श्रीपार्थसारथिस्तवः

श्रीपार्थसारथिस्तवः

श्रियै नमः । श्रीमते रामानुजाय नमः । श्रीमन्नृसिंहवरद श्रीरङ्गेशरघोत्तमैः मूर्तिभेदैश्शुभैस्सस्व्य जयत्यर्जुनसारधिः आवियुर् श्रीनिवसचार्यविरचितः श्रीपार्थसारथिस्तवः प्रपन्नसञ्जीवनं यतीन्दुगुणचन्द्रिका च

प्रथमो भागः ।

श्रीः । श्यामाभं द्विभुजं किरीटरुचिरं शङ्खारिराजत्करं राजीवायतलोचनं विकसिताम्भोजोपरिस्थायिनम् । श्रीवत्साङ्कितवक्षसं परिलसद्राकेन्दुबिम्बाननं ध्यायामो हृदि वासुदेवमितरैः पूर्णैर्गुणैरञ्चितम् ॥ पद्मस्थामवकुञ्च्य दक्षिणपदं संस्थाप्य वामं पदं श्यामाभां वरदायिदक्षिणकरां विस्तार्य बाह्वन्तराम् । रत्नाभां दधतीं प्रसूनविलसत्फालोर्द्ध्वभागां हृदि ध्यायामो घनपीवरस्तनभरां भूषोज्ज्वलां रुक्मिणीम् ॥ श्रियै नमः । श्रीरुक्मिणिसमेतपार्थसारथिपरब्रह्मणे नमः । श्रीमत्कैरविणी क्षेत्रा कल्पकं कल्पकं नृणाम् । रुक्मिणीलतिकाश्लिष्टं पार्थसारथिमाश्रये ॥ १ ॥ आचार्यस्सर्वशेषी स यस्मात्तस्माद्धृतात्मनाम् । अन्यत्र न पतेदेव मत्कृतानति सन्ततिः ॥ २ ॥ यत्तदुक्तमविज्ञातं श्रुतिभिः प्रतिभावताम् । अज्ञत्वादेव संप्राप्ते वेत्तृत्वं वक्तृता च मे ॥ ३ ॥ अधिकारोऽत्र नोवेति कल्पना न हरिस्तुतौ । पश्यन्तु साधु विबुधाः तावत्कालफलानयम् ॥ ४॥ अथवा कुरु काधीश पदपद्ममधुद्रवैः । निर्धूततापवंशोत्थः नार्हामि न हरिस्तुतौ ॥ ५ ॥ यद्वा रमानृहरिकारिजदृष्टितीर्ण- मायाप्रवाहविभवो ममताविहीनः । अत्यन्तशेषमतिरात्मपतीक्षणेन स्तोत्राय सत्कुलपतेर्यतते जनोऽयम् ॥ ६ ॥ यदि वा पञ्चषाश्श्लोकाः आरब्धाः परमाणवः । आह्वये तार्किकान् साधून् अणुकारणवादिनः ॥ ७ ॥ यद्वा श्रीपतिसङ्कल्पविश्वहेतुत्ववादिनः । आश्रये निगमान्तार्यान्(१) ज्ञानवत्ख्यापितात्मकान् ॥ ८॥ var (१) त्रय्यन्तवृद्धान् ॥ अहो नु विश्वपतिना स्वतन्त्रेणाऽस्वतन्त्रधीः । प्रवेशितोऽस्मि सुदृढं गुणरत्नाकरे निजे ॥ ९ ॥ यद्वत्खे मरुतः सुरासुरगणाः कान्ताः सुराणां स्त्रियः ज्योतिश्चक्रमथाण्डजाश्च शशभृत्सूर्यस्तदन्ये ग्रहाः । अन्ये सत्यपरायणा मुनिगणा ये चापि दिव्यर्षयः ते चिन्तां न च यन्ति यान्ति च पुनर्यावत्फलाविष्कृति ॥ १०॥ यद्वा सदार्यपरिवीक्षणलब्धहृद्य ज्ञानप्रदीपविलसद्धृदयावकाशः । राजाधिराजयदुराट्-चरितामृताब्धि- रत्नानि तानि कलयामि यथा स्वशक्ति ॥ ११ ॥ तमोहन्ता कृष्णः गगनचरतेजोविलसितः निरुन्धन् द्रष्टॄणां नयनपथनिम्नोऽन्ततयियम् । मनुष्यानन्यान्वा निजनिजपदस्थांश्च कलयन् कथं तद्धर्म्मासौ जलधिसुतया भाति सकशः ॥ १२ ॥ फेनैः पुष्पैस्सुकलितमहावीचिभिः दोर्भिरुच्चैर्लक्ष्मीस्थानायितसुहृदयो । वारांराशिः किमेषः सत्त्वस्तोमानजहद var वारिराशिः मलाङ्गोह्ययं वाथ कृष्णः श्वासोद्भेदा हतसुररिपुः चित्रधामैकराशिः ॥ १३ ॥ कल्पस्तोमः प्रसूनैरसुसुपरिमळैर्भुषणैर्भुषितो वा शाखालक्षोपजुष्टो द्विजवरनिवहैरात्तगानैर्गरिष्ठः । सूर्येन्दुभ्याममुक्तः स्वपदनतिमतां छायया तापहारी हन्तायं लोकनाथः नतभवहरणाभीतिमुद्राविलासः ॥ १४ ॥ किं वा विष्णुपदस्थमेघनिवहः विद्युच्छ्रिया भूषितः सन्तप्ताखिलतापहृन्निजगुणो दृष्टस्सदैवोन्मुखैः । अद्धा दिक्षुविदिक्षु कीर्त्तिकलितः दोषैरजुष्टस्स्वतः यद्वेदं सुदिनं यदीक्षणदिनं कृष्णश्श्रिया मोदते ॥ १५ ॥ बहुळपदसुजुष्टः छन्दसां वाथराशिः निखिलजनपवित्रात्मीयशब्दप्रचारः । बहुमुखभुजशखाकल्पिताशेषभोगो- ऽनवरतकलितश्री श्रीसखः पार्थसूतः ॥ १६ ॥ सुराणामास्थानं विविधचिदचिद्वृन्दनिलयः सदा गीतानन्दप्रकटितमहात्मीयविभवः । सदाऽऽगत्याश्लिष्टः सकलजनरक्षामतिपदं सुमेरुर्वा यद्वा हरिरखिलनिर्म्माणनिपुणः ॥ १७ ॥ रथ इव कलिताक्षो योजितात्मीयचक्रः रिपुदमनपरात्मा दिव्यगन्धर्वजुष्टः । स्वकलितबहुशक्तिः दूरदृष्टस्वकेतुः सकलनयनदृष्टः किं रमेशः स्वतन्त्रः ॥ १८ ॥ सुरभिरिव सुराणां स्थानभूताङ्गयष्टिः सकलमुनिगणेज्या होमरक्षाप्रधानः । सुकलित बहुधर्म्मैरेव दृष्टस्वरूपः स च यदुकुलनाथः स्त्रीसमाजाद्विशिष्टः ॥ १९ ॥ रत्नाकरो जलधिवत्सुविशालमूर्त्तिः स्त्रीरत्नजन्मनिलयो निलयो गुणानाम् । मुक्ताप्रवाळविलसत्परभागजुष्टः लक्ष्मीपतित्वविभवेन विशेषितोऽसौ ॥ २० ॥ आनन्दाख्यविमानतल्लजरुचा नित्यं समुद्भासिते क्षेत्रे कैरविणीपदेऽतिविलसद्दिव्यालयेऽन्तर्गृहे । उद्यद्दक्षिणवृत्तबाहुविलसच्चङ्खारवामोदिता शेषप्राणिचयस्तदन्यभुजसन्निर्दिष्टपादाम्बुजः ॥ २१ ॥ श्रीमान्वेङ्कटकृष्णनामयदुराड्-भक्तान् निजैकाश्रयान् कुर्वन् सोदरपुत्रमित्रसहितान् सुभ्रातृपुत्रैस्सह । श्रीतोण्डादिमभूभृते शुचिधिये सर्न्दशयन् स्वां तनुं श्रीवैखानसभक्तमुद्खमुनिवर्यात्रिप्रतिष्ठापितः ॥ २२॥ द्वाभ्यामेव न तेभ्य एष यदुराडिष्टैहिकामुष्मिका- भिख्यार्थं प्रददत्स्मिताननविधुर्दोर्भ्यामतीवोज्ज्वलः । श्रीमद्रामसुसात्यकिप्रगुणवत्प्रद्युम्नपुत्रोत्तम- स्वारातिप्रचयानिरुद्धदयितैर्विद्योतते सङ्गतः ॥ २३ ॥ श्रीमन्नृसिंहवरदश्रीरङ्गेशरघूत्तमैः । मूर्त्तिभेदैश्शुभैस्स्वस्य जयत्यर्जुनसारथिः ॥ २४ ॥ सिद्धं जगद्धेतुतया भवन्तं रमापतिं वेदशतैस्सुतर्कैः । सर्वज्ञसाम्राज्यपदेऽभिषिक्तं जानन्ति सन्तो बहुशक्तिमन्तम् ॥ २५ ॥ कारुण्याविष्टचित्तः कमलसमदृशा विश्वलक्ष्म्या समानः तत्तत्कर्मानुरूपप्रकृतविरहितक्लेशविश्वप्रचारः । तत्तत्तत्त्वान्तरात्माप्यकलिततनुभृत्कृत्यतत्कार्यसङ्ग- श्चामोक्षं क्लृप्ततन्त्रः परिणतिसमयेऽपेक्षिते मोक्षदायी ॥ २६ ॥ श्रीवैकुण्ठावस्थितो वासुदेवः श्रीभूनीळाभिश्च शेषासनस्थः । शेषश्वासह्रासवृद्ध्यानुगुण्यात् पात्रं विश्वं भङ्गसृष्ट्योः करोषि ॥ २७ ॥ वक्त्रप्रभापरिणतिस्तवदिव्यदेहः देहोचिताननरुचिर्नु चिराय शङ्का । स्मेरं मुखं प्रणतकर्षकमन्यदङ्गं यत्तच्च तत्समगुणं वद पार्थसूत ॥ २८ ॥ पादाम्बुजातकलितौ मणिनूपुरौ ते मञ्जुप्रणादमुखरौ मकरध्वजस्य । शिष्यप्रशिष्यविषये नियमेन साङ्ग- श‍ृङ्गारनर्मनिगमं परितो ब्रुवाते ॥ २९ ॥ महामेरुर्दर्पात्पदकमलभावं हृदि लगन् अहो नु स्वर्णाङ्गः निजहृदयमप्राप्य बहुशः । पदाम्भोजापीठायितकमलगात्रो रविरुचिः स्फुरत्पद्मे मौळौ वहति पदपद्मं श्रितसुखम् ॥ ३० ॥ परागपरमाणवो यदि पतन्त्यमी वेधसः इतीव किल भीतधीस्सुरपदाचलः पद्मतः । स्वरूपमथ कल्पयन् तव नु विश्वमातुः कृपा धराधर सुपांसुळं पदयुगं वहन्मूर्द्धनि ३१ त्वत्पादाब्जे ध्वजपविमहाशङ्खचक्रदिरेखाः दृष्टास्सन्तीत्यनघवचसो ये स्तुवन् पादपद्मम् । तद्द्रष्टारौ कमलनयनस्वर्णपाथोजपीठं साक्षाद्ब्रह्मा दनुजविजये क्लृप्तपादाभिषेकः ॥ ३२ ॥ त्वद्दिव्यलावण्यनिधिस्वरूपं कल्याणसंवाहिदृशां जनानाम् । सर्वानुकूलं जलधिर्निरीक्ष्य निन्दत्यहो घोषमिषात्स्वदेहम् ॥ ३३ ॥ तव चरणगतं यत्कर्क्कशत्वं मृदुत्वं युगपदुदयभावात्सङ्गतं लब्धसख्यम् । वनभुवि शकटारौ वार्द्धिकन्याकराब्जे मुनियुवतिदृषत्व चेदने च प्रदृष्टे ॥ ३४ ॥ त्वत्सङ्कल्पादधिकशकनं तावकाङ्गं च तत्त- त्त्वत्तोऽप्युच्चैरखिलविदितं नोच्यते पक्षपातात् । ऊरोर्जातासुरजनमनःकर्षणी चोर्वशी सा पदाम्भोजस्फुरितरजसः पाददृग्धर्मपत्नी ॥ ३५ ॥ पदसरसिजवैभवं हि शक्यं न खलु बुधैर्निगमैस्त्वयापि वक्तुम् । सरसिजगृहया करेणवा यत्तव वदनेऽर्पितरस्यताप्रभावम् ॥ ३६ ॥ शेषभोगशयनान्मृदुळं किं भाग्यशालिवटपत्रमनर्घम् । यत्र क्लृप्तशयनोऽर्भकवृत्त्या कल्पसेऽस्य जगतोंऽकुरणाय ॥ ३७ ॥ निर्मितेष्वथ जगत्सु च सर्वेषूच्चनीचपरिकर्बुरितेषु । अन्तरात्मविधयाखिलतत्त्वेष्वद्भुताकृतिरमूनि बिभर्षि ॥ ३८ ॥ एकरूपमिव या प्रकृतिर्वा सा विवर्त्तमुपलभ्य दृशा ते । नामरूपकलितं च यथार्हं भूजलेन्द्रियगतीश्च बिभर्ति ॥ ३९ ॥ व्यूहत्रयं व्यूहचतुष्टयं वा किञ्चिन्निमित्तेन करोषि रूपम् । रूपान्तरं वार्जुनसूत हृद्यं यद्विश्वरूपं कुरुपर्षदात्तम् ॥ ४० ॥ विशाले लोकेऽस्मिन्विविधफलजुष्टे नृनिवहे यदीच्छावैगुण्यात्प्रभवति मिथो हिंस्रविधया । तदा तत्रैकस्सन् तदुचितसुखाद्याश्रितमतिः स्वतस्नेहाधिक्याद्व्रणगणविरोपाय भवसि ॥ ४१ ॥ प्रकल्प्य जगदीक्षणं तदनु विश्वसंरक्षणं यथा- विधि ततो लयस्तदनु जीवसञ्जीवनम् । स्वतो निजधिया क्वचित्क्वच परात्मसंवेशनं ततोऽन्यविधया क्वचिद्बहु तनोषि नर्मश्रिया ॥ ४२ ॥ सर्वज्ञभावाद्दयया विसृष्टे जीवात्मवृन्देऽप्यधिकारभाजि । ज्ञात्वाऽऽर्तिहारिप्रमुखप्रवृत्तिं त्वां स्वं स्वतन्त्रं मनुते हि कश्चित् ॥ ४३ ॥ अनुदयास्तमयोऽमृतसागरादमृतदीधितिरेष मुखाभिधः । अनलसेशसुरेशमुखोद्भवप्रभुरथो परिलुप्ततमः कथम् ॥ ४४ ॥ मुखमयपरिपूर्णचन्द्रबिम्बे ग्रहणरुची तव केतुसैंहिकेयौ । असितरुचिभरभ्रुवोर्मिषेण प्रधितधियः किल शङ्कयेति मग्नाः ॥ ४५ ॥ उभयविभूतियोगसमयोचितरत्नमहो ऽङ्कुरलळितेन्द्ररत्ननिलयो निलयो नृदृशाम् । जलनिधिकन्यकाकरधृताम्बुरुहद्वितये नवनवहासकृत्तव किरीटपतीरविरुक् ॥ ४६ ॥ कुण्डलं मुखमण्डनं श्रुतिलम्बितं मणिकल्पितं श्रीमदंससुसङ्गतं निजभाविधूततमोगणम् । नित्यमुक्तसभागतार्थिगणार्थपूरणनिस्तुलं नेह नास्ति च नास्ति चेति समत्ववादिनृघोषितम् ॥ ४७ ॥ स्वातन्त्र्यधैर्यार्जववत्सलत्वपूर्णत्वशूरत्वसमत्वमुख्यान् । संसूचयत्यात्मगुणान् बुधानां त्वज्जानुलग्नायत वृत्तबाहुः ॥ ४८ ॥ प्रच्छायबाहुशाखानां पल्लवोंऽगुळयः किल । अर्थिवाय्वनुगावैरिकमलामर्मकर्त्तनाः ॥ ४९ ॥ कमलोदरसोदरपाणितलं विनताभयसत्रकथाकुतुकम् । सगरात्मजपुण्यनदीप्रभवं कपटाकृतिसूतमहं कलये ॥ ५० ॥ विषयाग्निशिखापरितप्तनृणां विमलामृतसागरकर्मगुणम् । शिखिवाहन तत्पितृवन्द्यपदं कपटाकृतिसूतमहं कलये ॥ ५१ ॥ द्रोणसुतशस्त्रपरितप्ततनुरक्षा- कल्पकधियं सुजनकल्पकमिहस्थम् । देवपतिनन्दनजपारियुतजाता कर्षकधियं कलुषहारिगुणमीडे ॥ ५२ ॥ क्रीडितेन सुखप्रदं परिपीडितासुरनायकं पालितामरनायकं परिपिडितासुरराक्षसम् । वारिराशिसुतायुतं बलवैरिरत्नगिरित्विषं वामनोन्नतधीविहीनमथाश्रये नरसारधिम् ॥ ५३ ॥ करकलितकशं गजेन्द्रवश्यं बलरिपुसोदरभावदत्तचित्तम् । मृदितरिपुगणं शितैश्च शस्त्रैः अनुसवनं हृदये स्मरामि सूतम् ॥ ५४ ॥ अनुगतचिदचिन्नियन्तृभावं स्मृतिगतसर्वजनावनाख्यसत्रम् । विपिनसुमसृजा विभूषितांसं श्रुतिशतनिर्जितसद्गुणं भजेऽहम् ॥ ५५ ॥ जलनिधितनयाकृतात्मदेह- श्रमहरवन्दनमालिकेति सद्भिः । अनुकलकृतशङ्कया तमीडे कलितरुचा वनमालया प्रहृष्टम् ॥ ५६ ॥ मुखकान्तिवारिनिधिसङ्गताविमौ शफराविति स्तिमितदृक्सरोजया । रमया विशालकृपया सदेक्षिते नयने स्मरामि मम तापनुत्तये ॥ ५७ ॥ कलितोर्द्ध्वपुण्ड्रतिलकं मृगीमदैः स्मयमानचन्द्रवदनं जितश्रमम् । कमलाक्षिपातसुभगं रसावहं तपनीयवस्त्रधरमाश्रये सदा ॥ ५८ ॥ अळिकुलदळनार्हकुन्तळाढ्यं विमलदृशामळिकाक्षरप्रणाशम् । अळिकवचनदूरसत्कटाक्षादृत- विबुधं प्रणमामि पार्थसूतम् ॥ ५९ ॥ मुखकान्तिनाम्नि जलधौ सुखावहे स्मितमौक्तिकाधरसुविद्रुमं नवम् । वरनासिकाव्रततिनाळभास्वर- द्विकपद्मधीकरदृशं श्रये हरेः ॥ ६० ॥ उदराण्डजातगणनार्पिता अथो रदना अतीव धवळाश्शुभावहाः । रुचिरप्रभाविजितकुड्मलश्रियः स्मृतिसङ्गता नरसखस्य मे श्रियै ॥ ६१ ॥ पद्मामुखेन्दुकृतसङ्गवळर्क्षभावौ तद्भावसङ्गविशदीकृतसुन्दराङ्गौ । पार्श्वस्थद्रष्टृजनदृष्टनिजात्मबिम्बौ वन्दे हरेस्तुलितशैलतटौ कपोलौ ॥ ६२ ॥ उदारकृतवीक्षणं विनतशोकनिर्वापणं विदर्भतनयाञ्चितं विविधतापसंशोषणम् । विशालधवळप्रभाश्रयवशाच्च निघ्नं नृणां पृथासुतरथाश्रयप्रभुनिरीक्षणं प्रार्थये ॥ ६३ ॥ यत्पातलेशात्किल कौरवाणां वृन्दं कथाशेषितमेव दृष्टम् । किमत्र चित्रं मम जन्महेतु मर्मद्रुतं नश्यति तत्प्रपातात् ॥ ६४ ॥ अहो जनानां व्यसनाभिमुख्यं तद्दृष्टिपातादतिवर्तमानाः । आब्रह्मसृष्टेरनुवर्तमान- संसारकूपे यदमी पतन्ति ॥ ६५ ॥ यदा पार्त्थसूत प्रभातारुणाब्ज प्रभातुल्यदृग्लेशधूतात्मतापः । अभूवं प्रभातप्रभः काळरात्रिः कथं मां तु कुर्याद्भवाख्या क्षितीन्दो ॥ ६६ ॥ हरिनयनसुधाप्रवाहपूतः स्मितमयचन्द्रिकयास्य धूततापः । तदनघ महिमाऽऽत्मदृग्जितोऽहं हृदि कलये किमु भीतिमात्मनाथ ॥ ६७ ॥ करकलितकशे सशङ्खचक्रे जलधिसुता विलसद्भुजान्तराळे । त्वयि विलसति सर्वदे सुन्दरं ते ननु रचिताञ्जलिरन्यतः कुतस्स्याम् ॥ ६८ ॥ जलनिधितनयादोर्वल्लिपुष्पौघशङ्का प्रसृमररुचिरेखा कङ्कणोल्लासिकण्ठः । मृगमदकलुषोऽयं लोककालुष्यहन्ता कलयतु कुशलं नः कोऽपि कारुण्यराशिः ॥ ६९ ॥ उदारभुजलोचनं सकलरक्षणे लोलुपं श्रिया च निजशोभया गलितसुन्दराङ्गं हरिम् । प्रकृष्टवनमालया जलधिसाररत्नश्रिया सुकर्बुरितविग्रहं नरसखं हृदा संश्रये ॥ ७० ॥ पारिजातमिव नन्दनश्रियं नन्दगोपमिव गोविशोभितम् । देवराजमिव वज्रसङ्गतं पार्थसारथिमुपाश्रये हरिम् ॥ ७१ ॥ चिदचिदवनदीक्षं चेतना पद्मिनीनां सदयविनतवीक्षं विस्मिताशेषदृष्टम् । जलधितुलितदेहं जानुलग्नात्मबाहुं नररथनिलयं त्वां वीक्ष्य हृष्टो भवामि ॥ ७२ ॥ काशसुमकाशतनुमात्मपतिमीशा- वास्यमुखवेदशिखरेडितगुणाब्धिम् । अब्धितनयानयननिघ्ननिजविश्वा- धीश्वरनियन्त्रणधियं हरिमुपासे ॥ ७३ ॥ सम्भाषमाणमिव जङ्गमपारिजातं स्मेरायुधप्रसवजालविभूषिताङ्गम् । नित्यं श्रिया वसुधया च निषेव्यमाणं श्रीपार्थसारथितनुं मनवै मुकुन्दम् ॥ ७४ ॥ आचार्यैरेव मुक्तो मयि च कृतदयैः सास्त्रदीपैकदोर्भिः योऽयं देवोऽखिलेशः जलनिधिसुतया सार्द्धमाविष्कृतात्मा । तत्पादाम्भोजयुग्मं कलय शरणमित्यत्र मा गा विषादं कुर्वाणस्सत्यमेतत्त्वहमुपकलिता शेषकार्यप्रहृष्टः ॥ ७५ ॥ अष्ठवर्णरथारूढं प्रथमाक्षरबोधितम् । तृतीयो वा गतोऽस्म्यद्धा तच्छेषत्वं स्वतस्थितम् ॥ ७६ ॥ तान्तोऽहं मानमुत्सृज्य धारकं पोषकं श्रिया । भोग्यं त्वदात्मसुगुरुद्ध्यानपूर्वं स्मराम्यहम् ॥ ७७ ॥ सर्वावस्था सलक्ष्मीकपार्थसूतदृशेक्षितः । निर्भयस्सर्वभावेन शरणं यामि तादृशम् ॥ ७८ ॥ तप्तस्वर्णसवर्णपार्थरथगं वीक्षाभिवृद्धाखिलं लोकाधीश्वरकाङ्क्षितात्मवचनं वाचो विदूराध्वगम् । गोपालावळिकीर्त्त्यमानविपदुत्तारादिवृत्तामृतं भिष्मादिस्तुतिहृष्टमानसममुं सम्भावये मानसे ॥ ७९ ॥ कलिकल्कभग्नकविमानसाम्बुज- स्पृहणीयकान्तिभर एष भास्करः । जयति प्रसिद्धविभवस्त्रयीगणे- ष्वथ पुण्डरीकनयनस्सतां गतिः ॥ ८० ॥ पिता च माता च शरीरदाता पोष्टा गुरुर्ज्ञानसुधाप्रदाता । स्त्रीप्रायमज्जीवनरोत्तमैक- संयोजिता पार्थरथप्रणेता ॥ ८१ ॥ शङ्खचक्रलळितो भुजदण्डः भीतिहृन्नतदृशां द्युसदां वा । शत्रुवारिनिधिमन्थनजन्मा- राति पद्मनिलया सुखसक्तः ॥ ८२ ॥ पार्थवृन्दपरिदर्शितसारं सारभूतवचनं निगमानाम् । भाग्यसारमिव साधुजनानां आश्रये प्रणयसूचितभावम् ॥ ८३ ॥ सौन्दर्यसारमिव दर्पविहीनमग्र्यं चक्षुष्मतां हृदयकर्षकमात्ततोत्रम् । वैरप्रसक्तिरहिताखिलभोगभोग्यं आत्मेश्वरं हृदयतापहरं स्मरामि ॥ ८४ ॥ भूभाग्यलब्धसुखजङ्गमपारिजातं स्मेरप्रसूनसुभगं फलभूतरूपम् । शाखोपशाखपरिजुष्टमिवात्मदोर्भिः प्रच्छायतापशमनं नरसूतमीडे ॥ ८५ ॥ वात्सल्यवरान्निधिरद्भुतोऽसौ दोर्भिस्तरङ्गैरभितः प्रजुष्टः । लक्ष्मीसमेतः कमनीयरूपः कान्ताळकः कम्बुगळोऽस्तु भूत्यै ॥ ८६ ॥ विशालहृदयोदयोल्लसितभावलक्ष्म्योज्ज्वलः द्विषत्कुलविमर्दनोचितसभूषदोर्म्मण्डलः । विनापि विनतिं बुधे सुकलितात्मभावः प्रभुः ममाहितविमर्दने भवतु दीप्तपञ्चायुधः ॥ ८७ ॥ सिन्दूररूषितमिवोन्नतहस्तिमल्लं मल्लेशदन्तपतनार्हकरप्रहारम् । हारावळिप्रकृतदोर्युगमद्ध्यशोभं रत्नत्विषावलितमात्मपतिं नमामि ॥ ८८ ॥ मुखभवकलितप्रकर्षवेद- प्रकटितवैभवयज्ञपूजितात्मा । विधिहयमखक्लृप्त सद्वपाळि- प्रकृतकशाधरबन्धुरोऽस्तु मह्यम् ॥ ८९॥ दर्शय दर्शय चारुमुखं ते पाटय पाटय पापमपारम् । नन्दय नन्दय पादनतं मां केशव केशव कारणसूत ॥ ९० ॥ सुन्दरकरिकरपीवरसक्थिः मन्दरगिरिरिव जङ्गमयुक्तः । नाभिजपद्मजकल्पितविश्वं पालय पालय कारणसूत ॥ ९१ ॥ पाहि पाहि भवपीडितविश्वं कोमळाङ्ग कुसुमैर्वनजातैः । विश्वरक्षणसुदीर्घमखेस्थं पद्मया विलसिताननमीडे ॥ ९२ ॥ यदुनाथ मुदब्धीन्दो त्वदङ्गममृतश्च्युति । ममातिमुग्धहृदयमितश्चेतश्च कर्षति ॥ ९३ ॥ स्वकान्त्या निर्दोषं निरुदयविबाधञ्च सुसुखं प्रकुर्वन् विश्वं त्वं विमललळिताम्भोजनयन । सुधासारस्तोमप्रकलनमहामेघलळितः विना क्षोणीसङ्गं विनतहृदये वर्षसि सुधाम् ॥ ९४ ॥ अहो ममेदं हृदयं विमुग्धं नादेन जुष्टं जलधिं च पश्यन् । इतस्तव स्तावकबोद्ध्यमानं समङ्गळद्ध्वानमवैति नाथम् ॥ ९५ ॥ लावण्यवापी तव देहकान्तिः नर्म्मोचिता सागरसम्भवायाः । नाभिस्थिताम्भोरुहयोगरम्या वेलाप्युदारा भुजदण्डरूपा ॥ ९६ ॥ त्वदुदरनिलयं किलाण्डजातं विबुधगणा अवलोकयन्ति नूनम् । यदि तव हि तनुस्स्वयम्प्रकाशा परिणतमेव हि सत्त्वचित्तभाग्यैः ॥ ९७ ॥ पदनखपरिमृष्टचन्द्ररेखा सुहृदयगा वृजिने तमोगुणेऽस्मिन् । कलितबहुलया ततोऽपुनर्जं बहुविलसत्यपुनर्भवाय मह्यम् ॥ ९८ ॥ त्वत्पादाम्बुजरेखया परिणतः छत्रारविन्दद्ध्वजै- र्युक्तः केतुरकैतवाऽवनधियं संसूचयत्यद्भुतः । यद्धत्ते मनुजोऽस्य कैतवधिया नम्रे स्वमूर्ध्नि स्वयं सप्राप्तः परमप्रसादमसुरप्रद्वेषि विष्णोः शुभम् ॥ ९९ ॥ सस्नेहं नयनं प्रवाळसुभगः यश्चाधरः श्रीपतेः कण्ठश्श्रीकरकङ्कणाङ्कलळितः भावः प्रसादोज्ज्वलः । वृत्तास्ते च भुजाः पुरन्दरतरोश्शाखोज्ज्वलाः प्रांशवः तन्मद्ध्ये सदये क्षणा हरिसखी सर्वं जगन्मङ्गळम् ॥ १०० ॥ शिखिपिञ्चवेल्लितसुगन्धिकुन्तळं कमलायताक्षमपमृत्युनाशकम् । अमृतद्रवश्च्युतिकटाक्षवीक्षणं हरिमाश्रये विजयसारधिं प्रभुम् ॥ १०१ ॥ स्फुरदिन्द्रनीलसुभगत्विषं हरिं युवतीकटाक्षविशिखावमर्दितम् । प्रभुताश्रयोचितविशाललोचनं कमलाकटाक्षहततत्त्वसम्प्लवम् ॥ १०२ ॥ प्लवगर्षभानुगुणशीलसागरं श्रितरासमण्डलधियं स्मिताननम् । भुजगेन्द्रमूर्ध्नि कृतपादमद्भुतं भवसागरप्लवपदाम्बुजं श्रये ॥ १०३ ॥ भज हृदयसुन्दराङ्गं यदुपतिभावं गतं स्वसौशिल्यात् । व्रजयुवति नेत्रनिघ्नं निघ्नं तद्वस्त्रसंहतौ श्यामम् ॥ १०४ ॥ शिखिपिञ्छसारकृतनीलकुन्तळं कृतयोगनित्यपरिदृष्टविग्रहम् । निगमावतंसरमणीयभूषणं तरुणीवशं कमपि बालमाश्रये ॥ १०५ ॥ स्फुरदिन्द्रनीलसुभगाङ्गमेदुरं दुरवग्रहग्रहविशेषमोचकम् । मुरळीनिनादजितयोगियौवतं कलये शिशुं कमपि पूतनारिपुम् ॥ १०६ ॥ पूतनाजितडिम्भविग्रहवक्त्रपीततदात्मकं खञ्जरीटजितात्मलोचनपद्मया सुभगाकृतिम् । आकृतित्रययुक्तवारिधिसम्भवा लुळिताङ्घ्रिकं वारिरशिनिभाङ्गकान्तिमहं भजेऽर्जुनसारथिम् ॥ १०७ ॥ पीताम्बरं वरभुजार्गळयोगरम्यं श्वासानुयायिनिगमं निगमान्तवेद्यम् । वेद्याखिलाकृतिकृतिं गजराजलीलं लीलार्थविश्वरचनं कलये हृदिस्थम् ॥ १०८ ॥ अतिविशालभुजान्तरशोभितं व्रजकृशोदरिभावहिताशयम् । कमलसोदरपाणितलं हरिं हृदि करोमि तमालवनप्रभम् ॥ १०९ ॥ कुटिलाळकपाळिविशोभिमुखं श्रमहारिदृशां सुदृशां च फलम् । कलयेऽनुकलं कमलानिलयं विजयाजिरथस्पृहयाळुधियम् ॥ ११० ॥ सन्दृष्टं प्रङ्मुखस्थित्या पद्मवद्विश्वतोमुखम् । रुक्मिण्यादर्शदृष्टाङ्गं आश्रये सूतविग्रहम् ॥ १११ ॥ रुक्मिणीसहितं पार्थसूतं दृष्ट्वा स्वकैर्वृतम् । लक्षितः प्रणवार्थस्त्वां त्वदात्मपरिदर्शितः ॥ ११२ ॥ अथवा दर्शितोऽप्यर्थः नारायणपदानुगः । सर्वेषामाश्रयो यस्त्वं चेतनानां शुभात्मनाम् ॥ ११३ ॥ अन्योऽपि संस्मृतो ह्यर्थः दर्शनात्पार्थसूतते । नमसश्शब्द रत्नस्य यस्त्वं गतिरथात्मनाम् ॥ ११४ ॥ परस्परादर्शनिजाङ्गहृद्यौ हृद्याळकोल्लासि मुखेन्दुबिम्बौ । बिम्बात्मना दृष्टजनौ निजाङ्गे भैमीव्रजेशौ समुपाश्रयेऽहम् ॥ ११५ ॥ संश्लेषोत्कर्षसिद्धौ नरहितनिजरूपाश्रयावेकतत्त्वौ किंवेत्यालोलधीभिर्विमृदितलळितोत्कृष्टतत्त्वानुभावौ । भावातीतात्मभावावपि जनहितया लोकवासैकमत्या क्लृप्तार्च्चाविग्रहौ तौ जनहितकलनौ रुक्मिणी पार्थसूतौ ॥ ११६ ॥ सौन्दर्यस्यैकराशी विदितसमगुणौ बिम्बभूताविवेमौ नाथौ भूतिद्वयस्याप्यखिलमखपरौ दर्शितान्योन्यसाम्यौ । श्रीमन्तौ कीर्त्तिमन्तौ क्वचन च विधयाऽदृष्टवैगुण्यभावौ भावौ सर्वश्रुतीनां कथमिव घटते तद्गुणालापनादौ ॥ ११७ ॥ आदौ तौ सृष्टिभवावखिलसमयसंसक्तदेहौ विनैकं दातुं वासं ग्रहीतुं नयनयुगमिवाक्लृप्त पार्थक्यकार्यौ । श्रीलक्ष्मीनयकौ च प्रधितकरुणया व्याजतः किञ्चिदेतौ अस्माकं भाग्याराशी जनदृशि च पृथग्भावमाप्तौ श्रयेऽहम् ॥ ११८ ॥ उन्नतांसपरिलम्बिकुण्डलौ कुण्डलोपमितसूर्यमण्डलौ । मण्डलाधिपतिवृन्दवन्दितौ रुक्मिणीविजयसारथी भजे ॥ ११९ ॥ श‍ृङ्गारशान्तिरसवारिनिधी उभौ किं किं वा नृशोकदहनाचिरदीप्तमेघौ । किं वार्धिकाङ्क्षितसदर्थितदेवरत्ने चित्ते करोमि तरुणीमणिपार्थसूतौ ॥ १२० ॥ अब्जनाभो हरिः स्वर्णकान्ती रमा सङ्गतौ प्राणिनां प्राणदानप्रियौ । पद्मनेत्रश्रियौ चारुमन्दस्मितौ संश्रये रुक्मिणी पार्थसूतावुभौ ॥ १२१ ॥ निजाङ्गलावण्यगतात्मलोकौ परस्पराङ्गप्रतिबिम्बिताङ्गौ । हंसाविमौ हृद्यगुणौ सुरूपौ वन्दे रमापार्थरथाश्रयौ तौ ॥ १२२ ॥ निजरुचिपरिमृष्टहृत्तमस्कौ विमलरुचिस्मितशोभि गण्डभागौ । कुसुमित सुभगावशुत्तमाला- विवजलधिप्रभवा नरैकसूतौ ॥ १२३ ॥ अहो नु संप्रार्थयते गुणज्ञौ अयं हि दासः प्रणयाम्बुराशी । किमस्ति वा त्वत्तनु दृष्टिमृष्टं मत्पातकं वां पदपद्मचूडः ॥ १२४ ॥ सतां नियोगं शिरसा प्रगृह्य निजात्मसाफल्यगुणं च वीक्ष्य । तत्कालहर्षं हृदि चिन्तयित्वा यथा स्वधीशक्तिकृतेह माला ॥ १२५ ॥ वामर्पिताहं कृतिमूढचित्त- कृतापि युष्मद्गुणसंप्रयोगात् । आमोद भारावहलब्धवर्णा जीयाच्चिरं वां च मुदे कवीनाम् ॥ १२६ ॥ लक्ष्मिनृसिंहादि शठारियोगि समर्पितो वां पदपङ्कजाय । त्वद्दासक्लृप्तेति च पश्यतं तां सत्सूक्तिमाला युवयोर्म्मुदेऽस्तु ॥ १२७ ॥ श्रीमते श्रीवण्शठकोप श्रीलक्ष्मीनरसिंह- शठकोपयतीन्द्रमहादेशिकाय नमः । श्रीमते श्रीवण्शठकोप श्रीरङ्गशठकोप- यतीन्द्रमहादेशिकाय नमः ॥ अतिसरळपदप्रसूनगुम्भे हरिपदपद्ममधुद्रवे स्पृहा वा । रसिकबुधगणाग्रगा भुविस्थाः नरवरसूतनुतिं प्रपश्यतैनाम् ॥ १२८॥ ॥ शुभं भवतु ॥ End of Part 1

द्वितीयो भागः ।

श्रीगणेशाय नमः । श्रीः नमश्श्रियैजगन्मातः तुभ्यं सर्वनमस्कृते । स्त्रीरत्नेन त्वया विष्णुर्दोर्मध्यं नित्यभास्वरम् ॥ १॥ त्वया विना न च हरिः न च त्वं हरिणा विना । न युवाभ्यां विनाहं नो युवामपि मया विना ॥ २॥ जगत्पतिस्स भगवान् मातस्त्वं हरिवल्लभा । नित्यदास्योऽहमिति च प्रणवप्रतिपादिताः ॥ ३॥ प्रणवमयरथेऽग्रतस्सविष्णु- र्हरिसखिमध्यगता सुमध्यमा त्वम् । अहमपि युवयोरधीनवृत्तिः चरमपदस्थित एष रक्ष्य एव ॥ ४॥ केचिद्वदन्ति रथिनं हरिमेव मुख्यं अन्ये तु नित्यकृतदास्यममुञ्च जीवम् । आद्यन्ततस्स्थितिमतोरनुकूलधीर्य- त्तां त्वां च सूक्ष्ममतयः प्रवदन्ति मुख्याम् ॥ ५॥ यश्फ(?)न्दो वृषभस्त्रिपादकलितस्तद्वक्त्रगोऽयं हरिः तन्मध्ये भवती ततः कृतपदः जीवश्च दास्योचितः । जीवे क्लृप्तदयाभरा च भवती त्वद्दृक्प्रसन्नो हरिः युष्मद्दास्यकृतोद्यमान्नतजनानूरिकरोति प्रभुः ॥ ६॥ अतिचिरसहवासयोगभूम्ना पदविनतं न च हातुमत्र युक्तम् । तव तु सुकरुणार्द्रदृङ्महिम्ना हतवृजिनं शरणोक्तिसादरं माम् ॥ ७॥ प्रतापपरिपाटिभिः विमतदण्डनैर्भीकरं समीक्ष्य पतिमीदृशं हरिसखिस्स्वपादाम्बुजे । विशेषविनतं नरं मृदितकिल्बिषं वीक्षणात् पतिं नयसि सान्त्वनोज्झितरुषं सतां रक्षकम् ॥ ८॥ जगतामनुकूलदृग्विलासै- स्तमसां हन्तृभिरार्ततापहृद्भिः । जननेत्रचकोरपारणार्हैः स शुभं यच्च करोषि विश्वमेतत् ॥ ९॥ पराङ्मुखानथपरमार्थदूरगान् सुधासखिप्रणतिविदूरगानपि । जनान् धिया जगदनुकूलया च सा- प्युदकवागमृतरसेन सिञ्चसि ॥ १०॥ परत्वेन परामृश्य पतिं च जगदीश्वरम् । भीतानां प्रणतानां च वाक्यं श्रुतिपुटेऽकरोः ॥ ११॥ यथा स सेव्यते विष्णुः कल्याणगुणसागरः । तथा त्वमपि कल्याणि कल्याणावहसद्गुणा ॥ १२ ॥ यच्चक्षुर्विषयं गताथ भवती सन्तीर्णदुःखाम्बुधिः मर्त्योऽयं यदि दिव्यदृष्टिपदवीक्लृप्तानुषङ्गस्तव । सोऽयं धूतपराभवः परिगताशेषार्थलाभः प्रभुः सूच्चैश्छत्रसुचामराञ्चितकरैराप्तैश्च संसेव्यते ॥ १३ ॥ हरिदोर्मध्यगा या त्त्वमतिदीनान् श्रितान्नरान् । वीक्षणात्तुल्यविभवान् करोष्यमृतसोदरि ॥ १४॥ यत्र दृष्टिर्निधिस्तत्र गजाश्वरथसम्भृतः । पुत्रपौत्राभिवृद्धिश्च तव चित्तप्रहर्षकृत् ॥ १५॥ सा त्वं सुधाब्धिशितांशुपद्मविष्णुभुजान्तरात् आनन्दनिलये भासि पार्थसारथिना सह ॥ १६॥ श्रीरस्तुः ॥ End of Part 2

तृतीयो भागः

श्रीगणेशाय नमः । श्रीयै नमः । श्रीमते श्रीमच्छठकोपश्रीलक्ष्मीनरसिंहशठकोपयतीन्द्रमहादेशिकाय नमः । लक्ष्मीनृसिंहमखिलावनबद्धदीक्षं तद्धर्मनित्यनिरतां दयितां च तस्य । तत्पादपद्मयुगसक्तनिजात्महंसान् तद्धर्मरक्षणपरान् कलये सदाहम् ॥ १॥ श्रीरङ्गनाथपदमद्भुतदानवृत्त- भावान्वितं विबुधसङ्घसमाश्रितं च । सर्वत्र दृष्टबहुधर्मधियं स्वभक्तैः दृष्टात्मवैभवममुं यतिवर्यमीडे ॥ २ ॥ श्रीविष्णुपादपरिसञ्चरदक्षशीलं नित्यं नरार्पितमहोपनिषत्सुसारम् । सारात्महृद्यवचनं वचनातिदूरं कृष्णं श्रये सुकलितामृतमेघवृत्तिम् ॥ ३॥ लक्ष्मीनृसिंहशठजित्करुणाम्बुराशिं निम्नोन्नतक्रमविवर्जितमद्वितीयम् । निर्धूततापमवनीतलदेवताना- मुज्जीवनप्रदममुं रमणीयभावम् ॥ ४॥ पद्मानुबन्धसुखगन्धवहं सदैव स्वान्तर्गताखिलसुसद्गणरम्यमूर्तिम् । सच्छङ्खचक्रविलसच्छुभहेतुभूतं निर्द्धूतसन्नतभवं भवि भाग्यराशिम् ॥ ५॥ मत्स्यादिकूर्मकिटिसुन्दरसिंहखर्व- नित्यार्पिताशयमवर्जितरामभावम् । कृष्णं त्वचिच्चकलने क्वचिदच्छभाव- मश्वाधिरोहपटुपोषणतत्पराशम् ॥ ६॥ नारायणैकनिलयं स्ववशामरौघं सद्धर्मवर्द्धनपरं परभागजुष्टम् । गम्भीरभावसुभगं स्मृतिशुद्धिदायि सद्धर्मकृद्धरणिदेवगणैरमुक्तम् ॥ ७॥ हंसाळिजुष्टमविवर्जितसेतुधर्मं तं कञ्चन क्रमकरावळिशोभमानम् । निर्द्धूतकल्मषगणं निजसेविनाञ्च सत्वैकसंश्रयमनुन्धितनैजसारम् ॥ ८॥ अकलितपरभङ्गं स्वाश्रितेऽदत्तभङ्गं विनतजनसमाजेऽदृष्टकालुष्यलेशम् । गुरुमिह समभावं ग्रीष्मकालेऽपिवर्षा- स्वमलरससमेतं योगिनाथं नमामि ॥ ९॥ नित्यं च हंसध्वनिरागयुक्तं सङ्गीतरत्नाकरवद्गभीरम् । वादेषु सम्मोहनवत्सुयुक्तिं कल्याण्यनुल्लङ्घितगोविलासम् ॥ १०॥ सदैव पुन्नागवराळिजुष्टं श्रीरागयुक्तं महितं रसज्ञैः । यथोचिते काल उपास्यमानं भक्तैस्स्वपादार्पितसर्वभावैः ॥ ११॥ स्वपदविनतहंसं शोभितास्यं सुवाण्या शुचिबहुमुखरम्यं वेदवेदार्थदक्षम् । विधिमिव सुखसत्यं काङ्क्षितं योगिवृन्दैः अविरळितपदं तं मर्त्यसिंहादिपुंसः ॥ १२॥ विस्तीर्णश्रुतिरोचिषा परिगतं लोकांश्च कारुण्यतः निक्षिप्याखिलचक्षुषां सुखकरे कण्ठे पवित्राञ्चिते । तत्तत्कृत्यवशात्फलप्रदमतिं नीचोच्चभावं विना श्रीलक्ष्मीनरसिंहकारिजयतिं विद्योदितं धातृवत् ॥ १३॥ विनतसुजनवृन्दप्रीतिविस्फारिताक्षं बहुगुणरमणीयं लोकरक्षावतीर्णम् । द्विरसनकृतपादं गुप्तगोसम्पदं वा करकलितमहागोवर्धनं नाथमीडे ॥ १४॥ दत्ताम्बरं नतजनेषु निजेच्छयैव धर्मादरं पिहितवन्द्यपरत्वभावम् । सुभ्रूलताग्रकलितोत्कनरप्रदृष्टिं गीतार्यवद्यतिमवैमि विराजमानम् ॥ १५॥ दृष्टे मुखेऽस्यलळिते श्रितविष्णुपादे तादृग्विधौ क्व च तिरोहितवृत्तभावे । काले सुवृत्तवति वा सुकळङ्कयुक्ते कस्सत्पतावपि मतिं न जहाति धीरः ॥ १६॥ या वै शिखा यतिवरस्य निजानुरूपा कौटिल्यलेशरहिता प्रविभात्यनल्पा । यद्वा शिखी स च तया क्व च साधुवृन्दाः धाम्ना शिखीति गदितुं किल संप्रवृत्ताः ॥ १७॥ मूर्ध्नापि सद्वृत्तमयो यतीशः यदेनमाहुर्भुवि भूसुराणाम् । मूर्धानमप्यन्त्यशरीरभाजां मूर्द्धन्यपादाम्बुज एष योगी ॥ १८॥ अद्वैतगन्धानवधूय शीघ्रं स्वाधीनवेदान्तसुरद्रुगन्धः । भोग्योयदस्याशु जितात्मशत्रोः नासातिदीर्घा सफला यतीन्दोः ॥ १९॥ अनुदितरवियोगमन्त्रजापः यतिनृपतिः किल मूकभावपद्मे । उषसि नियतधीर्यतो महान्स्यात् मुखकमलं फलवद्रसज्ञयाढ्यम् ॥ २०॥ यावतीह वसुधा सुविशाला तावती खलु नृसिंहविभूतिः । तावदस्य हृदयं सुविशालं सर्वरक्षणचणं सुविभाति ॥ २१॥ यदस्य वाक्यादधरीकृतास्ते प्रच्छन्नबौद्धाऽसकृद्धरण्याम् । ततो धरो नाम रदच्छदोऽस्य तद्योगभूम्ना किल वाग्जयोऽयम् ॥ २२॥ अथवास्य धरापि नो समा भवती वोचितदानकर्मणि । विनिवेदयितुं पराजितान् अधरो भाति मुखे यतीशितुः ॥ २३॥ गर्भेकुर्वन् गोप्तुकामो नतौघं यस्माद्योगी भाति कारुण्यचित्तः । तस्मात्पीनो भाति वास्योदरोऽयं अन्तस्थानां क्लृप्तपङ्क्तिस्त्रिवळ्या ॥ २४॥ पार्श्वे वसन्तो वसुधाधिपेन्द्राः समानचित्ता विषमातिदूराः । तेषां प्रदृष्ट्यानुनिषेवितत्वात् प्रमृष्टपार्श्वो यतिनाथचन्द्रः ॥ २५॥ पीताम्बरो हरिश्श्रीमान् हली कृष्णाम्बरः पुनः । रक्ताम्बरो नरहरिः तस्माद्रक्ताम्बरो यतिः ॥ २६॥ परिवृत्तबाहुसुखलग्नजानुकः यतिनाथ एष सततं शुभावहः । विनिवार्य भीतिमवनीतलौकसां शरणं शरण्यगुणलक्षितो यतिः ॥ २७॥ भद्रासने जाग्रति योगिनाथे समुन्नते स्वात्मगुणैश्च शश्वत् । ततश्च संलब्धफलौ तदूरू तत्रोचितौ पीवरतामुपात्तौ ॥ २८॥ कश्चित् स्वार्थं याति पन्थानमात्मा लोकार्थोऽसौ भाति वेदाद्ध्वनी नः । छेत्ता येषां संसृतेर्वाग्विलासैः तेषां नॄणां सौख्यसम्पत्प्रदाता ॥ २९॥ अष्टोत्तरे शतपदे कृतसन्निधान- लोकेशदिव्यसुपवित्रधृतिक्षमां सः । यज्ञोपवीतविलसद्रमणीयवक्षः सुश्राव्यनादमहितो बहुरक्तकण्ठः ॥ ३०॥ वृत्तबाहुविलसत्त्रयदण्डः प्राप्तनम्रबुधपापनिबर्हः । सेऽवितो न यदि योगिवरिष्ठः का गतिर्भवजिगीषुजनानाम् ॥ ३१॥ ब्रह्मसूत्रहृदयो यतिराजः व्यासपाद इव विष्णुपदस्थः । भूसुरेशकुलवृद्धिकरोऽसौ संश्रितेष्टबहुवृद्धिकरस्स्यात् ॥ ३२॥ बाहुना सुकलितत्रयदण्डः योगिनां परिवृढः करुणाब्धिः । यूयमेवमखिलावनदक्षं हृत्सु मां कलयतेति गिरन्नु ॥ ३३॥ पादङ्गुळीयनखनूतनचन्द्रलोखा सेवापरा यदि नरा विबुधा भवेयुः । तेषां मनांसि सुनिरस्ततमांसि लोके नैव क्वचित् पुनरमीषु तमोविकाराः ॥ ३४॥ चरणाविह शङ्खचक्ररेखो- ल्लसितौ श्लक्ष्णतमौ बुधैर्धृतौ यौ । भवसागरमग्नमर्त्यपोतौ यतिभूभृन्महितस्य संश्रयेऽहम् ॥ ३५॥ सामुद्रिके वा यदि वा बुभुत्सा यतेः पदाब्जं तु निरीक्ष्य सम्यक् । यथाविधानं ननु लक्षणानि स्वया धिया कल्पयत प्रभुद्धाः ॥ ३६॥ सद्धर्मशास्त्रे यदि वाऽन्यशास्त्रे नित्याह्निके वा हरियागकृत्ये । अदो यतीन्दोः परिपश्यतात्र कृतं यदेते न हि शासनं वः ॥ ३७॥ अन्यत्र वा यत्र हि संशयस्स्यात् भक्त्या समुद्वीक्ष्य यतीन्द्रधर्मम् । निश्चित्य तन्निर्णयमेव सत्यं जानीत धर्मं च तमेव यूयम् ॥ ३८॥ श्रीरङ्गवासरसिकं सुगुणाम्बुराशिं प्रातः स्फुरत्सुरभिदर्शनहर्षयुक्तम् । श्लाघ्यैर्नवैश्च सुमनोभिरजस्य युक्तं श्रीशं च तत्समगुणं यतिनाथमीडे ॥ ३९॥ गतभयं श्रुतिपालनधीर्यतिः अखिलकालमनन्तनतद्विजैः । निगमयोग्यदिने स्मृतिगौरवात् निखिलवेदविचारमचारयत् ॥ ४०॥ अमृतदानमतिर्निजसेविनां सुमनसामजहन्निजविग्रहः । यतिरिहाद्भुतलक्ष्म्णयोगिवा- गमृतदानमहादरधीरसौ ॥ ४१॥ भूसुरौघमशेषेण हिरण्याक्षं वचोऽमृतैः । विनिवर्त्य रसास्वादे कृतबुद्धीनकारयत् ॥ ४२॥ हिरण्यदो हरिश्चासौ यतिश्चेत्येनयोर्द्वयोः । आद्यः क्वचिद्यतिश्शश्वद्विस्मयः कस्य वा कृतौ ॥ ४३॥ हंसद्वयं स्मृतिगतं सुपवित्रमूर्ति- स्मृत्या नृणां विधिकृताखिलवेदजातः । एकोऽन्य एष नरसिंहशठारियोगी सर्वत्र दत्तनिगमो द्विजवर्यजाते ॥ ४४॥ विभुधराडवने विलसन्मतिः कविमकोपपदं कलयन् यतिः । अजहदेव निजाखिलवैभवं निखिलविक्रमशालिपदाम्बुजः ॥ ४५॥ येषां च स्मृतिमारूढं यतेश्चरितमङ्गळम् । ते नृपास्सन्नता यस्य तत्साम्येन नृपा हितः ॥ ४६॥ यत्कृत्यदर्शनवशादखिलाघनाशः यद्दर्शने सुमनसां न च तृप्तिरस्ति । गुर्वाज्ञया नियमिताविह योगिरामौ विश्वावनक्षमगुणौ शरणं प्रपद्ये ॥ ४७॥ तीर्थे कृतादरौ द्वौ तु रोहिणीशानयोगिनौ । कृष्णैकसंश्रयौ नाथौ तारतारप्रकाशकौ ॥ ४८॥ क्वचित्पुण्यदेशे कृतात्मावतारौ क्वचिद्दर्शिताशेषरक्षास्वभावौ । जिताशेषशत्रू मुदा सर्वसेव्यौ वरौ सत्यवाचौ सुधर्म्मैकचित्तौ ॥ ४९॥ वराशेषलोकप्रमाणस्ववाक्यौ नतोत्तारकौ योगिकृष्णौ गुरू तौ । रसोद्धारदक्षौ महायामुनेय- प्रभावादरौ दूरधूतामरेशौ ॥ ५०॥ गुणाम्भोनिधी दिव्यपद्माक्षमाला- वृतांसौ सुहंसादृतस्वीयवाक्यौ । स्ववाक्यावळीधूतगाङ्गेयपूर- द्ध्वनीध्वानमाधुर्यनम्राखिलेशौ ॥ ५१॥ तेजस्त्रयोल्लासितोऽसौ कृष्णो नृहरिकारिजः । लक्ष्मीमर्त्यमृगेन्द्रश्च भजेऽहं तुल्ल्यवर्चसः ॥ ५२॥ कर्णश्च दानाद्भुवि सुप्रसिद्धः सूर्यात्मजोऽयं नकुलस्य वैरी । सुरेशदत्तानघदिव्यशक्तिः स्मृत्या तु हीनः स्मृतिमान् यतिस्तु ॥ ५३॥ अनादिकालादघकाष्ठदीप्त- ज्वालाभवात्तपितस्य मेऽद्य । तत्तापशान्त्यै ननु दृष्टमेव दिव्यौषधं श्रीनृहरी शठारिः ॥ ५४॥ अनादिकालोपचिता ह्यविद्या तयाभितप्तस्य ममाद्य लोके । सञ्जीवनं सर्वविधोपयोग्यं लक्ष्मीनृसिंहाद्यशठारियोगी ॥ ५५॥ न च स्नानं न वा भुक्तिः भुक्तिमुक्तिफलप्रदात् । लक्ष्मीनृहरिकार्यात्मजातयोगिस्मृतेर्मता ॥ ५६॥ भवाभिधमहाहिना सुदृढदष्टनष्टात्मनां सुधां समुपजीवनीं झटिति यो ददाति स्वयम् । रमानृहरिकारिजात्यधिपतेरथान्यो भिष- ग्वरोऽस्ति यदि वोच्यतां क्वचन नास्ति सत्यं हि तत् ॥ ५७॥ विषयविषाग्निना कृतमुखेन दशेन्द्रियतः प्रथुलभवाहिना समुपदष्टनिजात्मवतः । नरहरिरेष एव रमया सुद्रढं कलितः नरमृगराजकारिजमुखेन सुजीवयति ॥ ५८॥ कियन्तौ स्वर्वैद्यौ हरिकृतसुजन्मा च सुमतिः सुधाकुम्भोद्धारोऽनुपधिदयधन्वन्तरिपदः । स रामः कृष्णो वा नृहरिरथवा श्रीनृमृगराट्- शठारिर्वा योगी भवदहनतप्ताय सुखदाः ॥ ५९॥ मृतसञ्जीवनं शास्त्रे कृष्णो राम इति श्रुतम् । लक्ष्मीनृसिंहशठजिद्योगिसञ्जीवनं पुरः ॥ ६०॥ कलितब्रह्मचर्येण कृतं सञ्जीवनं क्वचित् । कृष्णेनानेन यतिना बहुसञ्जीवनं कृतम् ॥ ६१॥ यत्पादकल्पतरुपल्लवसक्तमूर्ध्नां नैवास्ति तापनिवहः परिदृष्ट एषः । तछ्रीनृसिंहपतिकारिजयोगिनाथात् नान्यस्त्रिवर्गफलदस्त्रिगुणप्रभेदी ॥ ६२॥ शिरस्सु यतिपादाब्जशङ्खचक्राङ्कितेषु वः । मुमुक्षूणां स्वदोर्म्मूलशङ्खचक्राङ्कनैरलम् ॥ ६३॥ अधिकदयैकसारहृदये यतिभूमिपतौ नरहरिकारिसूनुपदगे नयनाध्वगते । किमिह रसायनैः नवनवौषधिसङ्घटितैः पिबत सुचक्षुषा भवभृदार्तिहरं सुयतिम् ॥ ६४॥ क्वचन दोषयुतेऽपि नतव्रजे निकटमाशु गते यतिशेखरः । अनघदृष्टिसुपूततदात्मकः जयति वत्सलतानिधिरद्भुतः ॥ ६५॥ हिरण्यस्य चैकस्य हन्ता नृसिंहः निहन्ता च षण्णामरीणां यतीन्द्रः । ऋषिश्चेत्पुराणस्य कर्ता स च स्यात् नसोऽस्त्यत्र नैवास्ति वक्ता तदन्यः ॥ ६६॥ अन्योपमर्देऽप्यधिकात्मकान्तिः आदर्शवत्स्पष्टपरात्मभावः । स्वच्छस्स्वतो दर्शितसौम्यभावः निजेन धाम्ना प्रचकास्ति योगी ॥ ६७॥ लक्ष्मीनृसिंहशठजित्करुणानिधिं तं भूसङ्गतं च सुदृशामपि गूढभावम् । शश्वत्कृते परिचये गहनं गभीरं भक्त्याञ्जनेन सुदृशः परिपश्यतैनम् ॥ ६८॥ यावत्कालं सन्नतौघे समीपं संप्राप्ते वा स्वात्मभारार्पणाय । नायं योगी योगदृष्टाखिलेशः खिन्नो दृष्टो दृष्टपुंसिंहचित्तः ॥ ६९॥ सर्वज्ञश्च कलाधरश्च सुयती रामार्पितात्माशयः कन्दर्पप्रशमाय कल्पितमतिः पूर्णो ह्यहीनैर्गुणैः । हासेनाधरकल्पिताहितगणस्सम्पूजितश्चामरैः कण्ठे निर्विषवत्तया सुमनसां पूज्यो यतीन्दुश्शिवात् ॥ ७०॥ जडोऽश्क्तवान् तथा वृजिनशन्तमीमोहितः त्रिवर्गफलधीः पुनः षडरिवर्गभिन्नाशयः । सदा भयभराकुलः बहुळतापसन्तापितः यतीन्दुकरुणामृताप्लुततनुश्च निर्भीरहम् ॥ ७१॥ यदि चिरजीविकासु विबुधा भवतां स्पृहणं न खलु तपःक्रिया न च पयोनिधिसम्मथनम् । अपि तु रमानृसिंहपतिकारिजयोगिगुणां- बुधिममृताप्तये कलयताग्र्यधिया निजया ॥ ७२॥ करुणापरिणाम एष योगी यतिनाथस्य च लक्ष्मणाभिधस्य । न हि चेदवनीतलस्थिताना- मवनेऽस्य क्व भवेत्स्वतोऽनुकम्पा ॥ ७३॥ रङ्गनाथमिव लोकभूषणं वेदराशिमिव विप्रभूषणम् । सत्पतिं विधुमिवानिशं भजे श्रीनृसंहशठजिद्यतीश्वरम् ॥ ७४॥ पद्मराशिमिव तीर्थभूषणं पद्मयोनिमिव हंसभूषणम् । पद्मजातमिव सत्यभूषणं भावये नृहरिकारिजाभिधम् ॥ ७५॥ मूलमन्त्रमिव सर्वथोऽर्थदः व्यापकेषु महितश्च सर्वतः । जन्मशुद्धिकरशक्तिभूषितः भक्तिभावरहितैरलक्षितः ॥ ७६॥ मन्त्ररत्नवदशेषभोग्यधीः दर्शिताखिलसुतत्त्वनिर्णयः । साद्ध्यसाधनतया च सेवितः संयमी नरहरीशकारिजः ॥ ७७॥ अन्त्यश्लोको यथाऽमोघो नरचित्तप्रदार्ढ्यदः । तथायं सेवितो योगी चित्तोत्साहप्रदः शुभः ॥ ७८॥ भीष्मभूप इव रङ्गक्लृप्तधीः दर्शिताखिलसुतत्त्वनिर्णयः । धर्मजातबहुविस्तराशयः सर्वपार्थिवगणैश्च पूजितः ॥ ७९॥ सुधाब्धिवत्सक्तगजाश्वघोषः रमापतिस्थानवरस्वरूपः । कलाधरोत्पादकरो गरिष्ठः नृसिंहकार्यात्मजयोगिनाथः ॥ ८०॥ सावधान इव दर्शितस्मृतिः स्वर्गवद्रुचिरभावबन्धुरः । कल्पवत्सफलरूपमेदुरः श्रीनृसिंहशठजिद्यतीश्वरः ॥ ८१॥ सर्वकालकलिता गुणा यतेः श्रीरमानृहरिराट्-शठद्विषः । नैव यान्ति हि समाप्तिमद्भुताः काल एव विलयं गतो भवेत् ॥ ८२॥ ये ये गुणा निगमशेखरदेशिकोक्ता श्रीलक्ष्मणाख्ययतिराजसुधामनिष्ठाः । ये कूरनाथनियता महिताश्च सर्वे ते श्रीनृसिंहपतिकारिजयोगिनिष्ठाः ॥ ८३॥ वाचामगोचरतया प्रथिता गुणास्ते कीर्त्युल्लसत्त्रिभुवनस्य दयाम्बुराशेः । श्रीमन्नृसिंहपतिकारिजयोगिनेतुः तद्भक्तिकल्पितधिया कलिता हि केचित् ॥ ८४॥ ज्ञानतोऽज्ञानतो वापि कृते कर्म्मणि यः फली । फली श्रीनृहरिर्भूयात् निजमूर्त्त्यन्तरस्तुतेः ॥ श्रीः ॥ ८५॥ श्रीमते श्रीमच्छठकोपश्रीलक्ष्मीनरसिंह- शठकोपयतीन्द्रमहादेशिकाय नमः । शुभं भवतु ॥ End of Part 3

चतुर्थो भागः ।

श्रीगणेशाय नमः । श्रीः । श्रीमते श्रीमच्छठकोपश्रीलक्ष्मीनरसिंहशठकोप- यतीन्द्रमहदेशिकाय नमः । वन्दे श्रीरङ्गगशठजिद्योगिनाथसुधाकरम् । यद्वाणीचन्द्रिकातृप्तास्सदा बुधचकोरकाः ॥ १॥ आजानशुद्धविभवं दत्तभूदेवभूषणम् । लक्ष्मीनृसिंहनिलयं सुधाब्धिमपरं श्रये ॥ २॥ स्ववृत्तामोदिसुजनं अनीचोच्चसमादरम् । गुरुलब्धबलैश्वर्यमपरं राममाश्रये ॥ ३॥ सदागमोल्लासधियं वाङ्माधुर्यान्मधुद्विषम् । रसार्णवैकनिलयमादिमत्स्यमिवापरम् ॥ ४॥ अमृतोत्पादनोपायं विबुधानां दृढाशयम् । हर्यंशादुद्धृतस्वाङ्गमादिकूर्म्ममिवापरम् ॥ ५॥ रसाश्रयोज्ज्वलतनुं हिरण्याक्षनिषूदनम् । श्रीमुष्णसङ्गोल्लसितं भूवराहमिवापरम् ॥ ६॥ प्रह्लाददर्शितात्मानं सन्ध्याकालप्रतीक्षकम् । लोकावनक्षमगुणं श्रीनृसिंहमिवापरम् ॥ ७॥ सर्वोन्नतस्वभावाढ्यं सदागमसमुज्ज्वलम् । सर्वज्ञेप्सितवत्तोयं त्रिविक्रममिवापरम् ॥ ८॥ निराकृतावनीपालं श्रीरामार्पितहृद्गतिम् । श्रीरङ्गशठजिन्नाथमादिं राममिवाश्रये ॥ ९॥ सर्वलोकेप्सितगुणं सर्वाह्लादैकमूर्त्तिकम् । लसन्मुनिगणामोदिकृत्यं राममिवापरम् ॥ १०॥ कृष्णप्रभाविलसितं स्फारतारप्रकाशकम् । शुभतीर्थकृताह्लादं बलराममिवापरम् ॥ ११॥ कृष्णां च येन राजन्तं धर्मस्थापनतत्परम् । विजयैककरं लोकपूज्यं कृष्णमिवापरम् ॥ १२॥ कलिं निपात्य धर्माणां स्थापनार्हकृतोद्यमम् । श्रीरङ्गशठजिद्योगिविधुं कल्किमिवाश्रये ॥ १३॥ अनधीत्य श्रुतिं सम्यगलब्ध्वा शास्त्रसम्पदम् । श्रुतिशास्त्रोल्लसद्रङ्गशठजिद्वृत्तवाक् तु कः ॥ १४॥ स्मृतिपावनसत्कीर्त्तेश्श्रीरङ्गशठवैरिणः । योगीन्द्रस्य शुभं वृत्तं मद्वाचा निस्सरत्यहो ॥ १५ ॥ स्वभासा भूषयन् लोकं विनिर्भिद्य तमोगणम् । सर्वदा पूर्णमूर्त्तिर्हि चन्द्रमा अपरो ह्ययम् ॥ १६ ॥ सर्वत्रोच्चैस्स्थितिश्श्रीकृत् बुधाश्लेषसमुन्नतिः । मकरेऽवतरन्नुच्चैः विश्वदेवर्क्षगो गुरुः ॥ १७॥ जायमानं हरिः पश्यन् सात्त्विकानां समृद्धये । यथामुमात्मनाऽऽत्मानं प्रेम्णा हृष्टमना अभूत् ॥ १८॥ अहं रेखामयीविद्या यावत्यस्योचितेति सा । स्वां च तं ग्राहयामास लोकाविद्यानिवृत्तये ॥ १९॥ भविता ब्रह्मसूत्रीति रोद्धा निर्गुणवादिनाम् । सावित्त्र्युदैक्षतामुं च सगुणब्रह्मसूत्त्रिणम् ॥ २०॥ भविष्यति त्रिदण्डीति त्रयीमात्रानुगामिनी । विवेश मधुरात्मानं मधुनाथसमाननम् ॥ २१॥ पदक्रमानुगश्चार्थ इत्येव शुभधीरसौ । पूर्वं पदक्रमं पश्चादर्थविस्तारमग्रहीत् ॥ २२॥ तर्के प्राधान्यबुद्ध्यैव तर्कशास्त्रं सविस्तरम् । प्रणेतृप्रतिभायोग्यं दृढं चेतसि सन्दधे ॥ २३॥ अत्र चित्रमिदन्त्वेव प्रतिवक्तुं क्षमेतराः । स्वधीविलासभूम्नामुं हृद्यकुर्वन्नताननाः ॥ २४॥ धर्मशास्त्रक्रियास्सर्वाः गुरुणा बहुमानिताः । पश्चाद्रक्षिष्यमाणास्स्युरित्यसङ्कोचविस्तरम् ॥ २५॥ आवीक्षकी साहिती च ते ह्यस्मिन् सत्पथानुगे । समूषतुः कवितया सर्वरञ्जनया मुदा ॥ २६॥ पूर्वसूरिप्रबन्धाश्च सावकाशं समादृताः । समेत्यास्मिन् गुरौ विद्या ऊषुराभरणानि वा (इव)॥ २७॥ सुखितास्तास्समीक्ष्यापि गुरौ ज्ञानेशबोधिता । स्पर्द्धयेवाविशत् सौत्त्रीसाग्राताभ्योऽतिशायिनी ॥ २८॥ तत्तद्विद्यासु यावत्ता सर्वाप्यस्मिन् गुरौ स्थिरा । स्वस्वालङ्कार इत्येव नित्यावासममन्यत ॥ २९॥ आभिर्जुष्टं गुरुं वीक्ष्य क्षमाशान्त्यादयो गुणाः । मानसेऽस्य कृतस्थानाः वज्रलेपाञ्चिता इव ॥ ३०॥ विद्यगुणैरात्मगुणैर्निबद्धं बन्धदूरगम् । नृहरिस्सत्यसङ्कल्पः स्वचेतस्यकरोद्गुरुम् ॥ ३१॥ गुरोराशालवाले स्युः तत्तद्विद्यालताश्शुभाः । वाक्पुष्पैरर्च्चितदिशः शालिन्यश्च यशः फलैः ॥ ३२॥ श्रुत्वाऽस्यवाणीं विबुधाः सुधायां हरिगौरवात् । स्पृहां चक्रुः स्वबुद्ध्या न यद्वाङ्नित्यामृतप्रदा ॥ ३३॥ विद्याचन्द्रिकया जुष्टे राजमाने द्विजेश्वरे । सच्चकोराः कृतास्वादाः अन्ये काकपदानुगाः ॥ ३४॥ परिशुद्धैर्हविर्भिस्समनसा च यथोचितैः । अथ नित्योक्तविधिना तोषयामास माधवम् ॥ ३५॥ पाञ्चकालिकधर्मज्ञः यजन् तेनैव वर्त्मना । स्वार्चामाराध्य संहृष्टः दक्षो दक्षाद्भभौ सुधीः ॥ ३६॥ ये सात्त्विका महात्मानः श्रुतिसङ्गप्रहर्षदाः । उपमानमभूत्तेषां तत्तत्कृत्यसधर्मकृत् ॥ ३७॥ नतात्मनां गुरुर्बन्धुः लोके नारायणो यथा । यस्य शक्तिस्थिरोदर्का सर्वज्ञस्य महत्यभूत् ॥ ३८॥ पराशरो वा मुनिराड्रत्नं येन विनिर्मितम् । मुमुक्ष्वाभरणं पूर्वापराधिषु च धर्षणम् ॥ ३९॥ व्यासश्श्रुतिपरामर्शी श्रुतिसारैकसूत्रधीः । अभिज्ञो लोकवृत्तानां सद्भिरेषः प्रकीर्त्तितः ॥ ४०॥ शुकोऽयं कृष्णपक्षश्च वर्धमानः पदेपदे । निर्दोषकलया पूर्णो गुरुर्लोकैकवन्दितः ॥ ४१॥ दयया यति भूपालः पारमैकान्त्यसम्पदा । कूरनाथो भट्टवरः तत्त्वानां निर्णयोक्तिभिः ॥ ४२॥ तत्त्वविस्तारभूम्ना चोपकारकरसूक्तिभिः । त्रय्यन्तदेशिकस्सर्वतन्त्रे स्वातन्त्र्यतायुतः ॥ ४३॥ नृसिंहप्रीतिकरणे प्रह्लादोऽभूद्गुरुस्स्वयम् । सद्वृत्तैः प्रीणयन् सम्यग्ज्योत्स्नयैव जनं शशी ॥ ४४॥ दिव्यक्षेत्रेषु सर्वत्र वर्षन्तं वचनामृतम् । सर्वतृट्-शमनं सन्तो मेनिरे लक्ष्मणं यतिम् ॥ ४५॥ प्रबन्धार्थप्रवक्तारं भीकरं तद्विरोधिनाम् । कलिघ्नमथवा कारिसूनुं सर्वे शशङ्किरे ॥ ४६॥ शभकृद्वृत्तसम्पन्नः पारमैकान्त्यभस्वरः । हृदयङ्गमकीर्त्त्याढ्यः गुरुर्लोकैकवन्दितः ॥ ४७॥ तत्तादृग्गुणसम्पन्नं सच्चारित्र्यैकवत्सलः । लक्ष्मीनृकेसरी स्वार्थे यतीन्दुमकरोद्गुरुम् ॥ ४८॥ लक्ष्मीनृकेसरी सात्क्षात् शठारिश्चेत्युभौ गुरू । एकीभूयोदितौ येनाभिषिक्तस्तेन तत्पदे ॥ ४९॥ ब्राह्म्या श्रिया लौकिकया श्रीनृसिंहस्य तेजसा । भास्वन्तं भास्कराभं तं नतहृत्पद्मराशिषु ॥ ५०॥ श्रीनृसिंहशठारातियतीन्द्रस्स्वीयतेजसा । कृतनीराजनं प्रेम्णाकरोत्सर्वत्र भास्वरम् ॥ ५१॥ लक्ष्मीनृसिंहशठजिन्मनःकुमुदचन्द्रमाः । श्रीरङ्गशठजिद्योगी जयत्यद्भुतचेष्ठितः ॥ ५२॥ यतीन्द्वोर्मेळने श्लाघ्या शोभाहर्षकरी सताम् । अविच्छिन्नामृतास्वादा रामलक्ष्मणयोरिव ॥ ५३॥ कृतान्वयश्श्रीनृहरौ योगी भाति ह्यनन्वयः । लक्ष्मीनृसिंहशठजिद्योगीन्द्रकरुणाप्लुतः ॥ ५४॥ येन लक्ष्मीनृसिंहशठकोपयतीन्द्रेण रूपेण एकीभूय उदितौ तेन योगीन्द्रेण तत्पदे अभिषिक्तः ॥ यतीन्द्रेण स्वपदेऽभिषिक्तः ॥ पशुव्याघ्रैक्यसम्पत्तिः गजसिंहसमाशयः । निर्वैरमभवत्तत्र प्रशान्ताश्रमसन्निधौ ॥ ५५॥ सदा तत्त्वविचारश्च सदाऽमृतविगाहनम् । श्रवणैर्विदुषां श्रीमद्धंसद्वितयसन्निधौ ॥ ५६॥ सर्वसंशयविच्छित्तिरहितार्थनिरासनम् । सर्वविद्याप्रचारश्च वरहंसयुगान्तिके ॥ ५७॥ वृष्टिर्वसोश्च विद्यायाः पुष्पस्य मधुनो यथा । सर्वामोदकरी लक्ष्मीनृसिंहहृदयङ्गमा ॥ ५८॥ सर्वथा संप्रवृत्ता सा देवानामपि दुर्लभा । दशधा लसदात्मापि तुष्यत्यात्मेश्वरो हरिः ॥ ५९॥ गुरुसन्तोषकृद्वृत्तः हंसश्शिष्यो यतिस्सदा । शिष्यहंसाभिमानी च यतिराड्-धर्मतत्त्ववित् ॥ ६०॥ सात्विकी परमा दृष्ठिस्तयोः परमहंसयोः । विभाति देहमात्रेण भेदो नैवाशये क्वचित् ॥ ६१॥ परस्परगुणादर्शौ परस्परगुणादरौ । परस्परप्रीतिनिधीविदुषां विस्मयावहौ ॥ ६२॥ ब्रह्मविद्योज्ज्वलत्स्वाङ्गं विश्वामोदकृतोदयम् । पद्मोल्लासकरं भान्तं विष्ण्वेकनिलयं यतिम् ॥ ६३॥ सर्वसन्तापहरणच्छायोल्लासितविग्रहम् । आश्रिताभीष्ठफलदं सौम्यं सूर्यं विलक्षणम् ॥ ६४॥ द्वारं भवतितीर्षूणां सद्भावं द्विजजन्मनाम् । अभावं दोषवर्गाणां श्रीरङ्गशठजिद्यतिम् ॥ ६५॥ सन्मार्गबुद्धिसद्धेतुं वरतेजोनिधिं शुभम् । सर्वारोग्यप्रदधियं शुचिकारणमाश्रये ॥ ६६॥ नृसिंहानुष्टुभा प्रीतो रङ्गिकारिजदत्तया । लक्ष्मीनृसिंहो यन्निघ्नः श्रये रङ्गशठद्विषम् ॥ ६७॥ देहवाग्वृत्तहृदयगाम्भीर्यात् कविमोहनम् । इत्थं त्वेन गिरावक्तुं यतीन्दुं मुह्यतीव धीः ॥ ६८॥ नित्यारियातुहन्तारं भवसिन्धुविशोषणम् । ममताविन्ध्यदमनं कुम्भजं मेनिरे यतिम् ॥ ६९॥ गरुत्मन्तमिवोद्यन्तं पक्षपातं विनोर्जितम् । विनतानन्दनं रङ्गशठजिन्नाम योगिनम् ॥ ७०॥ सर्वथाशेषभावेन द्योतमानं निजश्रिया । माधवार्पितसर्वांशं शेषं रङ्गशठद्विषम् ॥ ७१॥ शेषाशनं श्रीशधर्म्मनेतारं हरिसम्मतम् । तत्सेनान्यमिवाप्यन्यं श्रये रङ्गशठद्विषम् ॥ ७२॥ अनुष्ठितक्रतुशतं सर्वज्यैष्यपदस्थितिम् । यतिं महेन्द्रमपरं नरसिंहैकपालितम् ॥ ७३॥ धीप्रचोदनकर्तारं सर्वसन्मार्गदायिनम् । पुण्डरीकाक्षनिलयं सवितारमिवापरम् ॥ ७४ ॥ सुदर्शनं द्योतमानं हरेः करसमुज्ज्वलम् । चक्रेशमिव योगीन्द्रं विमताशाविबाधकम् ॥ ७५॥ रामान्वयकरं विष्णुपदद्योतितविग्रहम् । हंसं हंसान्वयाद्दीप्तं भस्वन्तमपरं यतिम् ॥ ७६॥ पाञ्चजन्यमिवाशेषमोदावहशुभद्ध्वनिम् । सतां जयप्रदगुणमसतां च भयावहम् ॥ ७७॥ श्लाघ्याभिजनसम्भूतं सदैव रमयेक्षितम् । यतिमन्यं कौस्तुभञ्च हृद्गतं च हरेर्गुणैः ॥ ७८॥ अविच्छिन्नगुणं श्रीमद्धरिशार्ङ्गमिवापरम् । अविनाभूतविजयं नित्यशत्रुविनाशनम् ॥ ७९॥ सदाधिष्ठितदेवेशं गुरुदृष्ट्याभिपालितम् । कृतपुण्यैर्जनैर्दृष्टं यतिं स्वर्गमिव स्थितम् ॥ ८० ॥ सरस्वतीपदमुखं सत्यपालनतत्परम् । स्वभक्तितुष्टहस्तीशमन्यं पद्मभवं यतिम् ॥ ८१॥ जाह्नवीतीर्थपूताङ्गं कलयोल्लसिताननम् । विश्वातिशायिसार्वज्ञ्यं ईशानमपरं यतिम् ॥ ८२॥ अमेघभीतिनिलयमतमस्सङ्गदुःखितम् । अनाभिजातसंसर्गं हंसं वन्दे विपश्चितम् ॥ ८३॥ अथ तेभ्यो नमोऽप्यस्तु यतीन्दुं विद्विषन्ति ये । अत्र प्रवृत्तमनसः यैश्च सन्धुक्षिता वयम् ॥ ८४॥ यदन्वयाद्विशुद्धास्स्युः भक्त्या दूषणया धिया । उभये शुद्धमनसः स्मरणं तत्र कारणम् ॥ ८५॥ विचार्य बुद्ध्याऽमलया यतीन्दोर्निर्मलाशयाः । वृत्ताब्धौ सन्त आसायं निमग्ना भवतश्रियै ॥ ८६॥ अपापभीरुहृदयैः अयतीन्द्रानुवर्त्तिभिः । अनृसिंहेक्षितैः किं वा सद्भिरेव हि केवलैः ॥ ८७॥ यस्मिन्नुपदिशत्यर्थं प्रणवैकसमुद्गतम् । मेने जनस्स्वमात्मानं जातं शेषं पुनर्नवम् ॥ ८८॥ सर्वद्विजसमक्षं हि कृतस्नानादिकक्रियः । जगद्धेतुर्रमानाथमर्घ्यदानादिनार्च्चयत् ॥ ८९॥ रविप्रभे जपत्यस्मिन् पद्मराशिस्स्मिताननः । स्वयं च निश्चलस्तस्थौ यतिना शिक्षितो यथा ॥ ९०॥ शुद्धभानुकराश्लिष्टं लक्ष्मीनरमृगेश्वरम् । अतोषयत्त्वभिगमैः परिवारेण संयुगम् ॥ ९१॥ नित्यसेवाविशुद्धात्मभूमिदेवगणेष्वसौ । श्रीभाष्यामृतवर्षाणि यथा मेघोऽभ्यवर्षयत् ॥ ९२॥ उच्चस्थेऽथ रवौ योगी योगतुष्टरमापतिम् । इज्याऽऽराधनसन्तुष्टं कारयामास वाग्यमी ॥ ९३॥ हुतशिष्टं यतिः सम्यक् शिक्यलब्धं सुधोपमम् । पवित्रमन्नं हार्दाय न्यवेदयद्यथोचितम् ॥ ९४॥ अथ द्वयार्थवक्ताऽसौ द्वन्द्वातीतस्सतां व्रजे । तोषयामास योगीन्द्रं श्रीनृसिंहशठद्विषम् ॥ ९५॥ समक्षञ्च दिनेशस्य कृतस्नानो यतीश्वरः । सन्दिग्धायां रविस्थित्यां नृसिंहारधने यतः ॥ ९६॥ लक्ष्मीनृसिंहशठजिद्योगीन्द्रं संप्रण्म्य च । कटाक्षामृतसन्तुष्टः जयत्यखिलवन्दितः ॥ ९७॥ अथ योगासने योगी योगतुष्टनृसिंहधीः । शेषिणं जगतां स्वस्य ध्यायति श्रीरमाश्रयम् ॥ ९८॥ एवं विधैर्बुधाश्चर्यैः कृत्यैर्हंसौ परस्परम् । हर्षयन्तौ सदा नम्रान् जीयातस्तां बहुवत्सरान् ॥ ९९॥ यत्रैतद्धंसयोश्शुद्धपदपङ्कजरेणवः । पावनास्सर्वजन्तूनां सा भूमिर्द्वारकादिका ॥ १००॥ श्रूयतेहंसयोर्नादः यत्रयद्विषयोऽपि वा । सा प्राणनाडिविद्यायाश्शीक्षाद्यायाश्च सम्पदः ॥ १०१॥ अहो ह्यदूषयं रङ्गशठजिद्योगिवैभवम् । यदपारं कलुषया वाचा गोष्पदमभ्रुवम् ॥ १०२॥ नन्दन्तु सन्तो यदि वा दूषयन्तु कृतिं मम । उभयं भूषणं नैव प्राज्ञेतरसमादरः ॥ १०३॥ जप्यमेतद्धि विदुषां मनोवाग्वृत्तभूषणम् । न हि त्यजन्ति विबुधा विधुं दोषाञ्चितं क्वचित् ॥ १०४॥ न चार्थतृष्णया ख्यात्यै यतीन्दुगुणचन्द्रिका । तद्गुणाविदुषां भक्त्या दर्शनार्थमियं कृतिः ॥ १०५॥ शब्दे स्वर्गदुहानेन सूरिभिश्शिक्षिता वयम् । लक्ष्मीनृसिंहशठजिद्योगिदृष्ठ्याविशोधिताः ॥ १०६॥ तुष्यत्वनेन वचसा शुभलक्ष्मीनृकेसरी । लक्ष्मीनृसिंहशठजिग्योगीन्द्रो दैवतं मम ॥ १०७॥ अनुष्ठुभा परमया वाचा साफल्यमीफ्सता । श्रीरङ्गशठजिद्योगिविधोर्वृत्तं च र्वणितम् ॥ १०८॥ ॥ शुभमस्तु ॥ शठारिलक्ष्मणमुनीन्द्रार्च्चाधीः जयति श्रुतः । लक्ष्मीनृसिंहशठजित् चापादि प्रोष्ठपाद्भवः ॥ जयत्युच्चैर्गुरुश्श्रीकृद्बुधाश्लेषसमुन्नतिः । मकरेऽवतरन् रङ्गशठजिद्विश्वदेवभः ॥ श्रीमते श्रीमच्छठकोप श्रीरङ्गशठकोपयतीन्द्रमहादेशिकाय नमः ॥ इति आवियुर् श्रीनिवसचार्यविरचितः श्रीपार्थसारथिस्तवः समाप्तः । End of Part - 4 Encoded by Muthuraman Krishnamurthy Proofread by PSA Easwaran
% Text title            : Shri Parthasarathi Stavah
% File name             : pArthasArathistavaH.itx
% itxtitle              : pArthasArathistavaH
% engtitle              : pArthasArathistavaH
% Category              : vishhnu, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Muthuraman Krishnamurthy
% Proofread by          : Muthuraman Krishnamurthy, PSA Easwaran
% Description/comments  : Encoded from Grantha Tamil text Parthasarathi Stavah
% Indexextra            : (scan)
% Latest update         : September 15, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org