श्री शनैश्चरकृत नृसिंहाष्टकम्
श्री गणेशाय नमः । श्री शनैश्चराय नमः ॥
श्रीलक्ष्मीनृसिंहाय नमः ।
श्रीशनैश्चरकृत नृसिंहाष्टक प्रारम्भः ॥
ॐ यत्पादपङ्कजरजः परमादरेण
संसेवितं सकलकल्मषराशिनाशम् ।
कल्याणकारणमशेषनिजानुगानां
सत्त्वं नृसिंह मयि देहि कृपावलोकम् ॥ १॥
सर्वत्र चञ्चलतया स्थितयापि लक्ष्म्या
ब्रह्मादिवन्द्यपदया स्थिरयान्यसेवी ।
पादारविन्दयुगुलं परमादरेण
सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ २॥
यद्ररूपमागमशिरः प्रतिपाद्यमाद्य-
माध्यात्मिकादि परितापहरं विचिन्त्यम् ।
योगीश्वरैरपगताखिलदोषसङ्घैः
सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ३॥
प्रह्लादभक्तवचसा हरिराविरासीत्
स्तम्भेहिरण्यकशिपुंय उदारभावः ।
ऊर्वोनिधाय तदुदरो नखरैर्ददार
सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ४॥
योनैजभक्त मनलाम्बुधिभूधरोग्र
श्रूङ्गप्रपात विषदन्तसरीसृपेभ्यः ।
सर्वात्मकः परमकारूणिकोरक्ष
सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ५॥
यन्निर्विकार पररूपविचिन्तनेन
योगीश्वरा विषयावीत समस्तरागाः ।
विश्रान्तिमापुर विनाशक्ती पराख्यां
सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ६॥
यद्रूपमुग्रमरिमर्दनभावशाली
सञ्चिन्तनेन सकलाभवभीतिहारी ।
भूतज्वरग्रहसमुद्भवभीतिनाशम्
सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ७॥
यस्योत्तमं यश उमापतिमग्रजन्म
शक्रादिदैवतसभासुसमस्तगीतम् ।
श्रूत्वैक सर्व शमलप्रशमेकदक्षं
सत्त्वं नृसिंह मयि देहिकृपावलोकम् ॥ ८॥
श्रीकृष्ण उवाच
एवं श्रुत्वा स्तुतिन्देवः शनिना कल्पिता हरिः ।
उवाच्यथं ब्रह्मवृन्दस्य शनि सद्भक्तवत्सलः ॥
श्रीनृसिंह उवाच
प्रसन्नोहं शने तुभ्यं वरं वरय शोभनम् ॥
शनिरुवाच
नृसिंह त्वं मयि कृपां कुरु देवदयानिधे ।
मद्वासरस्तवप्रीतिकरस्याद्देवतापते ॥
मत्कृतं त्वत्स्तवं येवै श्रुण्वति च पठति च ।
सर्वान् कामान् पूरयेथां तेषां त्वं लोकभावना ॥
श्रीनृसिंह उवाच
तथैवास्तु शनेऽहं वै रक्षोभुवनमास्थितः ।
भक्तकामान् पूरयिष्ये त्व ममैक वचश्रुणु ॥
त्वत्कृतं मत्परं स्तोत्रं यः पठेत्त श्रुणोतियः ॥
द्वादशाष्टमजन्मस्थं त्वद्भयं नास्ति तस्यवै ॥
इति श्री शनैश्चरकृत नृसिंहाष्टकं सम्पूर्णम् ।
श्रीमद्गङ्गामाहात्मे रक्षोभुवनप्रस्तावे श्रीमद्दिव्यलक्ष्मीनृसिंहस्तुतिः
नवमोऽध्यायः ॥
श्रीमद्दिव्यलक्ष्मीनृसिंहार्पणमस्तु ॥
श्रीकृष्णार्पणमस्तु ।
Encoded and proofread by Yash Khasbage