शतापराधस्तोत्रम्
नारद उवाच -
नापराधांश्चरेत् क्वापि विष्णोर्देवस्य चक्रिणः ।
इति त्वयोदितं पूर्वं तानाचक्ष्व ममाधुना ॥
ज्ञात्वैव विनिवर्तन्ते पण्डिताः पापबुद्धितः(पद्धतेः) ।
तस्मात् तत्कर्तृकानाहुर्माधवो यैर्न तुष्यति ॥
ब्रह्मोवाच -
अपराधसहस्राणि क्रियन्तेऽहर्निशं नरैः ।
वक्तुं तान् कः क्षमो लोके तस्मान्मुख्यानहं ब्रुवे ॥ १॥
ज्ञात्वा वै विनिवर्तन्ते पण्डिताः पापमार्गतः ।
निवृत्तिं मानवा यान्ति तद्विष्णोः परमं पदम् ॥ २॥
अस्नात्वा देवपूजायाः करणं शङ्कया विना ।
देवालये प्रवेशश्च दीपहीनालयेऽपि च ॥ ३॥
अप्रक्षालितपादश्च प्रवेशोऽभिमुखागतिः ।
गोमयाननुलिप्ते च देशे देवस्य पूजनम् ॥ ४॥
अप्रक्षाल्य च पुष्पाणि प्रक्षाल्य तुलसीं विभो ।
प्रलपन् देवतापूजा गन्धवर्जितपूजनम् ॥ ५॥
अघण्टादेवतार्चा च मुखफूत्कृतवह्निना ।
धूपार्तिकार्पणं विष्णोः स्तोत्रपाठं विना तथा ॥ ६॥
निर्माल्योद्वासनं वस्त्राशोधिताग्र्योदकाहृतिः ।
अग्र्योदके नरच्छायापतनं चाभिषेचनम् ॥ ७॥
अग्र्योदके नखस्पर्शो जानुजङ्घावलम्बनम् ।
देवोपकरणस्पर्शः पदा नारीनरैस्तथा ॥ ८॥
अधूतवस्त्रैरस्नातैर्नैवेद्यस्यापि पाचनम् ।
अनाच्छाद्य तु कुम्भस्य मुखमग्र्योदकाहृतिः ॥ ९॥
अभक्ष्यभक्षणं विष्णोरभक्ष्यस्य निवेदनम् ।
केशश्मश्रुनखस्पर्शहस्ताभ्यां देवस्पर्शनम् ॥ १०॥
अन्यावशिष्टवस्त्रस्य देवतानां समर्पणम् ।
हीनवस्त्रार्पणं विष्णोर्नीलवस्त्रसमर्पणम् ॥ ११॥
अधूतवस्त्रपूजा च निषिद्धान्ननिवेदनम् ।
अष्टाक्षरोपदेशाच्च ऋते देवार्चनं तथा ॥ १२॥
चौर्याहृतानां पुष्पाणां देवानां च समर्पणम् ।
अन्यावशिष्टपर्युष्टम्लानपुष्टसमर्पणम् ॥ १३॥
छिन्नभिन्नातिरिक्तानां पुष्पाणां च समर्पणम् ।
स्वाङ्गभूगलितानां च निकृन्तनां समर्पणम् ॥ १४॥
वस्त्रार्कैरण्डपत्रेष्वाहृतानां समर्पणम् ।
निर्गन्धकुसुमानां च तुलसीरहितार्चनम् ॥ १५॥
लोकवार्तां वदन् विष्णोर्निर्माल्यस्य विसर्जनम् ।
अर्चने वर्जनं षट्कमुद्राणां मुनिसत्तम ॥ १६॥
एरण्डतैलदीपश्च पञ्चसंस्कारवर्जनम् ।
भूत्वा शून्यललाटश्च देवतायाः प्रपूजनम् ॥ १७॥
साम्येन शङ्कराद्यैश्च पूजा वा समकालतः ।
तुलसीपद्माक्षमालानां तथा कण्ठे त्वधारणम् ॥ १८॥
उत्तरीयपरित्यागः पवित्रग्रन्थिवर्जनम् ।
