श्रीशार्ङ्गिपाणिस्तोत्रम्
हेममुनिकृतं
नमो नमोऽगण्यगुणैकसिन्धवे कल्याणसद्विग्रहशालिने प्रभो ।
योगीन्द्रहृत्पङ्कजमध्यवासिने योगाय योगीन्द्रकरार्चिताय ॥ १॥
कामादिषड्वर्गविभेदकाय भक्तार्तिसम्भेदन दीक्षिताय ।
कल्याणनाथाय कलाधरार्कसुरेन्द्रसम्पूजितविग्रहाय ॥ २॥
कालात्मने कालसुयोगकारिणे श्रीकालचक्राय सुचक्रधारिणे ।
भूचक्रसंस्थाय सुमानिताय खगध्वजेशाय नमामि सन्ततम् ॥ ३॥
मत्स्याय कूर्माय किटीन्द्ररूपिणे श्रीनारसिंहाय नमो नमस्ते ।
इन्द्रानुजाय दितिजेन्द्रविभेदकाय निशाचरेशवरकण्ठविभेदकाय ॥ ४॥
गोपीकुचासक्तयदूद्वहाय नमामि बुद्धाय रमाधिहारिणे ।
ज्ञानेतरध्वान्तनिवारकाय विज्ञानवैराग्यसुभक्तिदायिने ॥ ५॥
प्रज्ञात्मने प्राज्ञसम्पूजिताय प्रह्लादसंरक्षणदीक्षिताय ।
आनन्दपूर्णाय सदाऽन्तरात्मने वेदान्तवेद्याय नमो नमस्ते ॥ ६॥
सर्गस्थितिप्रलयकारणकारणाय भोगीन्द्रतल्पाश्रितविग्रहाय ।
कल्पार्धकल्पाय फलप्रदायिने कञ्जासनापूजितमङ्गलाङ्गिने ॥ ७॥
नमो नमस्ते करुणाकराय नागारिदिव्यांसगताय विष्णवे ।
श्रीभूमिनीलार्चितसुन्दराङ्गिने नमो नमः शार्ङ्गधराय तुभ्यम् ॥ ८॥
पुनः पुनस्ते प्रणमामि विष्णो त्वत्पार्श्वयोः पुरतः पृष्ठतश्च ।
सर्वत्र ते सन्ततमादरेण नमामि शार्ङ्गेश महाप्रभो विभो ॥ ९॥
इति हेममुनिकृतं श्रीशार्ङ्गपाणिस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran