श्रीकृष्णस्तुतिः
दुर्वारदेवारिनिकायकालं
संसारसिन्धोरपरं च कूलम् ।
कृष्णाप्रदत्ताक्षयसन्दुकूलं
भवार्णवस्योत्तरणानुकूलम् ॥ १॥
तमालनीलं धृतहेममालं
विश्वस्य मूलं विविधोरुलीलम् ।
भैष्मीविलोलं भुवनैकपालं
भक्तालवालं प्रणमामि बालम् ॥ २॥
उलूखलं दामवरेण बद्ध्वा
कर्षन् भवान् भूमिरुहौ न्यपातयत् ।
निबध्य पाशे च कलिं खलं हरे
विभिन्ध्यविद्याद्वयमद्य सद्यः ॥ ३॥
अपारे क्षीरोदे पृथुमथनसंसाधितसुधां
हरिर्नैवागृह्णात् सुरसुमथितां किन्तु सुगवाम् ।
पयः पायम्पायं रुचिरनवनीतं च समदन्
प्रपेदे नो तृप्तिं बत भगवतः पश्यत कृपाम् ॥ ४॥
नमामि कृष्णं प्रविलुप्ततृष्णं
स्मरामि बालं मनसा सदाऽलम् ।
भजामि देवं दुरितौघदावं
दयाभिरामं दयितं निकामम् ॥ ५॥
पञ्चमे स्वीयपर्यायकृष्णसेवामहोत्सवे ।
विश्वेशतीर्थयतिना रचितं पद्यपञ्चकम् ॥ ६॥
इति स्वामीविश्वेशतीर्थयतिना रचिता श्रीकृष्णस्तुतिः समाप्ता ।