श्रीपरशुरामस्तोत्रम्
श्रीमद्भक्तमनोऽम्बुजातभ्रमरं स्मेराननं चिन्मयं
नानारूपधरं हरिं निरुपमं नारायणं शङ्करम् ।
श्रीमद्भार्गववंशवार्धिशशिनं श्रीरेणुकापुत्रकं
सर्वाम्नायसुसारमार्यविनुतं रामं भजे भार्गवम् ॥ १॥
वैकुण्ठं परमेश्वरार्चितपदं भव्यात्मकं चक्रिणं
पद्माक्षं श्रितवारसौरथरजं ब्रह्माण्डसव्यापिनम् ।
क्षीराम्भोनिधिशायिनं कुनृपहं श्रीरेणुकासुप्रजं
रम्यं भीमपरश्वधिं धरणिपं रामं भजे भार्गवम् ॥ २॥
नित्यं राक्षसवंशनाशनकरं निर्वाणसन्धायकं
माहिष्मत्यधिनाथदाननिपुणं महिष्मतीदाहकम् ।
दूराड्वंशदवानलं शिवकरं दुर्वारभाषाप्रदं
सत्यं भूमविपश्चितं गुणनिधिं ध्यायामि आ?र्चीकजम् ॥ ३॥
ब्रह्मक्षात्रमयं महास्मृतिमयं गम्भीरभाषामयं
सत्कारुण्यमयं सदाशिवमयं सच्छिष्यभाषामयम् ।
ज्ञानानन्दमयं भयानकमयं सच्छौर्यभूषामयं
नानावादसुधामयं कविमयं श्रीरैणुकेयम्भजे ॥ ४॥
नित्यानन्दमयं गुरुम्परविभुं निर्विघ्नसन्धायकं
सर्वातीतमनन्तरूपमखिलं सर्वामयघ्नं हरिम् ।
सर्वज्ञञ्च महामहं परतमं सर्वात्मकं शान्तिदं
अन्तर्ज्योतिमजादि दुर्लभतरं रामम्भजे भार्गवम्॥ ५॥
ओङ्कारात्मकमव्ययं शरधिशं पाथोधिगर्वापहं
गोभूदेवकुलार्तिनाशनकरं गोपालसद्देशिकम् ।
विष्वक्सेनमुदारचित्तमनघं विश्वेश्वरं सम्पदां
दातारं मुनिवन्दिताङ्घ्रियुगळं रामम्भजे च्यावनिम्॥ ६॥
गोभूदेवमयं धनुःश्रुतिमयं सौजन्यधारामयं
निस्साहाय्यमयं निरामयमयं निस्तुल्ववाणीमयम् ।
सत्सौशील्यमयं पराक्रममयं कालस्य मृत्युर्मयं
भक्तारिघ्नमयं परात्परमयं रामम्भजे भार्गवम् ॥ ७॥
भूमैश्वर्यसुनिर्जरामरमयं क्षीराब्धिविष्णुर्मयं
अंहार्तिघ्नमयं महौरवमयं मृत्योः प्रमृत्युर्मयम् ।
सङ्ग्रामेषु महाभयानकमयं शान्तिर्मयं सर्वदा
साध्वी रेणुकसत्तपःफलमयं ध्यायामि श्रीच्यावनिम् ॥ ८॥
रामं सत्यपराक्रमं श्रुतिहितं राजीवपत्राक्षकं
रौद्रं धर्मभृताङ्गुरुं कलुषहं श्रेष्ठं ऋषीणाङ्कुले ।
आयुर्दायकमाश्रितामरतरुं अत्यद्भुतोहाप्रदं
भूभाराघनिबर्हणागतहरिं ध्यायामि यर्चीकजम् ॥ ९॥
सत्सौभाग्यमयं महाशुचिमयं सम्पूर्णमेधामयं
ब्रह्मानन्दमयं रिपुन्दममयं वात्सल्यधारामयम् ।
ब्रह्मज्ञानमयं महागुरुमयं वाणीमयं सर्वदा
भक्तव्रातसुचातकाम्बुदमयं वन्दे सदा रैणुकम् ॥ १०॥
यस्यापीच्यसुविग्रहं कलुषहं द्रष्टुं महापण्डिताः
यस्यानुग्रहमाप्तुमब्जजहरौ मौनीश्वरास्तेपिरे ।
तस्सार्चीकसुतस्य सान्द्रकरुणासारः प्रवाहो महत्
मे रामस्य निरन्तरं प्रवहतु प्रच्छन्न रूपोज्ज्वलः ॥ ११॥
यद्दृष्ट्या महनीयकान्तिकलितं देहम्महाकानने
लेभाते हरिणौ स्वपूर्वजननप्रज्ञाञ्च मोक्षम्महत् ।
तम्माहात्म्यनिधिं ऋचीकजभवं रामं सदाभक्तव-
ज्रप्राकारमनन्तकं दशरथं वन्दे सदा रैणुकम् ॥ १२॥
आदौ रेणुकगर्भवार्धिजननं अम्बागळच्छेदनं
महिष्मत्यधिनाथकण्ठदळनं दुःक्षत्रियोत्सादनम् ।
निर्माणञ्च समन्तपञ्चकमहो सर्वांसहापालनं
एतद्भार्गवरामभूमचरितं त्रैलोक्यमोदावहम् ॥ १३॥
॥ इति श्रीपूसपाटि रङ्गनायकामात्यभार्गवर्षिकृतं
परशुरामस्तोत्रं सम्पूर्णम् ॥
Encoded Malleswara Rao Yellapragada malleswararaoy at yahoo.com
Proofread by Malleswara Rao Yellapragada, PSA Easwaran