श्रीमृन्नाथस्तोत्रम्

श्रीमृन्नाथस्तोत्रम्

श्रीमत्भू समेत मृदधीश हरे मुरारे पादाम्बुजं विजयते परमाद्भुतं ते । यस्मिन् जना दृढतरात्मनिबन्धनेन मुक्तिं प्रयान्ति सुनिरस्तसमस्तबन्धाः ॥ १॥ रूपाणि ते बहुविधानि विभो भवन्ती त्याहुः परापरविदो मुनयः शुकाद्याः । तेष्वेकमप्यलमबोधहताशयानां अस्मादृशां नयनयोरयनं न याति ॥ २॥ यद्रूपदर्शनसुखानुबुभूषुलोकान् उच्चस्तरामनुजिघृक्षुरुपात्तहादः । हित्वा पयोजलनिधिं युतमृन्निकेतं अध्यूषिवानसि विभो प्रतिमामिषेण ॥ ३॥ तत्ते वपुर्भुवनचारु निरीक्ष्य कर्तु निष्पापतां वसुवतां (?) च मया न शक्यम् । प्राग्जन्मनिर्मितशुभेतरकर्मणा य द्भाग्यागतेः सुदृढसङ्घटितः कवाटः ॥ ४॥ अन्यानि पापशमनानि सुखावहानि कर्माणि सन्त्यलमपेक्षितसाधनानि । तेषां विधिः पटुतरैरपि यत्नसाध्यः कायं क वा विवशभावमुपागतोऽहम् ॥ ५॥ त्वद्रूपवर्णनमघान्तसुखाप्तिहेतुः पुंसां भवेद्भुवि यथामतिवाग्विलासम् । इत्याहुरातवचसस्तदहं यतिष्ये तत्कर्तुमत्र मयि बेहि कृपाकटाक्षम् ॥ ६॥ नाथ त्वदीयमकुटद्युतिनिर्जितोऽसौ शोकातिरेकवहनेन भिदेलिमात्मा । भानोर्गभरितरुपयाति सहस्रतां यत् तेनाभिधीयत इहैष सहस्त्रधामा ॥ ७॥ विश्वामरेश्वरनिरन्तरसन्निधान स्थानरय हेममयभूमिधराधिपस्य । शश्वत्प्रदक्षिणमसौ विदधाति भानु व त्वदुज्ज्वलकिरीटरुचः प्रलोभात् ॥ ८॥ प्रद्योतनः प्रतिदिनं भवतः किरीट शुत्याग्रहाद्वसुगणान् वितरन् समन्तात् । यत्तश्विरादसमवाप्तमनोरथः स नस्तं प्रयाति खलु होनवसुः क्रमेण ॥ ९॥ आत्मावलोकनविधावधिकप्रमोद नेत्रेषु संविदधता जगतामधीश । त्वन्मौलिना कथमनेन तुलामुपैतु हक्पीडनं विरचयन्नयमुष्णतेजाः ॥ १०॥ कैश्यं सतोयघनदेश्यमतीव दृश्यं विश्वेश ते विजयते धृतसौरभं तत् । यत्रार्पणे सुमनासाममरद्रमाणां अर्थित्वमेति निवहोऽर्थिषु दत्तकामः ॥ ११॥ अन्तःस्थिता कुटिलता मलिनात्मता च दोषाविति त्रिजगति प्रथितैव वार्ता । त एव ते चिकुरभारगते गुणौ स्तः सूते महत्फलमहो महतां हि सेवा ॥ १२॥ भागीरथीं भवशिरोनिलयां विलोक्य ताक्पदं महितमात्मकृतेऽपि कर्तुम् । त्वत्पूजनं विहितवत्युपलब्धकामा मित्रात्मजेव तव भाति कचालिरेषा ॥ १३॥ मन्दारपुष्पमिलितो मकुटोपनद्ध माणिक्यरत्नकिरणास्तरणाभिरामः । चन्द्रार्करश्मिनिकरच्छुरिताम्बुवाह च्छायस्त्वदीयचिकुरणकरो विभाति ॥ १४॥ फालेन ते भुवनमोहनमोहनेन बालः शशी समतुलामधिशेढुमिच्छन् । जातशिरार्गल इति प्रथितखिलोक्यां को वानुचान जनवादमनहकारी ॥ १५॥ एव स्वृत्तरहितश्च कलङ्कवांश्च यातुं ललाटसमतां मम वाञ्छतीति । रोषरत्वया मयि न कार्य इतीव शंसन् बालः शशी शरणमाश्रयते पदं ते ॥ १६॥ यत्ते ललाटफलके तिलकं विभाति स्मर्तुः समस्तभयहारि च हानिहारि । शक्राइमपट्टलिखितामलरूप्यरेखा विद्वेषि मन्यसनमेतदपाकरोतु ॥ १७॥ ब्रह्मादयोऽपि च यदीयमहामहिना सम्मोहिता निजनिजाधिकृतौ निबद्धा । मायापि यञ्चलनमात्रवशात् स्वकार्ये सा गल्भते जयति सा युगली भ्रुवोस्ते ॥ १८॥ नेत्राभिपूर्णकरुणारसवीचिशोभां आबिभ्रती मदनकार्मुकमातृका सा । भ्रूवल्लरी विजयते जगतीविधान स्थानप्रहाणचतुरा चतुराकृतिस्ते ॥ १९॥ पड्केरुहाणि भवदीक्षणसाम्यलेशम् । हत्वा पुनस्तदपराधविमार्जनाय । पद्मां भवत्प्रणयिनीमलमर्थयित्वा नित्यं निजान्तरगृहेषु निवासयन्ति ॥ २०॥ यत्प्राहुराप्तवचसो महतां हि दृष्टे नों शत्रुबान्धवभिदेत्यमृषा वचस्तत् । चक्षुः सरोजयुगली भवतस्तथा हि कर्ण गता च विजयं च गतेयमारते ॥ २१॥ उत्कर्षमीप्सु कुमुदादरविन्दजातं पत्रद्वयीमुपजहार मनोहरां ते । आदाय तामकुरुथा निजनेत्रयुग्मं तेनैति सर्वविबुधार्चनयोग्यतां तत् ॥ २२॥ अर्कात्मकं भवति दक्षिणमीक्षणं ते वामं च सोममयमित्यमृषा वचस्तत् । यसम्प्रपातवशतो हृदि भक्तिभाजां नो वा कदाप्युदयगेति नमोऽणुनापि ॥ २३॥ तापप्रदो दिनकरस्तव दक्षिणा हक् भूत्वा समस्तजनतापमपाकरोति । तद्वज्जडप्रकृतिरोषधिपोऽपि सव्य नेत्रत्वमेत्य जगतां जडतां धुनोति ॥ २४॥ नासा विभो तव विभाति तिलप्रसून सूनं रुचा विदधती च समुन्नताप्रा । यस्याः समं निजकतुण्डमिति स्मरन्तः कीरा भवन्ति बत पञ्जरबन्धयोग्याः ॥ २५॥ वक्त्राभिधानसरसीरहमण्डने ते नासाह्वये रुचिविराजिनि बीजकोशे । चित्ताम्बुजं लसतु मे भगवन्नजलं युक्तं सजातिकमिथःपरिमेलनं स्यात् ॥ २६॥ उद्भिद्यमानतरुपल्लवतुल्यकल्यौ ओष्ठाधरौ तव वरिष्ठतरौ विभातः । यत्पानयोग्यमतिभाग्यमुपेत्य लक्ष्मीः श्लाघ्या भवत्यखिललोकविलासिनीषु ॥ २७॥ देव त्वदीयरदनच्छदपल्लवेऽस्मिन् आरुण्यमेतदधरीकृतबिम्बशोभम् । लक्ष्मया हृदन्तरनिरन्तरतोत्पतिष्णुः पानप्रसक्त इव रागभरो विभाति ॥ २८॥ माधुर्यमीप्सुरधरामृतसम्भवं ते- माता जगत्त्रयभुवामरविन्दवासा । त्यक्त्वा पयोजलधिमाप्तवती भवन्तं कोवोत्तरोत्तररसाभिरतिं न कुर्यात् ॥ २९॥ ओष्टेन ते मृदुनरेण हरे रमायाः शुद्धैर्द्विजैविरचितं क्षतमाप्यते यत् । एतस्य सा निरपराधनवप्रवाल सङ्केषु भङ्गकरणस्य फलानुभूतिः ॥ ३०॥ मुक्तावलेर्निजरुचा सवदीयदन्तात् उनत्वमस्ति यदम निजदोषमेषा । हतुं सदा व्यवसिता नखरच्छलेन त्वत्पादपदापरिषेवणमादधाति ॥ ३१॥ दन्तप्रभाप्रविजितं तव पङ्कजाक्ष कुन्दप्रसूनमतनोरिषुतामवाप्य । त्वन्नायकं त्रिभुवनं क्षुभितं तनोति मानधये सति क एव हि जोषमास्ते ॥ ३२॥ मन्दस्मितं मधुरिपो मधुरं त्वदीयं चन्द्रप्रभा मम मनोमयकैरवस्य । उन्निद्रतां जनयतादतितीव्रताप संसारभास्करविलासनिपीडितस्य ॥ ३३॥ यद्यम्बुजस्य विदलदलमण्डितस्य मध्यं बता तुहिनदीधितिदीधितिः स्यात् । तमुम्बुजाक्ष भवदास्यमहोत्पले त्व- न्मन्दस्मितातिरसावुपमामुपेयात् ॥ ३४॥ गण्डद्वयं मकरकुण्डलमण्डितं ते निर्णिक्तशक्रमणिदर्पणदर्पहारि । वर्णप्रकर्षजनितक्षणमीक्षणानां अर्णोरहाक्ष मम चेतसि सन्निधत्ताम् ॥ ३५॥ एषा कपोलयुगली मणिकर्णिकायाः- स्नानं सदा विदधती रुचिवारिपूरे । नैर्मल्यमीगुपलब्धवतीति वक्तुं सामर्थ्यमेत भुवने कतमस्य जिह्वा ॥ ३६॥ कृत्वा समुद्रमथनं भवता किमर्थ मुत्थापिस्तदुरसि स्थित एष चन्द्रः । आ ज्ञातमात्मवदनं नितराममुष्मा दुत्कृष्टशोभमिति बोधयितुं जनैघान् ॥ ३७॥ त्वद्वक्त्रपद्मसुषमाकणिकाशतांश स्तेयादभून्महदघं जलजन्मनां यत् । स्नानेन तैरविरतं परिधूतमेतत् सन्दृश्यते पयसि शैवलकैतवेन ॥ ३८॥ लोकत्रयेऽत्र रमणीयपदार्थसार्थान्- आतन्वतो बहुविधानरबिन्दयोनेः । एकत्र वापि भवदास्यतुलां विधातुं लोकेश नालमभवत् करकौशलं तत् ॥ ३९॥ पूर्णः कलाभिरखिलाभिरपि द्विजानां राजापि तन्न खलु वन्द्यत एष चन्द्रः । यत्तावकेन वदनेन समत्सरोऽसौ स्वात्मापकर्षकर एव महद्विरोधः ॥ ४०॥ देधारत्वदीयवचनामृतभाग्यभाग माधुर्यलेशमुपगृह्य किमप्यकार्षीत । द्राक्षां सितां मधु पयः कदलीफलं च किं विस्तरेण वचसां मधुरं समस्तम् ॥ ४१॥ कण्ठेन ते परिभवं बत लम्भितास्ते शङ्काः सरिद्रमणवारिणि लीनवन्तः । आक्रन्दितेन गुरुशोकभरोत्थितेन साहायकं विदधते जलधि दाध्वनीनाम् ॥ ४२॥ वक्षःस्थलीलसितकौस्तुभरत्नभाभिः कण्ठप्रकाण्डमरणीकृतमाविभाति । अर्कप्रभाझरनिमनतनोर्घनस्य लक्ष्मी परामनुहरन् मधुकैटभारे ॥ ४३॥ पद्मालयानखपदैः परिभूषितं ते तत्कर्णनालमुपमापदवीं लभेत । भास्वत्पलाशमुकुलानि सुलोहितानि स्कन्धं तमालनगमस्य यदि श्रयेयुः ॥ ४४॥ वक्षस्तव स्मरणशीलजनानभीष्ट द्वारावृतिस्थिरकवाटमिदं विभाति । यत्र श्रियः ससुखखेलनयोग्यगेहे मुक्तादिरत्ननिकरा विलसन्त्यनेके ॥ ४५॥ देव त्वदीयहृदगं तृशकदा नात् लक्ष्म्याः स्तनद्वरासहं सुदढोपगूढे । भक्तानुकम्पनविधावतिमार्दवं च तचित्रमेव भगवन् हृदयं ममैति ॥ ४६॥ दोर्भिश्चतुर्भिरमरेऽत्र अमरेन्द्र मणिप्रवलुप्त स्तम्भैः प्रशुम्भितमुरः श्रितपुष्पमास्यम् । उद्रत्नदीपमुदितांशुबितानकं तत् पद्मालयानटनरङ्गतलं विभाति ॥ ४७॥ भूना निजस्य महसः परिपूरिताशो लोकेऽत्र सन्तमसमन्तगतं च तन्वन् । उत्थानमभ्युपगतः पयसां निधेश्च त्वद्वक्षसि स्फुरति कौस्तुभबालकार्कः ॥ ४८॥ चन्द्रश्च कौस्तुभमणिश्च सहोदरौ द्वा वेकस्तयोर्मदनसैन्यपतित्वमागात् । अन्यः समेत्य भगिनीसदनं तवोरः सम्पन्नमीश तनुते महसा निजेन ॥ ४९॥ हारीति वक्तुमुचितं खलु तद्वदत्र हारेण युक्तमरविन्ददुलायताक्ष । वक्षःस्थलेन तव योगमुपागतः सन् हारः पुनर्भवति हारिपदाभिधेयः ॥ ५०॥ यैषा तवोरसि विराजति वैजयन्ती तामात्मदत्वमयते किमये गुणस्ते । यत्सा करोति सहसा सरसीरहाक्ष सेवानुषक्तजनतामपि वैजयन्तीम् ॥ ५१॥ भावत्कवक्षसि विभो परिभासमानं श्रीवत्ससंज्ञमृषिवर्यपदाब्जचिह्नम् । वेधत्रिलोचनभवत्सु परात्मरूपं त्वामेव सत्त्वमयमूर्तिरिति ब्रवीति ॥ ५२॥ स्वालकृतिस्थितमहाघमणिप्रकाण्ड प्रोद्यत्प्रभौघशबलाः सबला भुजारते । तापत्रयं सपदि तज्जनिकर्तृपापं चापास्य मे ददतु मुक्तियुतं त्रिवर्गम् ॥ ५३॥ एकः सुधीरिव गृहीतसुदर्शनस्ते बाहुः परो धनदबत्समुपेतशङ्खः । पदनान्वितोऽन्यतम इभ्यगृहोपमश्च शेषो महागदतयर्षभशैलतुल्यः (?) ॥ ५४॥ धारासहस्रकृतदानववंशदाह दोषानुषङ्गपरिदृद्धगुणं तवेदम् । चक्रं निरस्तभवचक्रमुपाश्रिताना मारमाकरक्षणमनुक्षणमादधातु ॥ ५५॥ अब्जन्मनैव न हि केवलमापदात्यात् (?) अप्याप्तवान् सहजतामनृतद्युतेर्यः । सोऽयं भुजाग्रवसतिस्तव पाञ्चजन्यः श्रूयेत मन्द्रनिनदो मदसुप्रयाणे ॥ ५६॥ पङ्केरुहं करगतं तव पाणिपाद नेत्राननं युधि विजेतुमुपागतेषु । एकं गृहीतमिव भाति सरोरुहेषु भीत्या प्रधाव्य पतितानि वने परणि ॥ ५७॥ कौमोदकी त्वसमयेष्वपि रोषभारत् दैत्यान् समेत्य सतृणं निहनिष्यतीति । मत्वा ततः किमु निरोधुमयि त्वयासौ एकेन पाणिकमलेन धृता सदास्ते ॥ ५८॥ रोमावलिस्तव विराजति हारयष्टयो मध्यस्थिता विमलयोर्मधुपस्नगाभा । गङ्गाप्रवाहयुगलस्य गतोऽन्तरालं ऊर्ध्वं प्रवृत्त इव भानुसुताप्रवाहः ॥ ५९॥ अभ्यर्थितानि ददती भजतां फलानि नाभ्यालवालत उदेत्य रुगम्बुपूर्णात् । आरूढवत्युदरदेशमतीत्य वक्षो रोमालिकल्पलतिका तव भासते सा ॥ ६०॥ नाभिप्रहिर्विमलया प्रभया पयोभि रापूरितस्तव विभाति गभीररूपः । श्रीमृनाथस्तोत्रं यस्मादुदञ्चितविचित्रसरोरुहेण त्वत्प्रेरितत्रिभुवनं कृतवान् विधाता ॥ ६१॥ मध्यप्रदेशमतिसूक्ष्मतरस्वरूप मप्युह्यमानभुवनत्रयमण्डलं ते । उहामदाममाहितोदरबन्धनद्धं श्रद्धापुरस्सरमर्दिवमभ्युपैमि ॥ ६२॥ मध्यं तवेदशभितीश कथं ब्रवीमि हरभ्यां निजानुभवतस्तनु निश्चितं यत् । अभ्यासितं त्रिभुवनैरिति सज्जनोक्त्या विस्तारयुक्तमतिमात्रमिति श्रुतिभ्याम् ॥ ६३॥ कान्तिप्रवाहि तपदेव तव देव नितन्बबिम्ब काचीगुणाकलितमित्यगि केचिदाहुः । नैते प्रमादसहिता अनुयोगयोग्या- काञ्चीप्रधानकलितं तु वयं वदामः (?) ॥ ६४॥ विद्योतते वरद ते स कटि प्रदेशः लक्ष्म्या घनेन जघनेन समागमाद्यः । सौभाग्यमात्मसमवेतमनन्यलभ्यं व्यक्तं ब्रवीति सकलोपरि वर्तमानम् ॥ ६५॥ आपादितो यदि शताङ्गपरो निजार्थः- स्यादेव ते गुरुनितम्बभरेण हास्यः (?) । मत्वेति मन्दमरुतं स्वरथं मनोभूः चक्रे यदस्य तदनागतकर्तृताहो ॥ ६६॥ काञ्ची तवेयमरुणैः किरणैनितम्ब- प्रान्तस्तमालसदृशां च रुचां प्ररोहैः । शोणासिसं कमपि कान्तिझरं विधाय तेनानुलिम्पत इमानि दिशां मुखानि ॥ ६७॥ मुक्तावलीपरिचिता सुमनोरमा च प्रोद्योतमानमणिभूषणतां च याता । त्वत्काचिकामहितलोचनचन्द्रिका च भूमन् कथं न विबुधैः परिपूजनीया ॥ ६८॥ सन्ध्यापयोधरमनोहरमम्बरं ते सन्ध्यानयोग्यमनिशं जनशं दधानम् । वन्ध्येतरं जनयितुं जननपयासं सन्धारचेमहि हृदन्तरतन्तकीर्ते ॥ ६९॥ पादारविन्दयुगलं भजतां जनानां दूरीकृतं रचयितुं तरसा तमोऽन्धम् । मालः प्रभाकृदुदितः किमिहेति शकां पीताम्बरं वितनुते भवदीयमेतत् ॥ ७०॥ चित्तं यथा विटजनस्य नितान्तरक्तं विस्तारवञ्च मतिवद्विदुषां जनानाम् । शाब्दं च शास्त्रमिव सूत्रगणैर्सहार्वैः क्लप्तं विराजतितरां भवदुत्तरीयम् ॥ ७१॥ ऊरुद्वयेन भवतः कृतमत्सराय ये भास्वन्द्वपाधिपकरा भुवनोत्तरेण । प्राणाधिका अपि गजा अपराधतोऽस्मान् न्यूनैर्भवन्ति खलु शङ्खलया निबद्धाः ॥ ७२॥ स्थूणागणाश्च भवदुरुतुलाभिलाषो त्कर्षादुदारमपराधमवाप्तवन्तः । तद्दण्डनाय विधिना विहितं शिरस्सु नैकेतनं भरमहर्दिवमुद्वहन्ति ॥ ७३॥ त्वक्सक्थिसाम्यकृतदोषशमाय रम्भा विश्राण्य ते निजफलानि जितामृतानि । त्वत्सम्प्रसादजनितान्तरमोदजातं शैत्यं तनोर्बहिरपि प्रसृतं बहन्ति ॥ ७४॥ अष्टीवतोयमनिष्टनिरासधृष्टं निष्टयतनिर्मलसुनीलरुचिप्रपञ्चम् । जबोरुहामनामयुतदेशयुगान्तराले सीमावबोधनिहितोपलवद्विभाति ॥ ७५॥ पुष्पायुधो भुवनमोहविधानदक्षं- चूर्ण विधाय मणिसम्पुटकद्वयान्ते । विन्यस्य तन्निहितवान् किमिहेति शङ्का मङ्क्रयत्यजित जानुयुगं तवेदम् ॥ ७६॥ नात्यायते च न च वामनतापुपेते दैत्यारिनाथमणिमण्डतुलामुपेते । मञ्जीरनद्धमणिदीप्तिनिमग्नरूपे संज्ञायतां मम मनः प्रसृते गतं ते (?) ॥ ७७॥ दग्धः पुरा पुरभिदा पुनरात्मजन्ते भूत्वा स पुष्पविशिखं कलयाञ्चकार । यद्रूपसौष्ठवमवेक्ष्य निजं निषङ्गं जवाद्वयं जयति ते जगदर्यमेतत् ॥ ७८॥ कस्यापि जात्वपि निजान्वयजस्य कण्ठ स्त्वज्जन्या समरुचिः किमुदेष्यतीति । ज्ञातुं महागणकमाश्रयते शिखीन्द्रः । स्कन्दं न वक्ति स च शुक्कृतितन्द्रितोऽस्य ॥ ७९॥ मञ्जीर एष भवतो महनीयरूपः सवृत्ततामुपगतः श्रवणीयशब्दः । वन्द्यः सतां च भवतीति किमत्र चित्रं ताहग्गुणो न कथमस्तु सुवर्णजन्मा ॥ ८०॥ त्वञ्चाररूपमणिनू पुरनिस्वनस्य सादृश्यमाकलयितुं निनदे स्वकीये । हंसः प्रपद्य शरणं चतुराननं तं तत्पत्रतामनुभजन भजतेऽनुवेलम् ॥ ८१॥ आकर्णनीयनिनदो भृशदृश्यरूपः- स्पर्शान्वितो रसदवर्णनतां प्रपन्नः । सौरभ्यवानपि विभो तव नू पुरोऽयं सन्तर्पणो विजयते सकलेन्द्रियाणाम् ॥ ८२॥ पादाप्रमेतदयि ते न हि वर्णयामि किं तन्निमित्तमिति चेदिदमुच्यते च । तद्वर्णने कमठजातिमुपैतु लज्जां तद्वंशजां तु तव मूर्ति मियं न थायात् ॥ ८३॥ पढेरुइस्य अपतः पदसंज्ञितस्य पत्राणि भान्ति परमगुलिसंज्ञितानि । येषु क्षरन्मधुरसेषु सतां मुनीनां चेतोऽभिधा मधुकराः सततं रमन्ते ॥ ८४॥ मुद्राकृताधिकरुचिस्ततिरङ्गुलीनां मुद्राविहीनरुचिरप्यवभासते ते । लक्ष्मीपते भवति पल्लवहारितास्या भक्तावलेरपि विपलबहारिता च ॥ ८५॥ आशादशाधिवसतां निजसेवकानां आशानुपूरणकृतेऽगुलयो दशैताः । त्वत्पादयोरपि च तत्तमलां विलुप्त्यै ज्योत्स्नाकिरश्च दश तन्नखचन्द्रडिम्भाः ॥ ८६॥ धावल्यमस्ति नखरेषु तवेति केचित् प्राहुर्बुधाः कतिचिदत्र तु रक्तिमेति । पक्षी निसर्गरमणीयतया त्रिलोक्या भक्तानुरागभजनादपि तौ घटेते ॥ ८७॥ एकस्थिति वितनुतो न गुणौ विरुद्धौ पादद्वये तु तव नैवममेयधामन् । मुक्तावलीसुखकरा नखरास्त एव मुक्तावलीसुखहराश्च भवन्ति चित्रम् ॥ ८८॥ श्यामात्मनस्तव कुतो नु पदाम्बुजाभ्या मासादितः परमशोभन एष रागः । किं वा नमत्सुरकिरीटमणेरुताहो संवाहनेषु कमलाकरपल्लवाभ्याम् ॥ ८९॥ दानक्रियाधरितकल्पकवृक्षमूर्ध न्यासेन तत्किसलयोत्करतः किमाहो । दैत्यारिनाथमथनक्रमणे तदास्य निष्यन्दमानबहलक्षतजप्रवाहात् ॥ ९०॥ मुक्तिप्रदं महितकान्तियुतं समस्त सम्पत्करं च विपदां हरणप्रवीणम् । ऋष्यनग्नाधनविपन्नजयाशयानां सङ्घट्टसङ्कटनिवासपदं पदं ते ॥ ९१॥ श्रीमृनाथस्तोत्रं अम्भोरुहाणि नवपादपपल्लवानि त्वत्पादयोरभिलषन्ति सहक्षतां यत् । सैषां न दोष इह किं नु वनेशयानां स्वस्यापरस्य च विशेषनिबोधलेशः ॥ ९२॥ यत्पादपद्ममहिमगितीश शक्यं नो देदितुं प्रसितिरस्ति तथा विकारिकि कापि । यत्तत्परागवहनेन पुरा स्वमूर्ना शक्तोऽभवत् कमलभूर्भुवनानि कर्तुम् ॥ १३॥ एतावतापि पदयोर्महिमानुमेय स्तोयं यदीयनखधावनपूतपूतम् । लोकत्रयीवृजिनकाननदाहदक्षं दक्षारिणा शिरसि यद्भियतेऽनुवेलम् ॥ ९४॥ रेखा विभाति चरणे तव सूक्ष्मसूक्ष्मा स्थूलस्य मङ्गलशतस्य सदा सवित्री । कार्याणि कारणगुणान् दधतीति वातों मिथ्येति या कथयते निजचेष्टयैव ॥ ९५॥ चित्रं भवोष्महरणं महदकुशं च सेवाकृतां व्यसनवारणवारणार्थम् । हर्षाभिषेकविधये कलशाङ्करेखा रूपं दधजयति ते पदपद्मयुग्मम् ॥ ९६॥ तोयं निपीय तव कान्तिमवाप्य मेघा गर्जन्त अर्जितमदा दिवि सञ्चरन्तः । तस्मिन् गते विरुचयो लघवश्च सन्ति शोभां लभेत भुवि कः स्वधनप्रणाशे ॥ ९७॥ त्वत्कान्तिलेशहरणादपराधवन्त स्वासात्तमालतरवो विपिने निलीनाः । सत्त्वाश्रयोऽपि च गभीरतरोऽपि सिन्धुः शब्दायते तरलतां च मुहुः प्रयाति ॥ ९८॥ त्वचारुविग्रहगुणान् भणितुं फणीन्द्रः शब्दान् विधाय विततान् विविधप्रमाणान् । जिह्वासहस्त्रयुगलेन निगद्य नान्तं गच्छन्ननन्त इति नाम जगादमि नूनम् ॥ ९९॥ तत्तादृशामपि मुकुन्द भवद्गुणानां- तावत्प्रशंसनविधौ भुति कः समर्थः । बुद्भथा प्रगृह्य कवयोऽपि तदीयलेशं उक्त्वा सविस्तरमहो विरमन्ति वाचः ॥ १००॥ ईङ्ग्विधा तव विभो तनुरैहिकस्य पारत्रिकस्य च सुखस्य नृणां विधात्री । चेतःस्थिति मम विधाय विधूय दुःखा न्यानन्दभारमधिकं विदधातु नित्यम् ॥ १०१॥ स्तोत्रं मया कृतमिद प्रतिवासरं ये । सङ्कीर्तयन्ति कलयन्ति च कर्णयोर्ये । देष श्रीभूसमेत मृदधीश भवत्प्रसादात् एषां च सबैमभिकाशितमस्तु सिद्धम् ॥ १०२॥ इति श्री श्रीयुतमृन्नाथस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Mrinnatha Stotram 03 16
% File name             : nAthastotram.itx
% itxtitle              : mRinnAthastotram
% engtitle              : mRinnAthastotram
% Category              : vishhnu, stotra, shataka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 03-16
% Indexextra            : (Scan)
% Latest update         : August 14, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org