॥ नारायणीयम् ॥

1 The Glory Of The Lord सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् । अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वम् तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ १-१॥ एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयम् । एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥ १-२॥ सत्त्वं यत्तत्पुराभ्यामपरिकलनतो निर्मलं तेन तावद्- भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यम् । तत्स्वच्छत्वाद्यदच्छादितपरसुखचिद्गर्भनिर्भासरूपं तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ १-३॥ निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ । कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् १-४॥ निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां तेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले । तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ट रूपम् ॥ १-५॥ तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम् । लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्तः सिञ्चत्सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ ॥ १-६॥ कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने । नो चेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधांभोधिपूरे रमेरन् ॥ १-७॥ नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान- प्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च । इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे त्वं क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् ॥ १-८॥ कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा- दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम् । त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्- त्वं चाऽऽत्मारां एवेत्यतुलगुणगणाधार शौरे नमस्ते ॥ १-९॥ ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम् । अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयोऽसि १-१०॥
2 The Form Of The Lord सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् । गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥ २-१॥ केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित- श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् । काञ्चित्काञ्चिनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनी- मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ २-२॥ यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽ- प्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥ २-३॥ तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य संपन्मयी सा देवी परमोत्सुका चिरतरं नाऽस्ते स्वभक्तेष्वपि । तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक- प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥ २-४॥ लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे- त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते । ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जना- स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥ २-५॥ एवंभूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं त्वद्रूपं परचिद्रसायनमयं चेतोहरं श्रृण्वताम् । सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥ २-६॥ एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत् कर्मज्ञानमयाद्‍भृशोत्तमतरो योगीश्वरैर्गीयते । सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥ ७॥ निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः । तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ॥ २-८॥ अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मलाः बोधे भक्तिपथेऽथवाप्युचिततामायान्ति किं तावता । क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन- श्चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥ २-९॥ त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं सिद्ध्यन्ती विमलप्रषोधपदवीमक्लेशतस्तन्वती । सद्यः सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद- प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर ॥ २-१०॥
3 The Qualities Of The Perfect Devotee पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः । चरन्तो ये भक्तास्त्वयि खलु रमन्ते परममू- नहं धन्यान्मन्ये समधिगतसर्वाभिलषितान् ॥ ३-१॥ गदक्लिष्टं कष्टं तव चरणसेवारसभरेऽ- प्यनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् । भवत्पादाम्भोजस्मरणरसिको नामनिवहा- नहं गायंगायं कुहचन विवत्स्यामि विजने ॥ ३-२॥ कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां मदीयक्लेशौघप्रशमनदशा नाम कियती । न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥ ३-३॥ मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो भवत्पादाम्भोजस्मरणविरुजो नारदमुखाः । चरन्तीश स्वैरं सततपरिनिर्भातपरचित्- सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् ॥ ३-४॥ भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये- दशेषक्लेशौघं न खलु हृदि सन्देहकणिका । न चेद्‍व्यासस्योक्तिस्तव च वचनं नैगमवचो भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलम् ॥ ३-५॥ भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात् किमप्यारूढा चेदखिलपरितापप्रशमनी । पुनश्चान्ते स्वान्ते विमलपरि बोधोदयमिलन् महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरम् ॥ ३-६॥ विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ । भवन्मूर्त्यालोके नयनमथ ते पादतुलसी- परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥ ३-७॥ प्रभूताधिव्याधिप्रसभचलिते मामकहृदि त्वदीयं तद्रूपं परमसुखचिद्रूपमुदियात् । उदञ्चद्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो यथा विस्मर्यासं दुरुपशमपीडापरिभवान् ॥ ३-८॥ मरुद्गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदम् । अकीर्तिस्ते मा भूद्वरद गदभारं प्रशमयन् भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन ॥ ३-९॥ किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदिया दहं तावद्देव प्रहितविविधार्तप्रलपितः । पुरः क्लृप्ते पादे वरद तव नेष्यामि दिवसान् यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥ ३-१०॥
4 Yoga And Its Attainment कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया। स्पष्टमष्टविधयोगचर्यया पुष्टयाऽऽशु तव तुष्टिमाप्नुयाम् ॥ ४-१॥ ब्रह्मचर्यद्रुढतादिभिर्यमैराप्लवादिनियमैश्च पाविताः। कुर्महे द्रुढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥ ४-२॥ तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः। इन्द्रियाणि विषयादथापहृत्याऽऽस्महे भवदुपासनोन्मुखाः ॥ ४-३॥ अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः। तेनभक्तिरसमन्तरार्द्रतामुद्वहेम भवदङ्‍घ्रिचिन्तकाः ॥ ४-४॥ विस्पुटावयवभेदसुन्दरं त्वद्वपुस्सुचिरशीलनावशात्। अश्रमं मनसि चिन्तयामहे ध्यानयोगनिरतास्त्वदाश्रयाः ॥ ४-५॥ ध्यायतां सकलमूर्तिमीद्रुशीमुन्मिषन्मधुरताहृतात्मनाम्। सान्द्रमोदरसरूपमान्तरं ब्रह्मरूपमयि तेऽवभासते ॥ ४-६॥ तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक। आश्रिताः पुनरतः परिच्युतावारभेमहि च धारणाधिकम् ॥ ४-७॥ इत्थमभ्यसननिर्भरोल्लसत्वत्परात्मसुखकल्पितोत्सवाः। मुक्तभक्तकुलमौलितां गताः सञ्चरेम शुकनारदादिवत् ॥ ४-८॥ त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा। योगवश्यमनिलं षडाश्रयैरुन्नयत्यज सुषुम्नया शनैः ॥ ४-९॥ लिङ्गदेहमपि संत्यजन्नथो लीयते त्वयि परे निराग्रहः। ऊर्ध्वलोककुतुकी तु मूर्धतस्सार्धमेव करणैर्निरीयते ॥ ४-१०॥ अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुषा च दैवतैः। प्रापितो रविपदं भवत्परो मोदवान् ध्रुवपदान्तमीयते ॥ ४-११॥ आस्थितोऽथ महरालये यदा शेषवक्त्रदहनोष्मणाऽऽर्द्यते। ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥ ४-१२॥ तत्र वा तव पदेऽथवा वसन् प्राकृतप्रलय एति मुक्तताम् । स्वेच्छया खलु पुराऽपि मुच्यते संविभिद्य जगदण्डमोजसा ॥ ४-१३॥ तस्य च क्षितिपयोमहोनिलद्योमहत्प्रकृतिसप्तकावृतीः । तत्तदात्मकतया विशन् सुखी याति ते पदमनावृतं विभो ॥ ४-१४॥ अर्चिरादिगतिमीद्रुशीं व्रजन् विच्युतिं न भजते जगत्पते । सच्चिदात्मक भवद्गुणोदयानुच्चरन्तमनिलेश पाहि माम् ॥ ४-१५॥
5 Cosmic Evoluion व्यक्ताव्यक्तमिदं न किञ्चिदभवत्प्राक्प्राकृतप्रक्षये मायायां गुणसाम्यरुद्धविकृउतौ त्वय्यागतायां लयम्। नो मृत्युश्च तदामृतं च समभून्नाह्नो न रात्रेः स्थिति- स्तत्रैकस्त्वमशिष्यथाः किल परानन्दप्रकाशात्मना ॥ ५-१॥ कालः कर्मगुणाश्च जीवनिवहा विश्वं च कार्यं विभोः चिल्लीलारतिमेयुषि त्वयि तदा निर्लीनतामाययुः। तेषां नैव वदन्त्यसत्वमयि भो शक्त्यात्मना तिष्टतां नो चेत् किं गगनप्रसूनसदृउशां भूयो भवेत्संभवः ॥ ५-२॥ एवं च द्विपरार्धकालविगतावीक्षां सिसृक्षात्मिकां विभ्राणे त्वयि चुक्षुभे त्रिभुवनीभावाय माया स्वयम्। मायातः खलु कालशक्तिरखिलादृष्टां स्वभावोऽपि च प्रादुर्भूय गुणान्विकास्य विदधुस्तस्यास्यास्सहायक्रियाम् ॥ ५-३॥ मायासन्निहितोऽप्रविष्टवपुषा साक्षीति गीतो भवान् भेदैस्तां प्रतिबिंबतो विविशिवान् जीवोऽपि नैवापरः। कालादिप्रतिबोधिताऽथ भवता सञ्चोदिता च स्वयं माया स खलु बुद्धितत्वमसृजद्योऽसौ महानुच्यते ॥ ५-४॥ तत्रासौ त्रिगुणात्मकोऽपि च महान् सत्वप्रधानः स्वयं जीवेऽस्मिन् खलु निर्विकल्पमहमित्युद्बोधनिष्पादकः। चक्रेऽस्मिन् सविकल्पबोधकमहन्तत्वं महान् खल्वसौ सम्पुष्टं त्रिगुणैस्तमोऽतिबहुलं विष्णो भवत्प्रेरणात् ॥ ५-५॥ सोऽहं च त्रिगुणक्रमात् त्रिविधतामासाद्य वैकारिको भूयस्तैजसतामसाविति भवन्नाद्येन सत्वात्मना। देवानिन्द्रियमानिनोऽकृत दिशावातार्कपाश्यश्विनो वह्नीन्द्राच्युतमित्रकान् विधुविधिश्रीरुद्रशारीरकान् ॥ ५-६॥ भूमन्मानसभुद्ध्यहंकृतिमिलच्चित्ताख्यवृत्यन्वितं तच्चान्तःकरणं विभो तव बलात् सत्वांश एवासृजत्। जातस्तैजसतो दशेन्द्रियगणस्तत्तामसांशात्पुन- स्तन्मात्रं नभसो मरुत्पुरपते शब्दोऽजनि त्वद्बलात् ॥ ५-७॥ शब्दाद्‍व्योम ततः ससर्जिथ विभो स्पर्शं ततो मारुतं तस्माद्रूपमतो महोऽथ च रसं तोयं च गन्धं महीम्। एवं माधव पूर्वपूर्वकलनादाद्याद्यधर्मान्वितं भूतग्राममिमं त्वमेव भगवन् प्राकाशयस्तामसात् ॥ ५-८॥ एते भूतगणास्तथेन्द्रियगणा देवाश्च जाता पृथङ्- नो शेकुर्भुवनाण्डनिर्मितिविधौ देवैरमीभिस्तदा। त्वं नानाविधसूक्तिभिर्नुतगुणस्तत्वान्यमून्याविशं- श्चेष्टाशक्तिमुदीर्य तानि घटयन् हैरण्यमण्डं व्यधाः ॥ ५-९॥ अण्डं तत्खलु पूर्वसृष्टसलिलेऽतिष्ठत् सहस्रं समाः निर्भिन्दन्नकृथाश्चतुर्दशजगद्रूपं विराडाह्वयम्। साहस्रैः करपादमूर्धनिवहैर्निश्शेषजीवात्मको निर्भातोऽसि मरुत्पुराधिप स मां त्रायस्व सर्वामयात् ॥ ५-१०॥
6 The Cosmos As The Form Of The Lord एवं चतुर्दशजगन्मयतां गतस्य पातालमीश तव पादतलं वदन्ति। पादोर्ध्वदेशमपि देव रसातलं ते गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥ ६-१॥ जङ्घे तलातलमथो सुतलं च जानू किञ्चोरुभागयुगलं वितलातले द्वे। क्षोणीतलं जघनमम्बरमङ्ग नाभि- र्वक्षश्च शक्रनिलयस्तव चक्रपाणे ॥ ६-२॥ ग्रीवा महस्तव मुखं च जनस्तपस्तु फालं शिरस्तव समस्तमयस्य सत्यम्। एवं जगन्मयतनो जगदाश्चितैर- प्यन्यैर्निबद्धवपुषे भगवन्नमस्ते ॥ ६-३॥ त्वद्‍ब्रह्मरन्ध्रपदमीश्वर विश्वकन्द छन्दांसि केशव घनास्तव केशपाशाः। उल्लासिचिल्लियुगलं दृहिणस्य गेहं पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे ॥ ६-४॥ निश्शेषविश्वरचना च कटाक्षमोक्षः कर्णौ दिशोऽश्वियुगलं तव नासिके द्वे। लोभत्रपे च भगवन्नधरोत्तरोष्ठौ तारागणश्च दशनाः शमनश्च दंष्ट्रा ॥ ६-५॥ माया विलासहसितं श्वसितं समीरो जिह्वा जलं वचनमीश शकुन्तपङ्क्तिः। सिद्धादयस्स्वरगणा मुखरन्ध्रमग्नि- र्देवा भुजाः स्तनयुगं तव धर्मदेवः ॥ ६-६॥ पृष्ठं त्वधर्म इह देव मनस्सुधांशु- रयक्तमेव हृदयांबुजमम्बुजाक्ष। कुक्षिस्समुद्रनिवहा वसनं तु सन्ध्ये शेफः प्रजापतिरसौ वृषणौ च मित्रः ॥ ६-७॥ श्रोणिस्थलं मृगगणाः पदयोर्नखास्ते हस्त्युष्ट्रसैन्धवमुखा गमनं तु कालः। विप्रादिवर्णभवनं वदनाब्‍जबाहु- चारूरुयुग्मचरणं करुणांबुधे ते ॥ ६-८॥ संसारचक्रमयि चक्रधर क्रियास्ते वीर्यं महासुरगणोऽस्थिकुलानि शैलाः। नाड्यस्सरित्समुदयस्तरवश्च रोम जीयादिदं वपुरनिर्वचनीयमीश ॥ ६-९॥ ईदृग्जगन्मयवपुस्तव कर्मभाजां कर्मावसानसमये स्मरणीयमाहुः। तस्यान्तरात्मवपुषे विमलात्मने ते वातालयाधिप नमोऽस्तु निरुन्धि रोगान् ॥ ६-१०॥
7 Brahma's Origin And Penance एवं देव चतुर्दशात्मकजगद्रूपेण जातः पुन- स्तस्योर्ध्वं खलु सत्यलोकनिलये जातोऽसि धाता स्वयम्। यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥ ७-१॥ सोऽयं विश्विसर्गदत्तहृदयस्सम्पश्यमानस्स्वयं बोधं खल्वनवाष्य विश्वविषयं चिन्ताकुलस्तस्थिवान्। तावत् त्वं जगतांपते तपतपेत्येवं हि वैहायसीं वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥ ७-२॥ कोऽसौ मामवदत्पुमानिति जलापूर्णे जगन्मण्डले दिक्षूद्वीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता। दिव्यं वर्षसहस्रमात्तपसा तेन त्वमाराधित- स्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भुतम् ॥ ७-३॥ माया यत्र कदापि नो विकुरुते भाते जगद्भ्यो बहि- श्शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गताः। सान्द्रानन्दझरी च यत्र परमज्योतिःप्रकाशात्मके तत् ते धाम विभावितं विजयते वैकुण्ठरूपं विभो ॥ ७-४॥ यस्मिन्नाम चतुर्भुजा हरिमणिश्यामावदातत्विषो नानाभूषणरत्नदीपितदिशो राजद्विमानालयाः। भक्तिप्राप्ततथाविधोन्नतपदा दीव्यन्ति दिव्या जना- स्तत्ते धाम निरस्तसर्वशमलं वैकुण्ठरूपं जयेत् ॥ ७-५॥ नानादिव्यवधूजनैरभिवृता विद्युल्लतातुल्यया विश्वोन्मादनहृद्यगात्रलतया विद्योतिताशान्तरा। त्वत्पादांबुजसौरभैककुतुकाल्लक्ष्मीः स्वयं लक्ष्यते यस्मिन् विस्मयनीयदिव्यविभवं तत्ते पदं देहि मे ॥ ७-६॥ तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं भास्वत्कोटिलसत्किरीटकटकाद्याकल्पदीपाकृति। श्रीवत्साङ्कितमात्तकौस्तुभमणिच्छायारुणं कारणं विश्वेषां तव रूपमैक्षत विधिस्तत्ते विभो भातु मे ॥ ७-७॥ कालांभोदकलायकोमलरुचीचक्रेण चक्रं दिशा- मावृण्वानमुदारमन्दहसितस्यन्दप्रसन्नाननम्। राजत्कम्बुगदारिपङ्कजधरश्रीमद्भुजामण्डलं स्रष्टुस्तुष्टिकरं वपुस्तव विभो मद्रोगमुद्वासयेत् ॥ ७-८॥ दृष्ट्वा संभृतसंभ्रमः कमलभूस्त्वत्पादपाथोरुहे हर्षावेशवशंवदो निपतितः प्रीत्या कृतार्थीभवन्। जानास्येव मनीषितं मम विभो ज्ञानं तदापादय द्वैताद्वैतभवत्स्वरूपपरमित्याचष्ट तं त्वां भजे ॥ ७-९॥ आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन् बोधस्ते भविता न सर्गविधिबिर्बन्धोऽपि सञ्जायते। इत्याभाष्य गिरं प्रतोष्यनितरां तच्चित्तगूढः स्वयं सृष्टौ तं समुदैरयस्स भगवन्नुल्लासयोल्लाघताम् ॥ ७-१०॥
8 Description Of Pralaya एवं तावत्प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा । ब्रह्मा भूयस्त्वत्त एवाप्य वेदान् सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥ ८-१॥ सोऽयं चतुर्युगसहस्रमितान्यहानि तावन्मिताश्च रजनीर्बहुशो निनाय । निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर् नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिम् ॥ ८-२॥ अस्मादृशां पुनरहर्मुखकृत्यतुल्यां सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् । प्राग्ब्रह्मकल्पजनुषां च परायुषां तु सुप्तप्रबोधनसमाऽस्ति तदाऽपि सृष्टिः ॥ ८-३॥ पञ्चाशदब्दमधुना स्ववयोऽर्धरूपम् एकं परार्धमतिवृत्य हि वर्ततेऽसौ । तत्रान्त्यरात्रिजनितान्कथयामि भूमन् पश्चाद्दिनावतरणे च भवद्विलासान् ॥ ८-४॥ दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये । जगन्ति च त्वज्जठरं समीयु- स्तदेदमेकार्णवमास विश्वम् ॥ ८-५॥ तवैव वेषे फणिराज शेषे जलैकशेषे भुवने स्म शेषे । आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥ ८-६॥ कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ । त्वया प्रसुप्तं परिसुप्तशक्ति- व्रजेन तत्राखिलजीवधाम्ना ॥ ८-७॥ चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये । कालाख्यशक्तिः प्रथमप्रबुद्धा प्राबोधयत्त्वां किल विश्वनाथ ॥ ८-८॥ विबुध्य च त्वं जलगर्भशायिन् विलोक्य लोकानखिलान्प्रलीनान् । तेष्वेव सूक्ष्मात्मतया निजान्तः स्थितेषु विश्वेषु ददाथ दृष्टिम् ॥ ८-९॥ ततस्त्वदीयादयि नाभिरन्ध्रा- दुदञ्चितं किञ्चन दिव्यपद्मम्। निलीननिश्शेषपदार्थमाला सङ्क्षेपरूपं मुकुलायमानम् ॥ ८-१०॥ तदेतदंभोरुहकुड्मलं ते कलेबरात्तोयपथे प्ररूढम् । बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ ८-११॥ संफुल्लपत्रे नितरां विचित्रे तस्मिन्भवद्वीर्यधृते सरोजे । स पद्मजन्मा विधिराविरासीत् स्वयंप्रबुद्धाखिलवेदराशिः ॥ ८-१२॥ अस्मिन्परात्मन् ननु पद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः । अनन्तभूमा मम रोगराशिं निरुन्धि वातालयवास विष्णो ॥ ८-१३॥
9 Description Of Creation स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे कुतः स्विदिदमम्बुधावुदितमित्यनालोकायन् । तदीक्षणकुतूहलात्प्रतिदिशं विवृत्तानन- श्चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजाम् ॥ ९-१॥ महार्णवविघूर्णितं कमलमेव तत्केवलं विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् । क एष कमलोदरे महति निस्सहायो ह्यहं कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥ ९-२॥ अमुष्य हि सरोरुहः किमपि कारणं सम्भवे- दितिस्म कृतनिश्चयः स खलु नालरन्ध्राध्वना । स्वयोगबलविद्यया समवरूढवान्प्रौढधीः त्वदीयमतिमोहनं न तु कलेबरं दृष्टवान् ॥ ९-३॥ ततस्सकलनालिकाविवरमार्गगो मार्गयन् प्रयस्य शतवत्सरं किमपि नैव संदृष्टवान् । निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः समाधिबलमादधे भवदनुग्रहैकाग्रही ॥ ९-४॥ शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत्- प्रबोधविशदीकृतः स खलु पद्मिनीसम्भवः । अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयम् ॥ ९-५॥ किरीटमुकुटोल्लसत्कटकहारकेयूरयुञ् मणिस्फुरितमेखलं सुपरिवीतपीतांबरम् । कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं वपुस्तदयि भावये कमलजन्मने दर्शितम् ॥ ९-६॥ श्रुतिप्रकरदर्शितप्रचुरवैभव श्रीपते हरे जय जय प्रभो पदमुपैषि दिष्ट्या दृशोः । कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठा मिति द्रुहिणवर्णितस्वगुणबंहिमा पाहि माम् ॥ ९-७॥ लभस्व भुवनत्रयीरचनदक्षतामक्षतां गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे । भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे- त्युदीर्य गिरमादधा मुदितचेतसं वेधसम् ॥ ९-८॥ शतं कृततपास्ततः स खलु दिव्यसंवत्सरा- नवाप्य च तपोबलं मतिबलं च पूर्वाधिकम् । उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना भवद्बलविजृम्भितः पवनपाथसी पीतवान् ॥ ९-९॥ तवैव कृपया पुनः सरसिजेन तेनैव सः प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ । तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥ ९-१०॥
10 The Variety Of Creation वैकुण्ठ वर्धितबलोऽथ भवत्प्रसादा- दम्भोजयोनिरसृजत्किल जीवदेहान् । स्थास्‍नूनि भूरुहमयानि तथा तिरश्चां जातिं मनुष्यनिवहानपि देवभेदान् ॥ १०-१॥ मिथ्याग्रहास्मिमतिरागविकोपभीति- रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा । उद्दामतामसपदार्थविधानदून स्तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥ १०-२॥ तावत्ससर्ज मनसा सनकं सनन्दं भूयं सनातनमुनिं च सनत्कुमारम् । ते सृष्टिकर्मणि तु तेन नियुज्यमाना स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥ १०-३॥ तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य भ्रूमध्यतोऽजनि मृडो भवदेकदेशः । नामानि मे कुरु पदानि च हा विरिञ्चे त्यादौ रुरोद किल तेन स रुद्रनामा ॥ १०-४॥ एकादशाह्वयतया च विभिन्नरूपं रुद्रं विधाय दयिता वनिताश्च दत्त्वा । तावन्त्यदत्त च पदानि भवत्प्रणुन्नः प्राह प्रजाविरचनाय च सादरं तम् ॥ १०-५॥ रुद्राभिसृष्टभयदाकृतिरुद्रसंघ- संपूर्यमाणाभुवनत्रयभीतचेताः । मा मा प्रजाः सृज तपश्चर मङ्गलाये त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥ १०-६॥ तस्याथ सर्गरसिकस्य मरीचिरत्रि स्तत्राङ्गिराः क्रतुमिनिः पुलहः पुलस्त्यः । अङ्गादजायत भृगुश्च वसिष्ठदक्षौ श्रीनारदश्च भगवन् भवदंघ्रिदासः ॥ १०-७॥ धर्मादिकानभ्सृजन्नथ कर्दमं च वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् । त्वद्बोधितैः सनकदक्षमुखैस्तनूजै रुद्बोधितश्च विरराम तमो विमुञ्चन् ॥ १०-८॥ वेदान्पुराणनिवहानपि सर्वविद्याः कुर्वन्निजाननगणाच्चतुराननोऽसौ । पुत्रेषु तेषु विनिधाय स सर्गवृद्धि मप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥ १०-९॥ जानन्नुपायमथ देहमजो विभज्य स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् । ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं गोविन्द मारुतपुरेश निरुन्धि रोगान् ॥ १०-१०॥
11 Entry Of Sanaka And Others Into Vaikuntha क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते । भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश ॥ ११-१॥ मनोज्ञनौश्रेयसकाननाद्यैरनेकवापमिणिमन्दिरैश्च । अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥ ११-२॥ भवद्दिदृक्षून्भवनं विविक्षून्द्वाःस्थौ जयस्थान् विजयोऽप्यरुन्धाम् । तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥ ११-३॥ वैकुण्ठलोकानुचितप्रचेष्तौ कष्टौ युवां दैत्यगतिं भजेतम् । इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥ ११-४ तेदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरंबुजाक्ष । खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तानभिराममूर्त्या ॥ ११-५॥ प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपां न्यगादीः ॥ ११-६॥ त्वदीयभृत्यावथ काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ । सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ ॥ १-७॥ हिरण्यपूर्वः कशिपुः किलैकः पुरो हिरण्याक्ष इति प्रतीतः । उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ॥ ११-८॥ तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी । भवत्प्रियां क्ष्मां सलिले निमज्य चचार गर्वाद्विनदन् गदावान् ॥ ११-९॥ ततो जलेशात्सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् । भक्तैकदृश्यः स कृपानिधे त्वं निरुन्धि रोगान् मरुदालयेश ॥ ११-१०
12 The Boar Incarnation स्वायम्भुवो मनुरथो जनसर्गशीलो दृष्ट्वा महीमसमये सलिले निमग्नाम् । स्रष्टारमाप शरणं भवदङ्घ्रिसेवा- तुष्टाशयं मुनिजनैः सह सत्यलोके ॥ १२-१॥ कष्टं प्रजाः सृजति मय्यवन्र्निमग्ना स्थानं सरोजभव कल्पय तत्प्रजानाम् । इत्येवमेष कथितो मनुना स्वयम्भू- रम्भोरुहाक्ष तव पादयुगं व्यचिन्तीत् ॥ १२-२॥ हा हा विभो जलमहं न्यपिबं पुरस्ताद् अद्यापि मज्जति मही किमहं करोमि । इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य नासापुटात्समभवः शिशुकोलरूपी ॥ १२-३॥ अङ्गुष्ठमात्रवपुरुत्पतितः पुरस्तात् भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् । अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर् विस्मेरतां विधिरगात्सह सूनुभिः स्वैः ॥ १२-४॥ कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे नासापुटात्किमु भवेदजितस्य माया । इत्थं विचिन्तयति धातरिशैलमात्रः सद्यो भवन्किल जगर्ज्जिथ घोरघोरम् ॥ १२-५॥ तं ते निनादमुपकर्ण्य जनस्तपःस्थाः सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् । तत्स्तोत्रहर्षुलमनाः परिणद्य भूय- स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ १२-६॥ ऊर्ध्वप्रसारिपरिधूम्राविधूतरोमा प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः । तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा स्तोतॄन्मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥ १२-७॥ अन्तर्जलं तदनु सङ्कुलनक्रचक्रं भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् । आविश्य भीषणरवेण रसातलस्था- नाकम्पयन्वसुमतीमगवेषयस्त्वम् ॥ १२-८॥ दृष्ट्वाऽथ दैत्यहतकेन रसातलान्ते संवेशितां झटिति कूटकिटिर्विभो त्वम् । आपातुकानविगणय्य सुरारिखेटान् दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥ १२-९॥ अभ्युद्धरन्नथ धरां दशनाग्रलग्न- मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा । उद्धातघोरसलिलाज्जलधेरुदञ्चन् क्तीडावराहवपुरीश्वर पाहि रोगात् ॥ १२-१०॥
13 The Slaying Of HiranyakSha हिरण्याक्षं तावद्वरद भवदन्वेषणपरं चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते । भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः शनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥ १३-१॥ स मायावी विष्णुर्हरति भवदीयं वसुमतीं प्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः । नदन् क्वासौ क्वासाविति स मुनिना दर्शितपथो भवन्तं संप्रापद्धरणिधरमुद्यन्तमुदकात् ॥ १३-२॥ अहो आरण्योऽयं मृग इति हसन्तं बहुतरै- र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् । महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा पयोधावाधाय प्रसभमुदयुङ्था मृधविधौ ॥ १३-३॥ गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो नियुद्धेन क्रीडन्घटघटरवोद्‍घुष्टवियता । रणालोकैत्सुक्यान्मिलति सुरसंघे द्रुतममुं निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥ १३-४॥ गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो गदाघाताद्भूमौ झटिति पतितायामहह ! भोः ! । मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ १३-५॥ ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति त्वयि छिन्दत्येनत् करकलितचक्रप्रहरणात् । समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत् गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ १३-६॥ भवच्चक्रज्योतिष्कणलवनिपातेन विधुते ततो मायाचक्रे विततघनरोषान्धमनसम् । गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं स्वपादाङ्गुष्ठेन श्रवणपदमूले निरवधीः ॥ १३-७॥ महाकायःस्सोऽयं तव करसरोजप्रमथितो गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः । तदा त्वामुद्दामप्रमदभरविद्योतिहृदया मुनीन्द्रास्सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनुम् ॥ १३-८॥ त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतं चतुर्होतारोऽंघ्रौ स्रुगपि वदने चोदर इडा । ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसा विभो सोमो वीर्यं वरद गलदेशेऽप्युपसदः ॥ १३-९॥ मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् । स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो निरुन्ध्या रोगं मे सकलमपि वातालयपते ॥ १३-१०॥
14 The Kapila Incarnation समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा । निजमन्तरमन्तरायहीनं चरितं ते कथयन्सुखं निनाय ॥ १४-१॥ समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा । धृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥ १४-२॥ गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मम् । हसितोल्लसिताननं विभो त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥ १४-३॥ स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः । कपिलं च सुतं स्वमेव पश्चात् स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥ १४-४ स मनुश्शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या । भवदीरितनारदोपदिष्टस्समगात्कर्दममागतिप्रतीक्षम् ॥ १४-५॥ मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ । भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादम् ॥ १४-६ सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने । वनिताकुलसङ्कुलो नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥ १४-७॥ शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः । वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥ १४-८॥ निजभर्तृगिरा भवन्निषेवा निरतायामथ देव देवहूत्याम् । कपिलस्त्वमजायथा जनानां प्रथयिष्यन्परमात्मतत्त्वविद्याम् ॥ १४-९॥ वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै । कपिलात्मक वायुमदिरेशत्वरितं त्वं परिपाहि मां गदौघात् ॥ १४-१०॥
15 The Teachings Of Kapila मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ १५-१॥ प्रकृतिमहदहङ्काराश्च मात्राश्च भूता- न्यपिहृदपि दशाक्षी पूरुषः पञ्चविंशः । इति विदितविभागो मुच्यतेऽसौ प्रकृत्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ १५-२॥ प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं यदि तु सजति तस्यां तद्गुणास्तं भजेरन् । मदनुभजनतत्त्वालोचनैः साप्यपेयात् कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ १५-३॥ विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं गरुडसमधिरूढं दिव्यभूषायुधाङ्कम् । रुचितुलिततमालं शीलयेतानुवेलं कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ १५-४॥ मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैः मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः । भवति परमभक्तिः सा हि मृत्योर्विजेत्री कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ १५-५॥ अह ह बहुलहिंसासञ्चितार्थैः कुटुम्बं प्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाली । विशति हि गृहसक्तो यातनां मय्यभक्तः कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ १५-६॥ युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे प्रसवगलितबोधः पीडयोल्लंङ्घ्य बाल्यम् । पुनरपि बत मुह्यत्येव तारुण्यकाले कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ १५-७॥ पितृसुरगणयाजी धार्मिको यो गृहस्थः स च निपतति काले दक्षिणाध्वोपगामी । मयि निहितमकामं कर्म तूदक्पथार्थे कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ १५-८॥ इति सुविदितवेद्यां देव हे देवहूतिं कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः । विमलमतिरथाऽसौ भक्तियोगेन मुक्ता त्वमपि जनहितीर्थं वर्तसे प्रागुदीच्याम् ॥ १५-९॥ परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं सकलभयविनेत्रीं सर्वकामोपनेत्रीम् । वदसि खलु दृढं त्वं त्वद्विधूयामयान्मे गुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् ॥ १५-१०॥
16 Nara Narayana And DakShayaga दक्षो विरिञ्चतनयोऽथ मनोस्तनूजां लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः । धर्मे त्रयोदश ददौ पितृषु स्वधां च स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥ १६-१॥ मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं नारायणं नरसखं महितानुभावम् । यज्जन्मनि प्रमुदिताः कृततुर्यघोषाः पुष्पोत्करान्प्रववृषुर्नुनुवुः सुरौघाः ॥ १६-२॥ दैत्यं सहस्रकवचं कवचैः परीतं साहस्रवत्सरतपस्समराभिलव्यैः । पर्यायनीर्मिततपस्समरौ भवन्तौ शिष्टैककङ्कटममुं न्यहतां सललिम् ॥ १६-३॥ अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं त्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः । शक्रोऽथ ते शमतपोबलनिस्सहात्मा दिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥ १६-४॥ कामो वसन्तमलयानिलबन्धुशाली कान्ताकटाक्षविशिखैर्विकसद्विलासैः । विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां भीतस्त्वायाथ जगदे मृदुहासभाजा ॥ १६-५॥ भीत्यालमङ्गजवसन्तसुराङ्गना वो मन्मानसन्त्विह जुषुध्वमिति ब्रुवाणः । त्वं विस्मयेन परितः स्तुवतामथैषां प्रादर्शयः स्वपरिचारककातराक्षीः ॥ १६-६॥ सम्मोहनाय मिलिता मदनादयस्ते त्वद्दासिकापरिमलैः किल मोहमापुः । दत्तां त्वया च जगृहुस्त्रपयैव सर्व- स्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥ १६-७॥ दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रः पर्याकुलोऽजनि भवन्महिमावमर्शात् । एवं प्रशान्तरमणीयतरोऽवतारस् त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव ॥ १६-८॥ दक्षस्तु धातुरतिलालनया रजोन्धो नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् । येन व्यरुन्ध स भवत्तनुमेव शर्वं यज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ॥ १६-९॥ कृद्धेशमर्दितमखः स तु कृत्तशीर्षो देवप्रसादितहरादथ लब्धजीवः । त्वत्पूरितक्रतुवरः पुनराप शान्तिं स त्वं प्रशान्तिकर पाहि मरुत्पुरेश ॥ १६-१०॥
17 The Story Of Dhruva उत्तानपादनृपतेर्मनुनन्दनस्य जाया बभूव सुरुचिर्नितरामभीष्टा । अन्या सुनीतिरिति भर्तुरनादृता सा त्वामेव नित्यमगतिः शरणं गताऽभूत् ॥ १७-१॥ अङ्के पितुः सुरुचिपुत्रकमुत्तमं तं दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् । आचिक्षिपे किल शिशुः सुतरां सुरुच्या दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥ १७-२॥ त्वन्मोहिते पितरि पश्यति दारवश्ये दूरं दुरुक्तिनिहतः स गतो निजाम्बाम् । साऽपि स्वकर्मगतिसन्तरणाय पुंसां त्वत्पादमेव शरणं शिशवे शशंस ॥ १७-३॥ आकर्ण्य सोऽपि भवदर्चनिश्चितात्मा मानी निरेत्य नगरात्किल पञ्चवर्षः । सन्दृष्टनारदनिवेदितमन्त्रमार्गस् त्वामारराध तपसा मधुकाननान्ते ॥ १७-४॥ ताते विषण्णहृदये नगरीं गतेन श्रीनारदेन परिसान्त्वितचित्तवृत्तौ । बालस्त्वदर्पितमनाः क्रमवर्धितेन निन्ये कठोरतपसा किल पञ्च मासान् ॥ १७-५॥ तावत्तपोबलनिरुच्छ्वसिते दिगन्ते देवार्थितस्त्वमुदयत्करुणार्द्रचेताः । त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता- दाविर्बभूविथ विभो गरुडाधिरूढः ॥ १७-६॥ त्वद्दर्शनप्रमदभारतरङ्गितं तं दृग्भ्यां निमग्नमिव रूपरसायने ते । तुष्टूषमाणमवगम्य कपोलदेशे संस्पृष्टवानसि दरेण तथाऽऽदरेण ॥ १७-७॥ तावद्विबोधविमलं प्रणुवन्तमेन- माभाषथास्त्वमवगम्य तदीयभावम् । राज्यं चिरं समनुभूय भजस्व भूयः सर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥ १७-८॥ इत्यूचिषि त्वयि गते नृपनन्दनोऽसौ- आनन्दिताखिलजनो नगरीमुपेतः । रेमे चिरं भवदनुग्रहपूर्णकामस् ताते गते च वनमादृतराज्यभारः ॥ १७-९॥ यक्षेण देव निहते पुनरुत्तमेऽस्मिन् यक्षैः स युद्धनिरतो विरतो मनूक्त्या । शान्त्या प्रसन्नहृदयाद्धनदादुपेतात् त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ १७-१०॥ अन्ते भवत्पुरुषनीतविमानयातो मात्रा समं ध्रुवपदे मुदितोऽयमास्ते । एवं स्वभृत्यजनपालनलोलधीस्त्वं वातालयाधिप निरुन्धि ममामयौघान् ॥ १७-११॥
18 The Story Of Prithu जातस्य ध्रुवकुल एव तुङ्गकीर्ते- रङ्गस्य व्यजनि सुतः स वेननामा । तद्दोषव्यथितमतिः स राजवर्य- स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ १८-१॥ पापोऽपि क्षितितलपालनाय वेनः पौराद्यैरुपनिहितः कठोरवीर्यः । सर्वेभ्यो निजबलमेव संप्रशंसन् भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ १८-२॥ सम्प्राप्ते हितकथनाय तापसौधे मत्तोऽन्यो भवनपतिर्न कश्चनेति । त्वन्निन्दावचनपरो मुनीश्वरैस्तैः शापाग्नौ शलभदशामनायि वेनः ॥ १८-३॥ तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै- स्तन्मात्रा चिरपरिरक्षिते तदङ्गे । त्यक्ताघे परिमथितादथोरुदण्डात् दोर्दण्डे परिमथिते त्वमाविरासीः ॥ १८-४॥ विख्यातः पृथुरिति तापसोपदिष्टैः सूताद्यैः परिणुतभाविभूरिवीर्यः । वेनार्त्या कबलितसम्पदं धरित्रीं- आक्रान्तां निजधनुषा समामकार्षीः ॥ १८-५॥ भूयस्तां निजकुलमुख्यवत्सयुक्तैर् देवाद्यैः समुचितचारुभाजनेषु । अन्नादीन्यभिलषितानि यानि तानि स्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ १८-६॥ आत्मानं यहति मखैस्त्वयि त्रिधाम- न्नारब्धे शततमवाजिमेधयागे । स्पर्धालुः शतमख एत्य नीचवेषो हृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥ १८-७॥ देवेन्द्रं मुहुरिति वाजिनं हरन्तं वह्नौ तं मुनवरमण्डले जुहूषौ । रुन्धाने कमलभवे क्रतोः समाप्तौ साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ १८-८॥ तद्दत्तं वरमुपलभ्य भक्तिमेकां गङ्गान्ते विहितपदः कदापि देव । सत्रस्थं मुनिनिवहं हितानि शंस- न्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ १८-९॥ विज्ञानं सनकमुखोदितं दधानः स्वात्मानं स्वयमगमो वनान्तसेवी । तत्तादृक्पृथुवपुरीश सत्वरं मे रोगौघं प्रशमय वातगेहवासिन् ॥ १८-१०॥
19 The Story Of Pracetas पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतदॄतौ । प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरानिव ॥ १९-१॥ पितुः सिसृक्षानिरतस्य शासनाद्भवत्तपस्याभिरता दशापि ते । पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥ १९-२॥ तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः । प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तवस्तवम् ॥ १९-३॥ स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः । भवत्सुखास्वादरसादमीष्वियान्बभूव कलो ध्रुववन्न शीघ्रता ॥ १९-४॥ तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः । पिताऽपि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥ १९-५॥ कृपाबलेनैव पुरः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः । विराजि चक्रादिवरायुधांशुभिः भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥ १९-६॥ प्रचेतसां तावदयाचतामपिः त्वमेव कारुण्यभराद्वारानदाः । भवद्विचिन्ताऽपि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥ १९-७॥ अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥ १९-८ ततश्च ते भूतलरोधिनस्तरून्कृधा दहन्तो द्रुहिणेन वारिताः । द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥ १९-९ अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धयाधिया । अवापुरानन्दपदं तथाविधस्त्वमीश वातालयनाथ पाहिमाम् ॥ १९-१०॥
20 The Story Of Rishabhayogisvara प्रियव्रतस्य प्रियपुत्रभूतादाग्नीध्रराजादुदितो हि नाभिः । त्वां दृष्टवानिष्टदमिष्टमध्ये तवैव तुष्ट्यै कृतयज्ञकर्मा ॥ २०-१ अभिष्टुतस्तत्र मुनीश्वरैस्त्वं राज्ञा स्वतुल्यं सुतमर्थ्यमानः । स्वयं जनिष्येऽहमिति ब्रुवाणस्तिरोदधा बर्हिषि विश्वमूर्ते ॥ २०-२॥ नाभिप्रियायामथ मेरुदेव्यां त्वमंशतोऽभूरृषभाभिधानः । अलोकसामान्यगुणप्रभावप्रभाविताशेषजनप्रमोदः ॥ २०-३॥ त्वयि त्रिलोकीभृति राज्य्भारं निधाय नाभिः सह मेरुदेव्या । तपोवनं प्राप्य भवन्निषेवी गतः किलानन्दपदं पदं ते ॥ २०-४॥ इन्द्रस्त्वदुत्कर्षकृतादमर्षाद्ववर्ष नास्मिन्नजनाभवर्षे । यदा तदा त्वं निजयोगशक्त्या स्ववर्षमेनद्‍व्यदधाः सुवर्षम् ॥ २०-५॥ जितेन्द्रदत्तां कमनीं जयन्तीमथोद्वहन्नात्मरताशयोऽपि । अजीजनत्तत्र शतं तनूजान्येषां क्षितीशो भरतोऽग्रजन्मा ॥ २०-६॥ नवाभवन्योगिवरा नवान्ये त्वपालयन्भारतवर्षखण्डान् । सैका त्वशीतिस्तव शेषपुत्रास्तपोबलाद्भूसुरभूयमीयुः ॥ २०-७॥ उक्त्वा सुतेभ्योऽथ मुनीन्द्रमध्ये विरक्तिभक्त्यन्वितमुक्तिमार्गम् । स्वयं गतः पारमहंस्यवृत्तिमधा जडोन्मत्तपिशाचचर्याम् ॥ २०-८॥ परात्मभूतोऽपि परोपदेशं कुर्वन्भवन्सर्वनिरस्यमानः । विकारहीनो विचचार कृत्स्नां महीमहीनात्मरसाभिलीनः ॥ २०-९॥ शयुव्रतं गोमृगकाकचर्यां चिरं चरन्नाप्य परं स्वरूपम् । दवाहृताङ्गः कुटकाचले त्वं तापान्ममापाकुरु वातनाथ ॥ २०-१०॥
21 Mode Of Worship In Jambudvipa Etc मध्योद्भवओ भुव इलावृतनाम्नि वर्षे गौरीप्रधानवनिताजनमात्रभाजि । शर्वेण मन्त्रनुतिभिः सुमुपास्यमानं सङ्कर्षणात्मकमधीश्वर संश्रये त्वाम् ॥ २१-१॥ भद्राश्वनामक इलावृतपूर्ववर्षे भद्रश्रवोभिरृषिभिः परिणूयमानम् । कल्पान्तगूढनिगमोद्धरणप्रवीणं ध्यायामि देव हयशीर्षतनुं भवन्तम् ॥ २१-२॥ ध्यायामि दक्षिणगते हरिवर्षवर्षे प्राह्लादमुख्यपुरुषैः परिषेव्यमाणम् । उत्तुङ्गशान्तधवलाकृतिमेकशुद्ध- ज्ञानप्रदं नरहरिं भगवन् भवन्तम् ॥ २१-३॥ वर्षे प्रतीचि ललितात्मनि केतुमाले लीलाविशेषललितस्मितशोभनाङ्गम् । लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥ २१-४॥ रम्येह्युदीचि खलु रम्यकनाम्नि वर्षे तद्वर्षनाथमनुवर्यसपर्यमाणम् । भक्तैकवत्सलममत्सरहृत्सु भान्तं मत्स्याकृतिं भुवननाथ भजे भवन्तम् ॥ २१-५॥ वर्षं हिरण्मयसमाह्वयमौत्तराह- मासीनमद्रिधृतिकर्मठकामठाङ्गम् । संसेवते पितृगणप्रवरोऽर्यमायं तं त्वां भजामि भगवन् परचिन्मयात्मन् ॥ २१-६॥ किं चोत्तरेषु कुरुषु प्रियया धरण्या संसेवितो महितमन्त्रनुतिप्रभेदैः । दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा त्वं पाहि विज्ञनुतयज्ञवराहमूर्ते ॥ २१-७॥ याम्यां दिशं भजति किंपुरुषाख्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा । सीताभिरामपरमाद्भुतरूपशाली रामात्मकः परिलसन्परिपाहि विष्णो ॥ २१-८॥ श्रीनारदेन सह भारतखण्डमुख्यैस् त्वं सांख्ययोगनुतिभिः समुपास्यमानः । आकल्पकालमिह साधुजनाभिरक्षी नारायणो नरसखः परिपाहि भूमन् ॥ २१-९॥ प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपं द्वीये भजन्ति कुशनामनि वह्निरूपम् । क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाके त्वां ब्रह्मरूपमयि पुष्करनाम्नि लोकाः ॥ २१-१०॥ सर्वैर्ध्रुवीदिभिरुडुप्रकरैर्ग्रहैश्च पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः । त्वं शिंशुमारवपुषा महतामुपास्यः सन्ध्यासु रुन्धि नरकं मम सिन्धुशायैन् ॥ २१-११॥ पातालमूलभुवि शेषतनुं भवन्तं लोकैककुण्डलविराजिसहस्रशीर्षम् । नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्- जुष्टं भजे हर गदान्गुरुगेहनाथ ॥ २१-१२॥
22 The Story Of Ajamila अजामिलो नाम महीसुरः पुरा चरन्विभो धर्म पथान् गृहाश्रमी । गुरोर्गिरा काननमेत्य दृष्टवान्सुघृष्टशीलां कुलटां मदाकुलाम् ॥ २२-१ स्वतः प्रशान्तोऽपि तदाहृताशयः स्वधर्ममुत्सृज्य तया समारमन् । अधर्मकारी दशमी भवन्पुनर्दधौ भवन्नामयुते सुते रतिम् ॥ २२-२॥ स मृत्युकाले यमराजकिङ्करान् भयङ्करांस्त्रीनभिलक्षयन्भिया । पुरा मनाक्‍त्वत्स्मृतिवासनाबलाज्जुहाव नारायणनामकं सुतम् ॥ २२-३॥ दुराशयस्यापि तदात्वनिर्गतत्वदीयनामाक्षरमात्रवैभवात् । पुरोऽभिपेतुर्भवदीयपार्षदाश्चतुर्भुजाः पीतपटा मनोरमाः ॥ २२-४॥ अमुं च संपाश्य विकर्षतो भतान् विमुञ्चतेत्यारुरुधुर्बलादमी । निवारितास्ते च भवज्जनैस्तदा तदीयपापं निखिलं न्यवेदयन् ॥ २२-५॥ भवन्तु पापानि कथं तु निष्कृते कृतेऽपि भो दण्डनमस्ति पण्दिताः । न निष्कृतिः किईं विदिता भवादृशामिति प्रभो त्वत्पुरुषा बभाषिरे ॥ २२-६ श्रुतिस्मृतिभ्यां विहिता व्रतादयः पुनन्ति पापं न लुनन्ति वासनाम् । अनन्तसेवा तु निकृन्तति द्वयीमिति प्रभो त्वत्पुरुषा बभाषिरे ॥ २२-७॥ अनेन भो जन्मसहस्रकोटिभिः कृतेषु पापेष्वपि निष्कृतिः कृता । तदग्रहीन्नाम भयाकुलो हरेरिति प्रभो त्वत्पुरुषा बभाषिरे ॥ २२-८॥ नृणामबुद्ध्यापि मुकुन्दकीर्तनं दहत्यघौघान्महिमास्य तादृशः । यथाग्निरेधांसि यथौषधं गदानिति प्रभो त्वत्पुरुषा बभाषिरे ॥ २२-९ इतीरितैर्याम्यभटैरपासृते भवद्भटानां च गणे तिरोहिते । भवत्स्मृतिं कञ्चन कालमाचरन्भवत्पदं प्रापि भवद्भटैरसौ ॥ २२-१० स्वकिङ्गरावेदनशङ्कितो यमस्त्वदङ्घ्रिभक्तेषु न गम्यतामिति । स्वकीयभृत्यानशिशिक्षदुच्चकैः स देव वातालय पाहि माम् ॥ २२-११॥
23 The Stories Of DakSha, Chitraketu, Etc प्राचेतस्तु भगवन्नपरोऽपि दक्षस्- त्वत्सेवनं व्यधित सर्गविवृद्धिकामः । आविर्बभूविथ तदा लसदष्टबाहुस्- तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥ २३-१॥ तस्यात्मजास्त्वयुतमीश पुनः सहस्रं श्रीनारदस्य वचसा तव मार्गमापुः । नैकत्रवासमृषये स मुमोच शापं भक्तोत्तमस्त्वृषिरनुग्नहमेव मेने ॥ २३-२॥ षष्ट्या ततो दुहितृभिः सृजतः कुलौघान् दौहित्रसूनुरथ तस्य स विश्वरूपः । त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौ देव त्वदीयमहिमा खलु सर्वजैत्रः ॥ २३-३॥ प्राक्‍शूरसेनविषये किल चित्रकेतुः पुत्राग्रही नृपतिरङ्गिरसः प्रभावात् । लब्ध्वैकपुत्रमथ तत्र हते सपत्नी- संघैरमुह्यदवशस्तव माययासौ ॥ २३-४॥ तं नारदस्तु सममङ्गिरसा दयालुः सम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् । कस्यास्मि पुत्र इति तस्य गिरा विमोहं त्यक्‍त्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥ २३-५॥ स्तोत्रं च मन्‍त्रमपि नारदतोऽथ लब्ध्वा तोषाय शेषवपुषो ननु ते तपस्यन् । विद्याधराधिपतितां स हि सप्तरात्रे लब्ध्वाप्यकुण्ट्ःअमतिरन्वभजद्भवन्तम् ॥ २३-६॥ तस्मै मृणालधवलेन सहस्रशीर्ष्णा रूपेण बद्धनुतिसिद्धगणावृतेन । प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो दत्त्वात्मतत्वमनुगृह्य तिरोदधाथ ॥ २३-७॥ त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं वर्षाणि हर्षुलमना भुवनेषु कामम् । संगापयन्गुणगणं तव सुन्दरीभिः सङ्गातिरेकरहितो ललितं चचार ॥ २३-८॥ अत्यन्तसङ्गविलयाय भवत्प्रणुन्नो नूनं स रूप्यगिरिमाप्य महत्समाजे । निश्शङ्कमङ्ककृतवल्लभमङ्गजारिम् तं शङ्करं परिहसन्नुमयाभिशेपे ॥ २३-९॥ निस्सम्भ्रमस्त्वयमयाचितशापमोक्षो वृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी । भक्त्यात्मतत्त्वकथनैस्समरे विचित्रं शत्रोरपि भ्रममपास्य गतः पदं ते ॥ २३-१०॥ त्वत्सेवनेन दितिरिन्द्रवधोद्यताऽपि तान्प्रत्युतेन्द्रसुहृदो मरुतोऽभिलेभे । दुष्टाशयेऽपि शुभदैव भवन्निषेवा तत्तादृशस्त्वमव मां पवनालयेश ॥ २३-११॥
24 The Story Of Prahlada हिरण्याक्षे पोत्रीप्रवरवपुषा देव भवता हते शोकक्रोधग्लपितघृतिरेतस्य सहजः । हिरण्यप्रारम्भः कशिपुरमरारातिसदसि प्रतिज्ञामातेने तव किल वधार्थं मुररिपो ॥ २४-१॥ var मधुरिपो विधातारं घोरं स खलु तपसित्वा नचिरतः पुरः साक्षात्कुर्वन्सुरनरमृगाद्यैरनिधनम् । वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥ २४-२॥ निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपोर्- बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा । नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन् भिया यातं मत्वा स खलु जितकाशी निववृते ॥ २४-३॥ ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ मुनेर्वीणापाणेरधिगतभबद्भक्तिमहिमा । स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं गतस्त्वद्भक्तानां वरद परमोदाहरणताम् ॥ २४-४॥ सुरारीणां हास्यं तव चरणदास्यं निजसुते स दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् । गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि- त्यपाकुर्वन् सर्वं तव चरणभक्‍त्यैव ववृधे ॥ २४-५॥ अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः । गुरुभ्यो रोषित्वा सहजमतिरस्योत्यभिविदन् वधिपायानस्मिन् व्यतत्नुत भवत्पादशरणे ॥ २४-६॥ स शूलैराविद्धः सुबहु मथितो दिग्गजगणैर्- महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः । गिरीन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभो त्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥ २४-७॥ ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको गुरूक्त्या तद्गेह किल वरुणपाशैस्तमरुणत् । गुरोश्चासान्निध्ये स पुनरनुगान्दैत्यतनयान् भवद्भक्तेस्तत्त्वं परमपि विज्ञानमशिषत् ॥ २४-८॥ पिता षृण्वन्बालप्रकरमखिलं त्वत्स्तुतिपरं रुषान्धः प्राहैनं कुलहतक कस्ते बलमिति । बलं मे वैकुण्ठस्तव च जगतां चापि स बलं स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥ २४-९॥ अरे क्वासौ क्वासौ सकलजगदात्मा हरिरिति प्रभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः । अतः पश्चाद्विष्णो न हि वदितुमीशोऽस्मि सहसा कृपात्मन् विश्वात्मन् पवनपुरवासिन् मृडय माम् ॥ २४-१०॥
25 The Incarnation As Narasimha स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय- न्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद्रवः । श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं कम्पः कश्चन सम्पपात्चलितोऽप्यम्भोजभूर्विष्टरात् ॥ २५-१॥ दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतः सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो । किं किं भीषणमेतदद्भुतमिति व्युद्‍भ्रान्तचित्तेऽसुरे विस्फूर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥ २५-२॥ तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर- प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः । व्यात्तव्याप्तमहादरीसखमुखं खङ्गोग्रवद्गन्महा- जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥ २५-३॥ उत्सर्पद्वलिभङ्गभीषुणहनुं ह्रस्वस्थवीयस्तर- ग्रीवं पीवरदोश्शतोद्गतनखकॄरांशुदूरोद्बणम् । व्योमोल्लंघिघनाघनोपमघनप्रध्वाननिर्धावित- स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥ २५-४॥ नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् । वीरो निर्गलितोऽथ खड्गफलकौ गृह्णन्विचित्रश्रमान् व्यावृण्वन्पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ २५-५॥ भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद् द्वारेऽथोरुयुगे निपात्य नखरान्व्युत्न्खाय वक्षोभुवि । निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ २५-६॥ त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि । भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ २५-७॥ तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् । अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवः सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥ २५-८॥ भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः । शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायत- स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥ २५-९॥ एवं नाटितरौद्रचेष्टित विभो श्रीतापनीयाभिध- श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते । तत्तादृङ्‍निखिलोत्तरं पुनरहो कस्त्वां परो लंघयेत् प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात्पाहि माम् ॥ २५-१०॥
26 The Liberation Of Gajendra 26 इन्द्रद्युम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् । त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ २६-१॥ कुम्भोद्भूतिस्संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति । शप्‍त्वाथैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥ २६-२ दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रोडञ्छैले यूथपोऽयं वशाभिः । सर्वान्जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥ २६-३ स्वेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन् कदाचित् । शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥ २६-४ हूहूस्तावद्देवलस्यापि शापत् ग्राहीभूतस्तज्जले वर्तमानः । जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥ २६-५ त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् । प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वम् ॥ २६-६ आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः पुण्डरीकैस्समर्चन् । पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्दगादीत्परात्मन् ॥ २६-७ श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते । सर्वात्मा त्वं भूरिकारुण्यवेगात् तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥ २६-८ हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः । गन्धर्वेऽस्मिन्मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ २६-९॥ एतद्‍वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् । इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश ॥ २६-१०
27 The Churning Of The Milk Ocean दुर्वासास्सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूयः । नागेन्द्रप्रतिमृदिते शशाय शक्रं का क्षान्तिस्त्वदितरदेवतांशजानाम् ॥ २७-१ शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु । शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव समं भवन्तमापुः ॥ २७-२ ब्रह्माद्यैः स्तुतमहिमा चिरं तदानीं प्रादुष्षन्वरद पुरः परेण धाम्ना । हे देवा दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वम् ॥ २७-३॥ सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिम् । भ्रष्टेऽस्मिन्बदरमिवोद्वहन्खगेन्द्रे सद्यस्त्वं विनिहितवान् पयःपयोधौ ॥ २७-४ आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले । प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात्त्वं भुजगमुखेऽकरोः सुरारीन् ॥ २७-५ क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने । देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥ २७-६ वज्रातिस्थिरतरकर्परेण विष्णो विस्तारात्परिगतलक्षयोजनेन । अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥ २७-७ उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे । आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥ २७-८॥ उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् । अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ॥ २७-९॥ दैत्यौधे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते । कारुण्यात्तव किल देव वारिवाहाः प्रावर्षन्नमरगणान्न दैत्यसंघान् ॥ २७-१०॥ उद्‍भ्राम्यद्बहुतिमिनक्रचक्रवाले तत्राब्धौ चिरमथितेऽपि निर्विकारे । एकस्त्वं करयुगकृष्टसर्पराजः संराजन् पवनपुरेश पाहि रोगात् ॥ २७-११॥
28 The Churning Of The Ocean (contd) गरलं तरलानलं पुरस्ताज्जलधेरुद्विजगाल कालकूटम् । अमरस्तुतिवादमोदनिघ्नो गिरिशस्तन्निपपौ भवत्प्रियार्थम् ॥ २८-१॥ विमथत्सु सुरासुरेषु जाता सुरभिस्तामृषिषु न्यधास्त्रिधामन् । हयरत्नमभूदथेभरत्नं द्यूतरुश्चाप्सरसः सुरेषु तानि ॥ २८-२॥ जगदीश भवत्परा तदानीं कमनीया कमला बभूव देवी । अमलामवलोक्य यां विलोकः सकलोऽपि स्पृहयाम्बभूव लोकः ॥ २८-३॥ त्वयि दत्तहृद्दे तदैव देव्यै त्रिदशेन्द्रो मणिपीठिकां व्यतारीत् । सकलोपहृताभिषेचनीयैरृषयस्तां श्रुतिगीर्भिरभ्यषिञ्चन् ॥ २८-४॥ अभिषेकजलानुपातिमुग्धत्वदपाङ्गैरवभूषिताङ्गवल्लीम् । मणिकुण्डलपीतचेलहारप्रमुखैस्ताममरादयोऽन्दभूषन् ॥ २८-५॥ वरणस्रजमात्तभृङ्गनादां दधती सा कुचकुम्भमन्दयाना । पदशिञ्जितमञ्जुनूपुरा त्वां कलितव्रीलविलासमाससाद ॥ २८-६॥ गिरिश द्रुहिणादिसर्वदेवान् गुणभाजोऽप्यविमुक्तदोषलेशान् । अवमृश्य सदैव सर्वरम्ये निहिता त्वय्यनयापि दिव्यमाला ॥ २८-७॥ उरसा तरसा ममानिथैनां भुवनानां जननीमनन्यभावाम् । त्वदुरोविलसत्तदीक्षणश्री परिवृष्ट्या परिपुष्टमास विश्वम् ॥ २८-८॥ अतिमोहनविभ्रमा तदानीं मदयन्ती खलु वारुणी निरागात् । तमसः पदवीमदास्त्वमेनामतिसम्माननया महासुरेभ्यः ॥ २८-९॥ तरुणाम्बुदसुन्दरस्तदा त्वं ननु धन्वन्तरिरुत्थितोऽम्बुराशेः । अमृतं कलशे वहन्कराभ्यामखिलार्तिं हर मारुतालयेश ॥ २८-१०॥
29 The Mohini Incarnation, Etc उद्गच्छतस्तव करादमृतं हरत्सु दैत्येषु तानशरणाननुनीय देवान् । सधस्तिरोदधिथ देव भवत्प्रभावाद् उद्यत्सयूथ्यकलहा दितिजा बभूवुः ॥ २९-१॥ श्यामां रुचापि वयसापि तनुं तदानीं प्राप्तोऽसि तुङ्गकुचमण्डलंभङ्गुरां त्वम् । पीयुषकुम्भकलहं परिमुच्य सर्वे तृष्णाकुलाः प्रतिययुस्त्वदुरोजकुम्भे ॥ २९-२॥ का त्वं मृगाक्षि विभजस्व सुधामिमामि- त्यारूढरागविवशानभियाचतोऽमून् । विश्वस्यते मयि कथं कुलटास्मि दैत्या इत्यालपन्नपि सुविश्वसितानतानीः ॥ २९-३॥ मोदात्सुधाकलशमेषु ददत्सु सा त्वं दुश्चेष्टितं मम सहध्वमिति ब्रुवाणा । पङ्क्तिप्रभेदविनिवेशितदेवदैत्या लीलाविलासगतिभिः समदाः सुधां ताम् ॥ २९-४॥ अस्मास्वियं प्रणयिनीत्युसुरेषु तेषु जोषं स्थितेष्वथ समाप्य सुधां सुरेषु । त्वं भक्तलोकवशगो निजरूपमेत्य स्वर्भानुमर्धपरिपीतसुधं व्यलावीः ॥ २९-५॥ त्वत्तः सुधाहरणयोग्यफलं परेषु दत्त्वा गते त्वयि सुरैः खलु ते व्यगृह्णन् । घोरेऽथ मूर्छति रणे बलिदैत्यमाया- व्यामोहिते सुरगणे त्वमिहाविरासीः ॥ २९-६॥ त्वं कालनेमिमथ मालिसुखाञ्जघन्थ शक्रो जघान बलिजम्भवलान् सपाकान् । शुष्कार्द्रदुष्करवधे नमुचौ च लूने फेनेन नारदगिरा न्यरुणो रणं त्वम् ॥ २९-७॥ योषावपुर्दनुजमोहनमाहितं ते श्रुत्वं विलोकनकुतूहलवान्महेशः । भूतैस्समं गिरिजया च गतः पदं ते स्तुत्वाब्रवीदभिमतं त्वमथो तिरोधाः ॥ २९-८॥ आरामसीमनि च कन्दुकघातलीला- लोलायमाननयनां कमनीं मनोज्ञाम् । त्वामेष वीक्ष्य विगलद्वसनां मनोभू- वेगादनङ्गरिपुरङ्ग समालिलिङ्ग ॥ २९-९॥ भूयोऽपि विद्रुतवतीमुपधाव्य देवो वीर्यप्रमोक्षविकसत्परमार्थबोधः । त्वन्मानितस्तव महत्वमुवाच देव्यै तत्तादृशस्त्वमव वातनिकेतनाथ ॥ २९-१०॥
30 The Vamana Incarnation शक्रेण संयति हतोऽपि बलिर्महात्मा शुक्रेण जीविततनुः क्रतुवर्धितोष्मा । विक्रान्तिमान् भयनिलीनसुरां त्रिलोकीं चक्रे वशे स तव चक्रमुखादभीतः ॥ ३०-१॥ पुत्रार्तिदर्शनवशाददितिर्विषण्णा तं काश्यपं निजपतिं शरणं प्रपन्ना । त्वत्पूजनं तदुदितं हि पयोव्रताख्यं सा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥ ३०-२॥ तस्यावधौ त्वयि निलीनमतेरमुष्याः श्यामश्चतुर्भुजवपुः स्वयमाविरासीः । नम्रां च तामिह भवत्तनयो भवेयं गोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥ ३०-३॥ त्वं काश्यपे तपसि सन्निदधत्तदानीं प्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा । प्रासूत च प्रकटवैष्णवदिव्यरूपं सा द्वादशीश्रवणपुण्यदिने भवन्तम् ॥ ३०-४॥ पुण्याश्रमं तमभिवर्षति पुष्पवर्षै- र्हर्षाकुले सुरकुले कृततूर्यघोषे । बध्वाञ्जलिं जय जयेति तनुः पितृभ्यां त्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥ ३०-५॥ तावत्प्रजापतिमुखैरुपनीय मौञ्जी- दण्डाजिनाक्षवलयादिभिरर्च्यमानः । देदीप्यमानवपुरीश कृताग्निकार्य स्त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥ ३०-६॥ गात्रेण भाविमहिमोचितगौरवं प्राग् व्यावृण्वतेव धरणीं चलयन्नयासीः । छत्रं परोष्मतिरणार्थमिवादधानो दण्डं च दानवजनेष्विवं सन्निधातुम् ॥ ३०-७॥ तां नर्मदित्तरतटे हयमेधशाला- मासेदुषि त्वयि रुचा तव रुद्धनेत्रैः । भास्वान्किमेष दहनो नु सनत्कुमारो योगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥ ३०-८॥ आनीतमाशु भृगुभिर्महसाभिभूतै स्त्वां रम्यरूपमसुरः पुलकावृताङ्गः । भक्त्या समेत्य सुकृती परिषिच्य पादौ तत्तोयमन्वधृत मूर्धति तीर्थतीर्थम् ॥ ३०-९॥ प्रह्लादवंशजतया क्रतुभिर्द्विजेषु विश्वासतो नु तदिदं दितिजोऽपि लेभे । यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यं स त्वं विभो गुरुपुरालय पालयेथाः ॥ ३०-१०॥
31 The Humbling Of Bali प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणीत्सर्वथाऽपि त्वामाराध्यन्नजित रचयन्नञ्जलिं सञ्जगाद । मत्तः किं ते समभिलषितं विप्रसूनो वद त्वं वित्तं भक्तं भवनमवनीं वापि सर्वं प्रदास्ये ॥ ३१-१॥ तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णोऽ- प्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् । भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥ ३१-२॥ विश्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं सर्वां भूमिं वृणु किममुनेत्यालपत्त्वां स दृप्यन् । यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान् बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥ ३१-३॥ पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये- दित्युक्तेऽस्मिन्वरद भवते दातुकामेऽथ तोयम् । दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं मा मा देयं हरिरयमिति व्यक्तमेवाबभाषे ॥ ३१-४॥ याचत्येवं यदि स भगवान्पूर्णकामोऽस्मि सोऽहं दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः । विन्ध्यावल्या निजदयितया दत्तपाद्याय तुभ्यं चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥ ३१-५॥ निस्सन्देहं दितिकुलपतौ त्वय्यशेषार्पणं तद् व्यातन्वाने मुमुचुरृषयः सामराः पुष्पवर्षम् । दिव्यं रूपं तव च तदिदं पश्यतां विश्वभाजा- मुच्चैरुच्चैरवृधदवधीकृत्य विश्वाण्डभाण्डम् ॥ ३१-६॥ त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्वलोकान् । हर्षोत्कर्षात् सुबहु खेचरैरुत्सवेऽस्मिन् भेरीं निघ्नन्-भुवनमचरज्जाम्बवान् भक्तिशाली ॥ ३१-७॥ तावद्दैत्यास्त्वनुमतिमृते भर्तुरारब्धयुद्धा देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् । कालात्मायं वसति पुरतो यद्वशात्प्राग्जिताः स्मः किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥ ३१-८॥ पाशैर्बद्धं पतगपतिना दैत्यमुच्चैरवादी- स्तार्त्तीयीकं दिश मम पदं किं न विश्वेश्वरोऽसि । पादं मूर्ध्नि प्रणय भगवन्नित्यकम्पं वदन्तं प्रह्लादस्तं स्वयमुपगतो मानयन्नस्तवीत्त्वाम् ॥ ३१-९॥ दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यै- र्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्चात् । मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं विप्रैस्सन्तानितमखवरः पाहि वातालयेश ॥ ३१-१०॥
32 Matsya Avatar पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे । निद्रोन्मुखब्रह्ममुखात् दृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ ३२-१॥ सत्यव्रतस्य द्रमिडाधिभर्तुर्नदीजले तर्पयतस्तदानीम् । कराञ्जलौ सञ्ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥ ३२-२॥ क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रेण मुनिः स्वगेहम् । स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम् ॥ ३२-३॥ योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् । पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्वेति वदन्नयासीः ॥ ३२-४॥ प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः । सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥ ३२-५॥ धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते । तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥ ३२-६॥ झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् । निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गषृङ्गे तरणिं बबन्धुः ॥ ३२-७॥ आकृष्टनौको मुनिमण्डलाय प्रदर्शयन्विश्वजगद्विभागान् । संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥ ३२-८॥ कल्पावधौ सप्त मुनीन्पुरोवत्प्रस्ताप्य सत्यव्रतभूमिपं तम् । वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥ ३२-९॥ स्वतुङ्गषृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान्गृहीत्वा । विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते प्रपायाः ॥ ३२-१०॥
33 The Story Of Ambarisha वैवस्वताख्यमनुपुत्रनभागजात- नाभागनामकनरेन्द्रसुतोऽम्बरीषुः । सप्तार्णवावृतमहीदयितोऽपि रेमे त्वत्सङ्गिषु त्वयि च मग्नमनास्सदैव ॥ ३३-१॥ त्वत्प्रीतयेसकलमेव वितन्वतोऽस्य भक्त्यैव देव नचिरादभृथाः प्रसादम् । येनास्य याचनमृतेऽप्यभिरक्षणार्थं चक्रं भवान्प्रविततार सहस्रधारम् ॥ ३३-२॥ स द्वादशीव्रतमथो भवदर्चनार्थं वर्षं दधौ मधुवने यमुनोपकण्ठे । पत्न्या समं सुमनसा महतीं वितन्वन् पूजां द्विजेषु विसृजन्पशुषष्टिकोटिम् ॥ ३३-३॥ तत्राथ पारणदिने भवदर्चनान्ते दुर्वाससाऽस्य मुनिना भवनं प्रपेदे । भोक्तुं वृतश्च स नृपेण परार्तिशीलो मन्दं जगाम यमुनां नियमान्विधास्यन् ॥ ३३-४॥ राज्ञाथ पारणमुह्ङ्र्तसमाप्तिखेदा- द्वारैव पारणमकारि भवत्परेण । प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन् क्षिप्यन् कृधोद्धृतजटो विततान कृत्याम् ॥ ३३-५॥ कृत्यां च तामसिधरां भुवनं दहन्ती- मग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे । त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं ते कृत्यानलं शलभयन्मुनिमन्वधावीत् ॥ ३३-६॥ धावन्नशेषभुवनेषु भिया स पश्यन् विश्वत्र चक्रमपि ते गतवान्विरिञ्चम् । कः कालचक्रमतिलङ्घयतीत्यपास्तः शर्वं ययौ स च भवन्तमवन्दतैव ॥ ३३-७॥ भूयो भवन्निलयमेत्य मुनिं नमन्तं प्रोचे भवानहमृषे ननु भक्तदासः । ज्ञानं तपश्च विनयान्वितमेव मान्यं याह्यम्बरीषपदमेव भजेति भूमन् ॥ ३३-८॥ तावत्समेत्य मुनिना स गृहीतपादो राजाऽपसृत्य भवदस्त्रमसावनौषीत् । चक्रे गते मुनिरदादखिलाशिषोऽस्मै त्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥ ३३-९॥ राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान् सम्भोज्य साधु तमृषिं विसृजन्प्रसन्नम् । भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत् सायुज्यमाप च स मां पवनेश पायाः ॥ ३३-१०॥
34 Sri Rama Avatar गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेऽष्वृश्यषृङ्गे पुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् । तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातो रामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥ ३४-१॥ कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातो यातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः । नॄणां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वा लब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव सिद्धाश्रमाख्यम् ॥ ३४-२॥ मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन् कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् । भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वा राज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ॥ ३४-३॥ आरुन्धाने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजो याते यातोऽस्ययोध्यां सुखमिह निवसन्कान्तया कान्तमूर्ते । शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासं तातारब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥ ३४-४॥ तातोक्त्या यातुकामो वनमनुजवधूसंयुतश्चापधारः पौरानारूध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी । नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारा- न्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥ ३४-५॥ श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्गयातं स्वतातं तप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च । अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायं हत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः शारभङ्गीम् ॥ ३४-६॥ नत्वाऽगस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यः प्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे । ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं दीक्ष्य जटायुं मोदाद्गोदातटान्ते परिरमसि पुरा पञ्चवट्यां वधूट्या ॥ ३४-७॥ प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मा तां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लुननासाम् । दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दुषणं च त्रिमूर्धं व्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥ ३४-८॥ सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमाया- सारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् । तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत् तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायायलाभात् ॥ ३४-९॥ भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेने- त्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् । गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वं सम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश ॥ ३४-१०॥
35 Sri Rama Avatar (contd) नीतस्सुग्रीवमैत्रीं तदनु दुन्दुभेः कायमुच्चैः क्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत्पत्रिणा सप्त सालान् । हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्या वर्षावेलामनैषीर्विरहतरलितस्त्वं मतङ्गाश्रमान्ते ॥ ३५-१॥ सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता- मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् । सन्देशं चान्गुलीयं पवनसुतकरे प्रादिशो मोदशाली मार्गे मार्गे ममार्गे कपिभिरपि तदी त्वत्प्रिया सप्रयासैः ॥ ३५-२॥ त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्य- प्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाऽङ्गुलीयम् । प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यं दृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान्मौलिरत्नं ददौ ते ॥ ३५-३॥ त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमी- चक्रोऽभिक्रम्य पारेजलधि निशिचरेन्द्रानुजाश्रीयमाणः । तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन्प्रार्थनापार्थ्यरोष- प्रास्ताग्नेयास्त्रतेजस्त्रसदुदधिगिरा लब्धवान्मध्यमार्गम् ॥ ३५-४॥ कीशैराशान्तरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः । व्याकुर्वन्सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥ ३५-५॥ सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल- घ्राणात्प्रणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् । मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णं सम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥ ३४-६॥ गृह्णन् जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन् ब्रह्मास्त्रेणास्य भिन्दन् गलततिमबलामग्निशुद्धां प्रगृह्णन् । देव श्रेणीवरोज्जीवितसमरमृतैरक्षतैरृक्षसङ्घैर्- लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥ ३५-७॥ प्रीतो दिव्याभिषेकैरयुतसमधिकान्वत्सरान्पर्यरंसी- र्मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः । शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥ ३५-८॥ वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे सीतां त्वय्याप्तुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः । हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः साकं नाकं प्रयातो निजपदमगमो देव वैकुण्ठमाद्यम् ॥ ३५-९॥ सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं विश्लेषार्तिर्निरागस्त्यजनमपि भवेत्कामधर्मातिसक्त्या । नो चेत्स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणे स त्वं सत्त्वैकमूर्ते पवनपुरपते व्याधुनु व्याधितापान् ॥ ३५-१०॥
36 Parasurama Avatar अत्रेः पुत्रतया पुरा त्वमनसूयायां हि दत्ताभिधो जातः शिष्यानिषन्धतन्द्रितमनाः स्वस्थश्चरन्कान्तया । दृष्टो भक्ततमेन हेहयमहीपालेन तस्मै वरा- नष्टैश्वर्यमुखान्प्रदाय ददिथ स्वेनैव चान्ते वधम् ॥ ३६-१॥ सत्यं कर्तुमथार्जुनस्य च वरं तच्छक्तिमात्रानतं ब्रह्मद्वेषि तदाखिलं नृपकुलं हन्तुं च भूमेर्भरम् । सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायां हरे रामो नाम तदात्मजेष्ववरजः पित्रोरधाः सम्मदम् ॥ ३६-२॥ लब्धाम्नायगणश्चतुर्दशवयाः गन्धर्वराजे मना- गासक्तां किल मातरं प्रति पितुः क्रोधाकुलस्याज्ञया । ताताज्ञातिगसोदरैः सममिमां छित्वाथ शान्तात्पितु- स्तेषां जीवनयोगमापिथ वरं माता च तेऽदाद्वरन् ॥ ३६-३॥ पित्रा मातृमुदे स्तवाहृतवियद्धेनोर्निजादाश्रमात् प्रस्थायाथ भृगोर्गिरा हिमगिरावाराध्य गौरीपतिम् । लब्ध्वा तत्परशुं तदुक्तदनुजच्छेदी महास्त्रादिकं प्राप्तो मित्रमथाकृतवृअणमुनिं प्राप्यागमः स्वाश्रमम् ॥ ३६-४॥ आखेटेपगतोऽर्जुनः सुरगवीसम्प्राप्तसम्पद्गणै- स्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः । गां क्रेतुं सचिवं न्ययुङ्क्त कुधिया तेनापि रुन्धन्मुनि- प्राणक्षेपसरोषगोहतचमूचक्रेण वत्सो हृतः ॥ ३६-५॥ शुक्रोज्जीविततातवाक्यचलितक्रोधोऽथ सख्या समं बिभ्रुद्ध्यातमहोदरोपनिहितं चापं कुठारं शरन् । आरूढः सहवाहयन्तृकरथं माहिष्मतीमाविशन् वाग्भिर्वत्समदाशुषि क्षितिपतौ सम्प्रास्तुथाः सङ्गरम् ॥ ३६-६॥ पुत्राणामयुतेनसप्तदशभिश्चाक्षौहिणीभिर्महा- सेनानीभिरनेकमित्रनिवहिर्व्याजृम्भितीयोधनः । सद्यस्त्वत्ककुठारबाणविदलन्निश्शेषसैन्योत्करो भीतिप्रद्रुतनष्टशिष्टनयस्त्वामापतद्धेहयः ॥ ३६-७॥ लीलावारितनर्मदाजलवलल्लङ्केशगर्वापह- श्रीमद्बाहुसहस्रमुक्तबहुशस्त्रास्त्रं निरुन्धन्नमुम् । चक्रे त्वय्यथ वैष्णवेऽपि विकले बुध्वा हरिं त्वां मुदा ध्यायन्तं छितस्र्वदोषमवधीः सोऽगात्परं ते पदम् ॥ ३६-८॥ भूयोऽमर्षितहेहयात्मजगणैस्ताते हते रेणुका- माघ्नानां हृदयं निरीक्ष्य बहुशो घोरां प्रतिज्ञां वहन् । ध्यानानीतरथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान् दिक्‍चक्रेषु कुठारयन्विशिखयन् निःक्षात्रियां मेदिनीम् ॥ ३६-९॥ तातोज्जीवनकृन्‍नृपालककुलं त्रिःसप्तकृत्वो जयन् सन्तर्प्याथ समन्तपञ्चकमहारक्तहृदौधे पितॄन् । यज्ञे क्ष्मामपि काश्यपादिषु दिशन् साल्वेन युध्यन् पुनः कृष्णोऽमुं निहनिष्यतीति शमितो युद्धात् कुमारैर्भवान् ॥ ३६-१०॥ न्यस्यास्त्राणि महेन्द्रभूभृति तपस्तन्वन्पुनर्मज्जितां गोकर्णावधि सागरेण धरणीं दृष्ट्वार्थितस्तापसैः । ध्यातेष्वासघृतानलास्त्रचकितं सिन्धुं सृवक्षेपणा- दुत्सार्योद्धृतकेरलो भृगुपते वातेश संरक्ष माम् ॥ ३६-११॥
37 The Prelude To The Incarnation As Krishna सान्द्राननन्दतनो हरे ननु पुरा दैवासुरे सङ्गरे त्वत्कृत्ता अपि कर्मशेषवशतो ये ते न याता गतिम् । तेषां भूतलजन्मनां दितिभुवां भारेण दुरार्दिता भूमिः प्राप विरिञ्चमाश्रितपदं देवैः पुरैवागतैः ॥ ३७-१॥ हा हा दुर्जनभूरिभारमथितां पाथोनिधौ पातुकाम्- एतां पालय हन्त मे विवशतां संपृच्छ देवानिमान् । इत्यादिप्रचुरप्रलापविवशामालोक्य धाता महीं देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे ॥ ३७-२॥ ऊचे चाम्बुजभूरमूनयि सुराः सत्यं धरित्र्या वचो नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपतिः । सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं नत्वा तं स्तुमहे जवादिति युयः साकं तवा,अकेतनम् ॥ ३७-३॥ ते मुग्धानिलशालिदुग्धजलधेस्तीरं गताः सङ्गता यावत्त्वत्पदचिन्तनैकमनसस्तावत्स पाथोजभूः । त्वद्वाचं हृदये निशम्य सकलानानन्दयन्नचिवा- नाख्यातः परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥ ३७-४॥ जाने दीनदशामहं दिविषदां भूमेश्च भीमैर्नृपै- स्तत्क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना । देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चावनौ मत्सेवार्थमिति त्वदीयवचनं पाथोजभूरूचिवान् ॥ ३७-५॥ श्रुत्वा कर्णरसायनं तव वचः सर्वेषु निर्वापित- स्वान्तेष्वीश गतेषुइ तावककृपापीयूषतृप्तात्मसु । विख्याते मथुरापुरे किल भवत्सान्निध्यपुण्योत्तरे धन्यां देवकनन्दिनीमुदवहद्राजा स शूरात्मजः ॥ ३७-६॥ उद्वाहावसितौ तदीयसहजः कंसोऽथ सम्मानय- न्नेतौ सूततया गतः पथि रथे व्योमोत्थया त्वद्गिरा । अस्यास्त्वामतिदुष्टमष्टमसुतो हन्तेति हन्तेरितः सत्त्रासात्स तु हन्तुमन्तिकगतां तन्वीं कृपाणीमधात् ॥ ३७-७॥ गृह्णानश्चिकुरेषु तां खलमतिः शौरेश्चिरं सान्त्वनै- र्नो मुञ्चन्पुनरात्मजार्पणगिरा प्रीतोऽथ यातो गृहान् । आद्यं त्वत्सहजं तथार्पितमपि स्नेहेन नाहन्नसौ दुष्टानामपि देव पुष्टकरुणा दृष्टा हि धीरेकदा ॥ ३७-८॥ तावत्त्वन्मनसैव नारदमुनिः प्रोचे स भोजेश्वरं यूयं नन्वसुराः सुराश्च यदवो जानासि किं न प्रभो । मायावी स हरिर्भवद्वधकृते भावी सुरप्रार्थना- दित्याकर्ण्य यदूनदूधुनदसौ शौरेश्च सूनूनहन् ॥ ३७-९॥ प्राप्ते सप्तमगर्भतामहिपतौ त्वत्प्रेरणान्मायया नीते माधव रोहिणीं त्वमपि भोः सच्चित्सुखैकात्मकः । देवक्या जठरं विवेशिथ विभो संस्तूयमानस्सुरैः स त्वं कृष्ण विधूय रोगपटलीं भक्तिं परां देहि मे ॥ ३७-१०॥
