पुरुषोत्तममालास्तोत्रम्
नीलाद्रौ
मालां मुकुन्दशिरसोऽनुपमप्रमोदलाभाधरीकृतसुरद्रुमकान्तगन्धाम् ।
अन्धीकृतालिनिचयां पवनप्रसारिगन्धप्रणाशितजगत्कलुषां नमामि ॥ १॥
यत्पादपङ्कजगलद्रजसोनुषङ्गा ब्रह्मादयः परमसम्पदमापुरस्य ।
विष्णोः कलेवरसमुज्ज्वलिताङ्गरागसंसक्तपुष्पनिलयां प्रणतोऽस्मि मालाम् ॥ २॥
पद्मां हृत्पद्मवसतिं सपत्नीं या हसत्यसौ ।
विकस्वरैः सुकुसुमैर्विष्ण्वङ्कस्थितिगर्विताम् ॥ ३॥
कुत्र स्थितेयमाहार्षीन्महिमानं स्रगुज्ज्वला ।
या श्रीनिधेः शरीरेऽभूत्सर्वाङ्गव्यापिनी चिरम् ॥ ४॥
जय नीलाद्रिशिखरभूषणाघप्रदूषण ।
प्रणतार्तिहर श्रीमंस्त्राहि मां शरणागतम् ॥ ५॥
इति श्रीस्कन्दपुराणे वैष्णवखण्डे पुरुषोत्तममाहात्म्ये
मालास्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran psaeaswaran at gmail.com