पाण्डुरङ्गस्तोत्रम् ५

पाण्डुरङ्गस्तोत्रम् ५

(पञ्चमम्) (स्रग्विणीवृत्तम्) सख्यमापुर्यया बालगोपा वने भीमरथ्यास्तटे सत्यतः(१) पावने । साधिता पुण्डरीकेण या साधुना सिद्धिरालिङ्ग्यते(२) सज्जनैः साऽधुना ॥ १॥ क्वापि(३) कस्मादपीषन्नदासादरं यान्त्विति त्यक्तनिद्रं सदासादरं । तिष्ठते या कलौ सानुकम्पाऽवनौ श्यामलाहं तदङ्घी भजे पावनौ ॥ २॥ विठ्ठलाख्या भवाब्धौ तरिः(४) पारदा यां श्रिता (५)वज्रवेदेन्दुभृन्नारदाः । स्थापयामास सद्धार्मिकः कोऽपि तां चेतसैवाश्रये साधुभिर्गोपिताम् ॥ ३॥ पाणिपद्मद्वयन्यासराजत्कटिं श्यामलां कोमलां पीतविद्युत्पटीं । साधुभिर्नृत्यमानामुदारां नटीं सम्पिबामोद्भुताङ्गीं सुधाया घटीम् ॥ ४॥ गाढमालिङ्ग्यते या सदा पापिभी रम्यरूपा यया नेक्ष्यते कापि भीः । स्वैर्गुणैर्मुग्धगीतैः सदा मोहितां तां विशङ्कं स्वमातुर्वदामो हिताम् ॥ ५॥ मय्यपत्ये स्वकर्मालसेऽलं क्रुधा चिन्तया साधुभिस्ताम्यते कीं मुधा । भीमरथ्यास्तटे (६)स्वर्ग्यलभ्या बुधा भो मया पीयते साधुलब्धा सुधा ॥ ६॥ तापपापौषधं साधु यन्नाम या सन्मुखाच्च श्रुता सुप्रसन्नाभया(७) बल्लवीनां सखीं देवतादेवतां चिन्तये (८)चित्तमेत्युस्सवादेव ताम् ॥ ७॥ त्यक्तसिंहासनाः साधवः केवलं प्राप्तुकामा हि यत्पादपांसुं दरीं । ईयुरेवोत्सुकाः को न तो चिन्तयेन्निर्जितस्वर्गसत्पादपां सुन्दरीम् ॥ ८॥ को न तां चिन्तयेच्छुद्धिकामः कलौ (९)यत्पदाम्भोजनिर्णेजनापां ततिः । साधुनीराजिता (१०)साधुनीराऽजिता सा धुनी राजिता शम्भुमौलावपि ॥ ९॥ सिद्धिरत्युत्तमा योग्यलभ्याऽसतस्त्रासदेवावरान्नित्यमभ्यासतः । पुण्डरीकेण या साधुनीराऽजिता(११) भक्तवृन्दैः कलौ साधुनारं जिता ॥ १०॥ जीवनेनाप्यहोधीष्टकं(१२) तर्पितो भीमरथ्यास्तटे पुण्डरीकेण यः । श्यामलः कोऽपि दीपः पतङ्गप्रियः(१३) श्लिष्यतां तापहा निर्मलः स्नेहकृत् ॥ ११॥ इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् । टिप्पणि * अस्य कविलिखिता मातृकोपलभ्यते । किन्तु तस्यां समाप्तिद्योतको लेखो न दृश्यते न वात्रैवेतत्समाप्तमिति परिज्ञातुं पार्यते । इदं तु नामधेयमस्माभिः प्रकरणार्थमनुसृत्यैव विहितमित्यवधेयं सहृदयैः । १। सत्यतः सत्यलोकादपि । २। सिद्धिः श्रीविठ्ठलरूपा । ३। ईषदपि दासाद् अरं द्रुतं क्वचिदपि मा यात्वितीव याऽवनौ तिष्ठते तदङ्घी अहं भजे इत्यन्वयः । ``यान्त्विति'' इति तु बहुवचन प्रामादिकम् । ``तिष्ठते'' इत्यामनेपदमपाणिनीयम् । ४। तरिर्नौः । ५। वज्रभृदिन्द्रः, वेदभृद ब्रह्मा, इन्दुभृत् शङ्करः । ६। स्वर्गिणो देवास्तेषामलभ्या । ७। अविद्यमानं भयं यस्याः सा अभया । ८। चित्तं तामुत्सवादेवैति इत्यन्वयः । ९। यस्य पदाम्भोजयोर्निणेजनं क्षालनं तदर्थमुपयुक्तानामपां ततिः साधुभिनीराजिता स्तुता । १०। साधुनीरा अजिता सा धुनी भीमरथी शम्भुमौलावपि राजिता इत्यन्वयः । ११। आदरान्नित्यमभ्यासतः सततमुपसेवनया असतो भावयतीति तादृशीति कथञ्चिद्योजनीयम् । १२। अधीष्टकमिष्टकायाम् । १३। पतङ्गस्य वैनतेयस्य प्रियः । Proofread by Rajesh Thyagarajan
% Text title            : Panduranga Stotram 5
% File name             : pANDurangastotram5.itx
% itxtitle              : pANDuraNgastotram 5 (shrIrAmanandanamayUreshvarakRitam sakhyamApuryayA bAlagopA vane)
% engtitle              : pANDurangastotram 5
% Category              : vishhnu, vishnu, moropanta, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org