38 The Birth Of Sri Krishna आनन्दरूप भगवन्नयि तेऽवतारे प्राप्ते प्रदीप्तभवदङ्ग निरीयमाणैः । कान्तिव्रजैरिव घनाघनमण्डलैर्द्या- मावृण्वती विरुरुचे किल वर्षवेला ॥ ३८-१॥ आशासु शीतलतरासु पयोदतोयै- राशासिताप्तिविवशेषु च सज्जनेषु । नैशाकरोदयविधौ निशि मध्यमायां क्लेशापहस्त्रिजगतां त्वमिहाऽविरासीः ॥ ३८-२॥ बाल्यसृशापि वपुषा दधुषा विभूती- रुद्यत्किरीटकटकाङ्गदहारभासा । शङ्खारिवारिजगदापरिभासितेन मेघासितेन परिलेसिथ सूतिगेहे ॥ ३८-३॥ वक्षःस्थलीसुखनिलानविलासिलक्ष्मी- मन्दाक्षलक्षितकटाक्षविमोक्षभेदैः । तन्मन्दिरस्य खलकंसकृतामलक्ष्मी- मुन्मार्जयन्निव विरेजिथ वासुदेव ॥ ३८-४॥ शौरिस्तु धीरमुनिमण्डलचेतसोऽपि दूरस्थितं वपुरुदीक्ष्य निजेक्षणाभ्याम् । आनन्दबष्पपुलकोद्गमगद्गदार्द्र- स्तुष्टाव दृष्टिमकरन्दरसं भवन्तम् ॥ ३८-५॥ देव प्रसीद परपूरुष तापवल्ली- निर्लूनदात्र समनेत्र कलाविलासिन् । खेदानपाकुरु कृपागुरुभिः कटाक्षैर्- इत्यादि तेन मुदितेन चिरं नुतोऽभूः ॥ ३८-६॥ मात्रा च नेत्रसलिलास्तृतगात्रवल्ल्या स्तोत्रैरभिष्टुतगुणः करुणालयस्त्वम् । प्राचीनजन्मयुगलं प्रतिबोध्य ताभ्यां मातुर्गिरा दधिथ मानुषबालवेषम् ॥ ३८-७॥ त्वत्प्रेरिस्ततदनु नन्दतनूजया ते व्यत्यासमारचयितुं स हि शूरसूनुः । त्वां हस्तयोरधृत चित्ताविधार्यमार्यै- रम्भोरुहस्थकलहंसकिशोररम्यम् ॥ ३८-८॥ जाता तदा पुशुपसद्मनि योगनिद्रा निद्राविमुद्रितमथाकृत पौरलोकम् । त्वत्प्रेरणात्किमिह चित्रमचेतनैर्यद् द्वारैः स्वयं व्यघटि सङ्गटितैस्सुगाढम् ॥ ३८-९॥ शेषेण भूरिफणवारितवारिणाऽथ स्वैरं प्रदर्शितपथो मणिदीपितेन । त्वां धारयन् स खलु धन्यतमः प्रतस्थे सोऽयं त्वमीश मम नाशय रोगवेगान् ॥ ३८-१०॥
39 Bringing Yogamaya From Gokulam Etc भवन्तमयमुद्वहन् यदुकुलोद्वहो निस्सरन् ददर्श गगनोच्चलज्जलभरां कलिन्दात्मजाम् । अहि सलिलसञ्चयः स पुनरैन्द्रजालोदितो जलौघ इव तत्क्षणात्प्रपदमेयतामाययौ ॥ ३९-१॥ प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका- मपावृतकवाटिकां पशुपवाटिकामाविशन् । भवन्तमयमर्पयन् प्रसवतल्पके तत्पदा- द्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥ ३९-२॥ ततस्त्वदनुजारवक्षपितनिद्रवेगद्रव- द्भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् । विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा- डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥ ३९-३॥ ध्रुवं कपटशालिनो मधुहरस्य माया भवे- दसाविति किशोरिकां भगिनिकाकरालिङ्गिताम् । द्विपो नलिनिकान्तरादिव मृणालिकामाक्षिप- न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥ ३९-४॥ ततो भवदुपासको झटिति मृत्युपाशादिव प्रमुच्य तरसैव सा समधिरूढरूपान्तरा । अधस्तलमजग्मुषी विकसदष्टबाहुस्फुरन्- महायुधमहो गता किल विहायसा दिद्युते ॥ ३९-५॥ नृशंसतर कंस ते किमु मया विनिष्पिष्टया बभूव भवदन्तकः क्वचन चिन्त्यतां ते हितम् । इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी मरुद्गणपणायिता भुवि च मन्दिराण्येयुषी ॥ ३९-६॥ प्रगे पुनरगात्मजावचनमीरिता भूभुजा प्रलम्बबकपूतनाप्रमुखदानवा मानिनः । भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥ ३९-७॥ ततः पशुपमन्दिरे त्वयि मुकुन्द नन्दप्रिया- प्रसूतिशयनेशये रुदति किञ्चिदञ्चत्पदे । विबुध्य वनिताजनैस्तनयसंभवे घोषिते मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥ ३९-८॥ अहो खलु यशोदया नवकलायचेतोहरं भवन्तमलमन्तिके प्रथममपिबन्त्या दृशा । पुनः स्तनभरं निजं सपदि पाययन्त्या मुदा मनोहरतनुस्पृशा जगति पुण्यवन्तो जिताः ॥ ३९-९॥ भवत्कुशलकाम्यया स खलु नन्दगोपस्तदा प्रमोदभरसङ्कुले द्विजकुलाय किं नाददात् । तथैव पशुपालकाः किमु न मङ्गलं तेनिरे जगत्रितयमङ्गल त्वमिह पाहि मामामयात् ॥ ३९-१०॥
40 The Salvation Of Putana तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् । समवलोक्य जगाद्भवत्पिता विदितकंससहायजनोद्यमः ॥ ४०-१॥ अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् । इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥ ४०-२॥ इह च सन्त्यनिमित्तशतानि ते कटकसीम्ने ततो लघु गम्यताम् । इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥ ४०-३॥ अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना । तरलषट्पदलालितकुन्तला कपटपोतक ते निकटं गता ॥ ४०-४॥ सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना । व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥ ४०-५॥ ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता । स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥ ४०-६॥ समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः । महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥ ४०-७॥ असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना । निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥ ४०-८॥ भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे । व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः ॥ ४०-९॥ भुवनमङ्कलनामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः । त्वमयि वातनिकेतननाथ मामगदयन् कुरु तावकसेवकम् ॥ ४०-१०॥
41 The Cremation Of Putana व्रजेश्वरः शौरिवचो निशम्य समाव्रजन्नध्वनि भीतचेताः । निष्पिष्टनिश्शेषतरुं निरीक्ष्य कञ्चित्पदार्थं शरणं गतस्त्वाम् ॥ ४१-१॥ निशम्य गोपीवचनादुदन्तं सर्वेऽपि गोपा भयविस्मयान्धाः । त्वत्पातितं घोरपिशाचदेहं देहुर्विदूरेऽथ कुठारकृत्तम् ॥ ४१-२॥ त्वत्पीतपूतस्तनतच्छरीरात्समुच्चलन्नुच्चतरो हि धूमः । शङ्कामधादागरवः किमेषु किं चान्दनो गौल्गुलवोऽथवेति ॥ ४१-३॥ मदङ्गसङ्गस्य फलं न दूरए क्षणेन तावद्भवतामपि स्यात् । इत्युल्लपन्वल्लवतल्लजेभ्यस्त्वं पूतनामातनुथास्सुगन्धिम् ॥ ४१-४॥ चित्रं पिशाच्या न हतः कुमारश्चित्रं पुरैवाकथि शौरिणेदम् । इति प्रशंसन्किल गोपलोको भवन्मुखालोकरसे न्यमाङ्क्षीत् ॥ ४१-५॥ दिने दिनेऽथ प्रतिवृद्धलक्ष्मीरक्षीणमङ्गल्यशतो व्रजोऽयम् । भवन्निवासादयि वासुदेव प्रमोदसान्द्रः परितो विरेजे ॥ ४१-६॥ गृहेषु ते कोमलरूपहासमिथः कथासङ्कुलिताः कमन्यः । वृत्तेषु कृत्येषु भवन्निरीक्षासमागताः प्रत्यहमत्यनन्दन् ॥ ४१-७॥ अहो कुमारो मयि दत्तदृष्टिः स्मितः कृतं मां प्रति वत्सकेन । एह्येहि मामित्युपसार्य पाणिं त्वयीश किं किं न कृतं वधूभिः ॥ ४१-८॥ भवद्वपुःस्पर्शनकौतुकेन करात्करं गोपवधूजनेन । नीतस्त्वमाताम्रसरोजमालाव्यालम्बिलोलम्बतुलामलासीः ॥ ४१-९॥ निपाययन्ती स्तनमङ्कगं त्वां विलोकयन्ती वदनं हसन्ती । दशां यशोदा कतमान्न्न भेजे स तादृशः पाहि हरे गदान्माम् ॥ ४१-१०॥
42 The Slaying Of Shakatasura कदापि जन्मर्क्षदिने तव प्रभो निमन्त्रितज्ञातिवधूमहीसुरा । महानसस्त्वां सविधे निधाय सा महानसादौ ववृते व्रजेश्वरी ॥ ४२-१॥ ततो भवत्त्राणनियुक्तबालकप्रभीतिसङ्क्रन्दनसङ्कुलारवैः । विमिश्रमश्रावि भवत्समीपतः परिस्फुटद्दारुचटच्चटारवः ॥ ४२-२॥ ततस्तदाकर्णनसंभ्रमश्रमप्रकम्पिवक्षोजभरा व्रजाङ्गनाः । भवन्तमन्तर्ददृशुः समन्ततो विनिष्पतद्दारुणदारुमध्यगम् ॥ ४२-३॥ शिशोरहो किं किमभूदिति द्रुतं प्रधाव्य नन्दः पशुपाश्च भूसुराः । भवन्तमालोक्य यशोदया धृतं समाश्वसन्नश्रुजलार्द्रलोचनाः ॥ ४२-४॥ कस्को नु कौतस्कुत एष विस्मयो विशङ्कटं यच्छकटं विपाटितम् । न कारणं किञ्चिदिहेति ते स्थिताः स्वनासिकादत्तकरास्त्वदीक्षकाः ॥ ४२-५॥ कुमारकस्यास्य पयोधरार्थिनः प्ररोदने लोलपदाम्बुजाहतम् । मया मया दृष्टमनो विपर्यगादितीश ते पालकबालका जगुः ॥ ४२-६॥ भिया तदा किञ्चिदजानतामिदं कुमारकाणामतिदुर्घटं वचः । भवत्प्रभावाविदुरैरितीरितं मनागिवाशङ्क्यत दृष्टपूतनैः ॥ ४२-७॥ प्रवालताम्रं किमिदं पदं क्षतं सरोजरम्यौ नु करौ विरोजितौ । इति प्रसर्पत्करुणातरङ्गितास्त्वदङ्गमापस्पृशुरङ्गनाजनाः ॥ ४२-८॥ अये सुतं देहि जगत्पतेः कृपातरङ्गपातात्परिपातमद्य मे । इति स्म सङ्गृह्य पिता त्वदङ्गुकं मुहुर्मुहुः श्लिष्यति जीतकण्टकः ॥ ४२-९॥ अनोनिलीनः किल हन्तुमागतः सुरारिरेवं भवता विहिंसितः । रजोऽपि नोदृष्टममुष्य तत्कथं स शुद्धसत्त्वे त्वयि लीनवान्धृवम् ॥ ४२-१० प्रपूजितैस्तत्र ततो द्विजातिभिर्विशेषतो लम्भितमङ्गलाशिषः । व्रजं निजैर्बाल्यरसैर्विमोहयन्मरुत्पुराधीश रुजां जहीहि मे ॥ ४२-११॥
43 The Slaying Of Trinavarta त्वमेकदा गुरुमरुत्पुरनाथ वोढुं गाढाधिरूढगरिमाणमपारयन्ती । माता नोधाय शयने किमिदं बतेति ध्यायन्त्यचेष्टत गृहेषु निविष्टशङ्का ॥ ४३-१॥ तावद्विदूरमुपकर्णितघोरघोष- व्याजृम्भिपांसुपटलीपरिपूरिताशः । वात्यावपुः स किल दैत्यवरस्तृणाव- र्ताख्यो जहार जनमानसहारिणं त्वाम् ॥ ४३-२॥ उद्दामपांसुतिमिराहतदृष्टिपाते द्रष्टुं किमप्यकुशले पशुपाललोके । हा बालक्स्य किमिति त्वदुपान्तमाप्ता माता भवन्तमविलोक्य भृशं रुरोद ॥ ४३-३॥ तावत्स दानववरोऽपि च दीनमूर्ति- र्भावत्कभारपरिधारणलूनवेगः । सङ्कोचमाप तदनु क्षतपांसुघोषे घोषे व्यतायत भवज्जननीनिनादः ॥ ४३-४॥ रोदोपकर्णनवशादुपगम्य गेहं क्रन्दत्सु नन्दमुखगोपकुलेषु दीनः । त्वां दानवस्त्वखिलमुक्तिकरं मुमुक्षु- स्त्वय्यप्रमुञ्चति पपात वियत्प्रदेशात् ॥ ४३-५॥ रोदाकुलास्तदनु गोपगणा बहिष्ठ- पाषाणपृष्ठभुवि देहमतिस्थविष्ठम् । प्रैक्षन्त हन्त निपन्तममुष्य वक्ष- स्यक्षीणमेव च भवन्तमलं हसन्तम् ॥ ४३-६॥ ग्रावप्रपातपरिपिष्टगरिष्ठदेह- भ्रष्टासुदुष्टदनुजोपरि धृष्टहासम् । आघ्नानमम्बुजकरेण भवन्तमेत्य गोपा दधुर्गिरिवरादिव नीलरत्नम् ॥ ४३-७॥ एकैकमाशु परिगृह्य निकामनन्द- न्नन्दादिगोपपरिरब्धविचुम्बताङ्गम् । आदातुकामपरिशङ्कितगोपनारी- हस्ताम्बुजप्रपतितं प्रणुमो भवन्तम् ॥ ४३-८॥ भूयोऽपि किन्नु कृणुमः प्रणतार्तिहारी गोविन्द एव परिपालयतात्सुतं नः । इत्यादि मातरपितृप्रमुखैस्तदानीं सम्प्रार्थितस्त्वदवनाय विभो त्वमेव ॥ ४३-९॥ वातात्मकं दनुजमेवमयि प्रधून्वन् वातोद्भवान्मम गदान्किमु नो धुनोषि । किं वा करोमि पुरनप्यनिलालयेश निश्शेषरोगशमनं मुहुरर्थये त्वाम् ॥ ४३-१०॥
44 The Naming Ceremony Etc गूढं वसुदेवगिरा कर्तुं ते निष्क्रियस्य संस्कारान् । हृद्गतहोरातत्‍वो गर्गमुनिस्त्वद्गृह्ं विभो गतवान् ॥ ४४-१॥ नन्दोऽथ नन्दितात्मा वृन्दिष्टं मानयन्नमुं यमिनाम् । मन्दस्मितार्द्रमूचे त्वत्संस्कारान् विधातुमुत्सुकधीः ॥ ४४-२॥ यदुवंशाचार्यत्वात् सुनिभृतमिदमार्य कार्यमिति कथयन् । गर्गो निर्गतपुलकश्चक्रे तव साग्रजस्य नामानि ॥ ४४-३॥ कथमस्य नाम कुर्वे सहस्रनाम्नो ह्यनन्तनाम्नो वा । इति नूनं गर्गमुनिश्चक्रे तव नाम नाम रहसि विभो ॥ ४४-४॥ कृषिधातुणकाराभ्यां सत्तानन्दात्मतां किलाभिलपत् । जगदघकर्षित्वं वा कथयदृषिः कृष्णनाम ते व्यतनोत् ॥ ४४-५॥ अन्यांश्च नामभेदान् व्याकुर्वन्नग्रजे च रामादीन् । अतिमानुषानुभावं न्यगदत्त्वामप्रकाशयन्पित्रे ॥ ४४-६॥ स्निह्यति यत्सव पुत्रे मुह्यति स न मायिकैः पुनश्शोकैः । दृह्यति यस्स तु नश्येदित्यवदत्ते महत्त्वमृषिवर्यः ॥ ४४-७॥ जेष्यति बहुतरदैत्यान् नेष्यति निजबन्धुलोकममलपदम् । श्रोष्यति सुविमलकीर्तीरस्येति भवद्विभूतिमृषिरूचे ॥ ४४-८॥ अमुनैव सर्वदुर्गं तरितास्थ कृतास्थमत्र तिष्ठध्वम् । हरिरेवेत्यनभिलपन्नित्यादि त्वामवर्णयत् स मुनिः ॥ ४४-९॥ गर्गेऽथ निर्गतेऽस्मिन् नन्दितनन्दादिनन्द्यमानस्त्वम् । मद्गदमुद्गतकरुणो निर्गमय श्रीमरुत्पुराधीश ॥ ४४-१०॥
45 Krishna's Childhood Pranks अयि सबल मुरारे पाणिजानुप्रचारैः किमपि भवनभागान् भूषयन्तौ भवन्तौ । चलितचरणकञ्जौ मञ्जुमञ्जीरशिञ्जा- श्रवणकुतुकभाजौ चेरतुश्चारु वेगात् ॥ ४५-१॥ मृदु मृदु विहसन्तावुन्मिषद्दन्तवन्तौ वदनपतितकेशौ दृश्यपादाब्‍जदेशौ । भुजगलितकरान्तव्यालगत्कङ्कणाङ्कौ मतिमहरतमुच्चैः पश्यतां विश्वनॄणाम् ॥ ४५-२॥ अनुसरति जनौघे कौतुकव्याकुलाक्षे किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ । बलितवदनपद्मं पृष्ठतो दत्तदृष्टी किमिव न विदधाथे कौतुकं वासुदेव ॥ ४५-३॥ दृतगतिषु पतन्तावुत्थितौ लिप्तपङ्कौ दिवि मुनिभिरपङ्कैः सस्मितं वन्द्यमानौ । द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च ॥ ४५-४॥ स्‍नुतकुचभरमङ्के धारयन्ती भवन्तं तरलमति यशोदा स्तन्यदा धन्यधन्या । कपटपशुप मध्ये मुग्धहासाङ्कुरं ते दशनमुकुलहृद्यं वीक्ष्यं वक्‍त्रं जहर्ष ॥ ४५-५॥ तदनु चरणचारी दारकैः साकमारा- न्निलयततिषु खेलन् बालचापल्यशाली । भवनशुकबिडालान् वत्सकांश्चानुधावन् कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥ ४५-६॥ हलधरसहितस्त्वं यत्र यत्रोपयातो विवशपतितनेत्रास्तत्र तत्रैव गोप्यः । विगलितगृहकृत्या विस्मृतापत्यभृत्या मुरहर मुहुरत्यन्ताकुला नित्यमासन् ॥ ४५-७॥ प्रतिनवनवनीतं गोपिकादत्तमिच्छन् कलपदमुपगायन् कोमलं क्वापि नृत्यन् । सदययुवतिलोकैरर्पितं सर्पिरश्नन् क्वचन नवविपक्वं दुग्धमत्यापिबस्त्वम् ॥ ४५-८॥ मम खलु बलिगेहे याचनं जातमास्ता- मिह पुनरबलानामग्रतो नैव कुर्वे । इति विहितमतिः किं देव सन्त्यज्य याच्ञां दधिघृतमहरस्त्वं चारुणा चोरणेन ॥ ४५-९॥ तव दधिघृतमोषे घोषयोषाजनाना- मभजत हृदि रोषो नावकाशं न शोकः । हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं स मम शमय रोगान्वातगेहाधिनाथ ॥ ४५-१०॥
46 Revelation Of The Cosmic Form अयि देव पुरा किल त्वयि स्वयमुत्तानशये स्तनन्धये । परिजृम्भणतो व्यपावृते वदने विश्वमचष्ट वल्लवी ॥ ४६-१॥ पुनरप्यथ बालकैः समं त्वयि लीलानिरते जगत्पते । फलसञ्चयवञ्चनकृधा तव मृद्भोजनमूचुरर्भकाः ॥ ४६-२॥ अयि ते प्रलयावधौ विभो क्षितितोयादिसमस्तभक्षिणः । मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥ ४६-३॥ अयि दुर्विनयात्मक त्वया किमु मृत्सा बत वत्स भक्षिता । इति मातृगिरं चिरं विभो वितथां त्वं प्रतिजज्ञिषे हसन् ॥ ४६-४॥ अयि ते सकलैर्विनिश्चिते विमतिश्चेद्वदनं विदार्यताम् । इति मातृविभर्त्सितो मुखं विकसत्पद्मनिभं व्यदारयः ॥ ४६-५॥ अपि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव । पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ ४६-६॥ कुहचिद्वनमम्बुधिः क्वचित् क्वचिदभ्रं कुहचिद्रसातलम् । मनुजा दनुजाः क्वचित्सुरा ददृशे किं न तदा त्वदानने ॥ ४६-७॥ कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् । स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥ ४६-८॥ विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः । अनया स्फुटमीक्षितो भवाननवस्थां जगतां बतातनोत् ॥ ४६-९॥ धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् । स्तनमम्ब दिशेत्युपासजन् भगवन्नद्भुतबाल पाहि माम् ॥ ४६-१०॥
47 Tying Krishna To The Mortar एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् । स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान्पयोधरौ ॥ ४७-१॥ अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे । दुग्धमीश दहने परिस्नुतं धर्तुमाशु जननी जगाम ते ॥ ४७-२॥ सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा । मन्थदण्डमुपगृह्य पाटितं हन्त देव दधिभाजनं त्वया ॥ ४७-३॥ उच्चल ध्वनितमुच्चकैस्तदा सन्निशम्य जननी समादृता । त्वद्यशोविसरवद्ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥ ४६-४॥ वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ । सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥ ४६-५॥ त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा । रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ ४७-६॥ बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमयि बन्धुमिच्छति । सा नियुज्य रशनागुणान्बहून् द्वयङ्गुलोनमखिलं किलैक्षत ॥ ४७-७॥ विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् । नित्यमुक्तवपुरप्यहो हरे बन्धमेव कृपयान्वमन्यथाः ॥ ४७-८॥ स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा । प्रागुलूखलबिलान्तरे तदा सर्पिरर्पितमदन्नवास्थिताः ॥ ४७-९॥ यद्यपाशसुगमो भवान्विभो संयतः किमु सपाशयानया । एवमादि दिविजैरभिष्टुतो वातनाथ परिपाहि मां गदात् ॥ ४७-१०॥
48 The Redemption Of Nalakubara And Manigriva मुदा सुरौधैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुतः । मृदूदरः स्वैरमुलूखले लगन्नदूरतो द्वौ ककुभावुदैक्षथाः ॥ ४८-१॥ कुबेरसूनुर्नलकूबराभिधः परो मणिग्रीव इति प्रथां गतः । महेशसेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलताम् ॥ ४८-२॥ सुरापगायां किल तौ मदोत्कटौ सुरापगायद्बहुयौवतावृतौ । विवाससौ केलिपरौ स नारदो भवत्पदैकप्रवणो निरैक्षत ॥ ४८-३॥ भिया प्रियालोकमुपात्तवाससं पुरो निरीक्ष्यापि मदान्धचेतसौ । इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृते कुतस्सुखम् ॥ ४८-४॥ युवामवाप्तौ ककुभात्मतां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुतम् । इतीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवतुः ॥ ४८-५॥ अतन्द्रमिन्द्रदृयुगं तथाविधं समेयुषा मन्थरगामिना त्वया । तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥ ४८-६॥ अभाजि शाखिद्वितयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा । महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द भवानपि स्तवैः ॥ ४८-७॥ इहान्यभक्तोऽपि समेष्यति क्रमाद्भवन्तमेतौ खलु रुद्रसेवकौ । मुनिप्रसादाद्भवदङ्‍घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥ ४८-८॥ ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले । विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्दने भवान्विमोक्षदः ॥ ४८-९॥ महीरुहोर्मध्यगतो बतार्भको हरेः प्रभावादपरिक्षतोऽधुना । इति ब्रवाणैर्गमितो गृहं भवान्मरुत्पुराधीश्वर पाहि मां गदात् ॥ ४८-१०॥
49 Journey To Vrindavana भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे । अहेतुमुत्पातगणं विशङ्क्य प्रयातुमन्यत्र मनो वितेनुः ॥ ४९-१॥ तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् । इतिः प्रतीच्यां विपिनं मनोज्ञं बृन्दावनं नाम विराजतीति ॥ ४९-२॥ बृहद्वनं तत्खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन । त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः ॥ ४९-३॥ अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः । भवद्विनोदालपितीक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥ ४९-४॥ निरीक्ष्य बृन्दावनमीश नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् । अमोदथाश्शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ ४९-५॥ नवाकनिर्व्युढनिवासभेदेष्वशेषगोपेषु सुखासितेषु । वनश्रियं गोपकिशोरपालीविमिश्रितः पर्यगलोकथास्त्वम् ॥ ४९-६॥ अरालमार्गागतनिर्मलापां मरालकुजाकृतनर्मलापाम् । निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वम् ॥ ४९-७॥ मयूरकेकाशतलोभनीयं म्यूखमीलशबलं मणीनाम् । विरिञ्चलोकस्पृशमुच्चशृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ ४९-८ समं ततो गोपकुमारकैस्त्वं समन्ततो यत्र वनान्तमागाः । ततस्ततस्तां कृटिलामपश्यः कलिन्दजां रागवतीमिवैकाम् ॥ ४९-९॥ तथाविधेऽस्मिन्विपिने पशव्ये समुत्सुको वत्सगणप्रचारे । चरन्सरामोऽथ कुमारकैस्त्वं समीरगेहाधिप पाहि रोगात् ॥ ४९-१०॥
50 Slaying Of VAtsasura And BakAsura तरलमधुकृद्वृन्दे बृन्दावनेऽथ मनोहरे पशुपशिशुभिस्साकं वत्सानुपालनलोलुपः । हलधरसखो देव श्रीमन् विचेरिथ धारयन् गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥ ५०-१॥ विहितजगतीरक्षं लक्ष्मीकराम्बुजलालितं ददति चरणद्वन्द्वं बृन्दावने त्वयि पावने । किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी- सलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥ ४९-२॥ विलसदुलपे कान्तारान्ते समीरणशीतले विपुलयमुनातीरे गोवर्धनाचलमूर्धसु । ललितमुरलीनादस्सञ्चारयन्खलु वात्सकं क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥ ५०-३॥ रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन् किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् । तमथ चरणे बिभ्रद्विभ्रामयन्मुहुरुच्चकैः कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥ ५०-४॥ निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं निपतनजवक्षुण्णक्षोणीरुहक्षतकानने । दिवि परमिलद्‍वृन्दा बृन्दारकाः कुसुमोत्करैः शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे ॥ ५०-५॥ सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली निपतति तवेत्युक्तो बालैः सहेलमुदैरयः । झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात् कुसुमनिकरस्सोऽयं नूनं समेति शनैरिति ॥ ५०-६॥ क्वचन दिवसे भूयो भूयस्तरेपरुषातपे तपनतनयापाथः पातुं गता भवदादयः । चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥ ५०-७॥ पिबति सलिलं गोपव्राते भवनतमभिद्रुतः स किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् । दलयितुमगात्त्रोट्याः कोट्या तदा यु भवान्विभो खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥ ५०-८॥ सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना- मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा । शमननिलयं याते तस्मिन्बके सुमनोगणे किरति सुमनोबृन्दं बृन्दावनाद्गृहमैयथाः ॥ ५०-९॥ ललितमुरलीनादं दूरान्निशम्य वधूजनै- स्त्वरितमुपगम्यारादारूढमोदमुदीक्षितः । जनितजननीनन्दानन्दस्समीरणमन्दिर- प्रथितवसते शौरे दूरीकुरुष्व ममामयान् ॥ ५०-१०॥
51 The Slaying Of AghAsura कदाचन व्रजशिशुभिः समं भवान् वनाशने विहितमतिः प्रगेतराम् । समावृतो बहुतरवत्समण्डलैः सतेमनैर्निरगमदीश जेमनैः ॥ ५१-१॥ विनिर्यतस्तव चरणाम्बुजद्वयादुदञ्चितं त्रिभुवनपावनं रजः । महर्षयः पुलकधरैः कलेबरैरुदूहिरे धृतभवदीक्षणोत्सवाः ॥ ५१-२॥ प्रचारयत्यविरलशाद्वले तले पशून्विभो भवति समं कुमारकैः । अघासुरो न्यरुणदघाय वर्तनीं भयानकः सपदि शयानकाकृतिः ॥ ५१-३॥ महाचलप्रतिमतनोर्गुहानिभप्रसारितप्रथितमुखस्य कानने । मुखोदरं विहरणकौतुकाद्गताः कुमारकाः किमपि विदूरगे त्वयि ॥ ५१-४॥ प्रमादतः प्रविशति पन्नगोदरं क्वथत्तनौ पशुपकुले सवात्सके । विदन्निदं त्वमपि विवेशिथ प्रभो सुहृज्जनं विशरणमाशु रक्षितुम् ॥ ५१-५ गलोदरे विपुलितवर्ष्मणा त्वया महोरगे लुठति निरुद्धमारुते । द्रुतं भवान्विदलितकण्ठमण्डलो विमोचयन्पशुपशून् विनिर्ययौ ॥ ५१-६॥ क्षणं दिवि त्वदुपगमार्थमास्थितं महासुरप्रभवमहो महो महत् । विनिर्गते त्वयि तु निलीनमञ्जसा नभःस्थले ननृतुरथो जगुस्सुराः ॥ ५१-७॥ सविस्मयैः कमलभवादिभिः सुरैरनुदृतस्तदनु गतः कुमारकैः । दिने पुनस्तरुणदशामुपेयुषि स्वकैर्भवानतनुत भोजनोत्सवम् ॥ ५१-८॥ विषाणिकामपि मुरलीं नितम्बके निवेशयन्कबलधरः कराम्बुजे । प्रहासयन्कलवचनैः कुमारकान् बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ ५१-९॥ सुखाशनं त्विह तव गोपमण्डले मखाशनात्प्रियमिव देवमण्डले । इति स्तुतस्त्रिदशवरैर्जगत्पते मरुत्पुरीनिलय गदात्प्रपाहि माम् ॥ ५१-१०॥
52 The Stealing Of The Calves By Brahma अन्यावतारनिकरेष्वनिरीक्षितं ते भूमातिरेकमभिवीक्ष्य तदाघमोक्षे । ब्रह्मा परीक्षितुमनाः स परोक्षभावं निन्येऽथ वत्सकगणान्प्रवितत्य मायाम् ॥ ५२-१॥ वत्सानवीक्ष्य विवशे पशुपोत्करे ता- नानेतुकाम इव धातृमतानुवर्ती । त्वं सामिभुक्तकबलो गतवांस्तदानीं भुक्तांस्तिरोधित सरोजभवः कुमारान् ॥ ५२-२॥ वत्सायितस्तदनु गोपगणायितस्त्वं शिक्यादिभाण्डमुरलीगवलादिरूपः । प्राग्वद्विहृत्य विपिनेषु चिराय सायं त्वं माययाथ बहुधा व्रजमाययाथ ॥ ५२-३॥ त्वामेव शिक्यागवलादिमयं दधानो भूयस्त्वमेव पशुवत्सकबालरूपः । गोरूपिणीभिरपि गोपवधूमयीभि- रासादितोऽसि जननीभिरतिप्रहर्षात् ॥ ५२-४॥ जीवं हि किञ्चिदभिमानवशात्स्वकीयं मत्वा तनूज इति रागभरं वहन्त्यः । आत्मानमेव तु भवन्तमवाप्य सूनुं प्रीतिं ययुर्न कियतीं वनिताश्च गावः ॥ ५२-५॥ एवं प्रतिक्षणविजृम्भितहर्षभार- निश्शेषगोपगणलालितभूरिमूर्तिम् । त्वामग्रजोऽपि बुबुधे किल वत्सरान्ते ब्रह्मात्मनोरपि महान्युवयोर्विशेषः ॥ ५२-६॥ वर्षावधौ नवपुरातनवत्सपालान् दृष्ट्वा विवेकमसृणे द्रुहिणे विमूढे । प्रादीदृशः प्रतिनवान्मकुटान्गदादि- भूषांश्चतुर्भुजयुजः सजलाम्बुदाभान् ॥ ५२-७॥ प्रत्येकमेव कमलापरिलालिताङ्गान् भोगीन्द्रभोगशयनान्नयनाभिरामान् । लीलानिमीलितदृशः सनकादियोगि- व्यासेवितान्कमलभूर्भवतो ददर्श ॥ ५२-८॥ नारायणाकृतिमसंख्यतमान्निरीक्ष्य सर्वत्र सेवकमपि स्वमवेक्ष्य धाता । मायानिमग्नहृदयो विमुमोह याव- देको बभूविथ तदा कबलार्धपाणिः ॥ ५२-९॥ नश्यन्मदे तदनु विश्वपतिं मुहुस्त्वां नत्वा च नूतवति धातरि धाम याते । पोतैः समं प्रमुदितैः प्रविशन्निकेतं वातालयाधिप विभो परिपाहि रोगात् ॥ ५२-१०॥
