॥ श्रीनन्दकुमाराष्टकम् ॥

सुन्दरगोपालम् उरवनमालं नयनविशालं दुःखहरम् । वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ॥ वल्लभघनश्यामं पूर्णकामम् अत्यभिरामं प्रीतिकरम् । भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ १॥ सुन्दरवारिजवदनं निर्जितमदनम् आनन्दसदनं मुकुटधरम् । गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ॥ वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरम् ॥ २॥ शोभितमुखधुलं यमुनाकूलं निपटअतूलं सुखदतरम् । मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् । वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरम् ॥ ३॥ शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेशं कामवरम् । मायाकृतमनुजं हलधरअनुजं प्रतिहतदनुजं भारहरम् । वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरम् ॥ ४॥ इन्दीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरम् । हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् । वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरम् ॥ ५॥ अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरम् । मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् । वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरम् ॥ ६॥ जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतरङ्गं रसिकवरम् । गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् । वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरम् ॥ ७॥ वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरम् । कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् । वल्लभदुःखहरणं निर्मलचरणम् अशरणशरणं मुक्तिकरम् ॥ ८॥ ॥ इति श्रीमहाप्रभुवल्लभाचार्यविरचितं श्रीनन्दकुअमराष्टकं सम्पूर्णम्॥

% Text title            : nandkumaaraashhTakam
% File name             : nandakumara8.itx
% itxtitle              : nandakumArAShTakam
% engtitle              : Hymn to Krishna as Nandakumar
% Category              : aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Swami vallabhaachaarya
% Language              : Sanskrit
% Subject               : kaavya/religion
% Transliterated by     : N
% Proofread by          : N
% Latest update         : October 11, 2001
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP