श्रीरङ्गनाथमङ्गलम्
मङ्गलं रङ्गनाथाय मम नाथाय मङ्गलम् ।
मङ्गलं लोकनाथाय लक्ष्मीनाथाय मङ्गलम् ॥ १॥
लक्ष्मीचरणलाक्षाङ्ग साक्षि श्रीवत्सवक्षसे ।
क्षेमङ्कराय सर्वेषां श्रीरङ्गेशाय मङ्गलम् ॥ २॥
सैकते सह्यकन्यायास्तरङ्गानिव शीतले ।
अतिरङ्गं भुजङ्गेन्द्रे सुखसुप्ताय मङ्गलम् ॥ ३॥
रजताद्रिनिषण्णेन्द्रनीलशैलानुकारिणे ।
शेषे शयाय श्यामाय श्रीरङ्गेशाय मङ्गलम् ॥ ४॥
बाहुमेकं प्रसार्यान्यं उपदायाति पन्नगम् ।
निद्राणाय जगद्रक्षाजागरूकाय मङ्गलम् ॥ ५॥
परिष्कृतासनाम्भोजपरस्परतलाङ्घ्रये ।
स्फुरत्पीताम्बरायास्तु श्रीरङ्गेशाय मङ्गलम् ॥ ६॥
दर्शिताभयमुद्राय भक्तानां तद्विरोधिनाम् ।
दीप्तदिव्यायुधायास्तु श्रीरङ्गेशाय मङ्गलम् ॥ ७॥
सुस्मिताय सुनासाय सुदृशे सुन्दरभ्रुवे ।
सुललाटकिरीटाय श्रीरङ्गेशाय मङ्गलम् ॥ ८॥
तरङ्गितदयैर्विश्वं अपाङ्गैरभिषिञ्चते ।
संराजे सर्वलोकानां श्रीरङ्गेशाय मङ्गलम् ॥ ९॥
इक्ष्वाकोर्विधिलब्धाय विभीषणकृते पुनः ।
विस्राणिताय रामेण श्रीरङ्गेशाय मङ्गलम् ॥ १०॥
ज्ञानसिद्धाञ्जनेनास्मद्देशिकैर्दर्शिताय मे ।
नित्ये नित्यपूर्णाय श्रीरङ्गेशाय मङ्गलम् ॥ ११॥
मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः ।
सर्वैश्च पूर्वैरराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १२॥
इति श्रीरङ्गनाथमङ्गलं सम्पूर्णम् ॥
Proofread by Aruna Narayanan