श्रीनृसिंह ऋणमुक्तिस्तोत्रम्
देवता कार्यसिद्ध्यर्थं सभास्तम्भसमुद्धितम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ १॥
लक्ष्म्यालिङ्गित वामाङ्गं भक्तानामभयप्रदम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ २॥
सिंहनादेन महता दिगदन्तिविदारणम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ३॥
प्रह्लादवरदं श्रीशं दैत्यैश्वरविदारणम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ४॥
आङ्गमालाधरं शङ्खचक्रायुधधारिणम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ५॥
स्मरणात् सर्वपापघ्नं कद्रुजविषशोधनम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ६॥
कोटीसूर्यप्रतिकाशमभिचारविनायनम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ७॥
वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादि शंसितम् ।
श्रीनृसिंह महावीरं नमामि ऋणमुक्तये ॥ ८॥
इति श्रीनृसिंह ऋणमुक्तिस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Yash Khasbage