मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रम्
वराह उवाच ।
नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन ।
नमस्ते सर्व लोकेश नमस्ते तिग्मचक्रिणे ॥ १॥
विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् ।
नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ॥ २॥
आदिदेवं महादेवं वेदवेदाङ्गपारगम् ।
गम्भीरं सर्वदेवानां नमस्ये वारिजेक्षणम् ॥ ३॥
सहस्रशीर्षणं देवं सहस्राक्षं महाभुजम् ।
जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ॥ ४॥
शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् ।
नीलमेघप्रतीकाशं नमस्ये चक्रपाणिनम् ॥ ५॥
शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् ।
भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम् ॥ ६॥
नान्यत्किञ्चित्प्रपश्यामि व्यतिरिक्तं त्वयाच्युत ।
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ॥ ७॥
इति मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran