श्रीकृष्ण मानसिक पूजा

श्रीकृष्ण मानसिक पूजा

श्री गणेशाय नमः । ध्यानम्- वन्दे श्रीकृष्णचन्द्रं छवियुगलयुतं राधिकानाथमेकं वन्दे वेदान्तसारं परमपदमजं दिव्यकैवल्यधामम् । वन्दे शुद्धात्मरूपं गुणरहितनिजं ज्ञानिनां ज्ञानगम्यं वन्दे देवाधिदेवं सकलगुणनिधिं कृष्ण त्रैलोक्यनाथम् ॥ १॥ आवाहनम्- सच्चित्स्वरूपात्मकवासुदेवं कैवल्यधामं परमं पवित्रम् । एकाक्षरं निर्मलतत्त्वमात्रं आवाहयाम्यात्मस्वरूपमेकम् ॥ २॥ आसनम्- रम्ये सदा स्वच्छसुवर्णनिर्मिते देदीप्यमाने मनसोऽभिरञ्जने । रत्नासने तिष्ठतु वासुदेव गोविन्द ! योगेश्वर ! गोकुलेश ! ॥ ३॥ पाद्यम्- श्रीविष्णुपादार्चनयोग्यमुत्तमं देवादिवन्द्यं परमं पवित्रम् । गङ्गाजलं शुद्धमिदं हि निर्मितं पाद्यञ्च कृष्णाय समर्पयामि ॥ ४॥ अर्घ्यम्- गन्धाक्षतैश्चैव सुगन्धिपुष्पैः गङ्गाजलैर्निर्मितशुद्धमर्घ्यम् । त्रैलोक्यनाथाय परात्पराय तुभ्यं च कृष्णाय समर्पयामि ॥ ५॥ आचमनीयम्- सम्पूर्ण तीर्थाम्ब्वमलं शिवं जलं सुगन्धसम्पन्नमिदं मनोहरम् । आचम्यतामाचमनीयमेतद् हे कृष्ण ! सर्वात्मक ! वासुदेव ! ॥ ६॥ स्नानीयम्- मन्दाकिनी दिव्यसरस्वती तथा गङ्गा च रेवा यमुना च नर्मदा । नारायणीत्यादि नदी जलैर्हरे स्नानीयमेतद्धि समर्पयामि ॥ ७॥ पञ्चामृतस्नानम्- चित्तेन सङ्कल्पितशुद्धगोघृतं दुग्धं दधीक्षोरसमाक्षिकान्वितम् । सौगन्धिकैर्द्रव्यगणैश्च संयुतं पञ्चामृतं कृष्ण ! समर्पयामि ॥ ८॥ शुद्धोदकस्नानम्- हे कृष्ण ! सर्वोत्तम ! दिव्यरूप ! हे देवकीनन्दन ! रुक्मिणीश ! । हे द्वारकानाथ ! जगत्पते ! प्रभो ! स्नानं च शुद्धोदकमर्पयामि ॥ ९॥ उद्वर्तनस्नानम्- मेरुसमुद्भूतसुगन्धिचन्दनं सुशीतलं पुष्टिकरं सदैव । द्रव्यं सुगन्धिं परमोत्तमोत्तम- मुद्वर्तनं देव ! समर्पयामि ॥ १०॥ वस्त्रम्- पीताम्बरं रम्यमलौकिकं तथा शोभाढ्य विद्युत्समवस्त्रमुत्तमम् । तुभ्यं मया कृष्ण समर्प्यते प्रभो ! हे कृष्ण ! हे व्यापक ! हे रमेश ! ॥ ११॥ यज्ञोपवीतम्- रम्यं पवित्रं नवतन्तु निर्मितं वर्णेन पीतं नवदेवतामयम् । ग्रन्थित्रयं तत् त्रिगुणात्मकं शुभं यज्ञोपवीतं च समर्पयामि ॥ १२॥ चन्दनम्- देवार्चनायाखिलशास्त्रवर्णितं श्रीखण्डनामाख्यमतीवनिर्मलम् । अत्युत्तमं सौख्यकरं सुचन्दनं तुभ्यं मयाकृष्ण ! समर्प्यते प्रभो ! ॥ १३॥ पुष्पादीनि- रम्याणि नानाविध वृक्षजानि श्वेतानि पुष्पाणि सुगन्धितानि । दिव्यानि कृष्णातुलसीदलानि माल्यानि चैवाद्य समर्पयामि ॥ १४॥ तिलाक्षतान्- हे देव हे कृष्ण रमापते विभो हे गोपिकानाथ जनार्दन प्रभो । हे श्रीश हे केशव हे जगत्पते तिलाक्षतान् कृष्ण समर्पयामि ॥ १५॥ धूपम्- नानाविधं तन्निगमागमोक्तं वनस्पतीनां रससम्भवं शुभम् । दिव्यं पवित्राष्टसुगन्धिसंयुतं घूपं च कृष्णाय समर्पयाम्यहम् ॥ १६॥ दीपम्- वर्त्तिर्घृतं वह्निरिति त्रयान्वितं शुभ्रं सदा स्वच्छ प्रकाशमानम् । ज्योतिर्मयं मङ्गलकारकं शुभं दीपं च कृष्णाय समर्पयाम्यहम् ॥ १७॥ नैवेद्यम्- स्वाद्विष्टमत्युत्तमदिव्यशर्करं मिष्टान्नमत्यन्त मृदुं पवित्रकम् । नैवेद्यकं गोघृतपक्वमुत्तमं तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ १८॥ पायसम्- सुस्वादु गोदुग्धघृतादि संयुतं देवार्चने योग्यपवित्रपायसम् । भक्त्या प्रभो ! निर्मितस्वर्णपात्रे तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ १९॥ शुद्धोजलम्- आकाशगङ्गाजलमुत्तमं शिवं श्री विष्णुनारायणपूजनार्थकम् । एवं तुलस्यादलयुक्तमक्षयं तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २०॥ ताम्बूलम्- पूगीफलैला खदिराढ्यमुत्तमं चूर्णादिभिश्चैवयुतं पवित्रकम् । देवादि कार्यार्थ विनिर्मितं प्रभो ! ताम्बूलकं कृष्ण ! समर्पयाम्यहम् ॥ २१॥ फलम्- नानाविधं केवलसूर्यपक्वं धात्रीफलं पेरूकमाम्रकर्कटीम् । अक्षोटकं श्रीकदलीं च दाडिमं तुम्यं च कृष्णाय समर्पयाम्यहम् ॥ २२॥ रत्नादिद्रव्यम्- छत्रं च रत्नैर्जटितं प्रकाशकं आदर्शकं चामरदिव्यकुण्डलम् । नानाविधां रत्नसुवर्णपादुकां तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २३॥ दक्षिणाम्- तेजोमयं शुभ्रसुवर्णरूप्यकं वज्रादि रत्नैश्च सहैव दक्षिणाम् । भक्त्या मया ह्युत्तमश्रद्धया कृतां तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २४॥ आरार्तिकम्- आरार्तिकं तं कदलीसमुद्भवं कर्पूरनामाख्यमतीव मङ्गलम् । ज्योतिर्मयं सूर्यसमानकान्तिदं तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २५॥ प्रदक्षिणां - सर्वाणि पापानि च यानि तानि नश्यन्ति नाम्ना तव हे मुरारे । नाम्नाचते देव प्रदक्षिणा कृता तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २६॥ पुष्पाञ्जलीम्- पुष्पाणि हे देव ! सुगन्धितानि देशे च काले समयोद्भवानि । बध्वाञ्जलिर्नम्रतया सुभक्त्या तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २७॥ क्षमापनम्- प्रभो ! हरे ! देव ! जपं न पूजां ज्ञानं न जानामि न पाठ मन्त्रम् । तथापि हे देव ! क्षमापनङ्कृतं तुभ्यं च कृष्णाय समर्पयाम्यहम् ॥ २८॥ प्रार्थना- हे देवकीनन्दन ! कृष्णचन्द्र ! हे देव ! सर्वात्मक ! वासुदेव ! । हे कृष्ण ! विष्णोऽव्यय ! व्यापक ! प्रभो ! नित्यं प्रसन्नोभव हे मुरारे ! ॥ २९॥ रम्यं तुलस्या वनमालया युतं वंश्या च चक्रेण सपीतवस्त्रम् । पद्माक्षनीलाम्बुजश्यामलाङ्गं त्वां द्रष्टुमिच्छामि सदैव विष्णो ! ॥ ३०॥ पाठफलप्राप्ति- इत्थं पवित्रं परमामृतं हरिं अलौकिकं केवलदिव्यमूर्तिम् । अनन्तपारामृतमव्ययं प्रभुं नारायणं केवल कृष्णपूजनम् ॥ ३१॥ उत्थाय च ब्राह्ममुहुर्त मध्ये ध्यात्वा परंब्रह्म हरिं सदैव । कृत्वा शुभं मानसपूजनं हरेः सर्वं फलं प्राप्स्यति कृष्ण भक्तः ॥ ३२॥ इति श्री गायत्रीस्वरूप ब्रह्मचारिणा विरचितं मानसिक- कृष्णपूजनं सम्पूर्णम् ॥ Proofread by Vani V
% Text title            : shrIkRRiShNamAnasikapUjA
% File name             : shrIkRRiShNamAnasikapUjA.itx
% itxtitle              : shrIkRRiShNamAnasikapUjA (gAyatrIsvarUpa brahmachArIvirachitA)
% engtitle              : shrIkRRiShNamAnasikapUjA
% Category              : vishhnu, krishna, pUjA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : gAyatrisvarUpa brahmachari
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V
% Description/comments  : shrI bhagavat shrIkRRiShNamAnasikapUjA uttarArdhaH. Author/publisher comment mentions the cost of the book as bhagavadbhakti
% Indexextra            : (Scan)
% Latest update         : March 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org