श्रीनृसिंहस्तुतिः
ॐ श्री नृसिंहः केशवः सौरी गोविन्दो गरुडध्वजः ।
माधवश्चक्रपाणिश्च विष्वक्सेनो हलायुधः ॥ १॥
शाश्वतः शङ्करः शूली हयग्रीवोच्युताग्रजः ।
डमरुशूलहस्त्यैश्च नागाभरणभूषितः ॥ २॥
कृपयानन्दसम्पूर्णौ वृषाख्यो वृषभध्वजः ।
नारायणः परं ज्योतिः सुज्योतिर्ज्योतिषां पतिः ॥ ३॥
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ।
नररूपोऽथ सिंहश्च षोडशायुधधारिणः ॥ ४॥
शुक्तिकर्णौ विरूपाक्षो नखायुधविभूषणः ।
दंष्ट्राकरालमत्युग्रः श्रीशः श्रीधरशाश्वतः ॥ ५॥
नीलो नीलस्युरागिनश्च शुन्यमाकशभूध्रुतः ।
त्वं ज्योतिर्ब्रह्मैन्द्रश्च विष्णुरीशं परं गुरुः ॥ ६॥
इति श्रीनृसिंहस्तुतिः समाप्ता ।