श्रीकृष्णभजनाष्टकम्
कंसदलनमुक्तिमिलनभुक्तिभवनकाशितं
दुष्टशकटराहुकपटकालियशठशासितम् ।
दानवमधुकैटभमुरदारुणवकनाशितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ १॥
ब्रह्मकिरणमुग्धवदनमङ्गलमयवीक्षणं
सान्द्रललितकुञ्जनिकटकेलितरलकारणम् ।
धर्मविनतकर्मनिरतभोगनिकरधारितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ २॥
पूर्णपुरुषयोगजनकभोगसकलधारकं
दुस्तरभवपारकपटुनाविकहरिनामकम् ।
दुर्जनमुखमर्दनगुणवर्द्धनदरदारितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ३॥
वैभवसुखसागरतटशुद्धसलिलशीतलं
स्मितरुचिरफुल्लकमलवेणुनिनदकोमलम् ।
मन्दमलयचन्दनमुखनन्दितशुभवन्दितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ४॥
शान्तसरलभक्तविधुरमाधवमधुसूदनं
देवमदनमोहन-अपवर्गविभवधारिणम् ।
गोपयुवतिवल्लभचिरसुन्दरतरलायितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ५॥
वल्लवललनासुखमुखचुम्बनरतिविह्वलं
चारुहसनपीतवसनमोहनशशिमण्डलम् ।
वन्यकुसुमनम्रसुषमसज्जितदमधारितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ६॥
प्रेमखचितकुञ्जसदनकेलिकुतुकनर्तनं
यामुनतटमण्डलनटपाटवजलखेलनम् ।
लुब्धललितरासकलितकुङ्कुममृदुवासितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ७॥
प्रेमकरुणमूर्तितरुणपूर्तिसकलकारकं
भक्तनयनचित्रितनवनाटकनटनायकम् ।
दारुपुरुषनेत्रवलयसर्वभुवनभूषितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ८॥
इति नन्दप्रदीप्तकुमारविरचितं श्रीकृष्णभजनाष्टकं सम्पूर्णम् ।