ॐ अजगराख्यानात् क्षुद्पिपासासहनशक्तितितिक्षा माहात्म्यप्रबोधकाय गुरवे नमः । (९३.५) १२४५. ॐ आत्मनः अगाधता बोधकाय सिन्धुगुरवे नमः । (९३.५) १२४६. ॐ योषितादिसुखं शिखिनि शलभवत् क्षुद्रं इति बोधकाय गुरवे नमः । (९३.५) १२४७. ॐ भृङ्गवत् सारं एव भोज्यं, धनचयनं नाशकारणं इति बोधकाय गुरवे नमः । (९३.५) १२४८. ॐ वशगतगजवत् तरुणी बन्धकारणं इति बोधकाय गुरवे नमः । (९३.६) १२४९. ॐ माध्वीहरः इव धनौघं नार्जितव्यं, अन्यः तं हर्ता इति बोधकाय गुरवे नमः । (९३.६) १२५०. ॐ मृगवत् ग्राम्यगीतश्रवणदोषबोधकाय गुरवे नमः । (९३.६) १२५१. ॐ बळिशे झषवत् जिह्वालौल्यदोषबोधकाय गुरवे नमः । (९३.६) १२५२. ॐ पिङ्गळा विरागाख्यानेन वैराग्यगुणप्रबोधकाय गुरवे नमः । (९३.६) १२५३. ॐ सामिषकुरराख्यानकथया लोभदोषप्रबोधकाय गुरवे नमः । (९३.६) १२५४. ॐ शिशुवत् मानावमानगणनाराहित्यमाहात्म्यप्रबोधकाय गुरवे नमः । (९३.७) १२५५. ॐ एकशेषकन्यावलयाख्यानेन एकान्तवासविशेषबोधकाय गुरवे नमः । (९३.७) १२५६. ॐ इषुकृताख्यानेन एकाग्रतागुणबोधकाय गुरवे नमः । (९३.७) १२५७. ॐ इन्दुरोर्मन्दिरेषु अहिरिव ममतादोषदर्शकाय गुरवे नमः । (९३.७) १२५८. ॐ भगवत् कृतं जगत् भगवति एव क्षपयसि इति ऊर्णनाभात् बोधकाय गुरवे नमः । (९३.८) १२५९. ॐ चिन्तितं एव भवति इति पेशकारात् बोधकाय गुरवे नमः । (९३.८) १२६०. ॐ बहुतररुजा पीडितविड्भस्मदेहात् विवेकवैराग्यात्मकनित्यवस्तुबोधप्रबोधकाय नमः । (९३.८) १२६१. ॐ इत्युपरिवर्णितान्तःस्थितचतुर्विंशतिगुरुरूपाय विश्वप्रकृतिरूपाय जगत्गुरवे नमः । (९३.८) १२६२. ॐ देहमोहत्यागानुग्रहदायकाय नमः । (९३.९) १२६३. ॐ निःशेषरोगहारकाय नमः । (९३.१०) १२६४. ॐ दृढभक्तिदायकाय नमः । (९३.१०) १२६५. ॐ मुक्तिदाय नमः । (९३.१०) १२६६. ॐ शुद्धाय नमः । (९४.१) १२६७. ॐ देहेन्द्रियादिव्यपगताय नमः । (९४.१) १२६८. ॐ अखिलव्याप्ताय नमः । (९४.१) १२६९. ॐ परस्मै स्वरूपाय नमः । (९४.१) १२७०. ॐ कृपणबन्धवे नमः । (९४.४) १२७१. ॐ कृपापूरसिन्धवे नमः । (९४.४) १२७२. ॐ पद्मनाभाय नमः । (९४.४) १२७३. ॐ विश्वाभिरामाय नमः । (९४.७) १२७४. ॐ सकलमलहराय नमः । (९४.७) १२७५. ॐ दिव्यलीलावताराय नमः । (९४.७) १२७६. ॐ सच्चित्सान्द्ररूपाय नमः । (९४.७) १२७७. ॐ चैद्यवैरिणे नमः । (९४.८) १२७८. ॐ पूजानतिनुतिकर्मानुकीर्त्यादरणीयाय नमः । (९४.८) १२७९. ॐ सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहवे नमः । (९४.९) १२८०. ॐ आनन्दसान्द्ररूपाय नमः । (९४.१०) १२८१. ॐ आदौ अविकलजीवात्मिकां हैरण्यगर्भतनुमास्थिताय विश्वयोनये नमः । (९५.१) १२८२. ॐ हंसरूपिणे नमः । (९५.२) १२८३. ॐ सजलजलधरश्यामळकोमळाङ्गाय नमः । (९५.