॥ श्रीपद्मनाभशतकम् ॥

महाराजा स्वाति तिरुनाळ् विरचितम् ॥ श्री गणेशाय नमः ॥ ॥ प्रथमं दशकम् ॥ या ते पादसरोजधूलिरनिशं ब्रह्मादिभिर्निस्पृहैः भक्त्या सन्नतकन्धरैः सकुतुकं सन्धार्यमाणा हरे । या विश्वं प्रपुनाति जालमचिरात् संशोषयत्यंहसां सा मां हीनगुणं पुनातु नितरां श्रीपद्मनाभान्वहम् ॥ १॥ सत्त्वैकप्रवणाशया मुनिवरा वेदैः स्तुवन्तः परैः त्वन्माहात्म्यपयोनिधेरिहपरं नाद्यापि पारङ्गताः । एवं सत्यहमल्पबुद्धिरवशः स्तोतुं कथं शक्नुयां त्वत्कारुण्यमृते हरे! तरति कः पोतं विना सागरम् ॥ २॥ तस्माच्छिन्धि मदीयमोहमखिलं संसारबन्धावहं भक्तिं त्वत्पदयोर्दिश स्थिरतरां सर्वापदुन्मीलिनीम् । वाणीं त्वत्पदवर्णने पटुतमां विद्वज्जनाह्लादिनीं देहि त्वत्पदसेवकाय ननु मे कारुण्यवारांनिधे ॥ ३॥ येनेदं भुवनं ततं स्वबलतो यस्याज्ञयोदेत्यहर्- नाथो वात्यनिलो दहत्यपि शिखिः सर्वेऽपि यन्निर्मिताः । यश्चेदं सकलं जगत्स्वजठरे धत्ते च कल्पावधौ तत्तादृग्विभवे त्वयि प्रमुदिते किं वा दुरापं नृणाम् ॥ ४॥ भक्तानामखिलेप्सितार्थघटने बद्धोद्यमस्त्वं हरे! नित्यं खल्विति बोद्ध्यमस्ति बहुशो देव! प्रमाणं मम । नो चेद्व्यासवचस्तवैव वचनं वेदोपगीतं वचो हा रथ्याजनवादवद्बत भवेन्मिथ्या रमावल्लभ! ॥ ५॥ इन्द्रद्युम्ननृपः करीन्द्रजननं प्राप्तोऽथ शापेन वै नक्राक्रान्तपदो विमोचनपटुर्नाभूत्सहस्रं समाः । भूयस्त्वामयमर्चयन् सरसिजैः शुण्डोद्धृतैः सादरं सारूप्यं समवाप देव भवतो नक्रोऽपि गन्धर्वताम् ॥ ६॥ पापः कश्चिदजामिलाख्यधरणीदेवोऽवसत्सन्ततं स्वैरिण्या सह काममोहितमतिस्त्वां विस्मरन् मुक्तिदम् । अन्ते चाह्वयदीश! भीतहृदयो नारायणेत्यात्मजं नीतः सोऽपि भवद्भटैस्तवपदं संरुध्य याम्यान् भटान् ॥ ७॥ पाञ्चालीं नृपसन्निधौ खलमतिर्दुश्शासनः पुष्पिणीं आकर्षश्चिकुरेण दीनवदनां वासः समाक्षिप्तवान् । यावत्सा भुवनैकबन्धुमवशा सस्मार लज्जाकुला क्रोशन्ती व्यतनोः पटौघममलं तस्यास्त्वनन्तं हरे ! ॥ ८॥ यामार्धेन तु पिङ्गला तव पदं प्राप्ता हि वाराङ्गना बालः पञ्चवयोयुतो ध्रुवपदं चौत्तानपादिर्गतः । यातश्चापि मृकण्डुमौनितनयः शौरे! चिरं जीवितं नाहं वक्तुमिह क्षमस्तव कृपालभ्यं शुभं प्राणिनाम् ॥ ९॥ एवं भक्तजनौघकल्पकतरुं तं त्वां भजन्तः क्षणं पापिष्ठा अपि मुक्तिमार्गममलं के के न याता विभो! । स त्वं मामपि तावकीनचरणे भक्तं विधायानतं स्यानन्दूरपुरेश! पालय मुदा तापान्ममापाकुरु ॥ १०॥
