प्रेमसायुज्यम्
कृष्णे गोकुलवासमुज्झितवति प्रोद्यद्वियोगाकुला
गोप्यस्तत्स्मरणामृतैकशरणा निन्युः सुदीर्घाः समाः ।
पश्चादेत्य समन्तपञ्चकमहातीर्थे कदाचित् प्रियम् ।
दृष्ट्वा ताः किलकिञ्चिताञ्चितहृदः कामप्यवस्थां दधुः ॥ १॥
विख्यातप्राभवोऽसौ सकलमुनिनृपाराधितो नन्दसूनु-
र्गोपीस्ता मन्दहासप्रसरसुमधुरं पूर्ववन्मानयित्वा ।
नीत्वा ताभिः समेतः कतिपयदिवसांस्तत्र ताभ्यो ददौ ताम् ।
शान्तिं योगीन्द्रकाम्याममृतरसमयीं भक्तिमार्गैकगम्याम् ॥ २॥
खण्डः १
तत्र गोपिकाशतसमावृतं तरुतले स्थितं श्यामसुन्दरम् ।
चक्षुषा पिबन्त्यात्मना जगौ दूरसंस्थिता कापि गोपिका ॥ १॥
कथमिहास्मि हा कथमिहागतो मधुरदर्शनो नन्दनन्दनः ।
विविधभावसम्मर्दनिस्सहं स्फुटति हा हरे मामकं मनः ॥ २॥
मूकरागिणीं मां परीक्षितुं व्यतिकरोऽयमुत्पादितस्त्वया ।
तृपितया दृश त्वां पिबाम्यहं वर्धते विभो, द्विगुणिता तृषा ॥ ३॥
धन्यजीवितास्ते सखीजना ये ह्रयन्त्रितास्त्वामुपासते ।
सहजमुग्धतासन्निन्त्रिता हा! हताऽस्म्यहं मन्दभागिनी ॥ ४॥
परिसमर्पयन्त्यात्मजीवितं किमु पतामि ते नाथ पादयोः ।
कमपि ते करस्पर्शमाप्नुयां शिरसि मामके शान्तिदायकम् ॥ ५॥
अहह! साहसं साहसं त्त्विदं, मम न शोभनं धृष्टचेष्टितम् ।
क्व च भवान् विभुर्विश्वपूजितः? क्व च वराकिका गोपदारिका?॥ ६॥
खण्डः २
अयि पुरा हरे, यामुने तटे भवदनुष्ठिते चेलवोरणे ।
तव नियोगतस्त्वामुपागता गोपबालिकास्ता दिगम्बरः ॥ १॥
आगलं जले स्थितवतीं तदा मां विलोकयन् दूरतो भवान् ।
स्मितमदात्; प्रभो संस्मराम्यहं; स्मरसि किं हरे, तादृशीमिमाम्?॥ २॥
वेणुगानमाकण्र्य तावकं विश्वमोहनं वल्लवीजनाः ।
त्वामुपाययु; र्दूरतः स्थिता केवला त्वहं त्वां व्यलोकयम् ॥ ३॥
वेणुनालिकाचुम्बिताधरं गोपिकाशतैरावृतं मुदा ।
दूरतोऽपि मय्यर्पितेक्षणं संस्मरामि ते तत् स्थितं हरे! ॥ ४॥
रासखेलने नाहमागता केवलं गृहे ध्यानमस्थिता ।
तन्वती सुखं नर्तनं त्वया साकमान्तरे रासमण्डपे ॥ ५॥
नो कदाऽपि मां नन्दनन्दनो ज्ञातवानभिज्ञातवानपि ।
नास्ति तादृशं सौभगं च मे नास्ति चात्मनि प्रौढचातुरी ॥ ६॥
हा! कदाऽपि ते सेवनोद्यता नाहमागता त्वत्पदान्तिकम् ।
त्रासविह्वला लज्जयाऽकुला; मां कथं भवान् संस्मरिष्यति?॥ ७॥
खण्डः ३
व्रजनिवासमुत्सृज्य गच्छतस्तव रथः क्षणं मदृगृहान्तिके ।
निश्चलोऽभव;त्तत्र चाभवं स्तभ्यसंश्रिताऽलिन्दसंस्थिता ॥ १॥
अभ्यषिञ्चदाहन्त! मां प्रभो स्निग्धया दृशा सस्मितं भवान् ।
विगलितं तदा केलिपङ्कजं तव कराम्बुजा; न्नन्वलोकयम् ॥ २॥
हा! न्यशाभयं ते मुखं तदा विधुरदर्शनं म्लानसुस्मितम् ।
मधुरवेदनाविद्युदाहता प्रलयमागता कतिपयक्षणान् ॥ ३॥
सुमधुरं भवन्नाम गृह्णति त्वां विलोकयन्त्येव सर्वतः ।
त्वयि मम प्रिये लीनमानसा विरहवेदनां नाविदं चिरम् ॥ ४॥
अहह! भावनावञ्चिताऽस्म्यहं; कृष्णचेष्टितं नैव मत्परम् ।
विलसितं हरेः सहजमोहनं मुग्धया मया ज्ञातमन्यथा ॥ ५॥
``त्वां स्मराम्यहं'' - किं न्विदं मया श्रुयते मदीयान्तरात्मनि?।
मधुरभाषणं तावकं हरे, जीवनामृतं खलु पिबाम्यहम् ॥ ६॥
श्यामसुन्दर, त्वां विलोकये निर्निमेषकं दूरतः स्थिता ।
मधुरदर्शनं मुग्धसुस्मितं मदनमोहनं मन्मनोहरम् ॥ ७॥
अयि महाप्रभो, त्वां विलोकयन्त्यधिगताऽस्म्यहं पूर्णकामताम् ।
मम हि चेतना हर्षविह्वला यातुमिच्छतीवोपगूहितुम् ॥ ८॥
प्रिय, दयामयी दृष्टिरद्य ते निपतति स्वयं मय्यपि क्षणम् ।
अमृतधारया सम्प्लुताऽस्म्यहं स्पन्दतेतरां मामकं मनः ॥ ९॥
हन्त! मां प्रति प्रस्थितो भवान् प्रियसखीः समुत्सृज्य गोपिकाः ।
अभयमुद्रया सान्त्वयन्निमां द्रुतपदं हरे, किं समेष्यसि?॥ १०॥
हा! समागतो मत्समीपतः प्रियतमो भवान् कृष्ण, तिष्ठति ।
किं प्रभाषसे मां वराकिकां? स्फुरति तेऽधरं पल्लवारुणम् ॥ ११॥
``सखि, जितं त्वया; प्रेमधाम तत् परममद्वयं प्राप्तवत्यसि''
इति भवद्गिरं शान्तिदायिनीममृतवाहिनीं हा! पिबाम्यहम् ॥ १२॥
सदयलोचने मधुरसुस्मिते तव मुखाम्बुजे मत्पुरोगते ।
चिरमुपोपितां निदधती दृशं नाथ, याम्यहं नित्यनिर्वृतिम् ॥ १३॥
रुद्धा वाग्, दृढनिश्चल समभवद्दृष्टिः, प्रसन्नं मुखं,
निष्पन्दं हृदयं च; सा व्रजवधूः संप्राप धन्यां गतिम् ॥ १४॥
तेजो देहसमुत्थितं निरुपमं तस्याः पुरःस्थे तदा ।
कृष्णे लीनमभूत्; स चापि भगवांस्तस्थौ क्षणं निश्चलः ॥ १५॥
इति श्रीवासुदेवन् एलयथेन विरचितं प्रेमसायुज्यं सम्पूर्णम् ।