$1
श्रीपरशुरामसहस्रनामावलिः
$1

श्रीपरशुरामसहस्रनामावलिः

अथ विनियोगः । ॐ अस्य श्रीजामदग्न्यसहस्रनामावलिमहामन्त्रस्य श्रीराम ऋषिः । जामदग्न्यः परमात्मा देवता । अनुष्टुप् छन्दः । श्रीमदविनाशरामप्रीत्यर्थं चतुर्विधपुरुषार्थसिद्ध्यर्थं जपे विनियोगः ॥ अथ करन्यासः । ॐ ह्रां गोविन्दात्मने अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं महीधरात्मने तर्जनीभ्यां नमः । ॐ ह्रूं हृषीकेशात्मने मध्यमाभ्यां नमः । ॐ ह्रैं त्रिविक्रमात्मने अनामिकाभ्यां नमः । ॐ ह्रौं विष्ण्वात्मने कनिष्ठिकाभ्यां नमः । ॐ ह्रः माधवात्मने करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयन्यासः । ॐ ह्रां गोविन्दात्मने हृदयाय नमः । ॐ ह्रीं महीधरात्मने शिरसे स्वाहा । ॐ ह्रूं हृषीकेशात्मने शिखायै वषट् । ॐ ह्रैं त्रिविक्रमात्मने कवचाय हुम् । ॐ ह्रौं विष्ण्वात्मने नेत्रत्रयाय वौषट् । ॐ ह्रः माधवात्मने अस्त्राय फट् । अथ ध्यानम् । शुद्धजाम्बूनदनिभं ब्रह्मविष्णुशिवात्मकम् । सर्वाभरणसंयुक्तं कृष्णाजिनधरं विभुम् ॥ १॥ बाणचापौ च परशुमभयं च चतुर्भुजैः । प्रकोष्ठशोभि रुद्राक्षैर्दधानं भृगुनन्दनम् ॥ २॥ हेमयज्ञोपवीतं च स्निग्धस्मितमुखाम्बुजम् । दर्भाञ्चितकरं देवं क्षत्रियक्षयदीक्षितम् ॥ ३॥ श्रीवत्सवक्षसं रामं ध्यायेद्वै ब्रह्मचारिणम् । हृत्पुण्डरीकमध्यस्थं सनकाद्यैरभिष्टुतम् ॥ ४॥ सहस्रमिव सूर्याणामेकीभूय पुरः स्थितम् । तपसामिव सन्मूर्तिं भृगुवंशतपस्विनम् ॥ ५॥ चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो भस्मस्निग्धपवित्रलाञ्छनवपुर्धत्ते त्वचं रौरवीम् । मौञ्ज्या मेखलया नियन्त्रितमधोवासश्च माञ्जिष्ठकम् पाणौ कार्मुकमक्षसूत्रवलयं दण्डं परं पैप्पलम् ॥ ६॥ रेणुकाहृदयानन्दं भृगुवंशतपस्विनम् । क्षत्रियाणामन्तकं पूर्णं जामदग्न्यं नमाम्यहम् ॥ ७॥ अव्यक्तव्यक्तरूपाय निर्गुणाय गुणात्मने । समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ ८॥ ॥ श्रीपरशुरामद्वादशनामानि ॥ हरिः परशुधारी च रामश्च भृगुनन्दनः । एकवीरात्मजो विष्णुर्जामदग्न्यः प्रतापवान् ॥ सह्याद्रिवासी वीरश्च क्षत्रजित्पृथिवीपतिः । इति द्वादशनामानि भार्गवस्य महात्मनः । यस्त्रिकाले पठेन्नित्यं सर्वत्र विजयी भवेत् ॥ अथ श्रीपरशुरामसहस्रनामावलिः । ॐ रामाय नमः । ॐ श्रीमते नमः । ॐ महाविष्णवे नमः । ॐ भार्गवाय नमः । ॐ जमदग्निजाय नमः । ॐ तत्त्वरूपिणे नमः । ॐ परस्मै नमः । ॐ ब्रह्मणे नमः । ॐ शाश्वताय नमः । ॐ सर्वशक्तिधृषे नमः । १० ॐ वरेण्याय नमः । ॐ वरदाय नमः । ॐ सर्वसिद्धिदाय नमः । ॐ कञ्जलोचनाय नमः । ॐ राजेन्द्राय नमः । ॐ सदाचाराय नमः । ॐ जामदग्न्याय नमः । ॐ परात्पराय नमः । ॐ परमार्थैकनिरताय नमः । ॐ जितामित्राय नमः । २० ॐ जनार्दनाय नमः । ॐ ऋषिप्रवरवन्द्याय नमः । ॐ दान्ताय नमः । ॐ शत्रुविनाशनाय नमः । ॐ सर्वकर्मणे नमः । ॐ पवित्राय नमः । ॐ अदीनाय नमः । ॐ दीनसाधकाय नमः । ॐ अभिवाद्याय नमः । ॐ महावीराय नमः । ३० ॐ तपस्विने नमः । ॐ नियमप्रियाय नमः । ॐ स्वयम्भुवे नमः । ॐ सर्वरूपाय नमः । ॐ सर्वात्मने नमः । ॐ सर्वदृशे नमः । ॐ प्रभवे नमः । ॐ ईशानाय नमः । ॐ सर्वदेवादये नमः । ॐ वरीयसे नमः । ४० ॐ सर्वगाय नमः । ॐ अच्युताय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्ववेदादये नमः । ॐ शरण्याय नमः । ॐ परमेश्वराय नमः । ॐ ज्ञानभाव्याय नमः । ॐ अपरिच्छेद्याय नमः । ॐ शुचये नमः । ॐ वाग्मिने नमः । ५० ॐ प्रतापवते नमः । ॐ जितक्रोधाय नमः । ॐ गुडाकेशाय नमः । ॐ द्युतिमते नमः । ॐ अरिमर्दनाय नमः । ॐ रेणुकातनयाय नमः । ॐ साक्षादजिताय नमः । ॐ अव्ययाय नमः । ॐ विपुलांसाय नमः । ॐ महोरस्काय नमः । ६० ॐ अतीन्द्राय नमः । ॐ वन्द्याय नमः । ॐ दयानिधये नमः । ॐ अनादये नमः । ॐ भगवते नमः । ॐ इन्द्राय नमः । ॐ सर्वलोकारिमर्दनाय नमः । ॐ सत्याय नमः । ॐ सत्यव्रताय नमः । ॐ सत्यसन्धाय नमः । ७० ॐ परमधार्मिकाय नमः । ॐ लोकात्मने नमः । ॐ लोककृते नमः । ॐ लोकवन्द्याय नमः । ॐ सर्वमयाय नमः । ॐ निधये नमः । ॐ वश्याय नमः । ॐ दयायै नमः । ॐ सुधिये नमः । ॐ गोप्त्रे नमः । ८० ॐ दक्षाय नमः । ॐ सर्वैकपावनाय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्रह्मचारिणे नमः । ॐ ब्रह्मणे नमः । ॐ ब्रह्मप्रकाशकाय नमः । ॐ सुन्दराय नमः । ॐ अजिनवाससे नमः । ॐ ब्रह्मसूत्रधराय नमः । ॐ समाय नमः । ९० ॐ सौम्याय नमः । ॐ महर्षये नमः । ॐ शान्ताय नमः । ॐ मौञ्जीभृते नमः । ॐ दण्डधारकाय नमः । ॐ कोदण्डिने नमः । ॐ सर्वजिते नमः । ॐ शत्रुदर्पाघ्ने नमः । ॐ पुण्यवर्धनाय नमः । ॐ कवये नमः । १०० ॐ ब्रह्मर्षये नमः । ॐ वरदाय नमः । ॐ कमण्डलुधराय नमः । ॐ कृतिने नमः । ॐ महोदाराय नमः । ॐ अतुलाय नमः । ॐ भाव्याय नमः । ॐ जितषड्वर्गमण्डलाय नमः । ॐ कान्ताय नमः । ॐ पुण्याय नमः । ११० ॐ सुकीर्तये नमः । ॐ द्विभुजाय नमः । ॐ आदिपूरुषाय नमः । ॐ अकल्मषाय नमः । ॐ दुराराध्याय नमः । ॐ सर्वावासाय नमः । ॐ कृतागमाय नमः । ॐ वीर्यवते नमः । ॐ स्मितभाषिणे नमः । ॐ निवृत्तात्मने नमः । १२० ॐ पुनर्वसवे नमः । ॐ अध्यात्मयोगकुशलाय नमः । ॐ सर्वायुधविशारदाय नमः । ॐ यज्ञस्वरूपिणे नमः । ॐ यज्ञेशाय नमः । ॐ यज्ञपालाय नमः । ॐ सनातनाय नमः । ॐ घनश्यामाय नमः । ॐ स्मृतये नमः । ॐ शूराय नमः । १३० ॐ जरामरणवर्जिताय नमः । ॐ धीराय नमः । ॐ दान्ताय नमः । ॐ सुरूपाय नमः । ॐ सर्वतीर्थमयाय नमः । ॐ विधये नमः । ॐ वर्णिने नमः । ॐ वर्णाश्रमगुरवे नमः । ॐ सर्वजिते नमः । ॐ पुरुषाय नमः । १४० ॐ अव्ययाय नमः । ॐ शिवशिक्षापराय नमः । ॐ युक्ताय नमः । ॐ परमात्मने नमः । ॐ परायणाय नमः । ॐ प्रमाणाय नमः । ॐ रूपाय नमः । ॐ दुर्ज्ञेयाय नमः । ॐ पूर्णाय नमः । ॐ क्रूराय नमः । १५० ॐ क्रतवे नमः । ॐ विभवे नमः । ॐ आनन्दाय नमः । ॐ गुणश्रेष्ठाय नमः । ॐ अनन्तदृष्टये नमः । ॐ गुणाकराय नमः । ॐ धनुर्धराय नमः । ॐ धनुर्वेदाय नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ जनेश्वराय नमः । १६० ॐ विनीतात्मने नमः । ॐ महाकायाय नमः । ॐ तपस्विराजे नमः । ॐ अखिलाद्याय नमः । ॐ विश्वकर्मणे नमः । ॐ विनीतात्मने नमः । ॐ विशारदाय नमः । ॐ अक्षराय नमः । ॐ केशवाय नमः । ॐ साक्षिणे नमः । १७० ॐ मरीचये नमः । ॐ सर्वकामदाय नमः । ॐ कल्याणाय नमः । ॐ प्रकृतिकल्पाय नमः । ॐ सर्वेशाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ लोकाध्यक्षाय नमः । ॐ गभीराय नमः । ॐ सर्वभक्तवरप्रदाय नमः । ॐ ज्योतिषे नमः । १८० ॐ आनन्दरूपाय नमः । ॐ वह्नये