53 The Slaying Of Dhenukasura अतीत्य बाल्यं जगतां पते त्वं उपेत्य पौगण्डवयो मनोज्ञम् । उपेक्ष्य वत्सावनमुत्सवेन प्रावर्तथा गोगणपालनायाम् ॥ ५३-१॥ उपक्रमस्यानुगुणैव सेयं मरुत्पुराधीश तव प्रवृत्तिः । गोत्रापरित्राणकृतेऽवतीणस्तदेव देवाऽऽरभथास्तदा यत् ॥ ५३-२॥ कदापि रामेण समं वनान्ते वनश्रियं वीक्ष्य चरन्सुखेन । श्रीदामनाम्नः स्वसखस्य वाचा मोदादगा धेनुककाननं त्वम् ॥ ५३-३॥ उत्तालतालीनिवहे त्वदुक्त्या बलेन धूतेऽथ बलेन दोर्भ्याम् । मृदुः खरश्चाभ्यपतत्पुरस्तात् फलोत्करो धेनुकदानवोऽपि ॥ ५३-४॥ समुद्यतो धैनुकपालनेऽहं वधं कथं धैनुकमद्य कुर्वे । इतीव मत्वा ध्रुवमग्रजेन सुरौघयोद्धारमजीघतस्त्वम् ॥ ५३-५॥ तदीयभृत्यानपि जम्बुकत्वेनोपागतानग्रजसंयुतस्त्वम् । जम्बूफलानीव तदा निरास्थस्तालेषु खेलन्भगवन् निरास्थः ॥ ५३-६॥ विनिघ्नति त्वय्यथ जम्बुकौघं सनामकत्वाद्वरुणस्तदानीम् । भयाकुलो जम्बुकनामधेयं श्रुतिप्रसिद्धं व्यधितेति मन्ये ॥ ५३-७॥ तवावतारस्य फलं मुरारे सञ्जातमद्येति सुरैर्नुतस्त्वम् । सत्यं फलं जातमिहेति हासी बालैः समं तालफलान्यभुङ्क्थाः ॥ ५३-८॥ मधुद्रवस्रुन्ति बृहन्ति तानि फलानि मेदोभरभृन्ति भुक्त्वा । तृप्तैश्च दृप्तैर्भवनं फलौघं वहद्भिरागाः खलु बालकैस्त्वम् ॥ ५३-९ हतो हतो धेनुक इत्युपेत्य फलान्यदद्भिर्मधुराणि लोकैः । जयेति जीवेति नुतो विभो त्वं मरुत्पुराधीश्वर पाहि रोगात् ॥ ५३-१०॥
54 The Reason For Kaliya Coming To The Yamuna त्वत्सेवोत्कः सौभारिर्नाम पूर्वं कालिन्द्यन्तर्द्वादशाब्दं तपस्यन् । मीनव्राते स्नेहवान्भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् ॥ ५४-१॥ त्वद्वाहं तं सक्षुधं तृक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन् सः । तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता ॥ ५४-२॥ तस्मिन्काले काइयः क्ष्वेलदर्पात्सर्पारातेः कल्पितं भागमश्नन् । तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापं पयोऽगात् ॥ ५४-३॥ घोरे तस्मिन्सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् । पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातम् ॥ ५४-४॥ काले तस्मिन्नेकदा सीरपाणिं मुक्‍त्वा याते यामुनं काननान्तम् । त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ता गोगोपाला व्यापिबन् क्ष्वेलतोयम् ॥ ५४-५॥ नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत त्वं दयार्द्रः । प्राप्योपान्तं जीवयामासिथ द्राक् पीयूषाम्भोवर्षिभिः श्रीकटाक्षैः ॥ ५४-६॥ किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः । दृष्ट्वाऽग्रे त्वां त्वत्कृतं तद्विदन्तस्त्वामालिङ्गन् दृष्टनानाप्रभावाः ॥ ५४-७ गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् । द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥ ५४-८॥ रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा । आश्चर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ॥ ५४-९॥ एवं भक्तान्मुक्तजीवानपि त्वं मुग्धापाङ्कैरस्तरोगांस्तनोषि । तादृग्भूतस्फीतकारुण्यभूमा रोगात्पाया वायुगेहाधिनाथ ॥ ५४-१०॥
55 Krishna's Dance On Kaliya अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् । द्रुतमारिथ तीरगनीपतरुं विषमारुतशोषितपर्णचयम् ॥ ५५-१॥ अधिरुह्य पदाम्बुरुहेण च तं नवपल्लवतुल्यमोज्ञरुचा । हृदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरङ्गगणे ॥ ५५-२॥ भुवनत्रयभारभृतो भवतो गुरुभारविक्रम्पिविजृम्भिजला । परिमज्जयति स्म धनुःशतकं तटिनी झटिति स्फुटघोषवती ॥ ५५-३॥ अथ दिक्षु विदिक्षु परिक्षुभितभ्रमितोदरवारिनिनादभरैः । उदकादुदगादुरगाधिपतिस्त्वदुपान्तमशान्तरुषान्धमनाः ॥ ५५-४॥ फणशृङ्गसहस्रविनिस्सृमरज्वलदग्निकणोग्रविषाम्बुधरम् । पुरतः फणिनं समलोकयथा बहुशृङ्गिणमञ्जनशैलमिव ॥ ५५-५॥ ज्वलदक्षिपरिक्षरदुग्रविषश्वसनिष्मभरः स महाभुजगः । परिदश्य भवन्तमनन्तबलं समवेष्टयदस्फुटचेष्टमहो ॥ ५५-६॥ अविलोक्य भवन्तमथाकुलिते तटगामिनि बालकधेनुगणे । व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥ ५५-७॥ अखिलेषु विभो भवदीयदशामवलोक्य जिहासुषु जीवभरम् । फणिबन्धनमाशु विमुच्य जवादुदगम्यत हासजुषा भवता ॥ ५५-८॥ अधिरुह्य ततः फणिराजफणान्ननृते भवता मृदुपादरुचा । कलशिञ्चितनूपुरमञ्चुमिलत्करकङ्कणसंकुलसंक्वणितम् ॥ ५५-९॥ जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेन्द्रगणाः । त्वयि नृत्यति मारुतगेहपते परिपाहि स मां त्वमदान्तगदात् ॥ ५५-१०॥
56 The Lord Blesses Kaliya रुचिरकम्पितकुण्डलमण्डलः सुचिरमीश ननर्तिथ पन्नगे । अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥ ५६-१॥ नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् । परिमथन्पदपङ्करुहा चिरं व्यहरथाः करतालमनोहरम् ॥ ५६-२॥ त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि । फणिपताववसीदति सन्नतास्तदबलास्तव माधव पादयोः ॥ ५६-३॥ अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः । मुनिभिरप्यनवाष्यपथैः स्तवैर्नुनुवुरीश भवन्तमयन्त्रितम् ॥ ५६-४॥ फणिवधूजनभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा । फणिपतिर्भवताच्युत जीवितस्त्वजि समर्पितमूर्तिरवानमत् ॥ ५६-५॥ रमणकं व्रजे वारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् । इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगैः समम् ॥ ५६-६॥ फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः । तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥ ५६-७॥ निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे । स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥ ५६-८॥ प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् । अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥ ५६-९॥ शिखिन वर्णत एव हि पीतता परिलसत्युधना क्रिययाऽप्यसौ । इति नुतः पशुपैर्मुदितैर्विभो हर हरे दुरितैः सह मे गदान् ॥ ५६-१०॥
57 The Slaying Of Pralambasura रामसखः क्वापि दिने कामद भगवन् गतो भवान्विपिनम् । सूनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥ ५७-१॥ सन्दर्शयन्बलाय स्वैरं बृन्दावनश्रियं विमलाम् । काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥ ५७-२॥ तावत्तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः । दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥ ५७-३॥ जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः । वटनिकटे पटुपशुपव्याबद्धं द्वन्द्वयुद्धमारब्धाः ॥ ५७-४॥ गोपान्विभज्य तन्वन्सङ्घं बलभद्रकं भवत्कमपि । त्वद्बलभीरुं दैत्यं त्वद्बलगतमन्वमन्यथा भगवन् ॥ ५७-५॥ कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् । श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ ५७-६॥ एवं बहुषु विभूमन् बालेषु वहत्सु वाह्यमानेषु । रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ ५७-७॥ त्वद्दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे । दैत्यः स्वरूपमागाद्यद्रूपात्स हि बलोऽपि चकितोऽभूत् ॥ ५७-८॥ उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः । विगतभयो दृढमुष्ट्या भृशदुष्टं सपदि पिष्टवानेनम् ॥ ५७-९॥ हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा । तावन्मिलतोर्युवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ ५७-१०॥ आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् । कालं विहाय सद्यो लोलम्बरुचे हरे हरेः क्लेशान् ॥ ५७-११॥
58 Rescue From Forest Fire त्वयि विहरणलोले बालजालैः प्रलम्ब- प्रमथनसविलम्बे धेनवः स्वैरचाराः । तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥ ५८-१॥ अनधिगतनिदाघक्रौर्यबृन्दावनान्तात् बहिरिदमुपयाताः काननं धेनवस्ताः । तव विरहविषण्णा ऊष्मलग्रीष्मताप- प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥ ५८-२॥ तदनु सह सहायैर्दूरमन्विष्य शौरे गलितसरणिमुञ्जारण्यसञ्जातखेदम् । पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात् त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥ ५८-३॥ सकलहरिति दीप्ते घोरभाङ्कारभीमे शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः । अहह भुवनबन्धो पाहि पाहीति सर्वे शरणमुपगतास्त्वां तापहर्तारमेकम् ॥ ५८-४॥ अलमलमतिभीत्य सर्वतो मीलयध्वं भृशमिति तव वाचा मीलिताक्षेषु तेषु । क्वनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा सपदि ववृतिरे ते हन्त भण्डीरदेशे ॥ ५८-५॥ जय जय तव माया केयमीशेति तेषां नुतिभिरुदितहासो बद्वनानाविलासः । पुनरपि विपिनान्ते प्राचरः पाटलादि- प्रसवनिकरमात्रग्राह्यघर्मानुभावे ॥ ५८-६॥ त्वयि विमुखविमोच्चैस्तापभारं वहन्तं तव भजनवदन्तः पङ्कमुच्छोषयन्तम् । तव भुजवदुदञ्चत् भूरितेजःप्रवाहं तपसमयमनैषीर्यामुनेषु स्थलेषु ॥ ५८-७॥ तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभि- र्विकसदमलविद्यूत्पीतवासोविलासैः । सकलभुवनभाजां हर्षदां वर्षवेलां क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥ ५८-८॥ कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी । स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च प्रविदधदनुभेजे देव गोवर्धनोऽसौ ॥ ५८-९॥ अथ शरदमुपेतां तां भवद्भक्तचेतो- विमलसलिलपूरां मानयन्काननेषु । तृणाममलवनान्ते चारु सञ्चारयन् गाः पवनपुरपते त्वं देहि मे देहसौख्यम् ॥ ५८-१०॥
59 Krishna Playing The Flute त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् । ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥ ५९-१॥ मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः । गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे । । ५९-२॥ निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः । वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥ ५९-३॥ काननान्तमितवान्भवानपि स्निग्धपादपतले मनोरमे । व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥ ५९-४॥ मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् । द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् ॥ ५९-५॥ वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवम् । तत्स्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहुर्व्रजाङ्गनाः ॥ ५९-६॥ निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान्पशूनपि । त्वत्पदप्रणयि काननं च ताः धन्यधन्यमिति नन्वमानयन् ॥ ५९-७॥ आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा । दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥ ५९-८॥ प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् । बद्धरागविवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् ॥ ५९-९॥ रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् । तासां त्वेकं तद्द्वयं लब्धमासीद्भाग्यं भाग्यं पाहि मां मारुतेश ॥ ५९-१०॥
60 Stealing The Clothes Of The Gopikas मदनातुरचेतसोऽन्वहं भवदङ्घ्रिद्वयदास्यकाम्यया । यमुनातटसीम्नि सैकतीं तरलाक्ष्यो गिरिजां समार्चिचन् ॥ ६०-१॥ तव नामकथारताः समं सुदृशः प्रातरुपागताः नदीम् । उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥ ६०-२॥ इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् । करुणामृदुलो नदीतटं समयासीत्तदनुग्रहेच्छया ॥ ६०-३॥ नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा । यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लज्जिताः ॥ ६०-४॥ त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके । निहितं परिगृह्य भूरुहो विटपं त्वं तरसाधिरूढवान् ॥ ६०-५॥ इह तावदुपेत्य नीयतां वसनं वः सुदृशो यथायथम् । इति नर्ममृदुस्मिते त्वयि व्रुवति व्यामुमुहे वधूजनैः ॥ ६०-६॥ अयि जीव चिरं किशोर नस्तव दासीरवशीकरोषि किम् । प्रदिशाम्बरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥ ६०-७॥ अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः । वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥ ६०-८॥ विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् । यमुनापुलिने सचन्द्रिकाः क्षणदा इत्यबलास्त्वमूचिवान् ॥ ६०-९॥ उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः । प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्‍जं शनकैर्गृहं गताः ॥ ६०-१०॥ इति नन्वनुगृह्य बल्लवीर्विपिनान्तेषु पुरेव सञ्चरन् । करुणाशिशिरो हरे हर त्वरया मे सकलामयावलिम् ॥ ६०-११॥
61 Blessing The Wives Of The Performers Of Vedic Sacrifices ततश्च वृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः । हृदन्तरे भक्ततरद्विजाङ्गनाकदम्बकानुग्रहणाग्रहं वहन् ॥ ६१-१॥ ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् । अदूरतो यज्ञपरान् द्विजान्प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥ ६१-२॥ गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो । श्रुतिस्थिरा अप्यभिनिन्द्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः ॥ ६१-३॥ अनादरात् खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु । चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्प्यते ॥ ६१-४॥ निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः । इति स्मितार्द्रं भवतेरिता गतास्ते दारका दारजनं ययाचिरे ॥ ६१-५॥ गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विधं भोज्यरसं प्रगृह्य ताः । चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥ ६१-६॥ विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते । निधाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ॥ ६१-७॥ तदा च काचित्त्वदुपागमोद्यता गृहीतहस्ता दयितेन यज्वना । तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्यमहो कृतिन्यसौ ॥ ६१-८॥ आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोज्झतीर्गृहम् । विलोक्य यज्ञाय विसर्जयन्निमाश्चकर्थ भर्तॄनपि तास्वगर्हणान् ॥ ६१-९॥ निरूप्य दोषं निजमङ्गनाजने विलोक्य भक्तिं च पुनर्विचारिभिः । प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश निरुन्धि मे गदान् ॥ ६१-१०॥
62 The Blocking Of The Sacrifice To Indra कदाचिद्गोपालान् विहितमखसम्भारविभवान् निरीक्ष्य त्वं शौरे मघवमदमुध्वंसितुमनाः । विजानन्नप्येतान् विनयमृदु नन्दादिपशुपा- नपृच्छः को वायं जनक भवतामुद्यम इति ॥ ६२-१॥ बभाषे नन्दस्त्वां सुत ननु विधेयो मघवतो मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् । नृणां वर्षायत्तं निखिलमुपजीव्यं महितले विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥ ६२-२॥ इति श्रुत्वा वाचं पितुरयि भवानाह सरसं धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् । अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां महारण्ये वृक्षाः किमिव बलिमिन्द्राय ददते ॥ ६२-३॥ इदं तावत्सत्यं यदिह पशवो नः कुलधनं तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः । सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनाम् ॥ ६२-४॥ भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा द्विजेन्द्रानर्चन्तो बलिमददुरुच्चैः क्षितिभृते । व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुता- स्त्वमादः शैलात्मा बलिमखिलमाभीरपुरतः ॥ ६२-५॥ अवोचश्चैवं तान्किमिह वितथं मे निगदितं गिरीन्द्रो नन्वेषु स्वबलिमुपभूङ्‍क्ते स्ववपुषा । अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥ ६२-६॥ परिप्रीताः याताः खलु भवदुपेता व्रजजुषो व्रजं यावत्तावन्निजमखविभङ्गं निशमयन् । भवन्तं जानन्नप्यधिकरजसाक्रान्तहृदयो न सेहे देवेन्द्रस्त्वदुपरचितात्मोन्नतिरपि ॥ ६२-७॥ मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा । ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥ ६२-८॥ त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि प्रहिण्वन् बिभ्राणः कुलिशमयमभ्रेभगमनः । प्रतस्थेऽन्यैरन्तर्दहनमरुदाद्यैर्विहसितो भवन्माया नैव त्रिभुवनपते मोहयति कम् ॥ ६२-९॥ सुरेन्द्रः क्रुद्धश्चेत् द्विजकरुणया शैलकृपया- प्यनातङ्कोऽस्माकं नियत इति विश्वास्य पशुपान् । अहो किं नायातो गिरिभिदिति सञ्चिन्त्य निवसन् मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् ॥ ६२-१०॥
63 Holding Up The Govardhana Mountain ददृशिरे किल तत्क्षणमक्षतस्तनितजृम्भितकम्पितदिक्तटाः । सुषमया भवदङ्गतुलां गता व्रजपदोपरि वारिधरास्त्वया ॥ ६३-१॥ विपुलकरकमिश्रैस्तोयधारानिपातै- र्दिशि दिशि पशुपानां मण्डले दण्ड्यमाने । कुपितहरिकृतान्नः पाहि पाहीति तेषां वचनमजित श्रुण्वन्मा बिभीतेत्यभाणीः ॥ ६३-२॥ कुल इह खलु गोत्रो दैवतं गोत्रशत्रो- र्विहतिमिह स रुन्ध्यात्को नुः वः संशायोऽस्मिन् । इति सहसितवादी देव गोवर्धनाद्रिं त्वरितमुदमुमूलो मूलतो बाल दोर्भ्याम् ॥ ६३-३॥ तदनु गिरिवरस्य प्रोद्धृतस्यास्य तावत् सिकतिलमृदुदेशे दूरतो वारितापे । परिकरपरिमिश्रान्धेनुगोपानधस्ता- दुपनिदधदधत्था हस्तपद्मेन शैलम् ॥ ६३-४॥ भवति विधृतशैले बालिकाभिर्वयस्यै- रपि विहितविलासं केलिलापादिलोले । सविधमिलितधेनूरेकहस्तेन कण्दू- यति सति पशुपालास्तोषमैषन्त सर्वे ॥ ६३-५॥ अतिमहान् गिरिरेष तु वामके करसरोरुहि तं धरते चिरम् । किमिदमद्भुतमद्रिबलन्विति त्वदवलोकिभिराकथि गोपकैः ॥ ६३-६॥ अहह धार्ष्ट्यममुष्य वटोर्गिरिं व्यथितबाहुरसाववरोपयेत् । इति हरिस्त्वयि बद्धविगर्हणो दिवससप्तकमुग्रमवर्षयत् ॥ ६३-७॥ अचलति त्वयि देव पदात्पदं गलितसर्वजले च घनोत्करे । अपहृते मरुता मरुतां पतिस्त्वदभिशङ्कितधीः समुपाद्रवत् ॥ ६३-८॥ शममुपेयुषि वर्षभरे तदा पशुपधेनुकुले च विनिर्गते । भुवि विभो समुपाहितभूधरः प्रमुदितैः पशुपैः परिरेभिषे ॥ ६३-९॥ धरणिमेव पुरा धृतवानसि क्षितिधरोद्धरणे तव कः श्रमः । इति नुतस्त्रिदशैः कमलापते गुरुपुरालय पालय मां गदात् ॥ ६३-१०॥
64 Crowning As Govinda आलोक्य शैलोद्धरणादिरूपं प्रभावमुच्चैस्तव गोपलोकाः । विश्वेश्वरं त्वामभिमत्य विश्वे नन्दः भवज्जातकमन्वपृच्छन् ॥ ६४-१॥ गर्गोदितो निर्गदितो निजाय वर्गाय तातेन तव प्रभावः । पूर्वाधिक्स्त्वय्यनुराग एषामैधिष्ट तावद्बहुमानभारः ॥ ६४-२॥ ततोऽवमानोदिततत्त्वबोधः सुराधिराजः सह दिव्यगव्या । उपेत्य तुष्टाव स नष्टगर्वः स्पृष्ट्वा पदाब्‍जं मणिमौलिना ते ॥ ६४-३॥ स्नेहस्तुनैस्त्वां सुरभिः पयोभिर्गोविन्दनामाङ्कितमभ्यषिञ्चत् । ऐरावतोपाहृतदिव्यगङ्गापाथोभिरिन्द्रोऽपि च जातहर्षः ॥ ६४-४॥ जगत्त्रयेशे त्वयि गोकुलेश तथाऽभिषिक्ते सति गोपवाटः । नोकेऽपि वैकुण्ठपदेऽप्यलभ्यां श्रियं प्रपेदे भवतः प्रभावात् ॥ ६४-५॥ कदाचिदन्तर्यमुनं प्रभाते स्नायन् पिता वारुणपूरुषेण । नीतस्तमानेतुमगाः पुरीं त्वं तां वारुणीं कारणमर्त्यरूपः ॥ ६४-६॥ ससम्भ्रमं तेन जलाधिपेन प्रपूजितस्त्वं प्रतिगृह्य तातम् । उपागतस्तत्क्षणमात्मगेहं पिताऽवदत्तच्चरितं निजेभ्यः ॥ ६४-७॥ हरिं विनिश्चित्य भवन्तमेतान् भवत्पदालोकनबद्धतृष्णान् । निरीक्ष्य विष्णो परमं पदं तद्दुरापमन्यैस्त्वमदीदृशस्तान् ॥ ६४-८॥ स्फुरत्परानन्दरसप्रवाहप्रपूर्णकैवल्यमहापयोधौ । चिरं निमग्नाः खलु गोपसङ्घास्त्वयैव भूमन् पुनरुद्धृतास्ते ॥ ६४-९॥ करबदरवदेवं देव कुत्रावतारे निजपदमनवाप्यं दर्शितं भक्तिभाजाम् । तदिह पशुपरूपी त्वं हि साक्षात्परात्मा पवनपुरनिवासिन् पाहि मामामयेभ्यः ॥ ६४-१०॥
65 The Gopikas' Coming To Krishna गोपीजनाय कथितं नियमावसाने मारोत्सवं त्वमथ साधयितुं प्रवृत्तः । सान्द्रेण चान्द्रमहसा शिशिरीकृताशे प्रापूरयो मुरलिकां यमुनावनान्ते ॥ ६५-१॥ सम्मूर्छनाभिरुदितस्वरमण्डलाभिः सम्मूर्छयन्तमखिलं भुवनान्तरालम् । त्वद्वेणुनादमुपकर्ण्य विभो तरुण्य- स्तत्तादृशं कमपि चित्तविमोहमापुः ॥ ६५-२॥ ता गेहकृत्यनिरतास्तनयप्रसक्ताः कान्तोपसेवनपराश्च सरोरुहाक्ष्यः । सर्वं विसृज्य मुरलीरवमोहितास्ते कान्तारदेशमयि कान्ततनो समेताः ॥ ६५-३॥ काश्चिन्निजाङ्गपरिभूषणमादधाना वेणुप्रणादमुपकर्ण्य कृतार्धभूषाः । त्वामागता ननु तथैव विभूषिताभ्य- स्ता एव संरुरुचिरे तव लोचनाय ॥ ६५-४॥ हारं नितम्बभूवि काचन धारयन्ती काञ्चीं च कण्ठभुवि देव समागता त्वाम् । हारित्वमात्मजघनस्य मुकुन्द तुभ्यं व्यक्तं बभाष इव मुग्धसुखी विशेषात् ॥ ६५-५॥ काचित्कुचे पुनरसज्जितकञ्चुलीका व्यामोहतः परवधूभिरलक्ष्यमाणा । त्वामाययौ निरुपमप्रणयातिभार- राज्याभिषेकविधये कलशीधरेव ॥ ६५-६॥ काश्चित् गृहात् किल निरेतुमपारयन्त्य- स्त्वामेव देव हृदये सुदृढं विभाव्य । देहं विधूय परचित्सुखरूपमेकं त्वामाविशन्परमिमा ननु धन्यधन्याः ॥ ६५-७॥ जारात्मना न परमात्मतया स्मरन्त्यो नार्यो गताः परमहंसगतिं क्षणेन । तत्त्वां प्रकाशपरमात्मतनुं कथञ्चि- च्चित्ते वहन्नमृतमश्रममश्‍नुवीय ॥ ६५-८॥ अभ्यागताभिरभितो व्रजसुन्दरीभि- र्मुग्धस्मितार्द्रवदनः करुणावलोकी । निस्सीमकान्तिजलधिस्त्वमवेक्ष्यमाणो विश्वैकहृद्य हर मे परमेश रोगान् ॥ ६५-९॥
66 Delighting The Gopikas उपयातानां सुदृशां कुसुमायुधबाणपातविवशानाम् । अभिवाञ्छितं विधातुं कृतमतिरपि ता जगाथ वाममिव ॥ ६६-१॥ गगनगतं मुनिनिवहं श्रावयितुं जगिथ कुलवधूधर्मम् । धर्म्यं खलु ते वचनं कर्म तु नो निर्मलस्य विश्वास्यम् ॥ ६६-२॥ आकर्ण्य ते प्रतीपां वाणीमेणीदृशः परं दीनाः । मा मा करुणासिन्धो परित्यजेत्यतिचिरं विलेपुस्ताः ॥ ६६-३॥ तासां रुदितैर्लपितैः करुणाकुलमानसो मुरारे त्वम् । ताभिः समं प्रवृत्तो यमुनापुलिनेषु काममभिरन्तुम् ॥ ६६-४॥ चन्द्रकरस्यन्दलसत्सुन्दरयमुनातटान्तवीथीषु । गोपीजनोत्तरीयैरापादितसंस्तरो न्यषीदस्त्वम् ॥ ६६-५॥ सुमधुरनर्मालपनैः करसंग्रहणैश्च चुम्बनोल्लासैः । गाढालिङ्गनसङ्गैस्त्वमङ्गनालोकमाकुलीचकृषे ॥ ६६-६॥ वासोहरणदिने यद्वासोहरणं प्रतिश्रुतं तासाम् । तदपि विभो रसविवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥ ६६-७॥ कन्दलितधर्मलेशं कुन्दमृदुस्मेरवक्‍त्रपाथोजम् । नन्दसुत त्वां त्रिजगत्सुन्दरमुपगूह्य नन्दिता बालाः ॥ ६६-८॥ विरहेष्वङ्गारमयः शृङ्गारमयश्च सङ्गमेऽपि त्वम् । नितरामङ्गारमयस्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ ६६-९॥ राधातुङ्गपयोधरसाधुपरिरम्भलोलुपात्मानम् । आराधये भवन्तं पवनपुराधीश शमय सकलगदान् ॥ ६६-१०॥
67 Disappearance Of The Lord Etc स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः । असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥ ६७-१॥ निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः । इतिस्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द तिरोहितोऽभूः ॥ ६७-२॥ राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे । भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥ ६७-३॥ तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः । वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥ ६७-४॥ हा चूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्ल्यः । किं वीक्षितो नो हृदयैकचोर इत्यादि तास्त्वत्प्रवणा विलेपुः ॥ ६७-५॥ निरीक्षितोऽयं सखि पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती । त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥ ६७-६॥ त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि । विचित्य भूयोऽपि तथैव मानात् त्वया वियुक्तां ददृशुश्च राधाम् ॥ ६७-७॥ ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः । पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥ ६७-८॥ तथाव्यथासंकुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो । जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥ ६७-९॥ सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यस्सहसा तदानीम् । किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात्पालय मारुतेश ॥ ६७-१०॥
68 The Gopikas In The Lord's Company तव विलोकनाद्गोपिकाजनाः प्रमदसंकुलाः पङ्कजेक्षण । अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥ ६८-१॥ तदनु काचन त्वत्कराम्बुजं सपदि गृह्णती निर्विशङ्कितम् । घनपयोधरे संविधाय सा पुलकसंवृता तस्थुषी चिरम् ॥ ६८-२॥ तव विभो पुरा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् । गलसमुद्गतं प्राणमारुतं प्रतिनिरुन्धतीवातिहर्षुला ॥ ६८-३॥ अपगतत्रपा कापि कामिनी तव मुखाम्बुजात्पूगचर्वितम् । प्रतिगृहय्य तद्वक्‍त्रपङ्कजे निदधती गता पूर्णकामताम् ॥ ६८-४॥ विकरुणो वने संविहाय मामपगतोऽसि का त्वामि स्पृशेत् । इति सरोषया तवदेकया सजललोचनं वीक्षितो भवान् ॥ ६८-५॥ इति मुदाकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे । मृदुकुचाम्बरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥ ६८-६॥ कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते । कतिचिदीदृशा मादृशेष्व्पीत्यभिहितो भवान्वल्लवीजनैः ॥ ६८-७॥ अयि कुमारिका नैव शङ्क्यतां कठिनता मयि प्रेमकातरे । मयि यु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान्भवान् ॥ ६८-८॥ अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम । तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥ ६८-९॥ इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् । कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥ ६८-१०॥