७) १२८४. ॐ आनीलश्लक्ष्णकेशाय नमः । (९५.८) १२८५. ॐ ज्वलितमकरसत्कुण्डलाय नमः । (९५.८) १२८६. ॐ मन्दहासस्यन्दार्द्राय नमः । (९५.८) १२८७. ॐ कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामाय नमः । (९५.८) १२८८. ॐ श्रीवत्साङ्काय नमः । (९५.८) १२८९. ॐ सुबाहवे नमः । (९५.८) १२९०. ॐ मृदुलसदुदराय नमः । (९५.८) १२९१. ॐ काञ्चनच्छायचेलाय नमः । (९५.८) १२९२. ॐ चारुस्निग्द्धोरवे नमः । (९५.८) १२९३. ॐ अम्भोरुहलळितपदाय नमः । (९५.८) १२९४. ॐ मन्दहाससुन्दरवदनाय नमः । (९५.९) १२९५. ॐ परमसुखचिदद्वैतरूपाय नमः । (९५.९) १२९६. ॐ आनन्दपूर्णाय नमः । (९५.१०) १२९७. ॐ सर्वतापनिवर्तकाय नमः । (९५.१०) १२९८. ॐ साक्षात् परस्मै ब्रह्मणे नमः । (९६.१) १२९९. ॐ उरुमहिम्ने नमः । (९६.१) १३००. ॐ विश्वमूर्तये नमः । (९६.१) १३०१. ॐ अक्षराणां अकाराय नमः । (९६.१) १३०२. ॐ मन्त्रेषु ताराय नमः । (९६.१) १३०३. ॐ राज्ञां मनवे नमः । (९६.१) १३०४. ॐ मुनिषु भृगुनारदाभ्यां नमः । (९६.१) १३०५. ॐ पशुषु सुरभये नमः । (९६.१) १३०६. ॐ दानवानां प्रह्ळादाय नमः । (९६.१) १३०७. ॐ पक्षिणां वैनतेयाय नमः । (९६.१) १३०८. ॐ नागानां अनन्ताय नमः । (९६.१) १३०९. ॐ स्रोतसां सुरसरिते नमः । (९६.१) १३१०. ॐ ब्रह्मण्यानां बलये नमः । (९६.२) १३११. ॐ क्रतुषु जपयज्ञाय नमः । (९६.२) १३१२. ॐ वीरेषु पार्त्थाय नमः । (९६.२) १३१३. ॐ भक्तानां उद्धवाय नमः । (९६.२) १३१४. ॐ बलिनां बलाय नमः । (९६.२) १३१५. ॐ तेजस्विनां धाम्ने नमः । (९६.२) १३१६. ॐ अनन्तविभूतये नमः । (९६.२) १३१७. ॐ सर्वविकसदतिशयवस्तवे नमः । (९६.२) १३१८. ॐ जीवाय प्रधानाय नमः । (९६.२) १३१९. ॐ सर्वप्रपञ्चभासकाय नमः । (९६.२) १३२०. ॐ सत्तास्फूर्तिप्रियत्वात्मकाय नमः । (९६.३) १३२१. ॐ भिन्नेष्वखिलपदार्त्थेष्वभिन्नाय नमः । (९६.३) १३२२. ॐ विश्वमूलाय नमः । (९६.३) १३२३. ॐ निर्मूलाय नमः । (९६.३) १३२४. ॐ परस्मै ब्रह्मणे नमः । (९६.३) १३२५. ॐ ज्ञानेन कर्मणा भक्त्या अपि इति त्रियोगैः प्राप्याय नमः । (९६.४) १३२६. ॐ भवजलनिधिपोतकर्णधाराय गुरवे नमः । (९६.५) १३२७. ॐ हृदयगताय नमः । (९६.८) १३२८. ॐ वैराग्यदायकाय नमः । (९६.८) १३२९. ॐ जगदीश्वराय नमः । (९६.८) १३३०. ॐ अर्त्थासक्तिनाशकाय नमः । (९६.९) १३३१. ॐ चित्तशान्तिदायकाय नमः । (९६.९) १३३२. ॐ युवतिसुखक्षुद्रताबोधकाय नमः । (९६.१०) १३३३. ॐ पूर्णभक्तिप्रदायकाय नमः । (९६.१०) १३३४. ॐ यस्य क्षेत्रनिषेवादि सर्वं नैर्गुण्यनिष्ठं तस्मै नमः । (९७.१) १३३५. ॐ अखिलभूतेषु सततं पूज्याय नमः । (९७.२) १३३६. ॐ मनोज्ञाय भक्तिमार्गप्रदर्शकाय नमः । (९७.३) १३३७. ॐ यस्य सेवया मार्कण्डेय महषिः गणकनिगदितद्वादशाब्दायुरन्ते मृत्युं अद्रावयत् तस्मै नमः । (९७.