नमः । ॐ अक्षयाय नमः । ॐ आश्रमिणे नमः । ॐ भूर्भुवःस्वस्तपोमूर्तये नमः । ॐ रवये नमः । ॐ परशुधृषे नमः । ॐ स्वराजे नमः । ॐ बहुश्रुताय नमः । ॐ सत्यवादिने नमः । १९० ॐ भ्राजिष्णवे नमः । ॐ सहनाय नमः । ॐ बलाय नमः । ॐ सुखदाय नमः । ॐ कारणाय नमः । ॐ भोक्त्रे नमः । ॐ भवबन्धविमोक्षकृते नमः । ॐ संसारतारकाय नमः । ॐ नेत्रे नमः । ॐ सर्वदुःखविमोक्षकृते नमः । २०० ॐ देवचूडामणये नमः । ॐ कुन्दाय नमः । ॐ सुतपसे नमः । ॐ ब्रह्मवर्धनाय नमः । ॐ नित्याय नमः । ॐ नियतकल्याणाय नमः । ॐ शुद्धात्मने नमः । ॐ पुरातनाय नमः । ॐ दुःस्वप्ननाशनाय नमः । ॐ नीतये नमः । २१० ॐ किरीटिने नमः । ॐ स्कन्ददर्पहृते नमः । ॐ अर्जुनाय नमः । ॐ प्राणघ्ने नमः । ॐ वीराय नमः । ॐ सहस्रभुजजिते नमः । ॐ हरये नमः । ॐ क्षत्रियान्तकराय नमः । ॐ शूराय नमः । ॐ क्षितिभारकरान्तकृते नमः । २२० ॐ परश्वधधराय नमः । ॐ धन्विने नमः । ॐ रेणुकावाक्यतत्पराय नमः । ॐ वीरघ्ने नमः । ॐ विषमाय नमः । ॐ वीराय नमः । ॐ पितृवाक्यपरायणाय नमः । ॐ मातृप्राणदाय नमः । ॐ ईशाय नमः । ॐ धर्मतत्त्वविशारदाय नमः । २३० ॐ पितृक्रोधहराय नमः । ॐ क्रोधाय नमः । ॐ सप्तजिह्वसमप्रभाय नमः । ॐ स्वभावभद्राय नमः । ॐ शत्रुघ्नाय नमः । ॐ स्थाणवे नमः । ॐ शम्भवे नमः । ॐ केशवाय नमः । ॐ स्थविष्ठाय नमः । ॐ स्थविराय नमः । २४० ॐ बालाय नमः । ॐ सूक्ष्माय नमः । ॐ लक्ष्यद्युतये नमः । ॐ महते नमः । ॐ ब्रह्मचारिणे नमः । ॐ विनीतात्मने नमः । ॐ रुद्राक्षवलयाय नमः । ॐ सुधिये नमः । ॐ अक्षकर्णाय नमः । ॐ सहस्रांशवे नमः । २५० ॐ दीप्ताय नमः । ॐ कैवल्यतत्पराय नमः । ॐ आदित्याय नमः । ॐ कालरुद्राय नमः । ॐ कालचक्रप्रवर्तकाय नमः । ॐ कवचिने नमः । ॐ कुण्डलिने नमः । ॐ खड्गिने नमः । ॐ चक्रिणे नमः । ॐ भीमपराक्रमाय नमः । २६० ॐ मृत्युञ्जयाय नमः । ॐ वीरसिंहाय नमः । ॐ जगदात्मने नमः । ॐ जगद्गुरवे नमः । ॐ अमृत्यवे नमः । ॐ जन्मरहिताय नमः । ॐ कालज्ञानिने नमः । ॐ महापटवे नमः । ॐ निष्कलङ्काय नमः । ॐ गुणग्रामाय नमः । २७० ॐ अनिर्विण्णाय नमः । ॐ स्मररूपधृषे नमः । ॐ अनिर्वेद्याय नमः । ॐ शतावर्ताय नमः । ॐ दण्डाय नमः । ॐ दमयित्रे नमः । ॐ दमाय नमः । ॐ प्रधानाय नमः । ॐ तारकाय नमः । ॐ धीमते नमः । २८० ॐ तपस्विने नमः । ॐ भूतसारथये नमः । ॐ अहसे नमः । ॐ संवत्सराय नमः । ॐ योगिने नमः । ॐ संवत्सरकराय नमः । ॐ द्विजाय नमः । ॐ शाश्वताय नमः । ॐ लोकनाथाय नमः । ॐ शाखिने नमः । २९० ॐ दण्डिने नमः । ॐ बलिने नमः । ॐ जटिने नमः । ॐ कालयोगिने नमः । ॐ महानन्दाय नमः । ॐ तिग्ममन्यवे नमः । ॐ सुवर्चसे नमः । ॐ अमर्षणाय नमः । ॐ मर्षणात्मने नमः । ॐ प्रशान्तात्मने नमः । ३०० ॐ हुताशनाय नमः । ॐ सर्ववाससे नमः । ॐ सर्वचारिणे नमः । ॐ सर्वाधाराय नमः । ॐ विरोचनाय नमः । ॐ हैमाय नमः । ॐ हेमकराय नमः । ॐ धर्माय नमः । ॐ दुर्वाससे नमः । ॐ वासवाय नमः । ३१० ॐ यमाय नमः । ॐ उग्रतेजसे नमः । ॐ महातेजसे नमः । ॐ जयाय नमः । ॐ विजयाय नमः । ॐ कालजिते नमः । ॐ सहस्रहस्ताय नमः । ॐ विजयाय नमः । ॐ दुर्धराय नमः । ॐ यज्ञभागभुजे नमः । ३२० ॐ अग्नये नमः । ॐ ज्वालिने नमः । ॐ महाज्वालाय नमः । ॐ अतिधूमाय नमः । ॐ हुताय नमः । ॐ हविषे नमः । ॐ स्वस्तिदाय नमः । ॐ स्वस्तिभागाय नमः । ॐ महते नमः । ॐ भर्गाय नमः । ३३० ॐ पराय नमः । ॐ यूने नमः । ॐ महत्पादाय नमः । ॐ महाहस्ताय नमः । ॐ बृहत्कायाय नमः । ॐ महायशसे नमः । ॐ महाकट्यै नमः । ॐ महाग्रीवाय नमः । ॐ महाबाहवे नमः । ॐ महाकराय नमः । ३४० ॐ महानासाय नमः । ॐ महाकम्बवे नमः । ॐ महामायाय नमः । ॐ पयोनिधये नमः । ॐ महावक्षसे नमः । ॐ महौजसे नमः । ॐ महाकेशाय नमः । ॐ महाजनाय नमः । ॐ महामूर्ध्ने नमः । ॐ महामात्राय नमः । ३५० ॐ महाकर्णाय नमः । ॐ महाहनवे नमः । ॐ वृक्षाकाराय नमः । ॐ महाकेतवे नमः । ॐ महादंष्ट्राय नमः । ॐ महामुखाय नमः । ॐ एकवीराय नमः । ॐ महावीराय नमः । ॐ वसुदाय नमः । ॐ कालपूजिताय नमः । ३६० ॐ महामेघनिनादिने नमः । ॐ महाघोषाय नमः । ॐ महाद्युतये नमः । ॐ शैवाय नमः । ॐ शैवागमाचारिणे नमः । ॐ हैहयानां कुलान्तकाय नमः । ॐ सर्वगुह्यमयाय नमः । ॐ वज्रिणे नमः । ॐ बहुलाय नमः । ॐ कर्मसाधनाय नमः । ३७० ॐ कामिने नमः । ॐ कपये नमः । ॐ कामपालाय नमः । ॐ कामदेवाय नमः । ॐ कृतागमाय नमः । ॐ पञ्चविंशतितत्त्वज्ञाय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वगोचराय नमः । ॐ लोकनेत्रे नमः । ॐ महानादाय नमः । ३८० ॐ कालयोगिने नमः । ॐ महाबलाय नमः । ॐ असङ्ख्येयाय नमः । ॐ अप्रमेयात्मने नमः । ॐ वीर्यकृते नमः । ॐ वीर्यकोविदाय नमः । ॐ वेदवेद्याय नमः । ॐ वियद्गोप्त्रे नमः । ॐ सर्वामरमुनीश्वराय नमः । ॐ सुरेशाय नमः । ३९० ॐ शरणाय नमः । ॐ शर्मणे नमः । ॐ शब्दब्रह्मणे नमः । ॐ सतां गतये नमः । ॐ निर्लेपाय नमः । ॐ निष्प्रपञ्चात्मने नमः । ॐ निर्व्यग्राय नमः । ॐ व्यग्रनाशनाय नमः । ॐ शुद्धाय नमः । ॐ पूताय नमः । ४०० ॐ शिवारम्भाय नमः । ॐ सहस्रभुजजिते नमः । ॐ हरये नमः । ॐ निरवद्यपदोपायाय नमः । ॐ सिद्धिदाय नमः । ॐ सिद्धिसाधनाय नमः । ॐ चतुर्भुजाय नमः । ॐ महादेवाय नमः । ॐ व्यूढोरस्काय नमः । ॐ जनेश्वराय नमः । ४१० ॐ द्युमणये नमः । ॐ तरणये नमः । ॐ धन्याय नमः । ॐ कार्तवीर्यबलापघ्ने नमः । ॐ लक्ष्मणाग्रजवन्द्याय नमः । ॐ नराय नमः । ॐ नारायणाय नमः । ॐ प्रियाय नमः । ॐ एकज्योतिषे नमः । ॐ निरातङ्काय नमः । ४२० ॐ मत्स्यरूपिणे नमः । ॐ जनप्रियाय नमः । ॐ सुप्रीताय नमः । ॐ सुमुखाय नमः । ॐ सूक्ष्माय नमः । ॐ कूर्माय नमः । ॐ वाराहकाय नमः । ॐ व्यापकाय नमः । ॐ नारसिंहाय नमः । ॐ बलिजिते नमः । ४३० ॐ मधुसूदनाय नमः । ॐ अपराजिताय नमः । ॐ सर्वसहाय नमः । ॐ भूषणाय नमः । ॐ भूतवाहनाय नमः । ॐ निवृत्ताय नमः । ॐ संवृत्ताय नमः । ॐ शिल्पिने नमः । ॐ क्षुद्रघ्ने नमः । ॐ नित्याय नमः । ४४० ॐ सुन्दराय नमः । ॐ स्तव्याय नमः । ॐ स्तवप्रियाय नमः । ॐ स्तोत्रे नमः । ॐ व्यासमूर्तये नमः । ॐ अनाकुलाय नमः । ॐ प्रशान्तबुद्धये नमः । ॐ अक्षुद्राय नमः । ॐ सर्वसत्त्वावलम्बनाय नमः । ॐ परमार्थगुरवे नमः । ४५० ॐ देवाय नमः । ॐ मालिने नमः । ॐ संसारसारथये नमः । ॐ रसाय नमः । ॐ रसज्ञाय नमः । ॐ सारज्ञाय नमः । ॐ कङ्कणीकृतवासुकये नमः । ॐ कृष्णाय नमः । ॐ कृष्णस्तुताय नमः । ॐ धीराय नमः । ४६० ॐ मायातीताय नमः । ॐ विमत्सराय नमः । ॐ महेश्वराय नमः । ॐ महीभर्त्रे नमः । ॐ शाकल्याय नमः । ॐ शर्वरीपतये नमः । ॐ तटस्थाय नमः । ॐ कर्णदीक्षादाय नमः । ॐ सुराध्यक्षाय नमः । ॐ सुरारिघ्ने नमः । ४७० ॐ ध्येयाय नमः । ॐ अग्रधुर्याय नमः । ॐ धात्रीशाय नमः । ॐ रुचये नमः । ॐ त्रिभुवनेश्वराय नमः । ॐ कर्माध्यक्षाय नमः । ॐ निरालम्बाय नमः । ॐ सर्वकाम्यफलप्रदाय नमः । ॐ अव्यक्तलक्षणाय नमः । ॐ व्यक्ताय नमः । ४८० ॐ व्यक्ताव्यक्ताय नमः । ॐ विशाम्पतये नमः । ॐ त्रिलोकात्मने नमः । ॐ त्रिलोकेशाय नमः । ॐ जगन्नाथाय नमः । ॐ जनेश्वराय नमः । ॐ ब्रह्मणे नमः । ॐ हंसाय नमः । ॐ रुद्राय नमः । ॐ स्रष्ट्रे नमः । ४९० ॐ हर्त्रे नमः । ॐ चतुर्मुखाय नमः । ॐ निर्मदाय नमः । ॐ निरहङ्काराय नमः । ॐ भृगुवंशोद्वहाय नमः । ॐ शुभाय नमः । ॐ वेधसे नमः । ॐ विधात्रे नमः । ॐ द्रुहिणाय नमः । ॐ देवज्ञाय नमः । ५०० ॐ देवचिन्तनाय नमः । ॐ कैलासशिखरावासिने नमः । ॐ ब्राह्मणाय नमः । ॐ ब्राह्मणप्रियाय नमः । ॐ अर्थाय नमः । ॐ अनर्थाय नमः । ॐ महाकोशाय नमः । ॐ ज्येष्ठाय नमः । ॐ श्रेष्ठाय नमः । ॐ शुभाकृतये नमः । ५१० ॐ बाणारये नमः । ॐ दमनाय नमः । ॐ यज्वने नमः । ॐ स्निग्धप्रकृतये नमः । ॐ अग्नियाय नमः । ॐ वरशीलाय नमः । ॐ वरगुणाय नमः । ॐ सत्यकीर्तये नमः । ॐ कृपाकराय नमः । ॐ सत्त्ववते नमः । ५२० ॐ सात्त्विकाय नमः । ॐ धर्मिणे नमः । ॐ बुद्धाय नमः । ॐ कल्कये नमः । ॐ सदाश्रयाय नमः । ॐ दर्पणाय नमः । ॐ दर्पघ्ने नमः । ॐ दर्पातीताय नमः । ॐ दृप्ताय नमः । ॐ प्रवर्तकाय नमः । ५३० ॐ अमृतांशाय नमः । ॐ अमृतवपवे नमः । ॐ वाङ्मयाय नमः । ॐ सदसन्मयाय नमः । ॐ निधानगर्भाय नमः । ॐ भूशायिने नमः । ॐ कपिलाय नमः । ॐ विश्वभोजनाय नमः । ॐ प्रभविष्णवे नमः । ॐ ग्रसिष्णवे नमः । ५४० ॐ चतुर्वर्गफलप्रदाय नमः । ॐ नारसिंहाय नमः । ॐ महाभीमाय नमः । ॐ शरभाय नमः । ॐ कलिपावनाय नमः । ॐ उग्राय नमः । ॐ पशुपतये नमः । ॐ भर्गाय नमः । ॐ वैद्याय नमः । ॐ केशिनिषूदनाय नमः । ५५० ॐ गोविन्दाय नमः । ॐ गोपतये नमः । ॐ गोप्त्रे नमः । ॐ गोपालाय नमः । ॐ गोपवल्लभाय नमः । ॐ भूतावासाय नमः । ॐ गुहावासाय नमः । ॐ सत्यवासाय नमः । ॐ श्रुतागमाय नमः । ॐ निष्कण्टकाय नमः । ५६० ॐ सहस्रार्चिषे नमः । ॐ स्निग्धाय नमः । ॐ प्रकृतिदक्षिणाय/लक्षणाय नमः । ॐ अकम्पिताय नमः । ॐ गुणग्राहिने नमः । ॐ सुप्रीताय नमः । ॐ प्रीतिवर्धनाय नमः । ॐ पद्मगर्भाय नमः । ॐ महागर्भाय नमः । ॐ वज्रगर्भाय नमः । ५७० ॐ जलोद्भवाय नमः । ॐ गभस्तये नमः । ॐ ब्रह्मकृते नमः । ॐ ब्रह्मणे नमः । ॐ राजराजाय नमः । ॐ स्वयम्भवाय नमः । ॐ सेनान्ये नमः । ॐ अग्रण्ये नमः । ॐ साधवे नमः । ॐ बलाय नमः । ५८० ॐ तालीकराय नमः । ॐ महते नमः । ॐ पृथिव्यै नमः । ॐ वायवे नमः । ॐ आब्भ्यः नमः । ॐ तेजसे नमः । ॐ खाय नमः । ॐ बहुलोचनाय नमः । ॐ सहस्रमूर्ध्ने नमः । ॐ देवेन्द्राय नमः । ५९० ॐ सर्वगुह्यमयाय नमः । ॐ गुरवे नमः । ॐ अविनाशिने नमः । ॐ सुखारामाय नमः । ॐ स्त्रिलोकिने नमः । ॐ प्राणधारकाय नमः । ॐ निद्रारूपाय नमः । ॐ क्षमाय नमः । ॐ तन्द्राय नमः । ॐ धृतये नमः । ६०० ॐ मेधायै नमः । ॐ स्वधायै नमः । ॐ हविषे नमः । ॐ होत्रे नमः । ॐ नेत्रे नमः । ॐ शिवाय नमः । ॐ त्रात्रे नमः । ॐ सप्तजिह्वाय नमः । ॐ विशुद्धपादाय नमः । ॐ स्वाहायै नमः । ६१० ॐ हव्याय नमः । ॐ कव्याय नमः । ॐ शतघ्निने नमः । ॐ शतपाशधृषे नमः । ॐ आरोहाय नमः । ॐ निरोहाय नमः । ॐ तीर्थाय नमः । ॐ तीर्थकराय नमः । ॐ हराय नमः । ॐ चराचरात्मने नमः । ६२० ॐ सूक्ष्माय नमः । ॐ विवस्वते नमः । ॐ सवितामृताय नमः । ॐ तुष्टये नमः । ॐ पुष्टये नमः । ॐ कलायै नमः । ॐ काष्ठायै नमः । ॐ मासाय नमः । ॐ पक्षाय नमः । ॐ वासराय नमः । ६३० ॐ ऋतवे नमः । ॐ युगादिकालाय नमः । ॐ लिङ्गाय नमः । ॐ आत्मने नमः । ॐ लिङ्गाय नमः । ॐ आत्मने नमः । ॐ शाश्वताय नमः । ॐ चिरञ्जीविने नमः । ॐ प्रसन्नात्मने नमः । ॐ नकुलाय नमः । ६४० ॐ प्राणधारणाय नमः । ॐ स्वर्गद्वाराय नमः । ॐ प्रजाद्वाराय नमः । ॐ मोक्षद्वाराय नमः । ॐ त्रिविष्टपाय नमः । ॐ मुक्तये नमः । ॐ लक्ष्म्यै नमः । ॐ भुक्तये नमः । ॐ विरजसे नमः । ॐ विरजाम्बराय नमः । ६५० ॐ विश्वक्षेत्राय नमः । ॐ सदाबीजाय नमः । ॐ पुण्यश्रवणकीर्तनाय नमः । ॐ भिक्षवे नमः । ॐ भैक्ष्याय नमः । ॐ गृहाय नमः । ॐ दाराभ्यः नमः । ॐ यजमानाय नमः । ॐ याचकाय नमः । ॐ पक्षिणे नमः । ६६० ॐ पक्षवाहाय नमः । ॐ मनोवेगाय नमः । ॐ निशाचराय नमः । ॐ गजघ्ने नमः । ॐ दैत्यघ्ने नमः । ॐ नाकाय नमः । ॐ पुरुहूताय नमः । ॐ पुरुष्टुताय नमः । ॐ बान्धवाय नमः । ॐ बन्धुवर्गाय नमः । ६७० ॐ पित्रे नमः । ॐ मात्रे नमः । ॐ सख्ये नमः । ॐ सुताय नमः । ॐ गायत्रीवल्लभाय नमः । ॐ प्रांशवे नमः । ॐ मान्धात्रे नमः । ॐ भूतभावनाय नमः । ॐ सिद्धार्थकारिणे नमः । ॐ सर्वार्थाय नमः । ६८० ॐ छन्दसे नमः । ॐ व्याकरणाय नमः । ॐ श्रुतये नमः । ॐ स्मृतये नमः । ॐ गाथायै नमः । ॐ उपशान्ताय नमः । ॐ पुराणाय नमः । ॐ प्राणचञ्चुराय नमः । ॐ वामनाय नमः । ॐ जगत्कालाय नमः । ६९० ॐ सुकृताय नमः । ॐ युगाधिपाय नमः । ॐ उद्गीथाय नमः । ॐ प्रणवाय नमः । ॐ भानवे नमः । ॐ स्कन्दाय नमः । ॐ वैश्रवणाय नमः । ॐ अन्तरात्मने नमः । ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः । ७०० ॐ स्तुतिप्रियाय नमः । ॐ परश्वधायुधाय नमः । ॐ शाखिने नमः । ॐ सिंहगाय नमः । ॐ सिंहवाहनाय नमः । ॐ सिंहनादाय नमः । ॐ सिंहदंष्ट्राय नमः । ॐ नगाय नमः । ॐ मन्दरधृके नमः । ॐ सरसे / शराय नमः । ७१० ॐ सह्याचलनिवासिने नमः । ॐ महेन्द्रकृतसंश्रयाय नमः । ॐ मनसे नमः । ॐ बुद्धये नमः । ॐ अहङ्काराय नमः । ॐ कमलानन्दवर्धनाय नमः । ॐ सनातनतमाय नमः । ॐ स्रग्विणे नमः । ॐ गदिने नमः । ॐ शङ्खिने नमः । ७२० ॐ रथाङ्गभृते नमः । ॐ निरीहाय नमः । ॐ निर्विकल्पाय नमः । ॐ समर्थाय नमः । ॐ अनर्थनाशनाय नमः । ॐ अकायाय नमः । ॐ भक्तकायाय नमः । ॐ माधवाय नमः । ॐ सुरार्चिताय नमः । ॐ योद्ध्रे नमः । ७३० ॐ जेत्रे नमः । ॐ महावीर्याय नमः । ॐ शङ्कराय नमः । ॐ सन्तताय नमः । ॐ स्तुताय नमः । ॐ विश्वेश्वराय नमः । ॐ विश्वमूर्तये नमः । ॐ विश्वारामाय नमः । ॐ विश्वकृते नमः । ॐ आजानुबाहवे नमः । ७४० ॐ सुलभाय नमः । ॐ पराय नमः । ॐ ज्योतिषे नमः । ॐ सनातनाय नमः । ॐ वैकुण्ठाय नमः । ॐ पुण्डरीकाक्षाय नमः । ॐ सर्वभूताशयस्थिताय नमः । ॐ सहस्रशीर्ष्णे नमः । ॐ पुरुषाय नमः । ॐ सहस्राक्षाय नमः । ७५० ॐ सहस्रपादाय नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ ऊर्ध्वलिङ्गाय नमः । ॐ प्रवराय नमः । ॐ वरदाय नमः । ॐ वराय नमः । ॐ उन्मत्तवेशाय नमः । ॐ प्रच्छन्नाय नमः । ॐ सप्तद्वीपमहीप्रदाय नमः । ॐ द्विजधर्मप्रतिष्ठात्रे नमः । ७६० ॐ वेदात्मने नमः । ॐ वेदकृते नमः । ॐ श्रयाय नमः । ॐ नित्याय नमः । ॐ सम्पूर्णकामाय नमः । ॐ सर्वज्ञाय नमः । ॐ कुशलागमाय नमः । ॐ कृपापीयूषजलधये नमः । ॐ धात्रे नमः । ॐ कर्त्रे नमः । ७७० ॐ परात्पराय नमः । ॐ अचलाय नमः । ॐ निर्मलाय नमः । ॐ तृप्ताय नमः । ॐ स्वे महिम्नि प्रतिष्ठिताय नमः । ॐ असहायाय नमः । ॐ सहायाय नमः । ॐ जगद्धेतवे नमः । ॐ अकारणाय नमः । ॐ मोक्षदाय नमः । ७८० ॐ कीर्तिदाय नमः । ॐ प्रेरकाय नमः । ॐ कीर्तिनायकाय नमः । ॐ अधर्मशत्रवे नमः । ॐ अक्षोभ्याय नमः । ॐ वामदेवाय नमः । ॐ महाबलाय नमः । ॐ विश्ववीर्याय नमः । ॐ महावीर्याय नमः । ॐ श्रीनिवासाय नमः । ७९० ॐ सतां गतये नमः । ॐ स्वर्णवर्णाय नमः । ॐ वराङ्गाय नमः । ॐ सद्योगिने नमः । ॐ द्विजोत्तमाय नमः । ॐ नक्षत्रमालिने नमः । ॐ सुरभये नमः । ॐ विमलाय नमः । ॐ विश्वपावनाय नमः । ॐ वसन्ताय नमः । ८०० ॐ माधवाय नमः । ॐ ग्रीष्माय नमः । ॐ नभस्याय नमः । ॐ बीजवाहनाय नमः । ॐ निदाघाय नमः । ॐ तपनाय नमः । ॐ मेघाय नमः । ॐ नभसे नमः । ॐ योनये नमः । ॐ पराशराय नमः । ८१० ॐ सुखानिलाय नमः । ॐ सुनिष्पन्नाय नमः । ॐ शिशिराय नमः । ॐ नरवाहनाय नमः । ॐ श्रीगर्भाय नमः । ॐ कारणाय नमः । ॐ जप्याय नमः । ॐ दुर्गाय नमः । ॐ सत्यपराक्रमाय नमः । ॐ आत्मभुवे नमः । ८२० ॐ अनिरुद्धाय नमः । ॐ दत्तात्रेयाय नमः । ॐ त्रिविक्रमाय नमः । ॐ जमदग्नये नमः । ॐ बलनिधये नमः । ॐ पुलस्त्याय नमः । ॐ पुलहाय नमः । ॐ अङ्गिरसे नमः । ॐ वर्णिने नमः । ॐ वर्णगुरवे नमः । ८३० ॐ चण्डाय नमः । ॐ कल्पवृक्षाय नमः । ॐ कलाधराय नमः । ॐ महेन्द्राय नमः । ॐ दुर्भराय नमः । ॐ सिद्धाय नमः । ॐ योगाचार्याय नमः । ॐ बृहस्पतये नमः । ॐ निराकाराय नमः । ॐ विशुद्धाय नमः । ८४० ॐ व्याधिहर्त्रे नमः । ॐ निरामयाय नमः । ॐ अमोघाय नमः । ॐ अनिष्टमथनाय नमः । ॐ मुकुन्दाय नमः । ॐ विगतज्वराय नमः । ॐ स्वयंज्योतिषे नमः । ॐ गुरुतमाय नमः । ॐ सुप्रसादाय नमः । ॐ अचलाय नमः । ८५० ॐ चन्द्राय नमः । ॐ सूर्याय नमः । ॐ शनये नमः । ॐ केतवे नमः । ॐ भूमिजाय नमः । ॐ सोमनन्दनाय नमः । ॐ भृगवे नमः । ॐ महातपसे नमः । ॐ दीर्घतपसे नमः । ॐ सिद्धाय नमः । ८६० ॐ महागुरवे नमः । ॐ मन्त्रिणे नमः । ॐ मन्त्रयित्रे नमः । ॐ मन्त्राय नमः । ॐ वाग्मिने नमः । ॐ वसुमनसे नमः । ॐ स्थिराय नमः । ॐ अद्रये नमः । ॐ अद्रिशयाय नमः । ॐ शम्भवे नमः । ८७० ॐ माङ्गल्याय नमः । ॐ मङ्गलाय नमः । ॐ अवृताय नमः । ॐ जयस्तम्भाय नमः । ॐ जगत्स्तम्भाय नमः । ॐ बहुरूपाय नमः । ॐ गुणोत्तमाय नमः । ॐ सर्वदेवमयाय नमः । ॐ अचिन्त्याय नमः । ॐ देवतात्मने नमः । ८८० ॐ विरूपधृषे नमः । ॐ चतुर्वेदाय नमः । ॐ चतुर्भावाय नमः । ॐ चतुराय नमः । ॐ चतुरप्रियाय नमः । ॐ आद्यन्तशून्याय नमः । ॐ वैकुण्ठाय नमः । ॐ कर्मसाक्षिणे नमः । ॐ फलप्रदाय नमः । ॐ दृढायुधाय नमः । ८९० ॐ स्कन्दगुरवे नमः । ॐ परमेष्ठिने नमः । ॐ परायणाय नमः । ॐ कुबेरबन्धवे नमः । ॐ श्रीकण्ठाय नमः । ॐ देवेशाय नमः । ॐ सूर्यतापनाय नमः । ॐ अलुब्धाय नमः । ॐ सर्वशास्त्रज्ञाय नमः । ॐ शास्त्रार्थाय नमः । ९०० ॐ परमाय नमः । ॐ पुंसे नमः । ॐ अग्न्यास्याय नमः । ॐ पृथिवीपादाय नमः । ॐ द्युमूर्धघ्ने नमः । ॐ दिक्षुतये