कौशिकब्राह्मणेन राक्षसाय प्रोक्तं सारस्वतस्तोत्रम्

कौशिकब्राह्मणेन राक्षसाय प्रोक्तं सारस्वतस्तोत्रम्

श्रूयतां तव यच्छ्रेयस्तथान्येषां च पापिनाम् । समस्तपापशुद्ध्यर्थं पुण्योपचयदं च यत् ॥ ४१॥ प्रातरुत्थाय सततं मध्याह्नेऽह्नःक्षयेऽपि वा । अयं शस्तः सदा जापः सर्वपापोपशान्तिदः ॥ ४२॥ हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम् । प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु ॥ ४३॥ विश्वेश्वरमजं विष्णुमप्रमेयपराक्रमम् । प्रणतोऽस्मि प्रजापालं स मे पापं व्यपोहतु ॥ ४४॥ विष्णुमच्युतमीशानमनन्तमपराजितम् । प्रणतोऽस्मि महात्मानं स मे पापं व्यपोहतु ॥ ४५॥ चराचरगुरुं नाथं गोविन्दं शेषशायिनम् । प्रणतोऽस्मि परं देवं स मे पापं व्यपोहतु ॥ ४६॥ गोवर्धनधरं धीरं गोब्राह्मणहिते स्थितम् । प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु ॥ ४७॥ शङ्खिनं चक्रिणं शान्तं शार्ङ्गिणं स्रग्धरं परम् । प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु ॥ ४८॥ दामोदरमुदाराक्षं पुण्डरीकाक्षमव्ययम् । प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु ॥ ४९॥ नारायणं नरं शौरिं माधवं मधुसूदनम् । प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु ॥ ५०॥ केशवं केशिहन्तारं कंसारिष्टनिसूदनम् । प्रणतोऽस्मि चतुर्बाहुं स मे पापं व्यपोहतु ॥ ५१॥ श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम् । प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु ॥ ५२॥ यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम् । वासुदेवमनिर्देश्यं तमस्मि शरणं गतः ॥ ५३॥ समस्तालम्बनेभ्योऽयं संहृत्य मनसो गतिम् । ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः ॥ ५४॥ सर्वगं सर्वभूतं च सर्वस्याधारमीश्वरम् । वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ॥ ५५॥ परमात्मानमव्यक्तं यं प्रयान्ति सुमेधसः । कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः ॥ ५६॥ पुण्यपापविनिर्मुक्ता यं प्रविश्य पुनर्भवम् । न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः ॥ ५७॥ ब्रह्मा भूत्वा जगत्सर्वं सदेवासुरमानुषम् । यः सृजत्यच्युतो देवस्तमस्मि शरणं गतः ॥ ५८॥ ब्रह्मत्वे यस्य वक्त्रेभ्यश्चतुर्वेदमयं वपुः । सूतं प्रभो पुरा जज्ञे तमस्मि शरणं गतः ॥ ५९॥ ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम् । स्रष्टृत्वे संस्थितं सृष्टौ प्रणतोऽस्मि सनातनम् ॥ ६०॥ यः पाति सृष्टं च विभुः स्थितावसुरसूदनः । तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥ ६१॥ धृता मही हता दैत्याः परित्रातास्तथामराः । येन तं विष्णुमाद्येशं प्रणतोऽस्मि सनातनम् ॥ ६२॥ यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम् । तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥ ६३॥ वर्णाश्रमान्स्थितावाद्यो यः स्थापयति वर्त्मनि । तमादिपुरुषं विष्णुं प्रणतोऽस्मि सनातनम् ॥ ६४॥ कल्पान्ते रुद्ररूपो यः संहरत्यखिलं जगत् । तमादिपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥ ६५॥ पातालवीथीभूरादींस्तथा लोकान्बिभर्ति यः । तमन्तपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् ॥ ६६॥ सम्भक्षयित्वा सकलं यथा सृष्टमिदं जगत् । यो नृत्यत्यतिरौद्रात्मा प्रणतोऽस्मि जनार्दनम् ॥ ६७॥ सुरासुराः पितृगणा यक्षगन्धर्वराक्षसाः । यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥ ६८॥ समस्तदेवाः सकला मानुषाणां च जातयः । यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥ ६९॥ वृक्षगुल्मादयो यस्य तथा पशुमृगादयः । एकांशभूता देवस्य सर्वगं तं नमाम्यहम् ॥ ७०॥ यस्मान्नान्यत्परं किञ्चिद्यस्मिन्सर्वं महात्मनि । यः सर्वमव्ययोऽनन्तः सर्वगं तं नमाम्यहम् ॥ ७१॥ यथा सर्वेषु भूतेषु स्थावरेषु चरेषु च । विष्णुरेव तथा पापं ममाशेषं प्रणश्यतु ॥ ७२॥ यथा विष्णुमयं सर्वं यत्सर्वेन्द्रियगोचरम् । यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु मे तथा ॥ ७३॥ प्रवृत्तं च निवृत्तं च कर्म विष्णुमयं यथा । अनेकजन्मकर्मोत्थं पापं नश्यतु मे तथा ॥ ७४॥ यन्निशायां तथा प्रातर्यच्च मध्यापराह्णयोः । सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ॥ ७५॥ तिष्ठता व्रजता यच्च शय्यासनगतेन च । कृतं यदशुभं कर्म कायेन मनसा गिरा ॥ ७६॥ अज्ञानतो ज्ञानतो वा वासुदेवस्य कीर्तनात् । तत्सर्वं विलयं यातु तोयस्थं लवणं यथा ॥ ७७॥ परदारपरद्रव्यवाञ्छाद्रोहोद्भवं च यत् । परिपीडोद्भवं निन्दां कुर्वतो यन्महात्मनाम् ॥ ७८॥ यच्च भोज्ये तथा पेये यच्च कण्डूयनादिषु । तद्यातु विलयं तोये यथा लवणभाजनम् ॥ ७९॥ यद्बाल्ये यच्च कौमारे यत्पापं यौवने मम । वयःपरिणतौ यच्च यच्च जन्मान्तरेषु मे ॥ ८०॥ तन्नारायणगोविन्दहरिकृष्णेशकीर्तनात् । प्रयातु विलयं तोये यथा लवणभाजनम् ॥ ८१॥ विष्णवे वासुदेवाय हरये केशवाय च । जनार्दनाय कृष्णाय नमो भूयो नमो नमः ॥ ८२॥ इदं सारस्वतं स्तोत्रमशेषाघविनाशनम् । पठतां श‍ृण्वतां चैव सर्वपापविनाशनम् ॥ ८३॥ इदं यः प्रातरुत्थाय प्रणिपत्य जनार्दनम् । जपत्येकमनाः पापं समस्तं स व्यपोहति ॥ ८४॥ यस्तु संवत्सरं पूर्णं सायं प्रातः समाहितः । जपत्येतन्नरः पुण्यं कृत्वा मनसि केशवम् ॥ ८५॥ शारीरं मानसं वाग्जं ज्ञानतोऽज्ञानतोऽपि वा । कृतं तेन तु यत्पापं सप्तजन्मान्तराणि वै ॥ ८६॥ महापातकमल्पं वा तथा यच्चोपपातकम् । सकलं नाशयत्येतत्तथान्यत्पुण्यमृच्छति ॥ ८७॥ विप्राय सुविशिष्टाय तिलपात्राणि षोडश । अहन्यहनि यो दद्यात्पठत्येतच्च तत्समम् ॥ ८८॥ अविप्लुतमतिश्चान्ते सम्प्राप्य स्मरणं हरेः । विष्णुलोकमवाप्नोति सत्यमेतन्मयोदितम् ॥ ८९॥ यथैनं पठति नित्यं स्तवं सारस्वतं पुमान् अपि पापसमायुक्तो मोक्षं प्राप्नोत्यसावपि यथैतत्सत्यमुक्तं मे नात्राल्पमपि वै मृषा । राक्षसग्रस्तसर्वाङ्गं तथा मामेष मुञ्चतु ॥ ९०॥ इति विष्णुधर्मेषु सप्ततितमोऽध्यायान्तर्गतं कौशिकब्राह्मणेन राक्षसाय प्रोक्तं सारस्वतस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Kaushikabrahmanena Rakshasaya Proktam Sarasvata Stotram
% File name             : sArasvatastotraMkaushikabrAhmaNenarAkShasAyaproktam.itx
% itxtitle              : sArasvatastotraM kaushikabrAhmaNenarAkShasAyaproktam (viShNudharmopapurANAntargatam)
% engtitle              : sArasvatastotraM kaushikabrAhmaNenarAkShasAyaproktam
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 70
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org