नृसिंहभुजङ्गप्रयातस्तोत्रम्
वेदशैलगत
अजोमेशदेवं रजोत्कर्षवद्भूद्रजोत्कर्षवद्भूद्रजोद्धूतभेदम् ।
द्विजाधीशभेदं रजोपालहेतिं भजे वेदशैलस्फुरन्नारसिंहम् ॥ १॥
हिरण्याक्षरक्षोवरेण्याग्रजन्मस्थिरक्रूरवक्षोहरप्रौढदक्षम् ।
भृतश्रीनखाग्रं परश्रीसुखोग्रं भजे वेदशैलस्फुरन्नारसिंहम् ॥ २॥
निजारम्भशुम्भद्भुजास्तम्भडम्भद्दृढाङ्गस्रवद्रक्तसंयुक्तभूतम् ।
निजाघावनोद्वेललीलानुभूतं भजे वेदशैलस्फुरन्नारसिंहम् ॥ ३॥
वटुर्जन्यजास्यं स्फुटालोलघाटीसटाझूटमृत्युर्बहिर्गानशौर्यम् ।
घटोद्भूतपद्भूद्धटस्तूयमानं भजे वेदशैलस्फुरन्नारसिंहम् ॥ ४॥
पिनाक्युत्तमाङ्गं स्वनद्भङ्गरङ्गं ध्रुवाकाशरङ्गं जनश्रीपदाङ्गम् ।
पिनाकिन्यराजप्रशस्तस्तरस्तं भजे वेदशैलस्फुरन्नारसिंहम् ॥ ५॥
इति वेदशैलगतं नृसिंहभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran