$1
श्रीकृष्णस्तोत्रं श्रीनारदरचितम्
$1

श्रीकृष्णस्तोत्रं श्रीनारदरचितम्

श्री गणेशाय नमः । वन्दे नवघनश्यामं पीतकौशेयवाससम् । सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १॥ राधेशं राधिकाप्राणवल्लभं बल्लवीसुतम् । राधासेवितपादाब्जं राधावक्षःस्थलस्थितम् ॥ २॥ राधानुगं राधिकेष्टं राधापहृतमानसम् । राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ ३॥ राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभम् । राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥ ४॥ ध्यायन्ते योगिनो योगान् सिद्धाः सिद्धेश्वराश्च यम् । तं ध्यायेत् सततं शुद्धं भगवन्तं सनातनम् ॥ ५॥ सेवन्ते सततं सन्तो ब्रह्मेशशेषसज्ञकाः । सेवन्ते निर्गुणं ब्रह्म भगवन्तं सनातनम् ॥ ६॥ निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् । नित्यं सत्यं च परमं भगवन्तं सनातनम् ॥ ७॥ यं सृष्टेरादिभूतं च सर्वबीजं परात्परम् । योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ॥ ८॥ बीजं नानावताराणां सर्वकारणकारणम् । वेदावेद्यं वेदबीजं वेदकारणकारणम् ॥ ९॥ योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् । इत्येवमुक्त्वा गन्धर्वः पपात धरणीतले ॥ १०॥ नमाम दण्डवद् भूमौ देवदेवं परात्परम् । इति तेन कृतं स्तोत्रं यः पठेत् प्रयतः शुचिः ॥ ११॥ इहैव जीवन्मुक्तश्च परं याति परां गतिम् । हरिभक्तिं हरेर्दास्यं गोलोके च निरामयः ॥ १२॥ पार्षदप्रवरत्वं च लभते नाऽत्र संशयः ॥ १३॥ ॥ इति नारदपञ्चरात्रे कृष्णस्तोत्रं सम्पूर्णम् ॥ Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
$1
% Text title            : nArada rachita kRiShNastotra
% File name             : naaradakrishnastotra.itx
% itxtitle              : kRiShNastotram (nAradarachitam)
% engtitle              : kRiShNastotra (nArada)
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : WebD
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : nAradapa.ncharAtra
% Latest update         : January 16, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org