श्रीकृष्णसहस्रनामस्तोत्रम्

श्रीकृष्णसहस्रनामस्तोत्रम्

ॐ श्री कृष्णाय परमात्मने नमः । ध्यानं - अनन्तनामकं कृष्णं कृपावर्षं कृपार्णवम् । भक्त्या नामसहस्रेण स्तोतुमिच्छामि सर्वदा ॥ १॥ श्री कृष्णचन्द्र! सर्वेश! स्त्रव्यरूप! स्तुतिप्रिय । वेणुगोपाल! राधेश! स्तोतुं त्वां देहि मे वरम् ॥ २॥ प्रेमार्पितमनोबुद्धिं, देहि मे करुणानिधे! । नीलसुन्दररूपस्य, देहि मे दिव्यदर्शनम् ॥ ३॥ अथ श्रीकृष्णसहस्रनामस्तोत्रं प्रारभ्यते । हरिः ॐ - ॐ राधिकेशं जगन्नाथं मोहनं वनमालिनम् । नन्दसूनुं महाविष्णुं मुकुन्दं मधुसूदनम् ॥ १॥ देवकीनन्दनं श्यामं वासुदेवं जगन्मयम् । यशोदातनयं कृष्णं कुण्डलद्वयभूषणम् ॥ २॥ अम्बुजाक्षं कृपापूर्णं वेणुवादनसुन्दरम् । नीलवर्णं घनश्यामं नवनीरदसन्निभम् ॥ ३॥ विशालफालं सुमुखं सुन्दरद्युतिपूरितम् । श्यामसुन्दरगोपालं लीलामानुषविग्रहम् ॥ ४॥ गोपीनाथं चित्तचोरं सूर्यकोटिसमप्रभम् । रासेश्वरं रासलोलं रासमण्डलवर्त्तिनम् ॥ ५॥ गोपिमण्डलमद्ध्यस्थं नृत्तकेलिरसप्रदम् । कारुण्यामृतनेत्रं च महनीयगुणान्वितम् ॥ ६॥ सुन्दराङ्गं चारुरूपमिन्दीवरनिभाननम् । नीलप्रभं कम्बुकण्ठं कौस्तुभद्युतिशोभितम् ॥ ७॥ नीलवर्णकपोलाभं कस्तूरीतिलकान्वितम् । चन्दनालिप्तगात्रं च वक्षःस्थलसुशोभनम् ॥ ८॥ मानिनीमानदं श्रीदं वन्यमालाविभूषितम् । रासरम्यं कोमलाङ्गं प्रेमलीलापरं जितम् ॥ ९॥ कामदर्पहरं कान्तं वेणुगानविशारदम् । कामदं कामजनकं कामवर्जितमानसम् ॥ १०॥ पीताम्बरधरं सौम्यमानन्दरसवर्धकम् । रूपलावण्यसारं च वेणुवादनतत्परम् ॥ ११॥ कोमलाङ्घ्रिसरोजाभं शिञ्जन्नूपुरसुन्दरम् । भक्तहृद्पद्मनिलयं सर्वमङ्गलकारकम् ॥ १२॥ नृत्तकेलिरसानन्दं गोपीचित्रप्रमोदकम् । सर्वाङ्गसुन्दरं नीलं विकसन्मुखपङ्कजम् ॥ १३॥ चारुनेत्रं चारुवर्णं चारुचन्द्राननप्रभम् । चन्दावलीसुपूज्यं च नृत्तमण्डलमद्ध्यगम् ॥ १४॥ वेणुजूष्टमुखाम्भोजं रमणीयाननप्रभम् । अत्यन्तकोमलं श्यामसुन्दरं रूपमोहनम् ॥ १५॥ मञ्जीरशिञ्जितं नादं नानारसविवर्धकम् । रङ्गरङ्गविशेषाभं विविधस्वरनादनम् ॥ १६॥ विशालाक्षं विश्ववन्द्यं वेणुनादरसप्रियम् । मञ्जीरचरणं भव्यं मणिनूपुरशिञ्जितम् ॥ १७॥ अम्भोरुहसमानाभं सर्वसौन्दर्यसारदम् । श्यामलाङ्गप्रभापूर्णं दिव्यकोमलविग्रहम् ॥ १८॥ मधुरप्रेमसारं च कृष्णाख्यं जगदीश्वरम् । राधेशं राधिकावन्द्यं गोपिकाप्रेमवर्धकम् ॥ १९॥ वृन्दारण्यविहारं च यमुनापुलिनेश्वरम् । गोवृन्दचारिणं गोपं गोपबालसमावृतम् ॥ २०॥ लीलानरं केलिसक्तं करुणारसवत्सलम् । कुञ्जानुकुञ्जसुक्रीडं पादविन्यासशोभितम् ॥ २१॥ वनमालाशोभिताङ्गं दिव्यगात्रप्रभोज्ज्वलम् । दिव्यगन्धानुलिप्तं च श्रीवत्साङ्कितवक्षसम् ॥ २२॥ गानलोलं रसोन्मत्तं नवनीतरसप्रियम् । गोपीमानसचोरं च दिव्यशोभातिभासुरम् ॥ २३॥ दिव्यनृत्तरसोल्लासं काममोहनसुन्दरम् । कुटिलालकबर्हाभं रत्नकिङ्किणिभूषितम् ॥ २४॥ सौन्दर्योदयसूक्ष्माङ्गं सुस्मेरवदनाम्बुजम् । अलिवृन्दाकर्षणं च वनमालाविभूषितम् ॥ २५॥ अतुलप्रेमसारं श्री राधिकाप्रेमसागरम् । नटनाकृतिरम्यं च दिव्यप्रेमरसामृतम् ॥ २६॥ सुजातं सुप्रियं सूक्ष्मं मनोमन्दिरवासिनम् । स्वयंञ्ज्योतिःश्यामवर्णं शारदेन्दुनिभाननम् ॥ २७॥ चराचर जगन्नाथं जगद्वन्द्यं जगद्गुरुम् । प्रणतक्लेशनाशं च भक्तमानसरञ्जनम् ॥ २८॥ राधेश्वरं रसक्रीडं कलवेणुसुकूचितम् । करीन्द्रपूजितं मूलं करिवीरवरप्रदम् ॥ २९॥ जितकामं जितक्रोधं कलिकन्मषनाशनम् । रामानुजं हृषीकेशं वेणुगोपालसुन्दरम् ॥ ३०॥ फणार्त्तिदं बालकृष्णं फणिदर्पविनाशकम् । गन्धर्वाप्सरसां पूज्यं सुरवृन्दनिषेवितम् ॥ ३१॥ कलादिनाथं सम्पूर्णं सङ्गीतरसलोलुपम् । व्रजनारीसमाकृष्टं मणिकङ्कणभूषितम् ॥ ३२॥ नन्दगोपसदानन्दं यशोदानन्दसागरम् । सर्वलोकैकवन्द्यं च नित्यनिर्मलमानुषम् ॥ ३३॥ चन्द्राननं चारुहासं चारुचन्दनचर्चितम् । भक्तप्रियं भक्तपूज्यं भक्तिगम्यं भयापहम् ॥ ३४॥ सच्चिन्मयं सत्स्वरूपं सर्वसङ्गविवर्जितम् । सर्वारम्भनिदानं चिदानन्दामृतपूरितम् ॥ ३५॥ लीलाधृतगिरिश्रेष्ठं इन्द्रदर्पहरं शमम् । आबालवृन्दसम्पूज्यं सुरधेनुसुपूजितम् ॥ ३६॥ सर्वाभीष्टप्रदातारं कालियाहिविमर्दकम् । गीतकीर्त्तिविशेषं च नीलवर्णवराननम् ॥ ३७॥ सत्यव्रतं सच्चरितं सच्चिदानन्दविग्रहम् । गोवृन्दानुचरं पूज्यं गोपबालाग्रगामिनम् ॥ ३८॥ सुचारुनटनं रम्यं सर्वसारं सुखोदयम् । उलूखलनिबद्धं च सर्वबन्धविमोचकम् ॥ ३९॥ पुष्पसौन्दर्यलोलं च पुष्पगन्धानुसेवितम् । राजीवचरणं नानावनराजिनिषेवितम् ॥ ४०॥ निस्तुलं निर्ममं शान्तं निरालम्बं निराशयम् । आनन्दाब्धिं दयासिन्धुं वरेण्यं वरदं विभुम् ॥ ४१॥ वृन्दावनेश्वरं श्रेष्ठं प्रेमानन्दविवर्षणम् । नित्यमुक्तस्वरूपं च नित्यानन्दवरपदम् ॥ ४२॥ अखिलेशममेयं च सत्यं त्रिभुवनेश्वरम् । चिदाकाशस्थितं सर्वचित्तगूढनिवासिनम् ॥ ४३॥ पद्मपत्रविशालाक्षं बर्हालङ्कृतकुन्तलम् । सुन्दरभ्रूविलासं च बिम्बाधरसुमोहनम् ॥ ४४॥ धृतवेणुं गानरम्यं नृत्तसुन्दरमानुषम् । स्वररूपं नादरूपं शब्दब्रह्मामृतं सुखम् ॥ ४५॥ नानारत्नालङ्कृताङ्गं सुन्दरालकसंवृतम् । गोपनारीचित्तचोरं कृष्णं गोपालसुन्दरम् ॥ ४६॥ पुण्यगन्धातिदिव्याङ्गं दिव्याभापरिपूरितम् । लम्बमालाविलसितं वन्दनीयममानुषम् ॥ ४७॥ परानन्दं परासेव्यं पद्मकेसरसुन्दरम् । सरोजदलनेत्राभं वन्दितं वनचारिणम् ॥ ४८॥ पुरुषं शाश्वतं सूक्ष्मं निगूढं पुरुषोत्तमम् । हृदयस्थं गुहावासं सर्वभूतनिकेतनम् ॥ ४९॥ सर्वभूतान्तरात्मानं नरं नारायणं परम् । सर्वभूताधिवासं च सर्वभूतहृदिस्थितम् ॥ ५०॥ अच्युतानन्दगोविन्दं कृष्णं गोपालविग्रहम् । दिव्यानन्दं निजानन्दं गोपीमानसमोहनम् ॥ ५१॥ यशोदानन्दनं जिष्णुं देवकीगर्भसम्भवम् । श्यामकोमलगोपालं वसुदेवप्रियात्मजम् ॥ ५२॥ गोपगोपीसदासेव्यं यमुनापुलिनेचरम् । गोपनारीजनप्रेष्ठं चञ्चलेक्षणसुन्दरम् ॥ ५३॥ दिव्यज्योतिःस्वरूपं चिदानन्दरसरूपिणम् । आत्मानन्दं परानन्दं चिदेकरसपूरितम् ॥ ५४॥ प्रेमानन्दं सुखानन्दं करुणारससागरम् । पवित्रं परमानन्दं श्यामलाभाप्रपूरितम् ॥ ५५॥ राधाप्रेमसुधासारं प्रेममाधुर्यवर्षणम् । नाट्यनर्त्तनहृद्यं च नटनाकृतिसुन्दरम् ॥ ५६॥ करवेणुरवानन्दं पादपांसुसुमङ्गलम् । सुचारुचरणं कर्णपीयूषस्वरनादनम् ॥ ५७॥ नीलप्रभापूर्णगात्रं नीलद्युति समावृतम् । नीलाम्बुदघनश्यामं प्रेमास्वादनलोलुपम् ॥ ५८॥ प्रेममानससम्पूज्यं मनोमन्दिरवासिनम् । भक्तिरूपं भक्तसेव्यं भक्तमानसपूजितम् ॥ ५९॥ गोकुलेश्वरसर्वेशं गोपराजकुमारकम् । धेनुवृन्दानुगमनं व्रजगोपालबालकम् ॥ ६०॥ जन्ममृत्युविनिर्मुक्तं नानालीलावतारकम् । यशोदानन्दपुत्राख्यं नरजन्मविनोदकम् ॥ ६१॥ मातृप्रेमपयःप्रीतं राधिकाप्रेमलोलुपम् । क्रीडन्तं नन्दगेहस्थं बालगोपालविग्रहम् ॥ ६२॥ पूतनाघातकं सर्वजीवचित्तप्रशामकम् । बालक्रीडासमासक्तं यशोदाप्रियवत्सलम् ॥ ६३॥ गोवत्सवृन्दानुचरं गोवृन्दान्वेषणोत्सुकम् । वेणुगानरसोल्लासं गोपकन्याप्रसादकम् ॥ ६४॥ वनमालालङ्कृताङ्गं रत्नकङ्कणभूषितम् । तमालसुन्दरश्यामं करवेणुसुशोभनम् ॥ ६५॥ फणीन्द्रमर्दनाक्रीडं सहस्रफणमर्दकम् । फणरत्नद्युतिव्याप्तपादपङ्कजशोभितम् ॥ ६६॥ नृत्तलीलाविशेषाभं कालियार्त्तिविनाशकम् । सुगीतकीर्त्तिसम्पूज्यं पुण्यश्रवणकीर्त्तनम् ॥ ६७॥ गोपालाख्यं दैत्यकालं शकटासुरभञ्जनम् । गोवर्धनाचलोद्धारं गोपगोवृन्दसौख्यदम् ॥ ६८॥ यशोदानन्ददातारं नितान्तसुखदायकम् । श्रीधरं श्रीमुखाम्भोजं राधामाधवसुन्दरम् ॥ ६९॥ तृणावर्त्तमतिक्रान्तं यमलार्जुनभञ्जनम् । दामोदरं दामबद्धं व्रजनारीजनप्रियम् ॥ ७०॥ निरञ्जनं नित्यशुद्धं नित्यानन्दसुखास्पदम् । नारायणमनाद्यन्तं निरपेक्षं निजाश्रितम् ॥ ७१॥ कृतनानावतारं च लीलागोपालविग्रहम् । नानायोनिसमासीनं ब्रह्मयोनिमयोनिजम् ॥ ७२॥ गोपराजं नरश्रेष्ठं नृत्तगोपालसुन्दरम् । वेणुगोपालबालं च नन्दगोकुलनायकम् ॥ ७३॥ अङ्गलावण्यसम्पूर्णं यशोदाप्रीतिभाजनम् । राधाप्रेमरसानन्दं प्रोन्मुखं ह्लादिनीप्रियम् ॥ ७४॥ चन्दनालिप्तनीलाङ्गं महोरस्कं सुमालिनम् । गोपिकाप्रेमसौभाग्यं प्रेमचोरं सुखाश्रयम् ॥ ७५॥ अपारमहिमानं च प्रोज्ज्वलं मूलकारणम् । अभीष्टवरदातारमप्रमेयमगोचरम् ॥ ७६॥ किङ्किणीजालवीताङ्गं पीतकौशेयवाससम् । नीलवर्णविशेषाभं तटिद्वर्णाम्बरप्रभम् ॥ ७७॥ कौस्तुभद्युतिसंव्याप्तं कर्णाभरणभूषितम् । नीलस्फटिकतुल्याभं पूर्णचन्द्रप्रभाननम् ॥ ७८॥ आलोलकुण्डलद्वन्द्वं अच्छस्फटिकनिर्मलम् । जगन्मोहनलावण्यं कृतपुण्यवरप्रदम् ॥ ७९॥ अतीन्द्रियमनोवाचं निखिलं चेतसाम्परम् । चराचरात्मकं व्यक्तं सर्वजीवसमाश्रयम् ॥ ८०॥ नित्यज्ञानं निरुपमं गीताधर्मप्रबोधकम् । संसारसागरोत्तारं करुणारससागरम् ॥ ८१॥ वन्यभोज्यरसानन्दं गोपबालकनायकम् । खगवृन्दसमाकर्षं मल्लिकाकुसुमप्रियम् ॥ ८२॥ नानालताकृष्टचित्तं पुष्पसौन्दर्यलालसम् । वृक्षमूलसुखासीनं शीतलछाययावृतम् ॥ ८३॥ फलमाधुर्यलोलं च सर्वकर्मफलप्रदम् । धेनुकासुरसंहारं तालपक्वफलाशनम् ॥ ८४॥ मल्लवीरविजेतारं मल्लविद्याविशारदम् । कंसमुक्तिप्रदातारं हस्तिवीरप्रपीडनम् ॥ ८५॥ सत्यधर्मपरित्राणं मर्त्त्यधर्मप्रबोधकम् । चोराग्रगण्यगोपालं पापचोरं कृपाकरम् ॥ ८६॥ अन्तर्बहिःस्थितं विश्वं स्थूलसूक्ष्मं च कारणम् । व्यक्ताव्यक्तस्वरूपं च परमात्मप्रकाशकम् ॥ ८७॥ केशवं कमलानाथं सुकेशं केशिसूदनम् । नित्यनिर्मुक्तमेकं च निस्तुलं निरतिक्रमम् ॥ ८८॥ गिरिराजधरं बालं देवेन्द्रमखभञ्जनम् । वर्षधाराप्रशमनं प्रेमधाराविवर्षणम् ॥ ८९॥ कामधेनुपयस्सिक्तं गोविन्दं गिरिगोचरम् । हृतदर्पेन्द्रसम्पूज्यं गोकुलप्रीतिवर्धनम् ॥ ९०॥ ब्रह्माण्डकोटिगर्भस्थं मृद्भक्षकमनामयम् । मुखान्तःस्थत्रिभुवनं यशोदाद्भुतदर्श्शनम् ॥ ९१॥ सनातनं नित्यसत्यममरं सुरनायकम् । निरवद्यं निष्प्रपञ्चं प्रपञ्चं निखिलेश्वरम् ॥ ९२॥ यदुश्रेष्ठं रमानाथं कृष्णं प्राणाधिकप्रियम् । राधानन्दं सदानन्दं बालगोपं यदूत्तमम् ॥ ९३॥ पार्त्थिवं पृथिवीनाथं मृदुलं पार्त्थसारथिम् । बकारिमघसंहारं ब्रह्मदेवनमस्कृतम् ॥ ९४॥ बालवेषं वत्सरूपं धेनुरूपं शिशुं प्रियम् । कृतनानारूपरम्यं ब्रह्ममोहनिवारणम् ॥ ९५॥ दैवसम्पत्तिदातारं मुचुकुन्दप्रसादकम् । असुरघ्नं शिष्टपालं सुस्मृतं शोकनाशनम् ॥ ९६॥ गजेन्द्रसंस्तुतं स्तव्यं हस्तिहस्तप्रपूजितम् । आदिमूलं सर्वमूलं निर्मूलं विश्वमूलकम् ॥ ९७॥ अक्रूरवरदं पूज्यं वैकुण्ठनिलयं श्रुतम् । जलान्तर्निलयं चारुदर्श्शनं सुखदर्श्शनम् ॥ ९८॥ प्रेमोन्मुखमनःप्रेष्ठं प्रेमपीयूषसागरम् । राधिकाप्रेमराज्यं च प्रेमानन्दविधायकम् ॥ ९९॥ कृष्णचन्द्रं यादवेन्द्रं यदुराजकुमारकम् । यमुनातीरसञ्चारं जलक्रीडारतं चरम् ॥ १००॥ गोपिकारमणं राजं रसिकं रसिकेश्वरम् । रसिकोन्मत्तं रसोल्लासं तुलसीदामशोभितम् ॥ १०१॥ (रसोन्मत्तं) कर्णानन्दं रसानन्दं सर्वेन्द्रियसुखप्रदम् । मनोवाक्कर्मजेतारं चित्तगं चित्तरञ्जनम् ॥ १०२॥ अनिमित्तं तुल्ल्यहीनं चिद्भवं भवनाशनम् । अमोघममरश्रेष्ठं कृष्णं निस्तुलविक्रमम् ॥ १०३॥ दैवसम्पद्विधातारं वराहादिस्वरूपिणम् । मत्स्यरूपं कूर्मरूपं भार्गवं भरताग्रजम् ॥ १०४॥ हलायुधं बालरामं वारुणीमदविह्वलम् । यमुनाकर्षणं वीरं सुप्रीतिरसवर्धनम् ॥ १०५॥ असुरश्रेष्ठसंहारं नृसिंहं भयहारिणम् । हरिं प्रह्लादवरदं सर्वलोकसुखावहम् ॥ १०६॥ कृष्णं कपटगोपालं कमनीयं वराननम् । सुकुमारं सुस्मिताभं सुन्दरं सुकलेवरम् ॥ १०७॥ नादान्तं बिन्दुरूपं च गुणरूपं कलात्मकम् । आदिरूपं कलारूपं चतुर्वगात्मकं स्वरम् ॥ १०८॥ वेणुगानं रम्यनादं क्लीङ्कारं वैखरीरवम् । कलापूर्णं कलातीतं ओङ्कारनिनदं कलम् ॥ १०९॥ आदिनाथं बीजरूपं गीतामृतकलामृतम् । स्वरामृतं शब्दसारं भावरूपं कृपामृतम् ॥ ११०॥ सुगुणं कालसङ्कल्पं गुणातीतं गुणोत्भवम् । सदसत्सर्वरूपं च शब्दब्रह्मादिकं भवम् ॥ १११॥ हैयङ्गवाशनासक्तं मिष्टान्नसुखलोलुपम् । सुस्वादुरसलोलं च गोपिकाप्रेमभाजनम् ॥ ११२॥ बालकेलिरसोन्मत्तं नवकेलिरसप्रियम् । अचलं निश्चलं शुद्धं चपलं चञ्चलं चलम् ॥ ११३॥ चिदाकाशं चिदादित्यं चित्प्रसन्नं चिदात्मकम् । चित्ताकाशं चित्प्रकाशं चिज्ज्योतिश्चेतनामृतम् ॥ ११४॥ गोपिकाप्रेमकामं च राधिकाहृदयेश्वरम् । नित्यकामं निकामं च कामसङ्कल्पवर्जितम् ॥ ११५॥ जीवामृतं कृपालुं च सौम्यरूपं दयापरम् । शान्तिदं शान्तशीलं च शमिनं करुणाकरम् ॥ ११६॥ वेणुसञ्जुष्टरम्याङ्गं अधरामृतशोभनम् । तुलसीदलमालाभं नूपुरद्वयभूषणम् ॥ ११७॥ परञ्ज्योतिः परन्धाम परमाणुं परात्परम् । अणीयांसं महीयांसं स्थूलसूक्ष्मादिमूलकम् ॥ ११८॥ कर्माद्ध्यक्षं कर्महीनं कर्मातीतमकर्मकम् । सकर्मकं निष्क्रियं च कर्मगं कर्ममोचकम् ॥ ११९॥ सज्जनाभीष्टदं शिष्टं धेनुकासुरमर्दनम् । व्रजबालं प्रीतिरूपं कृष्णमात्मसखं गुरुम् ॥ १२०॥ प्रलम्बवधकामं च बलरामानुजं बलम् । पूतनाप्राणहर्तारं हलायुधगदायुधम् ॥ १२१॥ मनोबुद्धीन्द्रियप्राणं प्रज्ञानं परमं फलम् । ज्ञानदं ज्ञानगम्यं च विज्ञानानन्दमण्डलम् ॥ १२२॥ श्रीकृष्णं जगदद्ध्यक्षं राधिकाप्राणवल्लभम् । सर्वेन्द्रियप्राणधर्मं सर्वगं सर्वकर्षणम् ॥ १२३॥ सुशीलं राजगोपालं शीतलं श्यामलप्रभम् । धृतवाद्यं शब्दसारं गायकं कीर्त्तिदायकम् ॥ १२४॥ गोवर्धनाद्रिसञ्चारं तृणान्वेषणतत्परम् । गोवत्साननुधावन्तं गोधनं गोपरिग्रहम् ॥ १२५॥ मर्क्कटप्लवनोद्युक्तं बालकं केलिलालसम् । तमालनीलं सुश्यामं कारुण्यद्रुतमानसम् ॥ १२६॥ अमोघदर्श्शनं प्रीतं परिपावनकीर्त्तिदम् । रसं सारं सर्वसारं रससारसुधामयम् ॥ १२७॥ मयूरसमनृत्तं च बर्हाभावृतकुन्तलम् । हंसनृत्तं हंसगतिं कोकिलारवकूजितम् ॥ १२८॥ पद्मनाभं पद्मनेत्रं पद्माभं पद्मजार्चितम् । नीलपद्मसमानाभं पादपद्मसुपूजितम् ॥ १२९॥ दिव्याङ्गं दिव्यनटनं दिव्यप्रेमप्रहर्षणम् । दिव्याभापूरिताङ्गं च दिव्यभावनिवेशनम् ॥ १३०॥ कृतकृत्यं कर्महेतुं साक्षिणं कर्मनिष्कृतिम् । सन्निकर्षं विदूरं च कूटस्थं कपटाकृतिम् ॥ १३१॥ सत्वयोनिं सङ्गहीनं साधुपूज्यं सुमानसम् । सत्वशुद्धं सत्यरूपं सत्वाकारं सदाशुभम् ॥ १३२॥ श्रीकृष्णं गोकुलप्रेष्ठं वृन्दारण्यनिवासिनम् । वन्यजीविसमाकृष्टं मर्क्कटाद्यनुकारिणम् ॥ १३३॥ कोकिलाननुकूजन्तं शब्दघोषरसप्रियम् । क्रीडोन्मत्तं चारुनृत्तमाद्यन्तं नरनायकम् ॥ १३४॥ लीलाकृतिं सुनृतं च सकलं सन्नुतं शिवम् । हेमाङ्गिनीप्रियं नाथं निर्वैरं पद्ममालिनम् ॥ १३५॥ मणिकण्ठं हंसरूपं वैकुण्ठं पक्षिवाहनम् । हंसाधिरूढं लक्ष्मीशं जयं च विजयं शुचि ॥ १३६॥ सुदर्शनं योगिपूज्यं योगेशं च युगेश्वरम् । योगेश्वरं योगगम्यं कृष्णं योगेश्वरेश्वरम् ॥ १३७॥ आदिमद्ध्यान्तसंव्याप्तं कालान्तं युगसम्भवम् । योगमार्गप्रणेतारं सुकृतं ब्रह्मचारिणम् ॥ १३८॥ कामकोटिविजेतारमानकदुन्दुभिप्रियम् । प्रेमसूत्रनिबद्धं च भवबन्धविमोचकम् ॥ १३९॥ गीताचार्यं कालरूपं विश्वरूपप्रदर्श्शकम् । ज्ञानविज्ञानरूपं च मधुरप्रेमभाषणम् ॥ १४०॥ ऋतुराजं वसन्ताभं शरद्वन्द्यं प्रवर्षणम् । ग्रीष्मवेगं च हेमन्तं शिशिरं शिशुसन्निभम् ॥ १४१॥ मयूरकुक्कुटसखं मेघगर्जनघोषणम् । मेघनादं मेघनिभं मयूरप्रियकारिणम् ॥ १४२॥ कालिन्दीसलिलोन्मज्जं केयूराद्यैरलङ्कृतम् । हस्तताडनसुक्रीडं गोपकन्याप्रपूजितम् ॥ १४३॥ कात्त्यायनीनुतं कीर्त्तिं कात्त्यायन्यर्चितं श्रियम् । इष्टदेवं पूजनीयं प्रार्त्थितं च पतिं प्रभुम् ॥ १४४॥ कन्यार्चितं कामवरमकामं कामनाशनम् । सम्मोहनं वरिष्टं च कामिनीकामदं जितम् ॥ १४५॥ जितमोहं कामरूपं मोहिनीवेषधारिणम् । जितदैत्यं देवदूतं देवकार्यसुरक्षकम् ॥ १४६॥ प्रेमामृतं चिदमृतं ज्ञानामृतविवर्षणम् । निर्मोहं निस्पृहं युक्तं निरासक्तं निजाशयम् ॥ १४७॥ भूतं भूतादिकं भव्यं निर्दोषं दोषवर्जितम् । निरीहं नन्दपुत्रं च यशोदानन्दवर्धनम् ॥ १४८॥ भवोन्मुखं भवातीतं भविष्यन्तं भवाश्रितम् । भवमोहविनिर्मुक्तं निर्भवं भवरूपिणम् ॥ १४९॥ तैजसं ज्योतिरादित्यं प्रकाशं तेजसाम्पतिम् । ज्योतिर्मुखं च चिज्ज्योतिर्भास्करं रविमण्डलम् ॥ १५०॥ चन्द्रप्रभं मेघनीलमनन्तकिरणोद्भवम् । दिव्याकाशं नीलजालमानीलं नीलवर्षणम् ॥ १५१॥ नीलार्णवं नीलनीलं सुनीलं नीलसुन्दरम् । नीलं च नीलसर्वाङ्गं नीलारम्भं सुनीलकम् ॥ १५२॥ कामारिं कामवेगं च सर्वकामवरं स्मरम् । कंसारिं कालकालं च कंससौभाग्यपूरकम् ॥ १५३॥ द्वारकाधिपतिं श्रीशं रुक्मिणीसहितं श्रियम् । जगदीशं पार्त्थसखं सत्यभामारतं पतिम् ॥ १५४॥ सर्वलोककुटुम्बस्थं प्रेमसाम्राज्यनायकम् । षोडशस्त्रीसहस्रेशं मानिनीमानसप्रियम् ॥ १५५॥ पयोधिवासिनं कृष्णं पयञ्चोरं पयोनिधिम् । राधाप्रेमपयःप्रीतं प्रेमपायसलोलुपम् ॥ १५६॥ प्रणवं प्रणवावन्तःस्थं नादबिन्दुकलादिकम् । नादान्तःस्थं नादसूक्ष्मं बिन्दुं नादसुमङ्गलम् ॥ १५७॥ ओङ्कारं स्वरसम्पुष्टं क्लीन्नादं स्वरसंयुतम् । स्वररागसुधासेव्यं वैखरीरवकूजनम् ॥ १५८॥ भावयुक्तं भाववेगं भावपूर्णं भवच्छिदम् । भावोज्ज्वलं भावरूपं भववेगविमोचकम् ॥ १५९॥ भवोत्तारं भगवतं भवमोक्षं भवेतरम् । भवोपेतं भवान्तःस्थं भजनीयं पराङ्मुखम् ॥ १६०॥ अनिष्टमिष्टं सम्पुष्टं सुस्वरं कलकूजनम् । रासक्रीडासमासक्तं गोपिकाप्रेष्ठनायकम् ॥ १६१॥ प्रज्ञानं सुप्रधानं च प्रकटं पुरुषेश्वरम् । विरजस्कं सत्वपूर्णं मनोनिलयमद्भुतम् ॥ १६२॥ वाचामगोचरं व्यक्तनजनिं जन्मनाशनम् । मर्त्त्यं मृत्युविहीनं च नृरूपं यादवोत्भवम् ॥ १६३॥ अरण्यवासं योगेन्द्रमभिवन्द्यं सुदर्शनम् । आत्माभिधं श्रुतिस्तुत्यं कूटस्थं कूटपूरुषम् ॥ १६४॥ दिग्विलासं दैविकं च देवकार्यवरप्रदम् । उपेन्द्रं हृदयान्तःस्थं वामनं दानवार्चितम् ॥ १६५॥ बलिदर्पहरं ह्रस्वं यज्ञवाटसमागतम् । त्रिपदं भुवनव्याप्तं विप्रं कपटभाषिणम् ॥ १६६॥ त्रिपदाक्रान्तभुवनं विक्रमं च त्रिविक्रमम् । अहम्ममादिहन्तारं वटुवामनरूपिणम् ॥ १६७॥ ब्रह्म ब्रह्ममयं विष्णुं ब्रह्माख्यं जगदीश्वरम् । शिवं शिवकरं शुद्धं मार्क्काण्डेयवरप्रदम् ॥ १६८॥ मायातीतं मायिनं च मायाश्रितममायकम् । नित्यमुक्तस्वभावं च मायागुणविवर्जितम् ॥ १६९॥ मायागुणं निमायं च मायेशं त्रिगुणात्मकम् । त्रिमूर्त्तिं त्रिगुणोद्भूतं मायासङ्गविमोचकम् ॥ १७०॥ आनन्दं च प्रमोदं च मङ्गलं सर्वमङ्गलम् । सूक्ष्मादिसूक्ष्मं प्रकटं सूक्ष्मतत्त्वं च सूक्ष्मगम् ॥ १७१॥ श्रीकृष्णचन्द्रं श्रीनाथं राधाप्रेमाधिकप्रियम् । श्रीवत्साङ्कं श्रीनिकेतं व्रजनारीविमोहनम् ॥ १७२॥ श्यामलं कोमलं वन्दे, यदुनाथं यदूत्तमम् । सुन्दरं वेणुगोपालं चिन्मयं सुमनोहरम् ॥ १७३॥ हृदयस्थं सदा वन्दे, वन्दे प्रेमपयोनिधिम् । कृष्णं वन्दे प्रियात्मानं, वन्दे राधेशसुन्दरम् ॥ १७४॥ इति स्वामि ईश्वरानन्दसरस्वती विरचितं श्री श्रीकृष्णसहस्रनामस्तोत्रं सम्पूर्णम् ॥ मङ्गलं वेणुगोपाल! मङ्गलं पुरुषोत्तम । मङ्गलं चारुसर्वाङ्ग! मङ्गलं हृदयेश्वर ॥ Proofread by Mohan Chettoor
% Text title            : Shrikrishna Sahasranama Stotram
% File name             : shrIkRRiShNasahasranAmastotram.itx
% itxtitle              : shrIkRiShNasahasranAmastotram (svAmIIshvarAnandasarasvatI virachitam, rAdhikeshaM jagannAthaM mohanaM vanamAlinam)
% engtitle              : shrIkRRiShNasahasranAmastotram
% Category              : vishhnu, sahasranAma, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : See corresponding nAmAvaliH
% Indexextra            : (nAmAvaliH, Scan)
% Latest update         : January 2, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org