शयनारार्तिकार्या
शरणागतदीनदयैकपरे परपक्षतमोनिकराम्बुहरे ।
हरशक्रविरञ्चिविमोहकरे करलालितघोषवधूहृदये ॥ १॥
हृदयस्थितबालकपुष्टितरे रतरञ्जितगोपवधूनिचये ।
चयसञ्चितपुण्यनिधानफले फलभक्तिरसप्लुतपुष्टिनिजे ॥ २॥
निजमात्रसमर्पितभागपरे परमातृसुवारितदीपभरे ।
भरभावितभक्तिरसैकतरे तरलोलविमोहितनेत्रवरे ॥ ३॥
वरवल्लभदर्शितपूररसे रसविह्वललालितपादयुगे ।
युगभीतिनिवर्तकधर्मरतौ रतिरस्तुममव्रजराजपतौ ॥ ४॥
इति शयनारार्तिकार्या समाप्ता ।
Proofread by Mohan Chettoor