परत्वादिपञ्चकम्

परत्वादिपञ्चकम्

श्रीवात्स्यवरदगुरुभिरनुगृहीतं श्रीरस्तु । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः ॥ वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् । भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥ उद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मल- ज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षड्गुणैः । जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥ १॥ आमोदे भुवने प्रमोद उत सम्मोदे च सङ्कर्षणं प्रद्युम्नं च तथाऽनिरुद्धमपि तान् सृष्टिस्थिती चाप्ययम् । कुर्वाणान् मतिमुख्यषड्गुणवरैर्युक्तांस्त्रियुग्मात्मकैः व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे ॥ २॥ वेदान्वेषणमन्दराद्रिभरण क्ष्मोद्धारणस्वाश्रित- प्रह्लादावनभूमिभिक्षणजगद्विक्रान्तयो यत्क्रियाः । दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणं कालिन्द्या अतिपापकंसनिधनं यत्क्रीडितं तं नुमः ॥ ३॥ यो देवादिचतुर्विधेष्टजनिषु ब्रह्माण्डकोशान्तरे सम्भक्तेषु चराचरेषु निवसन्नास्ते सदान्तर्बहिः । विष्णुं तं निखिलेष्वणुष्वणुतरं भूयस्सु भूयस्तरं स्वाङ्गुष्ठप्रमितं च योगिहृदयेष्वासीनमीशं भजे ॥ ४॥ श्रीरङ्गस्थलवेङ्कटाद्रिकरिगिर्यादौ शतेऽष्टोत्तरे स्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासेदुषे । अर्चारूपिणमर्चकाभिमतितः स्वीकुर्वते विग्रहं पूजां चाखिलवाञ्छितान् वितरते श्रीशाय तस्मै नमः ॥ ५॥ प्रातर्विष्णोः परत्वादिपञ्चकस्तुतिमुत्तमाम् । पठन् प्राप्नोति भगवद्भक्तिं वरदनिर्मिताम् ॥ ६॥ इति परत्वादिपञ्चकं समाप्तम् । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Paratvadipanchakam
% File name             : paratvAdipanchakam.itx
% itxtitle              : paratvAdipanchakam
% engtitle              : paratvAdipanchakam
% Category              : vishhnu, panchaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Ramanuja Stotramala
% Indexextra            : (Scan)
% Latest update         : April 29, 2021, July 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org