69 RAsakreeda केशपाशधृतपिञ्छिकावितति सञ्चलन्मकरकुण्डलं हारजालवनमालिकाललितमङ्गरागघनसौरभम् । पीतचेलधृतकाञ्चिकाञ्चितमुदञ्चदंशुमणिनूपुरं रासकेलिपरिभूषितं तव हि रूपमीश कलयामहे ॥ ६९-१॥ तावदेव कृतमण्डने कलितकञ्चुलीककुचमण्डले गण्डलोलमणिकुण्डले युवतिमण्डलेऽथ परिमण्डले । अन्तरा सकलसुन्दरीयुगलमिन्दिरारमण सञ्चरन् मञ्जुलां तदनु रासकेलिमयि कञ्जनाभ समुपादधाः ॥ ६९-२॥ वासुदेव तव भासमानमिह रासकेलिरससौरभं दूरतोऽपि खलु नारदागदितमाकलय्य कुतुकाकुलाः । वेषभूषणविलासपेशलविलासिनीशतसमावृता नाकतो युगपदागता वियति वेगतोऽथ सुरमण्डली ॥ ६९-३॥ वेणुनादकृततानदानकलगानरागगतियोजना- लोभनीयमृदुपादपातकृततालमेलनमनोहरम् । पाणिसंक्वणितकङ्कणं च मुहुरं सलम्बितकराम्बुजं श्रोणिबिम्बचलदम्बरं भजत रासकेलिरसडम्बरम् ॥ ६९-४॥ श्रद्धया विरचितानुगानकृततारतारमधुरस्वरे नर्तनेऽथ ललिताङ्गहारलुलिताङ्गहारमणिभूषणे । सम्मदेन कृतपुष्पवर्षमलमुन्मिषद्दिविषदां कुलं चिन्मये त्वयि निलीयमानमिव संमुमोह सवधूकुलम् ॥ ६९-५॥ स्विन्नसन्नतनुवल्लरी तदनु कापि नाम पशुपाङ्गना कान्तमंसमवलम्बते स्म तव तान्तिभारमुकुलेक्षणा । काचिदाचलितकुन्तला नवपटीरसारनवसौरभं वञ्चनेन तव सञ्चुचुम्ब भुजमञ्चितोरुपुलकाङ्कुरम् ॥ ६९-६॥ कापि गण्डभुवि सन्निधाय निजगण्डमाकुलितकुण्डलं पुण्यपूरनिधिरन्ववाप तव पूगचर्वितरसामृतम् । इन्दिराविहृतिमन्दिरं भुवनसुन्दरं हि नटनान्तरे त्वामवाप्य दधुरङ्गनाः किमु न सम्मदोन्मददशान्तरम् ॥ ६९-७॥ गानमीश विरतं क्रमेण किल वाद्यमेलनमुपारतं ब्रह्मसम्मदरसाकुलाः सदसि केवलं ननृतुरङ्गनाः । नाविदन्नपि च नीविकां किमपि कुन्तलीमपि च कञ्चुलीं ज्योतिषामपि कदम्बकं दिवि विलम्बितं किमपरं ब्रुवे ॥ ६९-८॥ मोदसीम्नि भुवनं विलाप्य विहृतिं समाप्य च ततो विभो केलिसम्मृदितनिर्मलाङ्गनवघर्मलेशसुभगात्मनाम् । मन्मथासहनचेतसां पशुपयोषितां सुकृतचोदित- स्तावदाकलितमूर्तिरादधिथ मारवीरपरमोत्सवान् ॥ ६९-९॥ केलिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः स्वैरमीश ननु सूरजापयसि चारु नाम विहृतिं व्यधाः । काननेऽपि च विसारिशीतलकिशोरमारुतमनोहरे सूनसौरभमये विलेसिथ विलासिनीशतविमोहनम् ॥ ६९-१०॥ कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे भवान् पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् । ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन् भक्तलोकगमनीयरूप कमनीय कृष्ण परिपाहि माम् ॥ ६९-११॥
70 The Salvation Of Sudarsana इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः कदापि पुनरम्बिकाकमितुरम्बिकाकानने । समेत्य भवता समं निशि निषेव्य दिव्योत्सवं सुखं सुषुवुरग्रसीद्‍व्रजपमुग्रनागस्तदा ॥ ७०-१॥ समुन्मुखमथोन्मुकैरभिहतेऽपि तस्मिन्बला- दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः । तदा खलु पदा भवान्समुपगम्य पस्पर्श तं बभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ॥ ७०-२॥ सुदर्शनधर प्रभो ननु सुदर्शनाख्योऽस्म्यहं मुनीन्क्वचिदपाहसं त इह मां व्यधुर्वाहसम् । भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ स्तुवन्निजपदं ययौ व्रजपदं च गोपा मुदा ॥ ७०-३॥ कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनै- र्जहार्धनदानुगः स किल शङ्खचूडोऽबलाः । अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥ ७०-४॥ दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं मनोभवमनोहरं रसितवेणुनादामृतम् । भवन्तममरीदृशाममृतपारणादायिनं विचिन्त्य किमु नालपन् विरहतापिता गोपिकाः ॥ ७०-५॥ भोजराजभृतकस्त्वथ कश्चित्कष्टदुष्टपथदृष्टिररिष्टः । निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥ ७०-६॥ शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः । पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥ ७०-७॥ तुङ्गशृङ्गमुखमाश्वभियन्तं ससंगृहय्य रभसादभियं तम् । भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् ॥ ७०-८॥ चित्रमद्य भगवन् वृषघातात्सुस्थिराजनि वृषस्थितिरुर्व्याम् । वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वम् ॥ ७०-९॥ औक्षकाणि परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी । इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश ॥ ७०-१०॥
71 The Slaying Of Kesi And Vyomasura यत्नेषु सर्वेष्वपि नावकेशी केशी स भोजेशितुरिष्टबन्धुः । त्वं सिन्धुजावाप्य इतीव मत्वा संप्राप्तवान्सिन्धुजवाजिरूपः ॥ ७१-१॥ गन्धर्वतामेष गतोऽपि रूक्षैर्नादैः समुद्वेजितसर्वलोकः । भवद्विलोकावधि गोपवाटीं प्रमर्द्य पापः पुनरा पतत्त्वाम् ॥ ७१-२॥ तार्क्ष्यार्पिताङ्घ्रेस्तव तार्क्ष्य एष चिक्षेप वक्षोभुवि नाम पादम् । भृगोः पदाघातकथां निशम्य स्वेनापि शक्यं तदितीव मोहात् ॥ ७१-३॥ प्रवञ्चयन्नस्य खुराञ्चलं द्रागमुं च विक्षेपिथ दूरदूरम् । संमूर्छितोऽपि हतिमूर्छितेन क्रोधोष्मणा खादितुमाद्रुतस्त्वाम् ॥ ७१-४॥ त्वं वाहदण्डे कृतधीश्च बाहादण्डं न्यधास्तस्य मुखे तदानीम् । तद्‍वृद्धिरुद्धश्वसनो गतासुः सप्तीभवन्नप्ययमैक्यमागात् ॥ ७१-५॥ आलम्भमात्रेण पशोः सुराणां प्रसादके नूत्न इवाश्वमेधे । कृते त्वया हर्षवशात्सुरेन्द्रास्त्वां तुष्टुवुः केशवनामधेयम् ॥ ७१-६॥ कंसाय ते शौरिसुतत्वमुक्त्वा तं तद्वधोत्कं प्रतिरुध्य वाचा । प्राप्तेन केशिक्षपणावसाने श्रीनारदेन त्वमभिष्टुतोऽभूः ॥ ७१-७॥ कदापि गोपैः सह काननान्ते निलायनक्रीडनलोलुपं त्वाम् । मयात्मजः प्राप दुरन्तमायो व्योमाभिधो व्योमचरोपरोधी ॥ ७१-८॥ स चोरपालायितवल्लवेषु चोरायितो गोपशिशून्पशूंश्च । गुहासु कृत्वा पिदधे शिलाभिस्त्वया च बुद्ध्वा परिमर्दितोऽभूत् ॥ ७१-९॥ एवंविधैश्चाद्भुतकेलिभेदैरानन्दमूर्छामतुलां व्रजस्य । पदे पदे नूतनयन्नसीमां परात्मरूपिन् पवनेशपायाः ॥ ७१-१०॥
72 Akrura's Journey To Gokula कंसोऽथ नारदगिरा व्रजवासिनं त्वामाकर्ण्य दीर्णहृदयः स हि गान्दिनेयम् । आहूय कार्मुकमखच्छलतो भवन्तमानेतुमेनमहिनोदहिनाथशायिन् ॥ ७२-१॥ अक्रूर एष भवदङ्घ्रिपरश्चिराय त्वद्दर्शनाक्षममनाः क्षितिपालभीत्या । तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वाम्- आनन्दभारमतिभूरितरं बभार ॥ ७२-२॥ सोऽयं रथेन सुकृती भवतो निवासं गच्छन्मनोरथगणांस्त्वयि धार्यमाणान् । आस्वादयन्मुहुरपायभयेन दैवं संप्रार्थयन्पथि न किञ्चिदपि व्यजानात् ॥ ७२-३॥ द्रक्ष्यामि देवशतगीतगतिं पुमांसं स्प्रक्ष्यामि किंस्विदपिनाम परिष्वजेयम् । किं वक्ष्यते स खलु मां क्वनु वीक्षितः स्या- दित्थं निनाय स भवन्मयमेव मार्गम् ॥ ७२-४॥ भूयः क्रमादभिविशन्भवदङ्घ्रिपूतं बृन्दावनं हरविरिञ्चसुराभिवन्द्यम् । आनन्दमग्न इव लग्न इव प्रमोहे किं किं दशान्तरमवाप न पङ्कजाक्ष ॥ ७२-५॥ पश्यन्नवन्दत भवद्विहृतिस्थलानि पांसुष्ववेष्टत भवच्चरणाङ्कितेषु । किं ब्रूमहे बहुजना हि तदापि जाता एवं तु भक्तितरला विरलाः परात्मन् ॥ ७२-६॥ सायं स गोपभवनानि भवच्चरित्र- गीतामृतप्रसृतकर्णरसायनानि । पश्यन्प्रमोदसरिदेव किलोह्यमानो गच्छन्भवद्भवन सन्निधिमन्वयासीत् ॥ ७२-७॥ तावद्ददर्श पशुदोहविलोकलोलं भक्तोत्तमागतिमिव प्रतिपालयन्तम् । भूमन् भवन्तमयमग्रजवन्तमन्त- र्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्तम् ॥ ७२-८॥ सायन्तनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिराम्बरलोभनीयौ । नातिप्रपञ्चधृतभूषणचारुवेषौ मन्दस्मितार्द्रवदनौ स युवां ददर्श ॥ ७२-९ दूराद्रथात्समवरुह्य नमन्तमेनमुत्थाप्य भक्तकुलमौलिमथोपगूहन् । हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रग्र्ह्य सबलोऽथ गृहं निनेथ ॥ ७२-१० नन्देन साकममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्ताम् । गोपेषु भूपतिनिदेशकथां निवेद्य नानाकथाभिरिह तेन निशामनैषीः ॥ ७२-११ चन्द्रागृहे किमुत चन्द्रभगागृहे नु राधागृहे नु भवने किमु मैत्रविन्दे । धूर्त्तो विलम्बत इति प्रमदाभिरुच्चै- राशङ्कितो निशि मरुत्पुरनाथ पायाः ॥ ७२-१२॥
73 The Lord Leaving For Mathura निशमय्य तवाथ यानवार्तां भृशमार्ताः पशुपालबालिकास्ताः । किमिदं किमिदं कथन्न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ ७३-१॥ करुणानिधिरेषु नन्दसूनुः कथमस्मान्विसृजेदनन्यनाथाः । बत नः किमु दैवमेवमासीदिति तास्त्वद्गतमानसा विलेपुः ॥ ७३-२॥ चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च । परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचस्सखायमेकम् ॥ ७३-३॥ अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः । अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ ७३-४॥ सविषादभरं सयाञ्चमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः । मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥ ७३-५॥ अनसा बहुलेन वल्लवानां मनसा चनुगतोऽथ वल्लभानाम् । वनमार्तभृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥ ७३-६॥ नियमाय निमज्य वारिणि त्वमभिवीक्ष्याथ रथेऽपि गान्दिनेयः । विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥ ७३-७॥ पुनरेष निमज्य पुण्यशाली पुरुषं त्वां परमं भुजङ्गभोगे । अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धौघपरीतमालुलोके ॥ ७३-८॥ स तदा परमात्मसौख्यसिन्धौ विनिमग्नः प्रणुवन्प्रकारभेदैः । अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्या पुलकावृतो ययौ त्वाम् ॥ ७३-९॥ किमु शीतलिमा महान्जले यत्पुलकोऽसाविति चोदितेन तेन । अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश पाहि मां त्वम् ॥ ७३-१०॥
74 The Entry Of The Lord Into Mathura सम्प्राप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन्वस- न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् । प्रापो राजपथं चिरश्रुतिधृतव्यालोककौतूहल- स्त्रीपुंसोद्यदगण्यपुण्यनिगलैराकृष्यमाणो नु किम् ॥ ७४-१॥ त्वत्पादद्दुतिवत्सरागसुभगास्त्वन्मूर्तिवद्योषितः सम्प्राप्ता विलसत्पयोधररुचो लोला भवद्‍दृष्टिवत् । हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितप्रौढिव- न्नैर्मल्योल्लसिताः कचौघरुचिवद्राजत्कलापाश्रिताः ॥ ७४-२॥ तासामाकलयन्नपाङ्गवलनैर्मोदं प्रहर्षाद्भुत- व्यालोलेषु जनेषु तत्र रजकं कञ्चित्पटीं प्रार्थयन् । कस्ते दास्यति राजकीयवसनं याहीति तेनोदितः सद्यस्तस्य करेण शीर्षमहृथाः सोऽप्याप पुण्यां गतिम् ॥ ७४-३॥ भूयो वायकमेकमायतमतिं तोषेण वेषोचितं दाश्वांसं स्वपदं निनेथ सुकृतं को वेद जीवात्मनाम् । मालाभिः स्तबकैः स्तवैरपि पुनर्मालाकृता मानितो भक्तिं तेन वृतां दिदेशिथ परां लक्ष्मीं च लक्ष्मीपते ॥ ७४-४॥ कुब्‍जामब्‍जविलोचनां पथि पुनर्दृष्ट्वाङ्गरागे तया दत्ते साधु किलाङ्गरागमददास्तस्या महान्तं हृदि । चित्तस्थामृजुतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं गृह्णन्मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरीम् ॥ ७४-५॥ तावन्निश्चितवैभवास्तव विभो नात्यन्तपापा जना यत्किञ्चिद्ददते स्म शक्त्यनुगुणं ताम्बूलमाल्यादिकम् । गृह्णानः कुसुमादि किञ्चन तदा मार्गे निबद्धाञ्जलि- र्नातिष्ठं बत यतोऽद्य विपुलामार्तिं व्रजामि प्रभो ॥ ७४-६॥ एष्यामिति विमुक्तयापि भगवन्नालेपदात्र्या तया दूरात्कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् । आघोषानुमितत्वदागममहाहर्षोल्ललद्देवकी- वक्षोजप्रगलत्पयोरसमिषात्त्वत्कीर्तिरन्तर्गता ॥ ७४-७॥ आविष्टो नगरीं महोत्सववतीं कोदण्डशालां व्रजन् माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः । स्रग्भिर्भूषितमर्चितं वरधनुर्मामेति वादात्पुरः प्रागृह्णाः समरोपयः किल समाक्राङ्क्षीरभाङ्क्षीरपि ॥ ७४-८॥ श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम- श्चापध्वंसमहाध्वनिस्तव विभो देवानरोमाञ्चयत् । कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी- चण्डाभ्याहतरक्षिपूरुषरवैरुत्कूलितोऽभूत्त्वया ॥ ७४-९॥ शिष्टैर्दुष्टजनैश्च दृष्टमहिमा प्रीत्या च भीत्या ततः संपश्यन्पुरसम्पदं प्रविवरन्सायं गतो वाटिकाम् । श्रीदाम्ना सह राधिकाविरहजं खेदं वदन्प्रस्वप- न्नानन्दन्नवतारकार्यघटनाद्वातेश संरक्ष माम् ॥ ७४-१०॥
75 The Slaying Of Kamsa प्रातः सन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये सङ्घे राज्ञां च मञ्चानभिययुषि गते नन्दगोपेऽपि हर्म्यम् । कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषो रङ्गद्वारं गतोऽभूः कुपितकुवलयापीडनागावलीढम् ॥ ७५-१॥ पापिष्ठापेहि मार्गाद्‍द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धे- रग्बष्ठस्य प्रणोदादधिकजवजुषा हस्तिना गृह्यमाणः । केलीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य व्याहत्यालीयथास्त्वं चरणभुवि पुनर्निर्गतो वल्गुहासी ॥ ७५-२॥ हस्तप्राप्योऽप्यगम्यो झटिति मुनिजनस्येव धावन्गजेन्द्रं क्रीडन्नापत्य भूमौ पुनरभिपततस्तस्य दन्तं सजीवम् । मूलादुन्मूल्य तन्मूलगमहितमहामौक्तिकान्यात्ममित्रे प्रादास्त्वं हारमेभिर्ललितविरचितं राधिकायै दिशेति ॥ ७५-३॥ गृह्णानं दन्तमंसे युतमथ हलिना रङ्गमङ्गाविशन्तं त्वां मङ्गल्याङ्गभङ्गीरभसहृतमनोलोचना वीक्ष्य लोकाः । हंहो धन्यो नु नन्दो नहि नहि पशुपालाङ्गना नो यशोदा नो नो धन्येक्षणाः स्मस्त्रिजगति वयमेवेति सर्वे शशंसुः ॥ ७५-४॥ पूर्णं ब्रह्मैव साक्षान्निरवधिपरमानन्दसान्द्रप्रकाशं गोपेषु त्वं व्यलासीर्न खलु बहुजनैस्तावदावेदितोऽभूः । दृष्ट्वाथ त्वां तदेदंप्रथममुपगते पुण्यकाले जनौघाः पूर्णानन्दा विपापाः सरसमभिजगुस्त्वत्कृतानि स्मृतानि ॥ ७५-५॥ चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् । उत्पातापातनाकर्षणविविधरणान्यासतां तत्र चित्रं मृत्योः प्रागेव मल्लप्रभुरगमदयं भूरिशो बन्धमोक्षान् ॥ ७५-६॥ हा धिक्कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ न द्रक्ष्यामो व्रजामस्त्वरितमिति जने भाषमाणे तदानीम् । चाणूरं तं कराद्‍भ्रामणविगलदसुं पोथयामासिथोर्व्यां पिष्टोऽभून्मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैर्दधावे ॥ ७५-७॥ कंसस्संवार्यं तूर्यं खलमतिरविदन्कार्यमार्यान् पितॄंस्ता- नाहन्तुं व्याप्तमूर्तेस्तव च समशिषद्दूरमुत्सारणाय । रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्चमञ्चन्नुदञ्चत् खङ्गव्यावद्गदुस्संग्रहमपि च हठात्प्राग्रहीरौग्रसेनिम् ॥ ७५-८॥ सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात् त्वय्यापात्ये तदैव त्वदुपरि पतिता नाकिनां पुष्पवृष्टिः । किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे सायुज्यं त्वद्वधोत्था परम परमियं वासना कालनेमेः ॥ ७५-९॥ तद्‍भ्रातॄनष्ट पिष्ट्वा द्रुतमथ पितरौ सन्नमन्नुग्रसेनं कृत्वा राजानमुच्चैर्यदुकुलमखिलं मोदयन्कामदानैः । भक्तानामुत्तमम्ञ्चोद्धवममरगुरोराप्तनीतिं सखायं लब्ध्वा तुष्टो नगर्यां पवनपुरपते रुन्धि मे सर्वरोगान् ॥ ७५-१०॥
76 Uddhava Sent As A Messenger To The Gopikas गत्वा सान्दीपनिमथ चतुष्षष्टिमात्रैरहोभिः सर्वज्ञस्त्वं सह मुसलिना सर्वविद्यां गृहीत्वा । पुत्रं नष्टं यमनिलयनादाहृतं दक्षिणार्थं दत्त्वा तस्मै निजपुरमगा नादयन्पाञ्चजन्यम् ॥ ७६-१॥ स्मृत्वा स्मृत्वा पशुपसुदृशः प्रेमभारप्रणुन्नाः कारुण्येन त्वमपि विवशः प्रहिणोरुद्धवं तम् । किञ्चामुष्मै परमसुहृदे भक्तवर्याय तासां भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् ॥ ७६-२॥ त्वन्माहात्म्यप्रथिमपिशुनं गोकुलं प्राप्य सायं त्वद्वार्ताभिर्बहु स रमयामास नन्दं यशोदाम् । प्रातर्दृष्ट्वा मणिमयरथं शङ्किताः पङ्कजाक्ष्यः श्रुत्वौ प्राप्तं भवदनुचरं त्यक्तकार्याः समीयुः ॥ ७६-३॥ दृष्ट्वा चैनं त्वदुपमलसद्वेषभूषाभिरामं स्मृत्वा स्मृत्वा तव विलसितान्युच्चकैस्तानि तानि । रुद्धालापाः कथमपि पुनर्गद्गदां वाचमूचुः सौजन्यादीन्निजपरभिदामप्यलं विस्मरन्त्यः ॥ ७६-४॥ श्रीमन् किं त्वं पितृजनकृते प्रेषितो निर्दयेन क्वासौ कान्तो नगरसुदृशां हा हरे नाथ पायाः । आश्लेषाणाममृतवपुषो हन्त ते चुम्बनाना- मुन्मादानां कुहकवचसां विस्मरेत्कान्त का वा ॥ ७६-५॥ रासक्रीडालुलितललितं विश्लथत्केशपाशं मन्दोद्भिन्नश्रमजलकणं लोभनीयं त्वदङ्गम् । कारुण्याब्धे सकृदपि समालिङ्गितुं दर्शयेति प्रेमोन्मादाद्भुवनमदन त्वत्प्रियास्त्वां विलेपुः ॥ ७६-६॥ एवम्प्रायैर्विवशवचनैराकुला गोपिकास्तास्- त्वत्सन्देशैः प्रकृतिमनयत्सोऽथ विज्ञानगर्भैः । भूयस्ताभिर्मुदितमतिभिस्त्वन्मयीभिर्वधूभिस्- तत्तद्वार्तासरसमनयत्कानिचिद्वासराणि ॥ ७६-७॥ त्वत्प्रोद्गाणैः सहितमनिशं सर्वतो गेहकृत्यं त्वद्वार्तैव प्रसरति मिथः सैव चोत्स्वापलापाः । चेष्टाः प्रायस्त्वदनुकृतयस्त्वन्मयं सर्वमेवं दृष्ट्वा तत्र व्यमुहदधिकं विस्मयादुद्धवोऽयम् ॥ ७६-८॥ राधाया मे प्रियतममिदं मत्प्रियैवं ब्रवीति त्वं किं मौनं कलयसि सखे मानिनी मत्प्रियेव । इत्याद्येव प्रवदति सखि त्वत्प्रियो निर्जने मा- मित्थंवादैररमयदयं त्वत्प्रियामुत्पलाक्षीम् ॥ ७६-९॥ एष्यामि द्रागनुपगमनं केवलं कार्यभाराद् विश्लेषेऽपि स्मरणदृढतासम्भवान्मास्तु खेदः । ब्रह्मानन्दे मिलति नचिरात्सङ्गमो वा वियोगस्- तुल्यो वः स्यादिति तव गिरा सोऽकरोन्निर्व्यथास्ताः ॥ ७६-१०॥ एवं भक्तिः सकलभुवने नेशिता न श्रुता वा किं शास्त्रौघैः किमिह तपसा गोपिकाभ्यो नमोऽस्तु । इत्यानन्दाकुलमुपगतं गोकुलादुद्धवं तं दृष्ट्वा हृष्टो गुरुपुरपते पाहि मामामयौघात् ॥ ७६-११॥
77 The Fight Against Jarasandha And Others सैरन्ध्र्यास्तदनु चिरं स्मरातुराया यातोऽभूः सललितमुद्धवेन सार्धम् । आवासं त्वदुपगमोत्सवं सदैव ध्यायन्त्याः प्रतिदिनवाससज्जिकायाः ॥ ७७-१॥ उपगते त्वयि पूर्णमनोरथां प्रमदसम्भ्रमकम्प्रपयोधराम् । विविधमाननमादधतीं मुदा रहसि तां रमयञ्चकृषे सुखम् ॥ ७७-२॥ पृष्टा वरं पुनरसाववृणोद्वराकी भूयस्त्वया सुरतमेव निशान्तरेषु । सायुज्यमस्त्विति वदेत् बुध एव कामं सामीप्यमस्त्वनिशमित्यपि नाब्रवीत्किम् ॥ ७७-३॥ ततो भवान्देव निशासु कासुचिन्- मृगीदृशं तां निभृतं विनोदयन् । अदादुपश्लोक इति श्रुतं सुतं स नारदात्सात्त्वततन्त्रविद्बभौ ॥ ७७-४॥ अक्रूरमन्दिरमितोऽथ बलोद्धवाभ्या- मभ्यर्चितो बहु नुतो मुदितेन तेन । एनं विसृज्य विपिनागतपाण्डवेय- वृत्तं विवेदिथ तथा धृतराष्ट्रचेष्टाम् ॥ ७७-५॥ विघाताज्जामातुः परमसुहृदो भोजनृपते- र्जरासन्धे रुन्धत्यनवधिरुषान्धेऽथ मथुराम् । रथाद्यैर्द्योलब्धैः कतिपयबलस्त्वं बलयुत- स्त्रयोविंशत्यक्षौहिणि तदुपनीतं समहृथाः ॥ ७७-६॥ बद्धं बलादथ बलेन बलोत्तरं त्वं भूयो बलोद्यमरसेन मुमोचिथैनम् । निश्शेषदिग्जयसमाहृतविश्वसैन्यात् कोऽन्यस्ततो हि बलपौरुषवांस्तदानीम् ॥ ७७-७॥ भग्नस्स लग्नहृदयोऽपि नृपैः प्रणुन्नो युद्धं त्वया व्यधित षोडशकृत्व एवम् । अक्षौहिणीः शिव शिवास्य जघन्थ विष्णो सम्भूय सैकनवतित्रिशतं तदानीम् ॥ ७७-८॥ अष्टादशेऽस्य समरे समुपेयुषि त्वं दृष्ट्वा पुरोऽथ यवनं यवनत्रिकोट्या । त्वष्ट्रा विधाप्य पुरमाशु पयोधिमध्ये तत्राथ योगबलतः स्वजनाननैषीः ॥ ७७-९॥ पद्भ्यां त्वं पद्ममाली चकितिव पुरान्निर्गतो धावमानो म्लेच्छेशेनानुयातो वधसुकृतविहीनेन शैले न्यलैषीः । सुप्तेनाङ्घ्र्याहतेन द्रुतमथ मुचुकुन्देन भस्मीकृतेऽस्मिन् भूपायास्मै गुहान्ते सुललितवपुषा तस्थिषे भक्तिभाजे ॥ ७७-१०॥ एक्ष्वाकोऽहं विरक्तोऽस्म्यखिलनृपसुखे त्वत्प्रसादैककाङ्क्षी हा देवेति स्तुवन्तं वरविततिषु तं निस्पृहं वीक्ष्य हृष्यन् । मुक्तेस्तुल्यां च भक्तिं धुतसकलमलं मोक्षमप्याशु दत्त्वा कार्यं हिंसाविशुद्ध्यै तप इति च तदा प्रास्थ लोकप्रतीत्यै ॥ ७७-११॥ तदनु मथुरां गत्वा हत्वा चमूं यवनाहृतां मगधपतिना मार्गे सैन्यैः पुरेव निवारितः । चरमविजयं दर्पायास्मै प्रदाय पलायितो जलधिनगरीं यातो वातालयेश्वर पाहि माम् ॥ ७७-१२॥
78 Rukmini Swayamvaram त्रिदशवर्धकिवर्धितकौशलं त्रिदशदत्तसमस्तविभूतिमत् । जलधिमध्यगतं त्वमभूषयो नवपुरं वपुरञ्चितरोचिषा ॥ ७८-१॥ ददुषि रेवतभूभृति रेवतीं हलभृते तनयां विधिशासनात् । महितमुत्सवघोषमपूपुषः समुदितैर्मुदितैः सह यादवैः ॥ ७८-२॥ अथ विदर्भसुतां खलु रुक्मिणीं प्रणयिनीं त्वयि देव सहोदरः । स्वयमदित्सत चेदिमहीभुजे स्वतमसा तमसाधुमुपाश्रयन् ॥ ७८-३॥ चिरधृतप्रणया त्वयि बालिका सपदि काङ्क्षितभङ्गसमाकुला । तव निवेदयितुं द्विजमादिशत्स्वकदनं कदनङ्गविनिर्मितम् ॥ ७८-४॥ द्विजसुतोऽपि च तूर्णमुपाययौ तव पुरं हि दुराशदुरासदम् । मुदमवाप च सादरपूजितः स भवता भवतापहृता स्वयम् ॥ ७८-५॥ स च भवन्तमवोचत कुण्डिने नृपसुता खलु राजति रुक्मिणी । त्वयि समुत्सुकया निजधीरतारहितया हि तया प्रहितोऽस्म्यहम् ॥ ७८-६॥ तव हृतास्मि पुरैव गुणैरहं हरति मां किल चेदिनृपोऽधुना । अयि कृपालय पालय मामिति प्रजगदे जगदेकपते तया ॥ ७८-७॥ अशरणां यदि मां त्वमुपेक्षसे सपदि जीवितमेव जहाम्यहम् । इति गिरा सुतनोरतनोद्भृशं सुहृदयं हृदयं तव कातरम् ॥ ७८-८॥ अकथयस्त्वमथैनमये सखे तदधिका मम मन्मथवेदना । नृपसमक्षमुपेत्य हराम्यहं तदयि तां दयितामसितेक्षणाम् ॥ ७८-९॥ प्रमुदितेन च तेन समं तदा रथगतो लघु कुण्डिनमेयिवान् । गुरुमरुत्पुरनायक मे भवान्वितनुतां तनुतामखिलापदाम् ॥ ७८-१०॥
79 Rukmini Kalyanami बलसमेतबलानुगतो भवान् पुरमगाहत भीष्मकमानितः । द्विजसुतं त्वदुपागमवादिनं धृतरसा तरसा प्रणनाम सा ॥ ७९-१॥ भुवनकान्तमवेक्ष्य भवद्वपुर्नृपसुतस्य निशम्य च चेष्टितम् । विपुलखेदजुषां पुरवासिनां सरुदितैरुदितैरगमन्निशा ॥ ७९-२॥ तदनु वन्दितुमिन्दुमुखी शिवां विहितमङ्गलभूषणभासुरा । निरगमद्भवदर्पितजीविता स्वपुरतः पुरतः सुभटावृता ॥ ७९-३॥ कुलवधूभिरुपेत्य कुमारिका गिरिसुतां परिपूज्य च सादरम् । मुहुरयाचत तत्पदपङ्कजे निपतिता पतितां तव केवलम् ॥ ७९-४॥ समवलोक कुतुहलसङ्कुले नृपकुले निभृतं त्वयि च स्थिते । नृपसुता निरगात् ग्रिजालयात् सुरुचिरं रुचिरञ्जितदिङ्मुखा ॥ ७९-५॥ भुवनमोहनरूपरुचा तदा विवशिताखिलराजकदम्बया । त्वमपि देव कटाक्षविमोक्षणैः प्रमदया मदयाञ्चकृषे मनाक् ॥ ७९-६॥ क्व तु गमिष्यसि चन्द्रमुखीति तां सरसमेत्य करेण हरन् क्षणात् । समधिरोप्य रथं त्वमपाहृथा भुवि ततो विततो निनदो द्विषाम् ॥ ७९-७॥ क्वनु गतः पशुपाल इति क्रुधा कृतरणा यदुभिश्च जिता नृपाः । न तु भवानुदचाल्यत तैरहो पिशुनकैः शुनकैरिव केसरी ॥ ७९-८॥ तदनु रुक्मिणमागतमाहवे वधमुपेक्ष्य निबध्य विरूपयन् । हृतमदं परिमुच्य बलोक्तिभिः पुरमया रमया सह कान्तया ॥ ७९-९॥ नवसमागमलज्जितमानसां प्रणयकौतुकजृम्भितमन्मथाम् । अरमयः खलु नाथ यथासुखं रहसि तां हसितांशुलसन्मुखीम् ॥ ७९-१०॥ विविधनर्मभिरेवमहर्निशं प्रमदमाकलयन्पुनरेकदा । ऋजुमतेः किल वक्रागिरा भवान् वरतनोरतनोदतिलोलताम् ॥ ७९-११॥ तदधिकैरथ लालनकौशलैः प्रणयिनीमधिकं रमयन्निमाम् । अयि मुकुन्द भवच्चरितानि नः प्रगदतां गदतान्तिमपाकुरु ॥ ७९-१२॥
80 The Story Of The Syamantaka Jewel सत्राजितस्त्वमथ लुब्धवदर्कलब्धं दिव्यं स्यमन्तकमणिं भगवन्नयाचीः । तत्कारणं बहुविधं मम भाति नूनं तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥ ८०-१॥ अदत्तं तं तुभ्यं मणिवरमनेनाल्पमनसा प्रसेनस्तद्()भ्राता गलभुवि वहन्प्राप मृगयाम् । अहन्नेनं सिंहो मणिमहसि मांसभ्रमवशात् कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥ ८०-२॥ शशंसुः सत्राजिद्गिरमनु जनास्त्वां मणिहरं जनानां पीयूषं भवति गुणिनां दोषकणिका । ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभूः कपिगुहाम् ॥ ८०-३॥ भवन्तमवितर्कयन्नतिवयाः स्वयं जाम्बवान् मुकुन्दशरणं हि मां क इह रोद्धुमित्यालपन् । विभो रघुपते हरे जय जयेत्यलं मुष्टिभि- श्चिरं तव समर्चनं व्यधित भक्तचूडामणिः ॥ ८०-४॥ बुद्ध्वाथ तेन दत्तां नवरमणीं वरमणीं च परिगृह्णन् । अनुगृह्णन्नमुमागाः सपदि च सत्राजिते मणिं प्रादाः ॥ ८०-५॥ तदनु स खलु व्रीडालोलो विलोलविलोचनां दुहितरमहो धीमान्भामां गिरैव परार्पिताम् । अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि प्रमुदितमनास्तस्यैवादान्मणीं गहनाशयः ॥ ८०-६॥ व्रीलाकुलां रमयति त्वयि सत्यभामां कौन्तेयदाहकथयाथ कुरून्प्रयाते । ही गान्दिनेयकृतवर्मगिरा निपात्य सत्राजितं शतधनुर्मणिमाजहार ॥ ८०-७॥ शोकात्कुरूनुपगतामवलोक्य कान्तां हत्वा द्रुतं शतधुनं समहर्षयस्ताम् । रत्ने सशङ्क इव मैथिलगेहमेत्य रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥ ८०-८॥ अक्रूर एष भगवन् भवदिच्छयैव सत्राजितः कुचरितस्य युयोज हिंसाम् । अक्रूरतो मणिमनाहृतवान्पुनस्त्वं तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥ ८०-९॥ भक्तस्त्वयि स्थिरतरः स हि गान्दिनेय- स्तस्यैव कापथमतिः कथमीश जाता । विज्ञानवान्प्रशमवानहमित्युदीर्णं गर्वं ध्रुवं शमयितुं भवता कृतैव ॥ ८०-१०॥ यातं भयेन कृतवर्मयुतं पुनस्त- माहूय तद्विनिहितं च मणिं प्रकाश्य । तत्रैव सुव्रतधरे विनिधाय तुष्यन् भामाकुचान्तरशयः पवनेश पायाः ॥ ८०-११॥
81 The Slaying Of Narakasura स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां यातो भूयः सह खलु तया याज्ञसेनीविवाहम् । पार्थप्रीत्यै पुनरपि मनागास्थितो हस्तिपुर्यां शक्रप्रस्थं पुरमपि विभो संविधायागतोऽभूः ॥ ८१-१॥ भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां त्वद्वाचा तामहृत कुहनामस्करी शक्रसूनुः । तत्र क्रुद्धं बलमनुनयन् प्रत्यगास्तेन सार्धं शक्रप्रस्थं प्रियसखमुदे सत्यभामासहायः ॥ ८१-२॥ तत्र क्रीडन्नपि च यमुनाकूलदृष्टां गृहीत्वा तां कालिन्दीं नगरमगमः खाण्डवप्रीणिताग्निः । भ्रातृत्रस्तां प्रणयविवशां देव पैतृष्वसेयीं राज्ञां मध्ये सपदि जहॄषे मित्रविन्दामवन्तीम् ॥ ८१-३॥ सत्यां गत्वा पुनरुदवहो नग्नजिन्नन्दनां तां बध्वा सप्तापि च वृषवरान्सप्तमूर्तिर्निमेषात् । भद्रां नाम प्रददुरथ ते देव सन्तर्द्दनाद्या- स्तत्सोदर्यां वरद भवतः सापि पैतृष्वसेयी ॥ ८१-४॥ पार्थाद्यैरप्यकृतलवनं तोयमात्राभिलक्ष्यं लक्षं छित्वा शफरमवृथा लक्षणां मद्रकन्याम् । अष्टावेवं तव समभवन् वल्लभास्तत्र मध्ये शुश्रोथ त्वं सुरपतिगिरा भौमदुश्चेष्टितानि ॥ ८१-५॥ स्मृतायातं पक्षिप्रवरमधिरूढस्त्वमगमो वहन्नङ्के भामामुपवनमिवारातिभवनम् । विभिन्दन् दुर्गाणि त्रुटितपृतनाशोनितरसैः पुरं तावत् प्राग्ज्योतिषमकुरुथाश्शोणितपुरम् ॥ ८१-६॥ मुरस्त्वां पञ्चास्यो जलधिवनमध्यादुदपतत् स चक्रे चक्रेण प्रदलितशिरा मङ्क्षु भवता । चतुदन्तैर्दन्तावलपतिभिरिन्धानसमरं रथाङ्केनच्छित्वा नरकमकरोस्तीर्णरकम् ॥ ८१-७॥ स्तुतो भूम्या राज्यं सपदि भगदत्तेऽस्य तनये गजञ्चैकं दत्त्वा प्रजिघायिथ नागान्निजपुरीम् । खलेनाबद्धानां स्वगतमनसां षोडश पुनः सहस्राणि स्त्रीणामपि च धनराशिं च विपुलम् ॥ ८१-८॥ भौमापाहृतकुण्डलं तददितेर्दातुं प्रयातो दिवं शक्राद्यैर्महितः समं दयितया द्युस्त्रीषु दत्तह्रिया । हृत्वा कल्पतरुं रुषाभिपतितं जित्वेन्द्रमभ्यागम- स्तत्तु श्रीमददोष ईदृश इति व्याख्यातुमेवाकृथाः ॥ ८१-९॥ कल्पद्रुं सत्यभामाभवनभुवि सृजन्द्व्यष्टसाहस्रयोषाः स्वीकृत्य प्रत्यगारं विहितबहुवपुर्लालयन्केलिभेदैः । आश्चर्यान्नारदालोकितविविधगतिस्तत्र तत्रापि गेहे भूयः सर्वासु कुर्वन् दश दश तनयान् पाहि वातालयेश ॥ ८१-१०॥
82 The Fight With BAna Etc प्रद्युम्नो रौक्मिणेयः स खलु तव कला शम्बरेणाहृतस्तं हत्वा रत्या सहाप्तो निजपुरमहरद्रुक्मिकन्यां च धन्याम् । तत्पुत्रोऽथानिरुद्धो गुणनिधिरवहद्रोचनां रुक्मिपौत्रीं तत्रोद्वाहे गतस्त्वं न्यवधि मुसलिना रुक्म्यपि द्यूतवैरात् ॥ ८२-१॥ बाणस्य सा बलिसुतस्य सहस्रबाहोर्माहेश्वरस्य महिता दुहिता किलोषा । त्वत्पौत्रमेनमनिरुद्धमदृष्टपूर्वं स्वप्नेऽनुभूय भगवन् विरहातुराऽभूत् ॥ ८२-२ योगिन्यतीव कुशला खलु चित्रलेखा तस्याः सखी विलिखती तरुणानशेषान् । तत्रानिरुद्धमुषया विदितं निशाया- मानेष्ट योगबलतो भवतो निकेतात् ॥ ८२-३॥ कन्यापुरे दयितया सुखमारमन्तं चैनं कथञ्चन बबन्धुषि शर्वबन्धौ । श्रीनारदोक्ततदुदन्तदुरन्तरोषैस्त्वं तस्य शोणितपुरं यदुभिर्न्यरुन्धाः ॥ ८२-४ पुरीपालः शैलप्रियदुहितृनाथोऽस्य भगवान् समं भूतव्रातैर्यदुबलमशङ्कं निरुरुधे । महाप्राणो बाणो जटिति युयुधानेन युयुधे गुहः प्रद्युम्नेन त्वमपि पुरहन्त्रा जघटिषे ॥ ८२-५॥ निरुद्धाशेषास्त्रे मुमुहुषि तवास्त्रेण गिरिशे द्रुता भूता भीताः प्रमथकुलवीराः प्रमथिताः । परास्कन्दत्स्कन्दः कुसुमशरबाणैश्च सचिवः स कुम्भाण्डो भाण्डं नवमिव बलेनाशु बिभिदे ॥ ८२-६॥ चापानां पञ्चशत्या प्रसभमुपगते छिन्नचापेऽथ बाणे व्यर्थे याते समेतो ज्वरपतिरशनैरज्वरि त्वज्ज्वरेण । ज्ञानी स्तुत्वाथ दत्त्वा तव चरितजुषां विज्वरं सज्वरोऽगात् प्रायोऽन्तर्ज्ञानवन्तोऽपि च बहुतमसा रौद्रचेष्टा हि रौद्राः ॥ ८२-७॥ बाणं नानायुधोग्रं पुनरभिपतितं दुर्पदोषाद्वितन्वन् निर्लूनाशेषदोषं सपदि बुबुधुषा शङ्करेणोपगीतः । तद्वाचा शिष्टबाहुद्वितयमुभयतो निर्भयं तत्प्रियं तं मुक्त्वा तद्दत्तमानो निजपुरमगमः सानिरुद्धः सहोषः ॥ ८२-८॥ मुहुस्तावच्छक्रं वरुणमजयो नन्दहरणे यमं बालानीतौ दवदहनपानेऽनिलसखम् । विधिं वत्सस्तेये गिरिशमिह बाणस्य समरे विभो विश्वोत्कर्षी तदयमवतारो जयति ते ॥ ८२-९॥ द्विजरुषा कृकलासवपुर्धरं नृगनृपं त्रिदिवालयमापयन् । निजजने द्विजभक्तिमनुत्तमामुपदिशन् पवनेश्वर पाहि माम् ॥ ८२-१०॥
83 The Slaying Of Paundraka रामेऽथगोकुलगते प्रमदाप्रसक्ते हूतानुपेतयमुनादमने मदान्धे । स्वैरं समारमति सेवकवादमूढो दूतं न्ययुङ्क्त तव पौण्ड्रकवासुदेवः ॥ ८३-१ नारायणोऽहमवतीर्ण इहास्मि भूमौ धत्से किल त्वमपि मामकलक्षणानि । उत्सृज्य तानि शरणं व्रज मामिति त्वां दूतो जगाद सकलैर्हसितः सभायाम् ॥ ८३-२॥ दूतेऽथ यातवति यादवसैनिकस्त्वं यातो ददर्शिथ वपुः किल पौण्ड्रकीयम् । तापेन वक्षसि कृताङ्कमनल्पमूल्य- श्रीकौस्तुभं मकरकुण्डलपीतचेलम् ॥ ८३-३॥ कालायसं निजसुदर्शनमस्यतोऽस्य कालानलोत्करकिरेण सुदर्शनेन । शीर्षं चकर्तिथ ममर्दिथ चास्य सेनां तन्मित्रकाशिपशिरोऽपि चकर्थ काश्याम् ॥ ८३-४॥ जाड्येन बालकगिराऽपि किलाहमेव श्रीवासुदेव इति रूढमतिश्चिरं सः । सायुज्यमेव भवदैक्यधिया गतोऽभूत् को नाम कस्य सुकृतं कथमित्यवेयात् ॥ ८३-५॥ काशीश्वरस्य तनयोऽथ सुदक्षिणाख्यः शर्वं प्रपूज्य भवते विहिताभिचारः । कृत्यानलं कमपि बाणरणातिभीतैर्भूतैः कथञ्चन वृतैः सममभ्यमुञ्चत् ॥ ८३-६ तालप्रमाणचरणामखिलं दहन्तीं कृत्यां विलोक्य चकितैः कथितोऽपि पौरैः । द्यूतोत्सवे कमपि नो चलितो विभो त्वं पार्श्वस्थमाशु विससर्जिथ कालचक्रम् ॥ ८३-७॥ अभ्यापतत्यमितधाम्नि भवन्महास्त्रे हा हेति विद्रुतवती खलु घोरकृत्या । रोषात्सुदक्षिणमदक्षिणचेष्टितं तं पुप्लोष चक्रमपि काशिपुरामधाक्षीत् ॥ ८३-८ स खलु विविदो रक्षोघाते कृतोपकृतिः पुरा तव तु कलया मृत्युं प्राप्तुं तदा खलतां गतः । नरकसचिवो देशक्लेशं सृजन् नगरान्तिके झटिति हलिना युध्यन्नद्धा पपात तलाहतः ॥ ८३-९॥ साम्बं कौरव्यपुत्रीहरणनियमितं सान्त्वनार्थी कुरूणां यातस्तद्वाक्यरोषोद्धृतकरिनगरो मोचयामास रामः । ते घात्याः पाण्डवेयैरिति यदुपृतनां नामुचस्त्वं तदानीं तं त्वां दुर्बोधलीलं पवनपुरपते तापशान्त्यै निषेवे ॥ ८३-१०॥
84 Pilgrimage To Samantapanchaka क्वचिदथ तपनोपरागकाले पुरि निदधत्कृतवर्मकामसूनू । यदुकुलमहिलावृतः सुतीर्थं समुपगतोऽसि समन्तपञ्चकाख्यम् ॥ ८४-१॥ बहुतरजनताहिताय तत्र त्वमपि पुनन्विनिमज्ज्य तीर्थतोयम् । द्विजगणपरिमुक्तवित्तराशिः सममिलथाः कुरुपाण्डवादिमित्रैः ॥ ८४-२॥ तव खलु दयिताजनैः समेता द्रुपदसुता त्वयि गाढभक्तिभारा । तदुदितभवदाहृतिप्रकारैरतिमुमुदे सममन्यभामिनीभिः ॥ ८४-३॥ तदनु च भगवन् निरीक्ष्य गोपानतिकुतुकादुपगम्य मानयित्वा । चिरतरविरहातुराङ्गरेखाः पशुपवधूः सरसं त्वमन्वयासीः ॥ ८४-४॥ सपदि च भवदीक्षणोत्सवेन प्रमुषितमानहृदां नितम्बिनीनाम् । अतिरसपरिमुक्तकञ्चुलीके परिचयहृद्यतरे कुचे न्यलैषीः ॥ ८४-५॥ रिपुजनकलहैः पुनः पुनर्मे समुपगतैरियती विलम्बन्ऽआभूत् । इति कृतपरिरम्भणे त्वयि द्रागतिविवशा खलु राधिका निलिल्ये ॥ ८४-६॥ अपगतविरहव्यथास्तदा ता रहसि विधाय ददाथ तत्त्वबोधम् । परमसुखचिदात्मकोऽहमात्मेत्युदयतु वः स्फुटमेव चेतसीति ॥ ८४-७॥ सुखरसपरिमिश्रितो वियोगः किमपि पुराभवदुद्धवोपदेशैः । समभवदमुतः परं तु तासां परमसुखैक्यमयी भवद्विचिन्ता ॥ ८४-८॥ मुनिवरनिवहैस्तवाथ पित्रा दुरितशमाय शुभानि पृच्छ्यमानैः । त्वयि सति किमिदं शुभान्तरैरित्युरुहसितैरपि याजितस्तदासौ ॥ ८४-९॥ सुमहति यजने वितायमाने प्रमुदितमित्रजने सहैव गोपाः । यदुजनमहितास्त्रिमासमात्रं भवदनुषङ्गरसं पुरेव भेजुः ॥ ८४-१०॥ व्यपगमसमये समेत्य राधां दृढमुपगूह्य निरीक्ष्य वीतखेदाम् । प्रमुदितहृदयः पुरं प्रयातः पवनपुरेश्वर पाहि मां गदेभ्यः ॥ ८४-११॥
85 The Slaying Of Jarasandha ततो मगधभूमृता चिरनिरोधसंक्लेशितं शताष्टकयुतायुतद्वितयमीश भूमीभृताम् । अनाथशरणाय ते कमपि पूरुषं प्राहिणो- दयाचत स मागधक्षपणमेव किं भूयसा ॥ ८५-१॥ यियासुरभिमागधं तदनु नारदोदीरिता- द्युधिष्ठिरमखोद्यमादुभयकार्यपर्याकुलः । विरुद्धजयिनोऽध्वरादुभयसिद्धिरित्युद्धवे शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् ॥ ८५-२॥ अशेषदयितायुते त्वयि समागते धर्मजो विजित्य सहजैर्महीं भवदपाङ्गसंवर्धितैः । श्रियं निरुपमां वहन्नहह भक्तदासायितं भवन्तमयि मागधे प्रहितवान्सभीमार्जुनम् ॥ ८५-३॥ गिरिव्रजपुरं गतास्तदनु देव यूयं त्रयो ययाच समरोत्सवं द्विजमिषेण तं मागधम् । अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन् निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वा स्थितः ॥ ८५-४॥ अशान्तसमरोद्धतं विटपपाटनासंज्ञया निपात्य जरसस्सुतं पवनजेन निष्पाटितम् । विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परां दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः ॥ ८५-५॥ प्रचक्रुषि युधिष्ठिरे तदनु राजसूयाध्वरं प्रसन्नभृतकीभवत्सकलराजकव्याकुलम् । त्वमप्ययि जगत्पते द्विजपदावनेजादिकं चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ॥ ८५-६॥ ततस्सवनकर्मणि प्रवरमग्र्यपूजाविधिं विचार्य सहदेववागनुगतस्स धर्मात्मजः । व्यधत्त भवते मुदा सदसि विश्वभूतात्मने तदा ससुरमानुषं भुवनमेव तृप्तिः दधौ ॥ ८५-७॥ ततस्सपदि चेदिपो मुनिनृपेषु तिष्ठत्स्वहो सभाजयति को जडः पशुपदुर्दुरूटं वटुम् । इति त्वयि स दुर्वचोविततिमुद्वमन्नासना- दुदापतदुदायुधः समपतन्नमुं पाण्डवाः ॥ ८५-८॥ निवार्य निजपक्षगानभिमुखस्य विद्वेषिण- स्त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा । जनुस्त्रितयलब्धया सततचिन्तया शुद्धधी- स्त्वया स परमेकतामधृत योगिनां दुर्लभाम् ॥ ८५-९॥ ततस्सुमहितो त्वया क्रतुवरे निरूढे जनो ययौ जयति धर्मजो जयति कृष्ण इत्यालपन् । खलः स तु सुयोधनो धुतमनास्सपत्नश्रिया मयार्पितसभामुखे स्थलजलभ्रमादभ्रमीत् ॥ ८५-१०॥ तदा हसितमुत्थितं द्रुपदन्दनाभीमयो- रपाङ्गकलया विभो किमपि तावदुज्जृम्भयन् । धराभरनिराकृतौ सपदि नाम बीजं वपन् जनार्दन मरुत्पुरीनिलय पाहि मामामयात् ॥ ८५-११॥
86 Slaying Of Salva साल्वो भैष्मीविवाहे यदुबलविजितश्चन्द्रचूडाद्विमानं विन्दन्सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् । प्रद्युम्नस्तं निरुन्धन्नखिलयदुभटैर्न्यग्रहीदुग्रवीर्यं तस्यामात्यं द्युमन्तं व्यजनि च समरस्सप्तविंशत्यहान्तः ॥ ८६-१॥ तावत्त्वं रामशाली त्वरितमुपगतः खण्डितप्रायसैन्यं सौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत्ते । मायातातं व्यहिंसीदपि तव पुरतस्तत्त्वयापि क्षणार्धं नाज्ञायीत्याहुरेके तदिदमवमतं व्यास एव न्यषेधीत् ॥ ८६-२॥ क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रे- णोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद्गदां ते । कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत्प्रापदैक्यं सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥ ८६-३॥ त्वय्यायातेऽथ जाते किल कुरुसदसि द्यूतके संयतायाः क्रन्दन्त्या याज्ञसेन्याः सकरुणमकृथाश्चेलमालामनन्ताम् । अन्नान्तप्राप्तशर्वांशजमुनिचकितद्रौपदी चिन्तितोऽथ प्राप्तश् शाकान्नमश्नन् मुनिगणमकृथास्तृप्तिमन्तं वनान्ते ॥ ८६-४॥ युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत्पाण्डवार्थम् । भीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण व्यावृण्वन्विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ॥ ८६-५॥ जिष्णोस्त्वं कृष्ण सूतः खलु समरमुखे बन्धुघाते दयालुं खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे नित्य एकोऽयमात्मा । को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन्विश्वरूपम् ॥ ८६-६॥ भक्तोत्तंसेऽथ भीष्मे तव धरणिभरक्षेपकृत्यैकसक्ते नित्यं नित्यं विभिन्दत्ययुतसमधिकं प्राप्तसादे च पार्थे । निश्शस्त्रत्वप्रतिज्ञां विजहदरिवरं धारयन्क्रोधशाली- वाधावन्प्राञ्जलिं तं नतशिरसमथो वीक्ष्य मोदादपागाः ॥ ८६-७॥ युद्धे द्रोणस्य हस्तिस्थिररणभगदत्तेरितं वैष्णवास्त्रं वक्षस्याधत्त चक्रस्थगितरविमहाः प्रार्दयन्सिन्धुराजम् । नागास्त्रे कर्णमुक्ते क्षितिमवनमयन्केवलं कृत्तमौलिं तत्रे तत्रापि पार्थं किमिव न हि भवान् पाण्डवानामकार्षीत् ॥ ८६-८॥ युद्धादौ तीर्थगामी स खलु हलधरो नैमिशक्षेत्रमृच्छ- न्नप्रत्युत्थायिसूतक्षयकृदथ सुतं तत्पदे कल्पयित्वा । यज्ञघ्नं बल्वलं पर्वणि परिदलयन् स्नाततीर्थो रणान्ते सम्प्राप्तो भीमदुर्योधनरणमशमं वीक्ष्य यातः पुरीन्ते ॥ ८६-९॥ संसुप्तद्रौपदेयक्षपणहतधियं द्रौणिमेत्य त्वदुक्त्या तन्मुक्तं ब्राह्ममस्त्रं समहृत विजयो मौलिरत्नं च जह्रे । उच्छित्त्यै पाण्डवानां पुनरपि च विशत्युत्तरागर्भमस्त्रे रक्षन्नङ्गुष्ठमात्रः किल जठरमगाश्चक्रपाणिर्विभो त्वम् ॥ ८६-१०॥ धर्मौघं धर्मसूनोरभिदधदखिलं छन्दमृत्युः स भीष्म- स्त्वां पश्यन्भक्तिभूम्नैव हि सपदि ययौ निष्कलब्रह्मभूयम् । संयाज्याथाश्वमेधैस्त्रिभिरतिमहितैर्धर्मजं पूर्णकामं सम्प्राप्तो द्वारकां त्वं पवनपुरपते पाहि मां सर्वरोगात् ॥ ८६-११॥
87 The Kuchela Episode कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः । त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥ ८७-१॥ समानशीलाऽपि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी । कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥ ८७-२॥ इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे । तदा त्वदालोकनकौतुकाद्ययौ वहन्पटान्ते पृथुकानुपायनम् ॥ ८७-३॥ गतोऽयमाश्चर्यमयीं भवत्पूरीं गृहेषु शैब्याभवनं समेयिवान् । प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥ ८७-४॥ प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाऽकथयः पुरा कृतम् । यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ॥ ८७-५॥ त्रपाजुषोऽस्मात्पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया । कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥ ८७-६॥ भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् । बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥ ८७-७॥ यदि ह्ययचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ । त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥ ८७-८॥ किं मार्गविभ्रंश इति भ्रमन्क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् । सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥ ८७-९॥ स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ । त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश हरस्व मे गदान् ॥ ८७-१०॥
88 The Episode Of Santana Gopalam प्रागेवाचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां कांक्षन्त्या मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वम् । धातुश्शापाद्धिरण्यान्वितकशिपुभवान्शौरिजान् कंसभग्ना- नानीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान्मरीचेः ॥ ८८-१॥ श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिं च भक्तिपूर्णम् । युगपत्त्वमनुग्रहीतुकामो मिथिलां प्रापिथ तापसैः समेतः ॥ ८८-२॥ गच्छन्द्विमूर्तिरुभयोर्युगपन्निकेतम् एकेन भूरिविभवैर्विहितोपचारः । अन्येन तद्दिनभृतैश्च फलौदनाद्यै- स्तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्याम् ॥ ८८-३॥ भूयोऽथ द्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वं को वा दैवं निरुन्ध्यादिति किल कथयन्विश्ववोढाऽप्यसोढाः । जिष्णोर्गर्वं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं तत्त्वारूढां विधातुं परमतमपदप्रेक्षणेनेति मन्ये ॥ ८८-४॥ नष्टा अष्टास्य पुत्राः पुनरपि तव तूपेक्षया कष्टवादः स्पष्टो जातो जनानामथ तदवसरे द्वारकामाप पार्थः । मैत्र्या तत्रोषितोऽसौ नवमसुतमृतौ विप्रवर्यप्ररोदं श्रुत्वा चक्रे प्रतिज्ञामनुपहृतसुतस्सन्निवेक्ष्ये कृशानुम् ॥ ८८-५॥ मानी स त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रै रुन्धानः सूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे । याम्यामैन्द्रीं तथायास्सुरवरनगरीर्विद्ययाऽसाद्य सद्यो मोघोद्योगः पतिष्यन्हुतभुजि भवता सस्मितं वारितोऽभूत् ॥ ८८-६॥ सार्धं तेन प्रतीचीं दिशमतिजविना स्यन्दनेनाभियातो लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् । चक्रांशुक्लिष्टदृष्टिं स्थितमथ विजयं पश्य पश्येति वारां पारे त्वं प्राददशः किमपि हि तमसां दूरदूरं पदं ते ॥ ८८-७॥ तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यै- रावीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गम् । मूर्तीनामीशितारं परमिह तिसृणामेकमर्थं श्रुतीनां त्वामेव त्वं परात्मन् प्रियसखसहितो नेमिथ क्षेमरूपम् ॥ ८८-८॥ युवां मामेवद्वावधिकविवृतान्तर्हिततया विभिन्नौ सुन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् । नयेतं द्रागेनानिति खलु वितीर्णान्पुनरमून् द्विजायादायादाः प्रणुतमहिमा पाण्डुजनुषा ॥ ८८-९॥ एवं नानाविहारैर्जगदभिरमयन्वृष्णिवंशं प्रपुष्ण- न्नीजानो यज्ञभेदैरतुलविहृतिभिः प्रीणयन्नेणनेत्राः । भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणायावतीर्णः पूर्णं ब्रह्मैव साक्षाद्यदुषु मनुजतारूषितस्त्वं व्यलासीः ॥ ८८-१०॥ प्रायेण द्वारवत्यामवृतदयि तदी नारदस्त्वद्रसार्द्र- स्तस्माल्लेभे कदाचित्खलु सुकृतनिधिस्त्वत्पिता तत्त्वबोधम् । भक्तानामग्रयायी स च खलु मतिमानुद्धवस्त्वत्त एव प्राप्तो विज्ञानसारं स किल जनहितायाधुनाऽस्ते वदर्याम् ॥ ८८-११॥ सोऽयं कृष्णावतारो जयति तव विभो यत्र सौहार्दभीति- स्नेहद्वेषानुरागप्रभृतिभिरतुलैरश्रमैर्योगभेदैः । आर्तिं तीर्वा समस्ताममृतपदमगुस्सर्वतः सर्वलोकाः स त्वं विश्वार्तिशान्त्यै पवनपुरपते भक्तिपूर्त्यै च भूयाः ॥ ८८-१२॥
89 The Slaying Of Vrikasura रमाजाने जाने यदिह तव भक्तेषु विभवो न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् । प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥ ८९-१॥ सद्यःप्रसादरुषितान्विधिशङ्करादीन् कचिद्विभो निजगुणानुगुणं भजन्तः । भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या स्पष्टं वृकासर उदाहरणं किलास्मिन् ॥ ८९-२॥ शकुनिजः स हि नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् । स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥ ८९-३॥ तपस्तप्त्व् घोरं स खलु कुपितः सप्तमदिने शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः । अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधीः ॥ ८९-४॥ मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं दैत्याद्भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः । तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥ ८९-५॥ भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचा सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग मौलौ । इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥ ८९-६॥ भृगुं किल सरस्वतीनिकटवासिनस्तापसा- स्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् । अयं पुनरनादरादुदितरुद्धरोषे विधौ हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥ ८९-७॥ सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् । सर्वं क्षमस्व मुनिवर्य भवेत्सदा मे त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥ ८९-८॥ निश्चित्य ते च सुदृढं त्वयि बद्धभावाः सारस्वता मुनिवरा दधिरे विमोक्षम् । त्वामेवमच्युत पुनश्च्युतिदोषहीनं सत्त्वोच्चयैकतनुमेव वयं भजामः ॥ ८९-९॥ जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव स्तुतं विष्णो सच्चित्परमरसनिर्द्वैतवपुषम् । परात्मानं भूमन् पशुपविनताभाग्यनिवहं परीतपश्रान्त्यै पवनपुरवासिन् परिभजे ॥ ८९-१०॥
90 The Aim Of All Scriptures वृकभृगुसुनिमोहिन्यम्बरीषादिवृत्ते- ष्वयि तव हि महत्त्वं सर्वशर्वादिजैत्रम् । स्थितमिह परमात्मन् निष्कलार्वागभिन्नं किमपि यदवभातं तद्धि रूपं तवैव ॥ ९०-१॥ मूर्तित्रयेश्वरसदाशिवपञ्चकं यत् प्राहुः परात्मवपुरेव सदाशिवोऽस्मिन् । तत्रेश्वरस्तु स विकुण्ठपदस्त्वमेव त्रित्वं पुनर्भजसि सत्यपदे त्रिभागे ॥ ९०-२ तत्रापि सात्त्विकतनुं तव विष्णुमाहु- र्धाता तु सत्त्वविरलो रजसैव पूर्णः । सत्वोत्कटत्वमपि चास्ति तमोविकार- चेष्टादिकं च तव शङ्करनाम्नि मूर्तौ ॥ ९०-३॥ तं च त्रिमूर्त्यतिगतं पुरपूरुषं त्वां शर्वात्मनापि खलु सर्वमयत्वहेतोः । शंसन्त्युपासनाविधौ तदपि स्वतस्तु त्वद्रूपमित्यतिदृढं बहु नः प्रमाणम् ॥ ९०-४॥ श्रीशङ्करोऽपि भगवान्सकलेषु तावत् त्वामेव मानयति यो न हि पक्षपाती । त्वन्निष्ठमेव स हि नामसहस्रकादि व्याख्यद्भवत्स्तुतिपरश्च गतिं गतोऽन्ते ॥ ९०-५॥ मूर्तित्रयातिगमुवाच च मन्त्रशास्त्र- स्यादौ कलायसुषमं सकलेश्वरं त्वाम् । ध्यानं च निष्कलमसौ प्रणवे खलूक्त्वा त्वामेव तत्र सकलं निजगाद नान्यम् ॥ ९०-६॥ समस्तसारे च पुराणसंग्रहे विसंशयं त्वन्महिमैव वर्ण्यते । त्रिमूर्तियुक्सत्यपदत्रिभागतः परं पदं ते कथितं न शूलिनः ॥ ९०-७॥ यद्ब्राह्मकल्प इह भागवतद्वितीय- स्कन्धोदितं वपुरनावृतमीश धात्रे । तस्यैव नाम हरिशर्वमुखं जगाद श्रीमाधवः शिवपरोऽपि पुराणसारे ॥ ९०-८॥ ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते तेषां फलं हि दृढयैव तदीयभक्त्या । व्यासो हि तेन कृतवानधिकारिहेतोः स्कान्दादिकेषु तव हानिवचोऽर्थवादैः ॥ ९०-९॥ भूतार्थकीर्तिरनुवादविरुद्धवादौ त्रेधार्थवादगतयः खलु रोचनार्थाः । स्कान्दादिकेषु बहवोऽत्र विरुद्धवादा- स्त्वत्तामसत्वपरिभूत्युपशिक्षणाद्याः ॥ ९०-१०॥ यत्किञ्चिदप्यविदुषापि विभो मयोक्तं तन्मन्त्रशास्त्रवचनाद्यभिदृष्टमेव । व्यासोक्तिसारमयभागवतोपगीत क्लेशान्विधूय कुरु भक्तिभरं परात्मन् ॥ ९०-११॥
91 The Path Of Devotion श्रीकृष्ण त्वत्पदोपासनमभयतमं बद्धमिथ्यार्थदृष्टे- र्मर्त्यस्यार्तस्य मन्ये व्यपसरति भयं येन सर्वात्मनैव । यत्तावत्त्वत्प्रणीतानिह भजनविधीनास्थितो मोहमार्गे धावन्नप्यावृताक्षः स्खलति न कुहचिद्देवदेवाखिलात्मन् ॥ ९१-१॥ भूमन् कायेन वाचा मुहुरपि मनसा त्वद्बलप्रेरितात्मा यद्यत्कुर्वे समस्तं तदिह परतरे त्वय्यसावर्पयामि । जात्यापीह श्वपाकस्त्वयि निहितमनः कर्मवागिन्द्रियार्थ- प्राणो विश्वं पुनीते न तु विमुखमनास्त्वत्पदाद्विप्रवर्यः ॥ ९१-२॥ भीतिर्नाम द्वितीयाद्भवति ननु मनःकल्पितं च द्वितीयं तेनैक्याभ्यासशीलो हृदयमिह यथाशक्ति बुद्ध्या निरुन्ध्याम् । मायाविद्धे तु तस्मिन्पुनरपि न तथा भाति मायाधिनाथं तं त्वां भक्त्या महत्या सततमनुभजन्नीश भीतिं विजह्याम् ॥ ९१-३॥ भक्तेरुत्पत्तिवृद्धी तव चरणजुषं सङ्गमेनैव पुंसा- मासाद्ये पुण्यभाजां श्रिय इव जगति श्रीमतां सङ्गमेन । तत्सङ्गो देव भूयान्मम खलु सततं तन्मुखादुन्मिषद्भि- स्त्वन्माहात्म्यप्रकारैर्भवति च सुदृढा भक्तिरुद्धूतपापा ॥ ९१-४॥ श्रेयोमार्गेषु भक्तावधिकबहुमतिर्जन्मकर्माणि भूयो गायन्क्षेमाणि नामान्यपि तदुभयतः प्रद्रुतं प्रद्रुतात्मा । उद्यद्धासः कदचित्कुहाचिदपि रुदन्क्वापि गर्जन्प्रगाय- न्नुन्मादीव प्रनृत्यन्नयि कुरु करुणां लोकबाह्यश्चरेयम् ॥ ९१-५॥ भूतान्येतानि भूतात्मकमपि सकलं पक्षिमत्स्यान्मृगादीन् मर्त्यान्मित्राणि शत्रूनपि यमितमतिस्त्वन्मयान्यानमानि । त्वत्सेवायां हि सिध्येन्मम तव कृपया भक्तिदार्ढ्यं विराग- स्त्वत्तत्त्वस्यावबोधोऽपि च भुवनपते यत्नभेदं विनैव ॥ ९१-६॥ नो मुह्यन्क्षुत्तृडाद्यैर्भवसरणिभवैस्त्वन्निलीनाशयत्वा- च्चिन्तासातत्यशाली निमिषलवमपि त्वत्पदादप्रकम्पः । इष्टानिष्टेषु तुष्टिव्यसनविरहितो मायिकत्वावबोधा- ज्ज्योत्स्नाभिस्त्वन्नखेन्दोरधिकशिशिरितेनात्मना सञ्चरेयम् ॥ ९१-७॥ भूतेष्वेषु त्वदैक्यस्मृतिसमधिगतौ नाधिकारोऽधुना चेत् त्वत्प्रेम त्वत्कमैत्री जडमतिषु कृपा द्विट्सु भूयादुपेक्षा । अर्चायां वा समर्चाकुतुकमुरुतरश्रद्धया वर्धतां मे त्वत्संसेवी तथापि द्रुतमुपलभते भक्तलोकोत्तमत्वम् ॥ ९१-८॥ आवृत्य त्वत्स्वरूपं क्षितिजलमरुदाद्यात्मना विक्षिपन्ती जीवान्भूयिष्ठकर्मावलिविवशगतीन् दुःखजाले क्षिपन्ती । त्वन्माया माभिभून्मामयि भुवनपते कल्पते तत्प्रशान्त्यै त्वत्पादे भक्तिरेवेत्यवददयि विभो सिद्धयोगी प्रबुद्धः ॥ ९१-९॥ दुःखान्यालोक्य जन्तुष्वलमुदितविवेकोऽहमाचार्यवर्या- ल्लब्ध्वा त्वद्रूपतत्त्वं गुणचरितकथाद्युद्भवत्भक्तिभूमा । मायामेनां तरित्वा परमसुखमये त्वत्पदे मोदिताहे तस्यायं पूर्वरङ्गः पवनपुरपते नाशयाशेषरोगान् ॥ ९१-१०॥
92 Bhakti Combined With Karma वैदैस्सर्वाणि कर्माण्यफलपरतया वर्णितानीति बुध्वा तानि त्वय्यर्पितान्येव हि समनुचरन् यानि नैष्कर्म्यमीश । मा भूद्वेदैर्निषिद्धे कुहचिदपि मनःकर्मवाचाः प्रवृत्ति- र्दुर्वर्ज्जञ्चेदवाप्तं तदपि खलु भवत्यर्पये चित्प्रकाशे ॥ ९२-१॥ यस्त्वन्यः कर्मयोगस्तव भजनमयस्तत्र चाभीष्टमूर्तिं हृद्यां सत्त्वैकरूपां दृषदि हृदि मृदि क्वापि वा भावयित्वा । पुष्पैर्गन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतै- र्नित्यं वर्यां सपर्यां विदधदयि विभो त्वत्प्रसादं भजेयम् ॥ ९२-२॥ स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां ते दयार्हा- स्त्वत्पादासन्नयातान्द्विजकुलजनुषो हन्त शोचाम्यशान्तान् । वृत्त्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो दृप्ता विद्याभिजात्यैः किमु न विदधते तादृशः मा कृथा माम् ॥ ९२-३॥ पपोऽयं कृष्ण रामेत्यभिलपति निजं गूहितुं दुश्चारित्रं निर्लज्जस्यास्य वाचा बहुतरकथनीयानि मे विघ्नितानि । भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते निन्दन्त्युच्चैर्हसन्ति त्वयि निहितरतींस्तादृशं मा कृथा माम् ॥ ९२-४॥ श्वेतच्छायं कृते त्वां मुनिवरवपुषं प्रीणयन्ते तपोभि- स्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं यज्ञरूपं यजन्ते । सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं नीलं सङ्कीर्तनाद्यैरिह कलिसमये मानुषास्त्वां भजन्ते ॥ ९२-५॥ सोऽयं कालेयकालो जयति मुररिपो यत्र सङ्कीर्तनाद्यै- र्निर्यत्नैरेव मार्गैरखिलद नचिरात्त्वत्प्रसादं भजन्ते । जातास्त्रेताकृतादावपि हि किल कलौ सम्भवं कामयन्ते दैवात्तत्रैव जातान्विषयविषरसैर्मा विभो वञ्चयास्मान् ॥ ९२-६॥ भक्तास्तावत्कलौ स्युर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चैः कावेरीं ताम्रपर्णीमनुकिल धृतमालाञ्च पुण्यां प्रतीचीम् । हा मामप्येतदन्तर्भवमपि च विभो किञ्चिदञ्चिद्रसं त्व- य्याशापाशैर्निबध्य भ्रमय न भगवन् पूरय त्वन्निषेवाम् ॥ ९२-७॥ दृष्ट्वा धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित्परीक्षि- द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् । त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरु- र्यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ ९२-८॥ गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत् सालग्रामाभिपूजा परपुरुष तथैकादशी नामवर्णाः । एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्या क्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः ॥ ९२-९॥ देवर्षीणां पितॄणामपि न पुनरृणी किङ्गरो वा स भूमन् योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा । तस्योत्पन्नं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं तन्मे पापोत्थतापान्पवनपुरपते रुन्दि भक्तिं प्रणीयाः ॥ ९२-१०॥
93 The Lessons From 25 Gurus बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा सर्वं त्वक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् । नानात्वाद्‍भ्रान्तिजन्यात्सति खलु गुणदोषावबोधे विधिर्वा व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥ ९३-१॥ क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तवस्सन्त्यनन्ता- स्तेभ्यो विज्ञानवत्त्वात्पुरुष इह वरस्तज्जनिर्दुर्लभैव । तत्राप्यात्मात्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता- स्तापोच्छित्तेरुपायं स्मरति स हि सुहृत्स्वात्मवैरी ततोऽन्यः ॥ ९३-२॥ त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि भूमन् सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् । गृह्णीयामीश तत्तद्विषयपरिचतेऽप्यप्रसक्तिं समीरा- द्व्याप्तत्वञ्चात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥ ९३-३॥ स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णां सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् । पुष्टिर्नष्टिः कलानांं शशिन इव तनोर्नात्मनोऽस्तीति विद्यां तोयादिव्यस्तमार्ताण्डवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥ ९३-४॥ स्नेहाद्व्याधास्तपुत्रप्रणयमृतकपोतायितो मा स्म भूवं प्राप्त प्राश्नन्सहेय क्षुधमपि शयुवत्सिन्धुवत्स्यामगाधः । मा पप्तं योषिदादौ शिखिनि शलभवद्भृङ्गवत्सारभागी भूयासं किन्तु तद्वद्धनचयनवशान्माहमीश प्रणेशम् ॥ ९३-५॥ मा बध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा गुहं ग्राम्यगीतैः । नात्यासज्जेय भोज्ये झष इव बिलिशे पिङ्गलावन्निराशः सुप्यां भर्तव्ययोगात्कुरर इव विभो सामिषोऽन्यैर्न हन्यै ॥ ९३-६॥ वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं कन्याया एकशेषो वलय इव विभो वर्जितान्योन्यघोषः । त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युन्दुरोर्मन्दिरेषु ॥ ९३-७॥ त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात्प्रतीयां त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षेये पेशकारात् । विड्भस्मात्मा च देहि भवति गुरुवरो यो विवेकं विरक्तिं धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥ ९३-८॥ ही ही मे देहमोहं त्यज पवनपुराधीश यत्प्रेमहेतो- र्गेहे चित्ते कलत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति । सोऽयं वह्नेः शुनो वा परमिह परतः साम्प्रतञ्चाक्षिकर्ण- त्वग्जिह्वाद्या विकर्षन्त्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥ ९३-९॥ दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान् हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष । नूनः नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश ॥ ९३-१०॥
94 The Means Of Enlightenment शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परं ते शुद्धं देहेन्द्रियादिव्यपगतमखिलव्याप्तमावेदयन्ते। नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥ ९४-१॥ आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार- ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने । कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे दाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥ ९४-२॥ एवं त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषड्कर्मयोगाः । दुर्वैकल्यैरकल्या अपि निगमपथास्तत्फलान्यप्यवाप्ता मत्तास्त्वां विस्मरन्तः प्रसजति पतने यान्त्यनन्तान्विषादान् ॥ ९४-३॥ त्वल्लोकादन्यलोकः क्वनु भयरहितो यत्परार्धद्वयान्ते त्वद्भीतस्सत्यलोकेऽपि न सुखवसतिः पद्मभूः पद्मनाभ । एवम्भावे त्वधर्मार्जितबहुतमसां का कथा नारकाणां तन्मे त्वं छिन्धि बन्धं वरद कृपणबन्धो कृपापूरसिन्धो ॥ ९४-४॥ याथार्थ्यात्त्वन्मयस्यैव हि मम न विभो वस्तुतो बन्धमोक्षौ मायाविद्यातनुभ्यां तव तु विरचितौ स्वप्नबोधोपमौ तौ । बद्धे जीवद्विमुक्तिं गतवति च भिदा तावती तावदेको भुङ्क्ते देहद्रुमस्थो विषयफलरसान्नापरो निर्व्यथात्मा ॥ ९४-५॥ जीवन्मुक्तत्वमेवंविधमिति वचसा किं फलं दूरदूरे तन्नामाशुद्धबुद्धेर्न च लघु मनसः शोधनं भक्तितोऽन्यत् । तन्मे विष्णो कृषीष्ठास्त्वयि कृतसकलप्रार्पणं भक्तिभारं येन स्यां मङ्क्षु किञ्चिद्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा ॥ ९४-६॥ शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित् कष्टं वन्ध्यश्रस् सकलमलाहरा दिव्यलीलावताराः सच्चित्सान्द्रं च रूपं तव न निगदितं तां न वाचं भ्रियासम् ॥ ९४-७॥ यो यावान्यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम- न्नेवञ्चानन्यभावस्त्वदनुभजनमेवाद्रिये चैद्यवैरिन् । त्वल्लिङ्गानां त्वदङ्‍घ्रिप्रियजनसदसां दर्शनस्पर्शनादि- र्भूयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि ॥ ९४-८॥ यद्यल्लभ्येत तत्तत्तव समुपहृतं देव दासोऽस्मि तेऽहं त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव । सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वां त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥ ९४-९॥ ऐक्यं ते दानोहोमव्रतनियमतपस्साङ्ख्ययोगैर्दुरापं त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् । भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां तन्मे त्वद्भक्तिमेव दृढय हर गदान्कृष्ण वातालयेश ॥ ९४-१०॥
95 The Means Of Liberation आदौ हैरण्यगर्भीं तनुमविकलजीवात्मिकामास्थितस्त्वं जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने । तत्रोद्वृद्धेन सत्त्वेन तु गणयुगलं भक्तिभावं गतेन- छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥ ९५-१॥ सत्त्वोन्मेषात्कदाचित्खलु विषयरसे दोषबोधेऽपि भूमन् भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा । चित्तं तावद्गुणाश्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं तुर्ये त्वय्येकभक्तिः शरणमिति भवान्हंसरूपी न्यगादीत् ॥ ९५-२॥ सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि क्षुद्रानन्दाश्च सान्ता बहुविधगतयः कृष्ण तेभ्यो भवेयुः । त्वञ्चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥ ९५-३॥ त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः सर्वास्स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः । सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ॥ ९५-४॥ त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतो- र्भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः । सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः क्वेन्द्रियाणाम् ॥ ९५-५॥ चित्तार्द्रीभाववमुच्चैर्वपुषि च पुलकं हर्षबाष्पञ्च हित्वा चित्तं शुद्ध्येत्कथं वा किमु बहुतपसा विद्यया वीतभक्तेः । त्वद्गाथास्वादसिद्धाञ्जनसततमरीमृज्यमानोऽयमात्मा चक्षुर्वत्तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ॥ ९५-६॥ ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र- न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मन्त्ववाञ्चम् । ऊर्ध्वाग्रं भावयित्वा रविविधुशिखिनस्संविचिन्त्योपरिष्टात् तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलाङ्गम् ॥ ९५-७॥ आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास- स्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम् । श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं चारुस्निग्धोरुमम्भोरुहललितपदं भावयेयं भवन्तम् ॥ ९५-८॥ सर्वाङ्गेष्वङ्गरङ्गत्कुतुकमतिमुहुर्धारयन्नीश चित्तं तत्राप्येकत्र युञ्जे वदनसरसिजे सुन्दरे मन्दहासे । तत्रालीनन्तु चेतः परमसुखचिदद्वैतरूपे वितन्व- न्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो भवेयम् ॥ ९५-९॥ इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे । त्वत्सम्प्राप्तौ विलम्बावहमखिलमिदं नाद्रिये कामयेऽहं त्वामेवानन्दपूर्णं पवनपुरपते पाहि मां सर्वतापात् ॥ ९५-१०॥
96 The Glories Of The Lord त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार- स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि । प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो नागानामस्यनन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते ॥ ९६-१॥ ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसो वीरेषु पार्थो भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनां त्वम् । नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं वस्तु सर्वं त्वमेव त्वं जीवस्त्वं प्रधानं यदिह भवदृते तन्न किञ्चित्प्रपञ्चे ॥ ९६-२॥ धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या कुर्वन्तोऽन्तर्विरागे विकसति शनकैस्सन्त्यजन्तो लभन्ते । सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु भिन्नेष्वभिन्नं निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं विशुद्धम् ॥ ९६-३॥ ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र ताव- न्निर्विण्णानामशेषे विषय इह भवेत् ज्ञानयोगेऽधिकारः । सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्तसक्ता नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥ ९६-४॥ ज्ञानं त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते तस्मात्तत्रैव जन्म स्पृहयति भगवन् नाकगो नारको वा । आविष्टं मां तु दैवाद्भवजलनिधिपोतायिते मर्त्यदेहे त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः ॥ ९६-५॥ अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त एवाप्नुवन्ति । दूरस्थः कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग- स्त्वामूलादेव हृद्यस्त्वरितमयि भवत्प्रापको वर्धतां मे ॥ ९६-६॥ ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु श्रुण्वन् गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य मुक्तिः कराग्रे । त्वद्ध्यानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो- रभ्यासादाशु शक्यं वशयितुं त्वत्कृपाचारुताभ्याम् ॥ ९६-७॥ निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं जातश्रद्धोऽपि कामानयि भुवनपते नैव शक्नोमि हातुम् । तद्भूयो निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान् पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नङ्क्ष्यन्ति सङ्गाः ॥ ९६-८॥ कश्चित्क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः प्रागेवं प्राहि विप्रो न खलु मम जनः कालकर्मग्रहा वा । चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत्सर्वकारी- त्युक्त्वा शान्तो गतस्त्वां मम च कुरु विभो तादृशीं चित्तशान्तिम् ॥ ९६-९॥ ऐलः प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां गाढं निर्विद्य भूयो युवतिसुखमिदं क्षुद्रमेवेति गायन् । त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरत्तद्वदुद्धूत सङ्गं भक्तोत्तंसं क्रिया मां पवनपुरपते हन्त मे रुन्धिरोगान् ॥ ९६-१०॥
97 Prayer For Supreme Devotion त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यत्- ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः । त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥ ९७-१॥ त्वय्येव न्यस्तचित्तः सुखमयि विचरन्सर्वचेष्टास्त्वदर्थं त्वद्भक्तैस्सेव्यमानानपि चरितचरानाश्रयन् पुंण्यदेशान् । दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान- स्पर्धासूयादिदोषः सततमखिलभूतेषु संपूजये त्वाम् ॥ ९७-२॥ त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् । त्वद्धर्मस्यास्य तावत्किमपि न भगवन् प्रस्तुतस्य प्रणाश- स्तस्मात्सर्वात्मनैव प्रदिश मम विभो भक्तिमार्गं मनोझम् ॥ ९७-३॥ तञ्चैनं भक्तियोगं द्रढयितुमयि मे साध्यमारोग्यमायु- र्दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् । मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥ ९७-४॥
The Episode Of Markandeya मार्कण्डेयश्चिरायुस्स खलु पुनरपि त्वत्परः पुष्पभद्रा- तीरे निन्ये तपस्यन्नतुलसुखरतिः षट् तु मन्वन्तराणि । देवेन्द्रस्सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन् योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत् कः ॥ ९७-५॥ प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्वं तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने । द्रष्टुं मायां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः ॥ ९७-६॥ याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्ण- त्सप्तार्णोराशि मग्ने जगति स तु जले सम्भ्रमन्वर्षकोटीः । दीनः प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥ ९७-७॥ दृष्ट्वा त्वां हृष्टरोमा त्वरितमभिगतः स्प्रष्टुकामो मुनीन्द्रः श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् । भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षै- र्मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥ ९७-८॥ गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् । एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा- न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥ ९७-९॥ त्र्यंशेऽस्मिन्सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः । तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते पाहि मां सर्वरोगात् ॥ ९७-१०॥
98 Meditation On Nirguna Brahman यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एत- द्योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा । यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्रा नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते ॥ ९८-१॥ जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् लोकानामूतेय यः स्वयमनुभजते तानि मायानुसारी । बिब्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्धुतात्मा तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो नमस्ते ॥ ९८-२॥ नो तिर्यञ्चन्न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसं न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि ते रूपमाहुः । शिष्टं यत्स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत् कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ ९८-३॥ मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदै- र्भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पम् । भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥ ९८-४॥ शब्दब्रह्मेति कर्मेत्यणुरिति भगवन् काल इत्यालपन्ति त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् । वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण तस्मै नमस्ते ॥ ९८-५॥ सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् । विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥ ९८-६॥ भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकावत् तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते । स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्वद् विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण तस्मै नमस्ते ॥ ९८-७॥ यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् । येनैवारोपिताः प्राङ्‍निजपदमपि ते च्यावितारश्च पश्चात् तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण कुर्मः प्रणामम् ॥ ९८-८॥ त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् । तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमक्रान्तविश्वं त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥ ९८-९॥ सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् । निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्त- र्निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥ ९८-१०॥ दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं संभ्राम्यत्क्रूरवेगं क्षणमनु जगदाछिद्य सन्धावमानम् । चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं विष्णो कारुण्यसिन्धो पवनपुरपते पाहि सर्वामयौघात् ॥ ९८-११॥
99 Praise Of The Glory Of The Lord विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीते यस्यैवाङ्‍घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् । योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ॥ ९९-१॥ आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूते- र्भक्तात्मा विष्णवे यः प्रदिशति हविरादीनि यज्ञार्चनादौ । कृष्णाद्यं जन्म वा महदिह महतो वर्णयेत्सोऽयमेव प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत्प्राप्यमन्ते पदं ते ॥ ९९-२॥ हे स्तोतारः कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः । जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं हे विष्णो कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥ ९९-३॥ विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्ना/- द्यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत्क्षेमकारी । वीक्षन्ते योगसिद्धाः परपदमनिशं यस्य सम्यक्प्रकाशं विप्रेन्द्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयन्ते ॥ ९९-४॥ नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं देव श्रेयांसि विद्वान्प्रतिमुहुरपि ते नाम शंसामि विष्णो । तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या- प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥ ९९-५॥ आपः सृष्ट्यादिजन्याः प्रथममयि विभो गर्भदेशे दधुस्त्वां यत्र त्वय्येव जीवा जलशयन हरे सङ्गता ऐक्यमापन् । तस्याजस्य प्रभो ते विनिहितमभवत्पद्ममेकं हि नाभौ दिक्पत्रं यत्किलाहुः कनकधरणिभृत् कर्णिकं लोकरूपम् ॥ ९९-६॥ हे लोका विष्णुरेतद्भवनमजनयत्तन्न जानीथ यूयं युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् । नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः प्राणप्रीत्यैकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ॥ ९९-७॥ मूर्ध्नामक्षणां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं तत्प्रोत्क्रम्यापि तिष्ठन्परिमितविवरे भासि चित्तान्तरेऽपि । भूतं भव्यं च सर्वं परपुरुष भवान् किञ्च देहेन्द्रियादि- ष्वाविष्टोप्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ॥ ९९-८॥ यत्तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतानन्तशुद्ध- ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान्किमन्यत् । स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥ ९९-९॥ अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं व्यक्तञ्चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् । सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरन्तीं मूर्तिं ते संश्रयेऽहं पवनपुरपते पाहि मां कृष्ण रोगात् ॥ ९९-१०॥
100 Description Of The Vision Of The Lord अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् । तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै- रावीतं नारदाद्यैविलसदुपनिषत्सुन्दरीमण्डलैश्च ॥ १००-१॥ नीलाभं कुञ्चिताग्रं घनममलतरं संयतं चारुभङ्ग्या रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिञ्छजालैः । मन्दारस्रङ्‍निवीतं तव पृथुकबरीभारमालोकयेऽहं स्निग्धश्चेतोर्ध्वपुण्ड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥ १००-२॥ हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभ्रूविलासै- रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ते । सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥ १००-३॥ उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली- व्यालोलत्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रम् । उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तः- प्रीतिप्रस्यन्दिमन्दस्मितशिशिरतरं वक्त्रमुद्भासतां मे ॥ १००-४॥ बाहुद्वन्द्वेन रत्नोज्वलवलयभृता शोणपाणिप्रवाले- नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् । कृत्वा वक्त्रारविन्द्रे सुमधुरविकसद्रागमुद्भाव्यमानैः शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैस्सिञ्च मे कर्णवीथीम् ॥ १००-५॥ उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कण्ठदेशं वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्रहारप्रतानम् । नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल- ल्लोलम्बां लम्बमानामुरसि तव तथा भावये रत्नमालाम् ॥ १००-६॥ अङ्गे पञ्चाङ्गरागैरतिशयविकसत्सौरभाकृष्टलोकं लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् । शक्राश्मन्यस्ततप्तोज्वलकनकनिभं पीतचेलं दधानं ध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिङ्गिणीमण्डितं त्वाम् ॥ १००-७॥ ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ । आनम्राणां पुरस्तान्न्यसनधृतसमस्तार्थपालीसमुद्ग- च्छायां जानुद्वयं च क्रमपृथुलमनोज्ञे च जङ्घे निषेवे ॥ १००-८॥ मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् । उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया चाऽश्रितानां सन्तापध्वान्तहत्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥ १००-९॥ योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् । नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिन्धो हृत्वा निःशेषतापान्प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥ १००-१०॥ अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ क्षमेथाः स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् । द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥ १००-११॥
Reference system: Original availability from http://www.cuni.cz/ffiu/pandanus/searchtml Converted to REE format at http://www.sub.uni-goettingen.de/ebene\_{}1/fIndolo/gretiltm Converted to Itrans for Devanagari display Proofread by M.K. Krishnaswamy surfings@attbi.com and M.G.Vasudevan mgv@lntecc.com
% File name             : nArAyaNIyam.itx
% Text title            : naaraayaniiyam
% Texttype              : pramukha
% Texttype              : stotra
% Author                : Narayanabhatta
% Subject               : kavya
% Transliterated by     : Original availability from http://www.cuni.cz/ffiu/pandanus/search.html Converted to REE format at http://www.sub.uni-goettingen.de/ebene\_1/fiindolo/gretil.htm
% Partial translation is in http://www.advaita-vedanta.org/series/naaraayaNiiyam/naaraayaNiiyam\_top.htm
% Proofread by          : M.K. Krishnaswamy surfings@attbi.com and M.G.Vasudevan mgv@lntecc.com  
% Description/comments  : 
% Latest update         : April 21, 2003
% Send corrections to   : sanskrit@cheerful.com
          
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Collection

BACK TO TOP