॥ द्वितीयं दशकम् ॥ पिबन्ति ये त्वच्चरितामृतौघं स्मरन्ति रूपं तव विश्वरम्यम् । हरन्ति कालं च सह त्वदीयैः मन्येऽत्र तान् माधव धन्यधन्यान् ॥ १॥ सदा प्रसक्तां विषयेष्वशान्तां मतिं मदीयां जगदेकबन्धो! । तवैव कारुण्यवशादिदानीं सन्मार्गगां प्रेरय वासुदेव! ॥ २॥ दृशौ भवन्मूर्तिविलोकलोले श्रुती च ते चारुकथाप्रसक्ते । करौ च ते पूजनबद्धतृष्णौ विधेहि नित्यं मम पङ्कजाक्ष ! ॥ ३॥ नृणां भवत्पादनिषेवणं तु महौषधं संसृतिरोगहारी । तदेव मे पङ्कजनाभ भूयात् त्वन्मायया मोहितमानसस्य ॥ ४॥ यदीह भक्तिस्तवपादपद्मे स्थिरा जनानामखिलार्तिहन्त्री । तदा भवेन्मुक्तिरहो करस्था धर्मार्थकामाः किमु वर्णनीयाः ॥ ५॥ वेदोदिताभिर्व्रतसत्क्रियाभिर्- नश्यत्यघौघो न हि वासना तु । त्वत्पादसेवा हरति द्वयं यत् तस्मात्स्थिरा सैव ममाशु भूयात् ॥ ६॥ त्वदीयनामस्मृतिरप्यकस्माद् धुनोति पापौघमसंशयं तत् । यद्वद्गदानौषधमाशु हन्ति यथा कृशानुर्भुवि दारुकूटम् ॥ ७॥ यद्यत्स्मरन् प्रोज्झति देहमेतत् प्रयाणकाले विवशोऽत्र देही । तत्तत्किलाप्नोति यदन्यभावे तस्मात्तवैव स्मृतिरस्तु नित्यम् ॥ ८॥ अनेकधर्मान् प्रचरन्मनुष्यः नाके नु भुङ्क्ते सुखमव्यलीकम् । तस्यावधौ सम्पततीहभूमौ त्वत्सेवको जातु न विच्युतः स्यात् ॥ ९॥ तस्मात्समस्तार्तिहरं जनानां स्वपादभाजां श्रुतिसारमृग्यम् । तवाद्य रूपं परिपूर्णसत्वं रमामनोहारि विभातु चित्ते ॥ १०॥
॥ तृतीयं दशकम् ॥ दिनमनुपदयुग्मं भावयेयं मुरारे कुलिशशफरमुख्यैश्चिह्निते चारु चिह्नैः । नखमणिविधुदीप्त्या ध्वस्तयोगीन्द्रचेतो - गततिमिरसमूहं पाटलाम्भोजशोभम् ॥ १॥ यदुदितजलधारा पावनी जह्नुकन्या पुरभिदपि महात्मा यां बिभर्ति स्वमूर्ध्ना । भुजगशयन! तत्ते मञ्जुमञ्जीरयुक्तं मुहुरपि हृदि सेवे पादपद्मं मनोज्ञम् ॥ २॥ मुरहर! तव जङ्घे जानुयुग्मं च सेवे दुरितहर तथोरू मांसळौ चारुशोभौ । कनकरुचिरचेलेनावृतौ देव! नित्यं भुवनहृदयमोहं सम्यगाशङ्क्य नूनम् ॥ ३॥ मणिगणयुतकाञ्चीदाम सत्किङ्किणीभिः मुखरतमममेयं भावये मध्यदेशम् । निखिलभुवनवासस्थानमप्यद्य कुक्षिं मुहुरजित! निषेवे सादरं पद्मनाभ! ॥ ४॥ भवहरण! तथा श्रीवत्सयुक्तं च वक्षो- विलसदरुणभासं कौस्तुभेनाङ्ग कण्ठम् । मणिवलययुतं ते बाहुयुग्मं च सेवे दनुजकुलविनाशायोद्यतं सन्ततं यत् ॥ ५॥ वरद जलधिपुत्र्या साधु पीतामृतं ते त्वधरमिह भजेऽहं चारुबिम्बारुणाभम् । विमलदशनपङ्क्तिं कुन्दसद्कुड्मलाभां मकरनिभविराजत्कुण्डलोल्लासि गण्डम् ॥ ६॥ तिलकुसुमसमानां नासिकां चाद्य सेवे गरुडगमन! चिल्यौ दर्पकेष्वासतुल्यौ । मृगमदकृतपुण्ड्रं तावकं फालदेशं कुटिलमळकजालं नाथ नित्यं निषेवे ॥ ७॥ सजलजलदनीलं भावये केशजालं मणिमकुटमुदञ्चत्कोटिसूर्यप्रकाशम् । पुनरनघ! मतिं मे देव! सङ्कोच्य युञ्जे तव वदनसरोजे मन्दहासे मनोज्ञे ॥ ८॥ गिरिधर तव रूपं त्वीदृशं विश्वरम्यं मम विहरतु नित्यं मानसाम्भोजमध्ये । मनसिजशतकान्तं मञ्जुमाधुर्यसारं सततमपि विचिन्त्यं योगिभिः त्यक्तमोहैः ॥ ९॥ अथ भुवनपतेऽहं सर्गवृद्धिक्रमं वै किमपि किमपि वक्तुं प्रारभे दीनबन्धो । परपुरुष! तदर्थं त्वत्कृपा सम्पतेन्म- य्यकृतसुकृतजालैर्दुर्लभा पङ्कजाक्ष ! ॥ १०॥
॥ चतुर्थं दशकम् ॥ तावकनाभिसरोजात् जातो धाता समस्तवेदमयः । शंसति सकलो लोको यं किल हिरण्यगर्भ इति ॥ १॥ तदनु स विस्मितचेताः चतसृषु दिक्षु साधु सम्पश्यन् । समगादच्युत तूर्णं चतुराननतामिहाष्टनयनयुताम् ॥ २॥ दृष्ट्वा कमलं सोऽयं तन्मूलां तव तनुं त्वसम्पश्यन् । कोऽहं निश्शरणोऽजं कस्मादजनीति देव! चिन्तितवान् ॥ ३॥ ज्ञातुं तत्वं सोऽयं सरसिजनाळाध्वना त्वधो गत्वा । योगबलेन मनोज्ञां तव तनुमखिलेश! नाप्यपश्यदहो ॥ ४॥ तावद्दुखितहृदयः पुनरपि च निवृत्य पूर्ववज्जलजे । तावक करुणामिच्छन् चक्रे समाधिमयि! भगवन् ॥ ५॥ वत्सरशतकस्यान्ते दृढतरतपसा परिविधूतहृदयमलः । स विधिरपश्यत्स्वान्ते सूक्ष्मतया तव तनुं तु सुभगतमाम् ॥ ६॥ पुनरिह तेन नुतस्त्वं शक्तिमदास्तस्य भुवननिर्माणे । पूर्वं त्वसृजत्सोऽयं स्थावरजङ्गममयं तु सकलजगत् ॥ ७॥ सनकमुखान् मुनिवर्यान् मनसाह्यसृजत्तवाङ्घ्रिरतहृदयान् । सृष्टौ तु ते नियुक्ताः जगृहुर्वाणीं न वैधसीं भूमन्! ॥ ८॥ अङ्गादभवंस्तूर्णं नारदमुख्या मुनीश्वरास्तस्य । मनुशतरूपात्मासौ मानुषसृष्टिं चकार कमलभवः ॥ ९॥ सर्गस्थितिलयमूलं सुरमुनिजालैरमेयमहिमानम् । तं त्वामेव प्रणमन् मुदमतुलां पद्मनाभ! कलयामि ॥ १०॥
॥ पञ्चमं दशकम् ॥ भुवो भारं हर्तुं नियतमवतारांस्तु भवतो नियुङ्क्ते वक्तुं मामपि जडधियं भक्तिरधुना । तदर्थं कृत्वा मामनुपमपटुं पालय हरे भवत्पादाम्भोजप्रवणहृदयं देव सदयम् ॥ १॥ हयग्रीवाख्येन त्रिदशरिपुणा वेदनिवहे हृते निद्राणस्याम्बुरुहजनुषो हन्त वदनात् । निहन्तुं दुष्टं तं विनिहितमतिस्त्वं पुरुदया- पयोधिस्तूर्णं वै दधित बत मात्स्यं किल वपुः ॥ २॥ नदीतोये सन्तर्पयति किल सत्यव्रतनृपे भवान् दृष्टो हस्ते परमतनुवैसारिणवपुः । ततो निन्ये कूपं पुनरपि तटाकं च तटिनीं महाब्धिं तेनाहो सपदि ववृधे तावक वपुः ॥ ३॥ ततस्तं भूपालं प्रलयसमयालोकनपरं मुनीन्द्रान् सप्तापि क्षितितरणिमारोप्य च भवान् । समाकर्षन् बद्धां निज विपुलशृङ्गे पुनरिमां मुदा तेभ्यः सन्दर्शितभुवनभागः समचरत् ॥ ४॥ पुनस्संहृत्य त्वं निजपरुषशृङ्गेण दितिजं क्षणाद्वेदान् प्रादा मुदितमनसे देव विधये । तथाभूताऽमेयप्रणतजनसौभ्याग्यद! हरे! मुदा पाहि त्वं मां सरसिरुहनाभाऽखिलगुरो! ॥ ५॥ वहंस्त्वं मन्थानं कमठवपुषा मन्दरगिरिं दधानः पाणिभ्यां स्वयमपि वरत्रां फणिपतिम् । सुरेभ्यः सम्प्रदास्त्वमृतमिह मथ्नन् किल जवात् हरे दुग्धाम्भोधेः सपदि कमलाऽजायत ततः ॥ ६॥ ततो निक्षिप्ता वै सपदि वरणस्रक् खलु तया भवत्कण्ठे मात्रा निखिलभुवनानां सकुतुकम् । पपौ त्वत्प्रीत्यर्थं सपदि बत हालाहलविषं गिरीशः प्रादास्त्वं सुरतरुगजादीनि हरये ॥ ७॥ पुरा ते द्वास्थौ द्वौ सनकमुखशापेन तु गतौ हरे! सर्वैर्निन्द्यं खलु दनुजजन्मातिकठिनम् । तयोर्भ्राता दुष्टो मुरहर कनीयान् वरबलात् हिरण्याक्षो नाम क्षितिमिह जले मज्जयदसौ ॥ ८॥ महीं मग्नां दृष्ट्वा तदनु मनुना सेवितपदात् विधेर्नासारन्ध्रात्समभवदहो सूकरशिशुः । ततो दैत्यं हत्वा परममहितः पीवरतनुः भवान् निन्ये भूमिं सकलविनुत प्राक्तनदशाम् ॥ ९॥ वधेन स्वभ्रातुः परमकुपितो दानववरो हिरण्यप्रारम्भः कशिपुरिह मोहाकुलमतिः । विजेतुं त्वां सोऽयं निखिलजगदाधारवपुषं प्रतिज्ञां चाकार्षीद्दनुसुतसभामध्यनिलयः ॥ १०॥
॥ षष्ठं दशकम् ॥ पुत्रोऽस्य वै समजनीह तवाङ्घ्रिभक्तः प्रह्लाद इत्यभिमतः खलु सज्जनानाम् । तं तत्पिता परमदुष्टमतिर्न्यरौत्सीत् त्वत्सेविनं किमिह दुष्करमीश पापैः ॥ १॥ भूयोऽपि सोऽथ जगदीश्वर! गर्भवासे श्रीनारदेन मुनिनोक्तभवत्प्रभावः । शुश्राव नो जनकवाक्यमसौ तदानीं तत्प्रेरितैर्गुरुजनैरपि शिक्षितश्च ॥ २॥ दृष्ट्वा पिताऽस्य निजपुत्रमतिं त्वकम्पां त्वत्पादपद्मयुगळादतिरुष्टचेताः । शूलैश्च दिग्गजगणैरपि दन्तशूकैः एनं निहन्तुमिह यत्नशतं चकार ॥ ३॥ सोऽयं दृढं तव कृपाकवचावृताङ्गः नो किञ्चिदाप किल देहरुजामनन्त ! । ``कस्ते बलं खल! वदे''त्यथ देव ! पृष्टो ``लोकत्रयस्य तु बलं हरि''रित्यवादीत् ॥ ४॥ स्तम्भे विघट्टयति कुत्र हरिस्तवेति रूपं ततः समभवत्तव घोरघोरम् । नो वा मृगात्म न नरात्म च सिंहनाद- सन्त्रासिताखिलजगन्निकरान्तराळम् ॥ ५॥ तूर्णं प्रगृह्य दनुजं प्रणिपात्य चोरौ वक्षो विदार्य नखरैः रुधिरं निपीय । पादाम्बुजैकनिरतस्य तु बालकस्य कायाधवस्य शिरसि स्वकरं न्यधास्त्वम् ॥ ६॥ एवं स्वभक्तजनकामितदानलोल ! निर्लेप! निर्गुण! निरीह! समस्तमूल ! । मां पाहि तावक पदाब्जनिविष्टचित्तं श्रीपद्मनाभ! परपूरष! ते नमस्ते ॥ ७॥ दृष्टो भवानदितिजो वटुरूपधारी दैत्याधिपेन बलिना निज यज्ञगेहे । पृष्टश्च तेन ``किमु वाञ्छसि बालके''ति पादत्रयी प्रमितभूमितलं ययाचे ॥ ८॥ युग्मेन देव! चरणस्य तु सर्वलोके पूर्णे तृतीयचरणं त्ववशः प्रदातुम् । बद्धश्च देहि मम मूर्ध्नि तृतीयपादं इत्यब्रवीद्गतमदोऽनुगृहीत एषः ॥ ९॥ जातोऽसि देव! जमदग्निसुतो महात्मा त्वं रेणुकाजठर ईश्वर! भार्गवाख्यः । शम्भुप्रसाद! सुगृहीतवरास्त्रजालः कृत्ताखिलारिनिकरोरुकुठारपाणिः ॥ १०॥
॥ सप्तमं दशकम् ॥ याञ्चाभिस्त्वं खलु दिविषदां रावणोपद्रुतानां पुत्रीयेष्ट्या फलविलसितं मानवे देव! वंशे । जातो रामो दशरथनृपाल्लक्ष्मणेनानुजेन भ्रात्रा युक्तो वरद! भरतेनाथ शत्रुघ्ननाम्ना ॥ १॥ धृत्वा चापं सहजसहितः पालयन् कौशिकीयं यज्ञं मारीचमुखसुमहाराक्षसेभ्यः परं त्वम् । कृत्वाऽहल्यां चरणरजसा गौतमस्येश! पत्नीं भित्वा शैवं धनुरथ तदा लब्धवांश्चापि सीताम् ॥ २॥ मध्येमार्गागत भृगुपतिं देव! जित्वाऽतिरुष्टं भूयो गत्वा परम! नगरीं स्वामयोध्यां वसंस्त्वम् । कैकेयीवाग्भ्रमितमनसो हन्त तातस्य वाचा त्यक्त्वा राज्यं विपिनमगमो दुःखिताशेषलोकः ॥ ३॥ गत्वाऽरण्यं सह दयितया चाथ सौमित्रिणा त्वं गङ्गां तीर्त्वा सुसुखमवसच्चित्रकूटाख्यशैले । तत्र श्रुत्वा भरतवचनात्तातमृत्युं विषण्णः तस्मै प्रादा वरद! धरणिं पादुकां चात्मनस्त्वम् ॥ ४॥ भूयो हत्वा निशिचरवरान् द्राग्विराधादिकांस्त्वं कुम्भोद्भूतेन खलु मुनिना दत्तदिव्यास्त्रजालः । भ्रातृच्छिन्नश्रवणविनदच्छूर्पणख्या वचोभिः त्वायातांस्तान् खरमुखमहाराक्षसान् प्रावधीश्च ॥ ५॥ मारीचं तं कनकहरिणछद्मनायातमारात् जायावाक्यादलमनुगतः प्रावधीः सायकेन । तावद्भूमन्! कपटयतिवेषोऽथ लङ्काधिनाथः सीतादेवीमहरत तदा दुःखितात्माऽभवस्त्वम् ॥ ६॥ दृष्ट्वा लङ्केश्वरविनिहतं तातमित्रं जटायुं तस्याऽथ त्वं वरद कृतवान् प्रेतकार्यं विषण्णः । दृष्टस्तत्राऽनुपम! भवता मारुतिर्भक्तवर्यः भूयस्तुष्टः सरसमकरोः साधु सुग्रीवसख्यम् ॥ ७॥ छित्वा सालान् सरसमिषुणा सप्तसङ्ख्यान् क्षणेन व्याजेन त्वं बत निहतवान् बालिनं शक्रसूनुम् । भूयोऽन्वेष्टुं जनकतनयां दिक्षु सम्प्रेष्य कीशान् सुग्रीवोक्तान् पवनजकरे दत्तवांश्चाङ्गुलीयम् ॥ ८॥ दृष्ट्वा सीतां निशिचरगृहे तावकं देव! वृत्तं कृत्स्नं तूक्त्वाप्यविदित भवते मारुतिर्मौलिरत्नम् । तुष्टस्तावत्किल जलनिधौ बाणवित्रासिते त्वं सेतुं बद्ध्वा निशिचरपुरं यातवान् पद्मनाभ! ॥ ९॥ हत्वा युद्धे किल दशमुखं देव! सामात्यबन्धुं सीतां गृह्णन् परिहृतमलां पुष्पके राजमानः । प्राप्यायोध्यां हरिवरनिषादेन्द्रयुक्तोऽभिषिक्तः त्राताशेषो रहितदयितश्चागमोऽन्ते स्वधिष्ण्यम् ॥ १०॥