अकच्छः पुच्छकच्छो वा देवतायाः प्रपूजनम् ॥ १९॥
पाखण्डीनां च संसर्गो दुःशास्त्राभ्यास एव च ।
नरस्तुतीनां श्रवणं नरस्तुत्या च जीवनम् ॥ २०॥
पूज्यस्तुतिपरित्यागः सच्छास्त्राभ्यासवर्जनम् ।
श्रवणं विष्णुनिन्दाया गुरुनिन्दाश्रुतिस्तथा ॥ २१॥
सत्पुरुषनिन्दाश्रवणं सच्छास्त्रस्यापि नारद ।
देवस्य पूजासमये बालानां लालनं तथा ॥ २२॥
व्यासङ्गो देवतार्चायां केशादीनां विसर्जनम् ।
आज्याभिघारहीनस्य नैवेद्यस्य समर्पणम् ॥ २३॥
आलस्याद्देवपूजा च तुच्छीकृत्य तथा विभो ।
मलं बध्वा देवपूजाऽजीर्णान्नेनार्चितं विभो ॥ २४॥
देवस्य पूजासमये विदित्वाऽऽगमनं सताम् ।
अनुभ्युत्थानमार्याणां परित्यागश्च कर्मणाम् ॥ २५॥
शठत्वाच्छ्रवणं विष्णोः कथायाः पुरुषर्षभ ।
पुराणश्रुतिसमये ताम्बूलादेश्च चर्वणम् ॥ २६॥
गुरोः समासनारूढः पुराणश्रवणं तथा ।
अश्रद्धया पुराणस्य श्रवणं कथनं तथा ॥ २७॥
दिनापनयनं लोकवार्तया गृहचिन्तया ।
नमस्कारात् परं विष्णोर्धूलिधूतावधूनना ॥ २८॥
आर्द्रवस्त्रेण देवस्य पूजायाः करणं तथा ।
एकादशीपरित्यागः पर्वमैथुनमेव च ॥ २९॥
पुंसूक्तमपठित्वा च देवपूजासमापनम् ।
आदावन्ते सहस्राणां नाम्नां पाठविवर्जितम् ॥ ३०॥
अहुत्वावाऽप्यदत्वा वा भोजनं ऋषिसत्तम ।
पुण्यकालातिशयितदेवपूजासमर्पणम् ॥ ३१॥
भोगे निवेदितान्नस्य ह्यन्यदेवार्पितस्य च ।
विष्णोश्च स्थानरहितो ग्रामवासश्च पण्डितः ॥ ३२॥
सत्सङ्गमविहीने च विष्ण्वन्यन्नामधारणम् ।
नित्यं सकामपूजा च देवोपकरणैस्तथा ॥ ३३॥
संसारयात्राकरणं तथा वै देवमन्दिरे ।
शयने मिथुनीभावः शङ्खवर्जितपूजनम् ॥ ३४॥
देवताभिमुखः पादप्रसारो मुनिसत्तम ।
अवृन्दावनगेहे च वासो व्रतव्यतिक्रमः ॥ ३५॥
तुलामकरमेषेषु प्रातःस्नानविवर्जितम् ।
पूजान्ते देवदेवस्य मुखवस्त्रासमर्पणम् ॥ ३६॥
ब्रह्मपारपरस्तोत्रापठनं त्विति नारद ।
अपराधशतं चैतन्महानर्थस्य साधनम् ॥ ३७॥
ज्ञात्वा पुंसा परित्याज्यं विष्णोः प्रीतिमिहेच्छता ।
अन्यथा नरकं याति विष्णोर्मार्गं न पश्यति ॥ ३८॥
शतापराधमध्यायुं यो वा पठति नित्यशः ।
तस्यापराधशतकं सहते विष्णुरव्ययः ॥ ३९॥
विष्णोर्नामसहस्रं तु यो वा पठति नित्यशः ।
तस्य पुण्यफलं धत्ते पठतस्तु दयानिधिः ॥ ४०॥
॥ इति श्रीगरुडपुराणे ब्रह्मनारदसंवादे शतापराधस्तोत्रं सम्पूर्णम् ॥