४) १३३८. ॐ मार्कण्डेयमहर्षिणा तुष्ट्या तोष्टूयमानाय नमः । (९७.६) १३३९. ॐ वटदळशयनाय नमः । (९७.७) १३४०. ॐ श्यामळाङ्गाय नमः । (९७.७) १३४१. ॐ वदनसरसिजे न्यस्तपादाङ्गुलीयकाय नमः । (९७.७) १३४२. ॐ आश्चर्यबालकाय नमः । (९७.७) १३४३. ॐ श्वासेनान्तर्निविष्टाय मुनीन्द्राय विष्टपौघां दर्शयितवते नमः । (९७.८) १३४४. ॐ मुनीन्द्रं भूयः श्वासवातैर्बहिरनुपतिताय नमः । (९७.८) १३४५. ॐ मूर्तित्रयात्मकाय नमः । (९७.९) १३४६. ॐ सकलनियन्त्रे नमः । (९७.९) १३४७. ॐ मायाविकृतिविरहितवैकुण्ठलोकवासिने नमः । (९७.१०) १३४८. ॐ शुद्धसत्त्वैकरूपिणे नमः । (९७.१०) १३४९. ॐ सच्चिद्ब्रह्माद्वयात्मने नमः । (९७.१०) १३५०. ॐ देवाः मुनीन्द्राः यस्य तत्त्वरूपं न विदुः तस्मै नमः । (९८.१) १३५१. ॐ वचसां मनसामपि दूरदूराय नमः । (९८.१) १३५२. ॐ इदं जगत् सकलं यस्य भासा भासितं तस्मै नमः । (९८.१) १३५३. ॐ यस्मिन् एतद् विभातं यतः इदं अभवत् येन इदं लीयते च तस्मै नमः । (९८.१) १३५४. ॐ यः अस्मादुत्तीर्णरूपस्तस्मै नमः । (९८.१) १३५५. ॐ जन्मकर्मनामगुणदोषादिकं यस्मिन् न स्फुटते तस्मै नमः । (९८.२) १३५६. ॐ लोकानां ऊतये यः मायानुसारी जन्मकर्मनामानि स्वयं अनुभजते तस्मै नमः । (९८.२) १३५७. ॐ शक्ती बिभ्रत् अरूपोऽपि बहुतररूपाय नमः । (९८.२) १३५८. ॐ अद्भुतात्मने नमः । (९८.२) १३५९. ॐ कैवल्यधाम्ने नमः । (९८.२) १३६०. ॐ पररसपरिपूर्णाय नमः । (९८.२) १३६१. ॐ तिर्यक्'मर्त्यसुरासुरस्त्रीपुन्द्रव्यकर्मजातिगुणरूपरहिताय नमः । (९८.३) १३६२. ॐ निषेधशेषाय नमः । (९८.३) १३६३. ॐ निगमशतैः लक्षणावृत्तितः कृच्छ्रेणावेद्यमानाय नमः । (९८.३) १३६४. ॐ परमसुखमयाय नमः । (९८.३) १३६५. ॐ मायायां बिम्बितः महदहङ्कारतन्मात्रभेदैः भूतग्रामेन्द्रियाद्यैरपि स्वप्नसङ्कल्पकल्पसकलजगत्स्रष्ट्रे नमः । (९८.४) १३६६. ॐ कालशक्त्या आत्मना सर्वं संहृत्य गम्भीरे तमसि वितिमिरो भासते नमः । (९८.४) १३६७. ॐ सर्वथा सकलमयतया कल्प्यमानाय नमः । (९८.५) १३६८. ॐ विश्वहेतवे नमः । (९८.५) १३६९. ॐ कर्मकालाणुशब्दब्रह्मेति स्तूयमानाय नमः । (९८.५) १३७०. ॐ वेदान्तैः पुरुषपरचिदात्माभिधाय नमः । (९८.५) १३७१. ॐ प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृते नमः । (९८.५) १३७२. ॐ विश्वदृश्यावभासानिर्वाच्यरूपाविद्यासंसारारण्य सद्यस्त्रुटनपरशवे नमः । (९८.६) १३७३. ॐ विद्याप्रदायकाय नमः । (९८.६) १३७४. ॐ भूषासु स्वर्णवत् घटशरावादिके मृत्तिकावत् स्फुरते नमः । (९८.७) १३७५. ॐ अद्वितीयवपुषे नमः । (९८.७) १३७६. ॐ विद्यालाभे प्रबोधे स्वप्नद्रष्टुवत् स्फुटं विकसते नमः । (९८.७) १३७७. ॐ यद्भीत्या सूर्य उदेति दहनः दहति वायुः वाति पद्मजाद्याः अनुकालं उचितबलीनाहरन्ते तस्मै नमः । (९८.८) १३७८. ॐ विश्वनियन्त्रकाय नमः । (९८.८) १३७९. ॐ त्रिगुणमयाय नमः । (९८.९) १३८०. ॐ त्रैलोक्यभावकाय नमः । (९८.९) १३८१. ॐ त्रीशानामैक्यरूपाय नमः । (९८.९) १३८२. ॐ त्रिभिः निगमैः गीयमानस्वरूपाय नमः । (९८.९) १३८३. ॐ तिस्रोऽवस्थाविदे नमः । (९८.९) १३८४. ॐ त्रियुगजनिजुषे नमः । (९८.९) १३८५. ॐ त्रिक्रमाक्रान्तविश्वाय नमः । (९८.९) १३८६. ॐ त्रैकाल्येभेदहीनाय नमः । (९८.९) १३८७. ॐ त्रियोगभेदैः भज्यमानाय नमः । (९८.९) १३८८. ॐ सत्याय नमः । (९८.१०) १३८९. ॐ विबुद्धाय नमः । (९८.१०) १३९०. ॐ निरीहाय नमः । (९८.१०) १३९१. ॐ निर्द्वन्द्वाय नमः । (९८.१०) १३९२. ॐ निर्विकाराय नमः । (९८.१०) १३९३. ॐ निखिलगुणव्यञ्जनाधारभूताय नमः । (९८.१०) १३९४. ॐ निर्मलाय नमः । (९८.१०) १३९५. ॐ निरवधिमहिमोल्लासिने नमः । (९८.१०) १३९६. ॐ निस्सङ्गानां मुनीनां अन्तर्निर्लीनाय नमः । (९८.१०) १३९७. ॐ निरुपमपरमानन्दसान्द्रप्रकाशवपुषे नमः । (९८.१०) १३९८. ॐ कालरूपाय नमः । (९८.११) १३९९. ॐ कारुण्यसिन्धवे नमः । (९८.११) १४००. ॐ सर्वामयौघनिर्मार्जकाय नमः । (९८.११) १४०१. ॐ अगणितवीर्याय नमः । (९९.१) १४०२. ॐ यस्य अङ्घ्रित्रयेणैव त्रिजगदभिमितं तस्मै नमः । (९९.१) १४०३. ॐ विश्वधारकाय नमः । (९९.१) १४०४. ॐ यस्य धाम्नि भक्ताः माद्यन्ति यत्र अमृतरसमरन्दस्य प्रवाहः तस्मै नमः । (९९.१) १४०५. ॐ आद्यायाशेषकर्त्रे नमः । (९९.२) १४०६. ॐ प्रतिनिमिषनवीनाय विभूतेः भर्त्रे नमः । (९९.२) १४०७. ॐ यशोभिः पूर्णाय नमः । (९९.२) १४०८. ॐ अन्ते प्राप्यपदाय नमः । (९९.२) १४०९. ॐ वेदस्य साराय नमः । (९९.३) १४१०. ॐ तत्त्वबोधार्त्थं जननोपात्तकथाभिः स्तूयमानाय नमः । (९९.३) १४११. ॐ अखिलसुखकरैः नामैः कीर्तनैः च सङ्कीर्त्यमानाय नमः । (९९.३) १४१२. ॐ इन्द्रस्य क्षेमकारिणे प्रियसख्ये नमः । (९९.४) १४१३. ॐ योगसिद्धाः यस्य सम्यक् प्रकाशं परपदं अनिशं वीक्षन्ते तस्मै नमः । (९९.४) १४१४. ॐ जागरूकाः विप्रेन्द्राः कृतबहुनुतया यं निर्भासयन्ते तस्मै नमः । (९९.४) १४१५. ॐ लोकत्रयस्याप्यूर्द्ध्वं विभ्राजमाने वैकुण्ठलोके वसते नमः । (९९.५) १४१६. ॐ जलशयनाय नमः । (९९.६) १४१७. ॐ यस्य नाभौ दिक्पत्रं कनकधरणिभृत् कर्णिकं लोकरूपं पद्मं अभवत् तस्मै नमः । (९९.६) १४१८. ॐ भुवनजनयित्रे नमः । (९९.७) १४१९. ॐ सर्वान्तरस्थाय विष्णुरूपाय नमः । (९९.७) १४२०. ॐ सहस्रशिरसे नमः । (९९.८) १४२१. ॐ सहस्राक्षिणे नमः । (९९.८) १४२२. ॐ सहस्रपदे नमः । (९९.८) १४२३. ॐ परिमितविवरे चित्तान्तरेऽपि भासमानाय नमः । (९९.८) १४२४. ॐ अनन्तशुद्धज्ञानात्मने नमः । (९९.९) १४२५. ॐ यस्य स्तोकः भागः एव अखिलभुवनतया दृश्यते तस्मै नमः । (९९.९) १४२६. ॐ यस्य त्र्यंशकल्पो सान्द्रमोदात्मकभागः अखिलभुवनात् उपरि भाति तस्मै नमः । (९९.९) १४२७. ॐ दुरतिगमशुद्धैकसत्त्वाव्यक्तस्वरूपाय नमः । (९९.१०) १४२८. ॐ अमृतरसाम्भोधिकल्लोलतुल्यस्वरूपाय नमः । (९९.१०) १४२९. ॐ सर्वोत्कृष्टाय नमः । (९९.१०) १४३०. ॐ अभीष्टाय नमः । (९९.१०) १४३१. ॐ गुणरसेनैव चित्तं हरते नमः । (९९.१०) १४३२. ॐ निबिडतरकळायावलीलोभनीयतेजसे नमः । (१००.१) १४३३. ॐ तारुण्यारम्भरम्यवपुषे नमः । (१००.१) १४३४. ॐ दिव्यकैशोरवेषाय नमः । (१००.१) १४३५. ॐ नारदाद्यैः विलसदुपनिषद्सुन्दरीमण्डलैरावीताय नमः । (१००.१) १४३६. ॐ पीयूषाप्ळावकाय नमः । (१००.१) १४३७. ॐ परमसुखरसास्वाद्यकारकाय नमः । (१००.१) १४३८. ॐ नीलाभकुञ्चिताग्रघनामलतरकेशाय नमः । (१००.२) १४३९. ॐ चारुभङ्ग्यासंयताय रत्नोत्तंसाभिरामाय केशभाराय नमः । (१००.२) १४४०. ॐ उदयच्चन्द्रकैः पिञ्छजालैः वलयिताय मन्दारस्रङ्निवीताय पृथुकबरीभाराय नमः । (१००.२) १४४१. ॐ पूर्णानुकम्पार्णवमृदुलहरीचञ्चलद्भ्रूविलासाय नमः । (१००.३) १४४२. ॐ हृद्याय आनीलस्निग्द्धपक्ष्मावलिपरिलसित नेत्रयुग्माय नमः । (१००.३) १४४३. ॐ सान्द्रच्छायविशालारुणकमलदळाकारनयनाय नमः । (१००.३) १४४४. ॐ आमुग्द्धताराय कारुण्यालोकलीलाशिशिरितभुवनाय नेत्रयुग्माय नमः । (१००.३) १४४५. ॐ उत्तुङ्गोल्लासिनासाय नमः । (१००.४) १४४६. ॐ हरिमणिमुकुरप्रोल्लसद्गण्डपाळीव्यालोलत्कर्णपाशाञ्चित- मकरमणीकुण्डलद्वन्द्वदीप्राय नमः । (१००.४) १४४७. ॐ उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तःप्रीति- प्रस्यन्दिमन्दस्मितमधुरतरवक्त्राय नमः । (१००.४) १४४८. ॐ रत्नोज्ज्वलवलयभृते शोणपाणिप्रवाळबाहुद्वन्द्वाय नमः । (१००.५) १४४९. ॐ प्रसृतनखमयूखाङ्गुलीभ्यो नमः । (१००.५) १४५०. ॐ वक्त्रारविन्दे वेणुनाळीं न्यस्य सुमधुरविकसद्रागमुद्भाव्यमानाय नमः । (१००.५) १४५१. ॐ शब्दब्रह्मामृतैः भुवनं शिशिरितं कुर्वते नमः । (१००.५) १४५२. ॐ उत्सर्पत्कौस्तुभश्रीततिभिररुणितकोमळकण्ठदेशाय नमः । (१००.६) १४५३. ॐ श्रिवत्सरम्याय तरळतरसमुद्दीप्रहारप्रतानवक्षसे नमः । (१००.६) १४५४. ॐ नानावर्णप्रसूनावलिकिसलयिनीविलोलल्लोलम्बां वनमालया रत्नमालया च अलङ्कृताय नमः । (१००.६) १४५५. ॐ अङ्गे पञ्चाङ्गरागैः अतिशयविकसत्सौरभाकृष्टलोकाय नमः । (१००.७) १४५६. ॐ लीनानेकत्रिलोकीविततिं अपि कृशां मद्ध्यवल्लये नमः । (१००.७) १४५७. ॐ शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभाय पीतचेलाय नमः । (१००.७) १४५८. ॐ दीप्तरश्मि स्फुटमणिरशनाकिङ्किणीमण्डिताय नमः । (१००.७) १४५९. ॐ रमायाः चित्तं चोरयते घनमसृणरुचचारूरवे नमः । (१००.८) १४६०. ॐ विश्वक्षोभं विशङ्क्य ध्रुवमनिशं पीतचेलावृतोरवे नमः । (१००.८) १४६१. ॐ आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्त्थपाळीसमुद्गच्छायजानुभ्यां नमः । (१००.८) १४६२. ॐ क्रमपृथुलमनोज्ञजङ्घवे नमः । (१००.८) १४६३. ॐ भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मपादाग्राय नमः । (१००.९) १४६४. ॐ उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया आश्रितानां सन्तापध्वान्तहन्तृभ्यो मङ्गळाङ्गुलीभ्यो नमः । (१००.९) १४६५. ॐ योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुराय मुक्तिभाजां निवासाय भक्तानां कामवर्षद्युतरुकिसलयपादमूलाय नमः । (१००.१०) १४६६. ॐ नाथाय नमः । (१००.१०) १४६७. ॐ विश्वनाथाय आयुरारोग्यसौख्यप्रदायकाय नमः । (१००.११) ॐ तत्सत् । श्रीकृष्णार्पणमस्तु । सर्वापराधानि क्षम्यताम् । कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेर्स्वभावात् । करोमि यत् यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ सर्वदेवनमस्कारं केशवं प्रति गच्चति । नमः शिवाय साम्बाय हरये परमात्मने । प्रणतक्लेशनाशाय योगिनां पतये नमः । लोकाः समस्ताः सुखिनो भवन्तु । श्रीकृष्णकृपया नामसमाहरणं - मठत्तिल् नरेन्द्रन् कृतज्ञता - श्री मोहन् चेट्टूर् सम्पूज्य स्वामि शिवानन्द सरस्वति (सिद्धाश्रमं, आलत्तूर्, पालक्काट्) सम्पूज्य स्वरूपानन्द सरस्वति (शिवानन्दाश्रमं, पालक्काट्) Compiled by: Madathil Narendran, ᳚Nama Sivaya᳚, Near Siva Temple, Kallekulangara, Palakkad-678009, Kerala, India email: madathilnarendran at gmail.com. Phone (0091) 9495035516᳚ Encoded and proofread by Madathil Narendran
% Text title            : Namavali constructed from Narayaniyam
% File name             : nArAyaNIyAdhiShThitAbhagavannAmAvaliH.itx
% itxtitle              : nArAyaNIyAdhiShThitA bhagavannAmAvaliH
% engtitle              : nArAyaNIyAdhiShThitA bhagavannAmAvaliH
% Category              : vishhnu, nAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Constructed by Narendran Madathil madathilnarendran at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Narendran Madathil madathilnarendran at gmail.com
% Proofread by          : Narendran Madathil
% Translated by         : Narendran Madathil
% Indexextra            : (Malayalam)
% Latest update         : July 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org