नमः । ॐ पराय नमः । ॐ सोमान्ताय नमः । ॐ करणाय नमः । ॐ ब्रह्ममुखाय नमः । ९१० ॐ क्षत्रभुजाय नमः । ॐ वैश्योरवे नमः । ॐ शूद्रपादय नमः । ॐ नद्ये नमः । ॐ सर्वाङ्गसन्धिकाय नमः । ॐ जीमूतकेशाय नमः । ॐ अब्धिकुक्षये नमः । ॐ वैकुण्ठाय नमः । ॐ विष्टरश्रवसे नमः । ॐ क्षेत्रज्ञाय नमः । ९२० ॐ तमसाय नमः । ॐ पारिणे नमः । ॐ भृगुवंशोद्भवाय नमः । ॐ अवनये नमः । ॐ आत्मयोनये नमः । ॐ रैणुकेयाय नमः । ॐ महादेवाय नमः । ॐ गुरवे नमः । ॐ सुराय नमः । ॐ एकाय नमः । ९३० ॐ नैकाय नमः । ॐ अक्षराय नमः । ॐ श्रीशाय नमः । ॐ श्रीपतये नमः । ॐ दुःखभेषजाय नमः । ॐ हृषीकेशाय नमः । ॐ भगवते नमः । ॐ सर्वात्मने नमः । ॐ विश्वपावनाय नमः । ॐ विश्वकर्मणे नमः । ९४० ॐ अपवर्गाय नमः । ॐ लम्बोदरशरीरधृषे नमः । ॐ अक्रोधाय नमः । ॐ अद्रोहाय नमः । ॐ मोहाय नमः । ॐ सर्वतोऽनन्तदृशे नमः । ॐ कैवल्यदीपाय नमः । ॐ कैवल्याय नमः । ॐ साक्षिणे नमः । ॐ चेतसे नमः । ९५० ॐ विभावसवे नमः । ॐ एकवीरात्मजाय नमः । ॐ भद्राय नमः । ॐ अभद्रघ्ने नमः । ॐ कैटभार्दनाय नमः । ॐ विबुधाय नमः । ॐ अग्रवराय नमः । ॐ श्रेष्ठाय नमः । ॐ सर्वदेवोत्तमोत्तमाय नमः । ॐ शिवध्यानरताय नमः । ९६० ॐ दिव्याय नमः । ॐ नित्ययोगिने नमः । ॐ जितेन्द्रियाय नमः । ॐ कर्मसत्याय नमः । ॐ व्रताय नमः । ॐ भक्तानुग्रहकृते नमः । ॐ हरये नमः । ॐ सर्गस्थित्यन्तकृते नमः । ॐ रामाय नमः । ॐ विद्याराशये नमः । ९७० ॐ गुरूत्तमाय नमः । ॐ रेणुकाप्राणलिङ्गाय नमः । ॐ भृगुवंश्याय नमः । ॐ शतक्रतवे नमः । ॐ श्रुतिमते नमः । ॐ एकबन्धवे नमः । ॐ शान्तभद्राय नमः । ॐ समञ्जसाय नमः । ॐ आध्यात्मविद्यासाराय नमः । ॐ कालभक्षाय नमः । ९८० ॐ विश‍ृङ्खलाय नमः । ॐ राजेन्द्राय नमः । ॐ भूपतये नमः । ॐ योगिने नमः । ॐ निर्मायाय नमः । ॐ निर्गुणाय नमः । ॐ गुणिने नमः । ॐ हिरण्मयाय नमः । ॐ पुराणाय नमः । ॐ बलभद्राय नमः । ९९० ॐ जगत्प्रदाय नमः । ॐ वेदवेदाङ्गपारज्ञाय नमः । ॐ सर्वकर्मणे नमः । ॐ महेश्वराय नमः । ॐ परशुधारिणे नमः । ॐ भृगुनन्दनाय नमः । ॐ विष्णवे नमः । ॐ सह्याद्रिवासिने नमः । ॐ क्षत्रजिते नमः । ॐ पृथिवीपतये नमः । १००० ॐ मातृजीवकाय नमः । ॐ गोत्राणकृते नमः । ॐ गोप्रदात्रे नमः । ॐ ब्रह्मविष्णुशिवात्मकाय नमः । ॐ अव्यक्तव्यक्तरूपिणे नमः । ॐ समस्तजगदाधारमूर्तये नमः । ॐ कोङ्कणासुताय नमः । ॐ श्रीपरशुरामाय नमः । १००८ इति श्रीपरशुरामसहस्रनामावलिः समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : parashurAmasahasranAmAvalI
% File name             : parashurAmasahasranAmAvalI.itx
% itxtitle              : parashurAmasahasranAmAvaliH
% engtitle              : Parashurama sahasranAmAvalI
% Category              : sahasranAmAvalI, vishhnu, dashAvatAra, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : hinduism
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : See corresponding stotra
% Source                : bhagavAn parashurAma by vIrAchArya shAstrI, reNukAnantran
% Indexextra            : (agnipurANa)
% Latest update         : April 6, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org