पञ्चपञ्चाशन्नामस्थलस्तोत्रम्

पञ्चपञ्चाशन्नामस्थलस्तोत्रम्

भगवानुवाच - सर्वगः सर्वभूतोऽहं न हि किञ्चिन्मया विना । चराचरे जगत्यस्मिन्विद्यते कुरुसत्तम ॥ ९॥ तथापि येषु स्थानेषु चिन्तनीयोऽहमर्जुन । स्तोतव्यो नामभिर्यैस्तु श्रूयतां तद्वदामि ते ॥ १०॥ पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम् । लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम् ॥ ११॥ कामाख्ये कुमारं नेपाले लोकभावनं राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम् । वृन्दावने च गोविन्दं मा स्तुवन्पुण्यभाग्भवेत् ॥ १२॥ मन्दोदपाने वैकुण्ठं माहन्त्रे चाच्युतं विभुं जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे । वाराहं कर्दमाले तु काश्मीरे चक्रपाणिनम् ॥ १३॥ जनार्दनं च कुब्जाम्रे मथुरायां च केशवम् । कुब्जके श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम् ॥ १४॥ शालग्रामे महायोगिं हरिं गोवर्धनाचले । पिण्डारके चतुर्बाहुं शङ्खोद्धारे च शङ्खिनम् ॥ १५॥ वामनं च कुरुक्षेत्रे यमुनायां त्रिविक्रमं वनमालं च किष्किन्धायां देवं रैवतके द्विज काशीजले महायोगं देवं चामिततेजसं वैशाखयूपे अजितं विरजायां विप्रप्रियम् । विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥ १६॥ श्वेतद्वीपपतिं चापि गङ्गासागरसङ्गमे । भूधरं देविकानद्यां प्रयागे चैव माधवम् ॥ १७॥ नरनारायणाख्यं च तथा बदरिकाश्रमे । समुद्रे दक्षिणे स्तव्यं पद्मनाभेति फाल्गुन ॥ १८॥ द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम् । रामं नाम महेन्द्राद्रौ हृषीकेशं तथार्बुदे ॥ १९॥ अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले । नृसिंहं कृतशौचे च विपाशायां द्विजप्रियम् ॥ २०॥ नैमिषे यज्ञपुरुषं जम्बूमार्गे तथाच्युतम् । अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ॥ २१॥ उत्पलावर्तके शौरिं नर्मदायां श्रियःपतिम् । दामोदरं रैवतके नन्दायां जलशायिनम् ॥ २२॥ सर्वयोगेश्वरं चैव सिन्धुसागरसङ्गमे । सह्याद्रौ देवदेवेशं वैकुण्ठं मागधे वने ॥ २३॥ सर्वपापहरं विन्ध्ये उड्रेषु पुरुषोत्तमम् । हृदये चापि कौन्तेय परमात्मानमात्मनः ॥ २४॥ वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् । पर्वते पर्वते रामं सर्वत्र मधुसूदनम् ॥ २५॥ नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम् । वासुदेवं च सर्वत्र संस्मरञ्ज्योतिषां पतिम् ॥ २६॥ अर्चयन्प्रणमंस्तु त्वं संस्मरंश्च धनञ्जय । एतेष्वेतानि नामानि नरः पापैः प्रमुच्यते ॥ २७॥ स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणनं नरः । द्विजानां प्रीणनं कृत्वा स्वर्गलोकेऽभिजायते ॥ २८॥ इति विष्णुधर्मेषु षट्त्रिंशोऽध्यायान्तर्गतं श्रीकृष्णप्रोक्तं पञ्चपञ्चाशन्नामस्थलस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Pnchapanchashannamasthala Stotram
% File name             : panchapanchAshannAmasthalastotram.itx
% itxtitle              : panchapanchAshannAmasthalastotram (viShNudharmopapurANAntargatam)
% engtitle              : panchapanchAshannAmasthalastotram
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 36
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org