पञ्चायुधस्तुतिः
श्रीः
अथ पञ्चायुधस्तुतिः ।
प्रथिमहितं प्रोद्यद्धनमित्रद्योतं महायुधं हृदये ।
सारसनाभं कलये सुदर्शनं साधुचक्रराजन्तम् ॥ १॥
हरिमुखमरुदभिसंस्तवभवनिनदध्वस्तदनुतनुजदर्पः ।
पञ्चजनाधारोऽव्याद्भगवाव्राजन्महादरः कोऽपि ॥ २॥
रुचिराङ्गदाभुजङ्गमपुङ्गवगिरिपतिकरग्रहोल्लसिताम् ।
विधुतालसदनुजातां साधुश्रियमाश्रये शरणम् ॥ ३॥
सन्नन्दकमसितोज्ज्वलमोजःश्रीमत्सरूपधेयाङ्गम् ।
ध्यायामो बलिदैत्यध्वंसनदक्षिणमहाशयाकलितम् ॥ ४॥
समुपनतेषु प्रवणं विधूनितज्यानिघृष्टपरकोटि ।
वस्तुमहाशार्ङ्गं चिरमस्तु मम श्रेयसे किमपि ॥ ५॥
अनुदिनकृतिरचनकृती श्रीकृष्णब्रह्मतन्त्रपरकालः ।
इष्टार्थदां यतिरिमां श्लिष्टां पञ्चायुधीयनुतिमतनोत् ॥ ६॥
इति श्रीकृष्ण ब्रह्मतन्त्र परकाल महादेशिकानां कृतिषु
पञ्चायुधीयस्तुतिस्सम्पूर्णा ॥
Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com