॥ अष्टमं दशकम् ॥ देव! दुष्टजनौघभरेण व्याकुलाऽथ वसुधाम्बुजयोनिम् । प्राप्य देवनिकरैः श्रितपादं स्वीयतापमिह सम्यगुवाच ॥ १॥ पद्मभूरथ निशम्य च तापं चिन्तयन् सपदि देव! भवन्तम् । युष्मदीय सकलाधिहरः श्री पद्मनाभ इति तानवदत्सः ॥ २॥ भूय एत्य तव मन्दिरमेते हीनपुण्यनिकरैरनवाप्यम् । तुष्टुवुः सविबुधो द्रुहिणस्त्वां तापमाश्वकथयद्वसुधायाः ॥ ३॥ ``संभवामि तरसा यदुवंशे यादवाः किल भवन्त्विह देवाः'' । एवमीश! कथिते तव वाक्ये वेधसा किल सुरा मुदमापन् ॥ ४॥ रोहिणीजठरतः किल जातः प्रेरणात्तव परं त्वहिराजः । त्वं च विश्वगतकल्मषहारी देवकीजठरमाशु निविष्टः ॥ ५॥ अर्धरात्रसमये तु भवन्तं देवकी प्रसुषुवेऽधिकधन्या । शङ्खचक्रकमलोरुगदाभी - राजितातिरुचिबाहुचतुष्कम् ॥ ६॥ तावदीश! सकलो बत लोको तुष्टिमाप तमृते किल कंसम् । अष्टमः किल सुतोऽथ भगिन्या- स्तद्वधं कलयतीति च वाक्यात् ॥ ७॥ बाष्पपूर्णनयनो वसुदवो नीतवान् व्रजपदेऽथ भवन्तम् । तत्र नन्दसदने किल जाता - मम्बिकामनयदात्मनिकेतम् ॥ ८॥ कंस एत्य किल सूतिगृहे ते कन्यकां तु शयितां स निशाम्य । नूनमेवमजितस्य तु माया सेयमित्ययमतुष्टिमयासीत् ॥ ९॥ तूर्णमेष निधने निरतांस्ते पूतनाशकटधेनुकमुख्यान् । प्राहिणोदजित! मन्दमतिस्तान् दुष्करं किमिह विस्मृतपापैः ॥ १०॥
॥ नवमं दशकम् ॥ एवं घोषे विराजत्ययि! भवति जगन्नेत्रपीयूषमूर्तौ दुष्टा काचिन्निशाचर्यथ समधिगता चारुयोषित्स्वरूपा । स्तन्यं दातुं कुचाग्रं तवमुखजलजे देव! चिक्षेप यावत् तावत्क्षीरं सजीवं कपटशिशुरहो पीतवांस्त्वं क्षणेन ॥ १॥ भूयः शौरे! व्रजे वै शकटदनुसुत प्राप्तवान् संहृतोऽयं वातात्मा दानवश्च प्रवितत धरणीभारनाशेन कृत्तः । दृष्ट्वैवं ते महत्वं दनुजहृतिचणं तादृशीं बाललीलां त्वन्मायामोहितत्वादयि! बत! पशुपा विस्मयं मोदमापन् ॥ २॥ नन्दः पश्यन् कदाचिन्निजनिलयगतं यादवाचार्यवर्यं गर्गं ते कारयामास च विधिवदसौ नाम कृष्णेति तेन । रामाख्यां सोदरे ते मुनिरथ कलयन् वैभवं च त्वदीयं नन्दादिभ्यः प्रशंसन् निजपदमिह सम्प्राप्तवान् भक्तवर्यः ॥ ३॥ दृष्टं मात्रा समस्तं जगदिह वदने मृत्तिकाभक्षणं ते व्याकुर्वन्त्या शिशूनामथ वचनवशात्किं त्वितो हन्त चित्रम् । भूयस्तूर्णं भवान् मङ्गळगुण! गतवान्देव! वृन्दावनं तत् युष्मद्गात्रोरुशोभा प्रतुलित यमुनातीरसंस्थं मनोज्ञम् ॥ ४॥ वन्याशं त्वय्यधीशे कलयति तरसा श्रीधराहो विरिञ्चो गोपान् वत्सान् त्वदीयानहरदयि! विभो! तावदेव स्वरूपम् । सङ्ख्याहीनं परं त्वामपि कबळधरं वीक्ष्य सम्भ्रान्तचेताः त्वत्पादाब्जे पतित्वा मुहुरपि भगवन्नस्तवीदच्युतं त्वाम् ॥ ५॥ सर्पं तोये निमग्नं परमसुकुटिलं काळियं वीक्ष्य शौरे! नृत्यन् नृत्यन् फणे त्वं तदनु गतमदं चाकरोस्तं गतं च । भूयस्त्वद्वेणुगानादजित! जगदलं मोहितं सर्वमासीत् योषिच्चित्तापहारे निपुणमिदमिति श्रीश! किं वर्णनीयम् ॥ ६॥ धृत्वा गोवर्धनं त्वं गिरिमलमतनोर्वासवं वीतगर्वं योषिद्भिस्त्वं सलीलं रजनिषु कृतवान् रासकेळिं मनोज्ञाम् । भक्ताग्र्यं गान्दिनेयं तव खलु निकटे प्रेषयामास कंसः हत्वेभेन्द्रं च मल्लान् यदुवर! सबलो मातुलं चावधीस्त्वम् ॥ ७॥ गत्वा सान्दीपनिं त्वं कतिपयदिवसैः ज्ञातवान् सर्वविद्याः कृत्वा राज्ये नरेन्द्रं विमलतमगुणं चोग्रसेनं जवेन । राजानं धर्मसूनुं चरणरतमवन् चैद्यमुख्यादिहन्ता रुग्मिण्याद्यष्टयोषायुतबहुवनिताश्चारमो द्वारकायाम् ॥ ८॥ विप्रं निस्स्वं कुचेलं सदनमुपगतं बाल्यकालैकमित्रं पश्यन् कारुण्यलोलः पृथुकमिह करात्तस्य सङ्गृह्य तूर्णम् । लक्ष्मीसंवारितोऽपि स्वयमपरिमितं वित्तमस्मै ददानः कारुण्याम्भोनिधिस्त्वं जय जय भगवन्! सर्वलोकाधिनाथ! ॥ ९॥ यावद्वृद्धिः कलेर्वै भवति बत तदा कल्किरूपोऽतिहीनान् म्लेच्छान् धर्मैकशत्रून् भरितपुरुरुषा नाशयिष्यत्यशान्तान् । स त्वं सत्वैकतानां मम मतिमनिशं देहि शौरे! तदर्थं त्वत्पादाब्जे पतित्वा मुहुरहमवशः प्रार्थये पद्मनाभ! ॥ १०॥
॥ दशमं दशकम् ॥ भूषणेषु किल हेमवज्जगति मृत्तिकावदथवा घटे तन्तुजालवदहो पटेष्वपि राजिताद्वयरसात्मकम् । सर्वसत्वहृदयैकसाक्षिणमिहातिमाय निजवैभवं भावयामि हृदये भवन्तमिह पद्मनाभ! परिपाहि माम् ॥ १॥ चिन्मयाम्बुनिधिवीचिरूप! सनकादिचिन्त्यविमलाकृते ! जातिकर्मगुणभेदहीन! सकलादिमूल! जगतां गुरो ! । ब्रह्मशङ्करमुखैरमेयविपुलानुभाव! करुणानिधे! भावयामि हृदये भवन्तमिह पद्मनाभ! परिपाहि माम् ॥ २॥ माययावृततनुर्बहिः सृजसि लोकजालमखिलं भवान् स्वप्नसन्निभमिदं पुनस्सपदि संहरन्निजबलादहो! । हन्त! कूर्म इव पादमात्मनि तु धारयत्यथ यदा तदा दारुणे तमसि विस्तृते वितिमिरो लसत्यनिशमात्मना ॥ ३॥ देवदेव! तनुवाङ्मनोभिरिह यत्करोमि सततं हरे! त्वय्यसावहमर्पयाम्यखिलमेतदीश! परितुष्यताम् । त्वत्पदैकमतिरन्त्यजोऽपि खलु लोकमीश्वर! पुनात्यहो! नो रमेश! विमुखाशयो भवति विप्रजातिरपि केवलम् ॥ ४॥ पाप एष किल गूहितुं निज दुश्चरित्रमिह सर्वदा कृष्ण! राम! मधुसूदनेत्यनिशमालपत्यहह! निष्फलम् । एवमीश! तव सेवको भवति निन्दितः खलजनैः कलौ तादृशं त्वनघ! मा कृथा वरद! मामसीमतमवैभव! ॥ ५॥ कस्तु लोक इह निर्भयो भवति तावकं किल विना पदं सत्यलोकवसति स्थितोऽपि बत न स्थिरो वसति पद्मभूः । एवमीश सति का कथा परम! पापिनां तु निरयात्मनां तन्मदीय भवबन्धमोहमयि! खण्डयाऽनघ! नमोऽस्तु ते ॥ ६॥ भावयन्ति हि परे भवन्तमयि! चारु बद्धविमलासनाः नासिकाग्रधृतलोचना परम! पूरकादिजितमारुताः । उद्गताग्रमथ चित्तपद्ममयि! भावयन्त इह सादरं भानुसोमशिखिमण्डलोपरि तु नीलनीरदसमप्रभम् ॥ ७॥ श्लक्ष्णनीलकुटिलाळकं मकरकुण्डलद्युतिविराजितं मन्दहासहृतसर्वलोकविपुलातिभारमतिमोहनम् । कौस्तुभेन वनमालयापि च विराजितं मदनसुन्दरं काञ्चनाभवसनं भवन्तमयि! भावयन्ति हृतकल्मषाः ॥ ८॥ ज्ञानमीश! बत! कर्म भक्तिरपि तत्त्रयं भवदवापकं ज्ञानयोगविषयेऽधिकार इह वै विरक्तजनताहितः । कर्मणीह तु भवेन्नृणामधिकसक्तमानसजुषां हरे! ये तु नाधिकविरक्तसक्तहृदया हि भक्तिरयि! तद्धिता ॥ ९॥ देव! वैभवमजानताद्य तव यन्मया निगदितं हरे! क्षम्यतां खलु समस्तमेतदिह मोदमीश! कुरु तावके । दीर्घमायुरयि! देहसौख्यमपि वर्धतां भवदनुग्रहात् पङ्कजाभनयनापदो दलय पद्मनाभ! विजयी भव! ॥ १०॥ ॥ इति महाराजा स्वाति तिरुनाळ् विरचितं पद्मनाभशतकम् ॥ Encoded and proofread by P. P. Narayanaswami swami at mun.ca PSA Easwaran

% Text title            : padmanAbhashatakam
% File name             : padmanAbhashatakam.itx
% itxtitle              : padmanAbhashatakam
% engtitle              : padmanAbhashatakam
% Category              : shataka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              :
% Subcategory
% Texttype              :
% Author                : mahArAjA svAti tirunAL
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : P. P. Narayanaswami swami at mun.ca
% Proofread by          : P. P. Narayanaswami swami at mun.ca, PSA Easwaran
% Translated by         :
% Description-comments  :
% Source                :
% Indexextra            :
% Acknowledge-Permission:
% Latest update         : May 16, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP