॥ श्रीकृष्णविलासकाव्यम् सुकुमारकविविरचितम् ॥

॥ श्रीः ॥ प्रथमः सर्गः अस्ति श्रियः सद्म सुमेरुनामा समस्तकल्याणनिधिर्गिरीन्द्रः । तिष्ठन्निदं विश्वमनुप्रविश्य स्वेनात्मना विष्णुरिवोर्जितेन ॥ १-०१॥ मिथस्तिरोभावविलोकनाभ्यां सङ्क्रीडमानाविव बालकौ द्वौ । पार्श्वेषु यस्याशु परिभ्रमन्तौ चन्द्रांशुमन्तौ नयतो दिनानि ॥ १-०२॥ उच्चैश्शिखः काञ्चनगौरवर्णस्तमो निगृह्णन्महसा निजेन । दीपस्त्रयाणामिव विष्टपानां यो भाति पर्यन्तचरत्पतङ्गः ॥ १-०३॥ यस्या पतित्वे विहिताभिलाषः करोति तीव्राणि तपांसि लोकः । बिभर्ति रत्नाकरमेखलां तामङ्केन पुत्रीमिव यो धरित्रीम् ॥ १-०४॥ महान्ति दानानि मखानुदग्रान् पराञ्चि पानाशनयोस्तपांसि । शरीरिणः शान्तमलैर्मनोभिः कुर्वन्ति यच्छृङ्गनिवासकामाः ॥ १-०५॥ सुरा युगान्तेषु सह प्रियाभिर्न्निषेदिवांसो यदधित्यकासु । उदन्वतामैक्यमुपागतानां पश्यन्ति कल्लोलशतप्रचारान् ॥ १-०६॥ पुष्पाणि शय्यास्सुरपादपानां क्रीडागृहाः काञ्चनगह्वराणि । भवन्ति च स्वर्गविलासिनीनां रत्नाङ्कुरा यत्र रतिप्रदीपाः ॥ १-०७॥ स्वर्गौकसस्स्वर्णमहीषु पीताः श्वेतत्विषो रूप्यमयीषु भूषु । नीलाश्च नीलोपलमेदिनीषु ज्ञातुं मिथो यत्र न शक्नुवन्ति ॥ १-०८॥ दरीगृहोत्सङ्गगतेरनूरोः कशाभिघातध्वनिभिः सकम्पाः । सद्यः प्रियानुज्झितमानदोषाः सुराङ्गना यत्र परिष्वजन्ते ॥ १-०९॥ नेतुं त्रपानम्रमुखीरनीशाः स्फुटानि यत्स्वर्णगुहान्तराणि । सिद्धाः प्रयत्नेन विना नवोढाः नयन्ति नीलोपलगह्वराणि ॥ १-१०॥ यत्रोद्यतानां कुसुमापचाये कान्तासु कल्पद्रुमवाटिकासु । विभान्ति सुत्रामविलासिनीनां पदानि लाक्षारसपाटलानि ॥ १-११॥ पयोदमार्गव्यतिलङ्घिनीषु हंसाः शिरःपुष्करिणीषु यस्य । वर्षागमेऽप्यश्रुतमेघनादाः न कुर्वते मानसदीर्घयात्राम् ॥ १-१२॥ छन्नेषु यस्मिन् कनकोज्ज्वलाभिरामूलचूडं नवमञ्जरीभिः । गन्धेन विज्ञाय पतन्ति भृङ्गाः शृङ्गान्तरारग्वधपादपेषु ॥ १-१३॥ मन्दाकिनी यच्छिखरे वहन्ती कुल्यापथाभ्यन्तरसम्प्रविष्टा । बालेव तद्रक्षणसम्प्रवृत्ता दिने दिने सिञ्चति पुष्पवाटीम् ॥ १-१४॥ श्रियाभिरामश्शरणं सुराणामलङ्घनीयो महता महिम्ना । विराजमानो वनमालया च यः शार्ङ्गधन्वानमनुप्रयाति ॥ १-१५॥ पुरा पुराणां त्रितयं दिधक्षोरुमापतेः कार्मुकतां प्रपन्नः । मध्येन वज्राङ्कुशमत्स्यचिह्नं योऽद्यापि तन्मुष्टिपदं दधाति ॥ १-१६॥ शृङ्गाग्रभाजां सुरसुन्दरीणां मुखानि पश्यन्नमलानि चन्द्रः । निगूहितुं नूनमुरःकलङ्कं ह्रियेव यत्सानुपथेन याति ॥ १-१७॥ मनोभिरामे शिखरे तदीये सहोपविष्टं सुरसिद्धसङ्घैः । अवोचदागत्य कृतप्रणामा कदाचिदुर्वी कमलाधिवासम् ॥ १-१८॥ पुमानिवाहं भवतः पुरस्ताद्ब्रवीमि किञ्चित् प्रतिपद्य धैर्यम् । पीडा मदीया परमत्र हेतुर्निर्ल्लज्जता नन्वखिलोपहास्या ॥ १-१९॥ सृष्टास्त्वया दत्तवराश्च दैत्याः भारेण मां सम्प्रति पीडयन्ति । बले प्रमाणे च भवन्ति येषां नैवोपमानं कुलभूभृतोऽपि ॥ १-२०॥ स्वविक्रमोन्मूलितराजकानां जयैषिणामद्य परस्परेण । तेषां रणक्षोणिषु सिंहनादैर्निर्घातघोरैर्गिरयः स्फुटन्ति ॥ १-२१॥ मुहुर्बलादुन्नमयत्यहीन्द्रे मद्भारभुग्नं फणचक्रवालम्। मम प्रकम्पाश्चलिताब्धिशैलाः दिग्दन्तिनो हन्त कदर्थयन्ति ॥ १-२२॥ आशामुखेषु भ्रमतामजस्रं तेषां चमूभिः परिसर्पिणीभिः । तिरोहितां भानुमतो मयूखाः न क्वापि मां सम्प्रति संस्पृशन्ति ॥ १-२३॥ सन्नास्मि दैतेयभरेण साहं फणीश्वरस्सीदति मद्भरेण । तद्भारशीर्यन्निजकर्परस्य धिक् तामवस्थां कमठेश्वरस्य ॥ १-२४॥ भारावसीदद्फणमण्डलस्य फणीश्वरस्योपरि दुःस्थिताऽहम् । आसन्नपातास्मि तटीव नद्याः प्रवाहवेगेन विलुप्तमूला ॥ १-२५॥ निवेदिता देव मया दशेयमनुक्तिदोषो मयि नोपपाद्यः । निवेद्यते रक्ष्यजनेन दुःखं ततः परस्तात् प्रभवः प्रमाणम् ॥ १-२६॥ इत्युक्तवत्यामुचितं पृथिव्यां चिन्ताबलेन स्तिमितो मुहूर्तम् । मुखानि पश्यन्नमृताशनानां देवः प्रजानां पतिरित्युवाच ॥ १-२७॥ नासत्यमेतद्यदवोचदुर्वी स्वकर्मणः साधु फलं मयाऽऽप्तम् । मद्वर्द्धिता मामवमत्य दैत्याः बलादुपघ्नन्ति जगन्ति यत्ते ॥ १-२८॥ अतीतकार्यानुशयेन किं स्यादशेषविद्वज्जनगर्हितेन । सुराः समुन्मूलनमाशु तेषां कर्तुं यतध्वं जगतां हिताय ॥ १-२९॥ सद्यस्समुत्तिष्ठत चिन्तयालं चिन्ता हि कार्यप्रतिबन्धहेतुः । यामः पृथिव्या सह यत्र तत्र नारायणो दानवकालरात्रिः ॥ १-३०॥ अस्त्वेवमित्यादरपूर्वमेव स स्वीकृतोक्तिस्सुरसिद्धसङ्घैः । सरोजजन्मा सह तैः प्रतस्थे विहायसा विश्वपतेस्सकाशम् ॥ १-३१॥ एलापरिष्वङ्गलसत्तमालं वेलाधिरूढस्खलदूर्मिमालम् । ददर्श धाता मनसोऽनुकूलं पयःपयोधेरचिरेण कूलम् ॥ १-३२॥ ददर्श च क्षीरमयं समुद्रं कैलासशृङ्गोन्नतफेनकूटम् । पुण्यं पयःकेलिसमुत्सुकानां श्रियः सखीनामवगाहनेन ॥ १-३३॥ आनन्दयामास दिवौकसस्तानाघ्रातशेषो मुनिमण्डलेन । प्रकामपुण्यः पवनोपनीतो वैकुण्ठवक्षस्तुलसीसुगन्धः ॥ १-३४॥ गन्धानुसारेण विसृष्टनेत्रैर्हिरण्यगर्भप्रमुखैरमर्तैः । नवार्ककल्पं ददृशे मुरारेर्वक्षस्थलीकौस्तुभरत्नधाम ॥ १-३५॥ अपह्नुताशेषमनोविकारं दिविस्पृशा तूर्यरवेण मिश्रम् । आकर्ण्य वैकुण्ठविलासिनीनां गीतध्वनिं हर्षमयासिषुस्ते ॥ १-३६॥ आसक्तिमालक्ष्य विनीतवेषा स्वमौलिविन्यस्तकरास्सुरास्ते । आलोकयामासुरशेषनाथं सविग्रहं पुण्यमिव प्रजानाम् ॥ १-३७॥ प्रवृद्धहेमाभरणप्रकाशं तमालनीलं जलधौ शयानम् । तटिल्लताढ्यं पयसोऽतिपानादनीशमुद्गन्तुमिवाम्बुवाहम् ॥ १-३८॥ तरङ्गवातेन पयःपयोधेरापूर्यमाणं करपाञ्चजन्यम् । वामेन तिर्यग्वलता सलीलं सम्भावयन्तं मुहुरीक्षणेन ॥ १-३९॥ प्रतिक्षणं प्रेमविशेषजाभिस्सम्भावनाभिः कमलासनायाः । पुराऽऽत्मना कल्पितमम्बुराशेः प्रमार्जयन्तं मथनावमानम् ॥ १-४०॥ पर्यायतः पाणिधृतं सरोजं विन्यस्य विन्यस्य दृशोः पदव्याम्। निद्रां प्रबोधं च मुहुर्न्नयन्तीं पद्मासनां सस्मितमीक्षमाणाम् ॥ १-४१॥ स्वच्छस्वदेहप्रतिबिम्बितेन फणाश्मजालेन फणीश्वरस्य । भास्वत् फलस्तोमनिरन्तरस्य वहन्तमाभां वटपादपस्य ॥ १-४२॥ अजस्रमासीनरथाङ्गशङ्खमतिप्रसन्नं कमलाधिवासम् । सन्तापविच्छेदकरं प्रजानां ह्रदं महीयांसमिवाभिगम्यम् ॥ १-४३॥ वक्तुं मिथो राहुविचेष्टितानि कर्णद्वयाभ्यर्णमुपेयिवांसौ । अलब्धकालाविव भानुचन्द्रौ रथाङ्गशङ्खौ दधतं कराभ्याम् ॥ १-४४॥ द्वारस्थसेनापतिचोदितेन निवारिताः कञ्चुकिमण्डलेन । सुराः प्रमोदस्खलितैर्वचोभिः स्थित्वैव ते व्योमनि तुष्टुवुस्तम् ॥ १-४५॥ नमः परस्मै पुरुषाय तुभ्यं गिरां धियामप्यपथि स्थिताय । अस्मान् पुनस्त्रातुमुदग्रमोहान् कृपाबलात् कल्पितविग्रहाय ॥ १-४६॥ भागीरथी पादकुशेशयात्ते विनिर्गता विश्वमिदं पुनीते । कस्त्वां पुनर्भावयतो जनस्य शुद्धिं परिच्छेत्तुमलं मनीषी ॥ १-४७॥ अनन्तशक्तेरपविक्रियस्य तिस्रस्त्रिलोकीश्वर शक्तयस्ते । वितन्वते स्थावरजङ्गमानामुत्पादनक्षेमविलोपनानि ॥ १-४८॥ कटाक्षमात्रेण भवाम्बुराशेः पारं परं प्रापयितुस्त्रिलोकीम् । सकृन्नमस्या परमातरस्ते यत्नानुरूपं हि फलं क्रियाणाम् ॥ १-४९॥ त्वं ज्योतिरापस्त्वमसि त्वमुर्वी त्वं व्योम वैश्वानरसारथिस्त्वम् । त्वं जीववर्गः परमस्त्वमात्मा यन्नासि किं नाम जगत्पते तत् ॥ १-५०॥ नवाभ्रवर्णं नलिनायताक्षं पीताम्बरं हारकिरीटिनं त्वाम् । वयं तु सेवेमहि वीक्षमाणाः सायूज्यमन्विछति कः सुखार्थी ॥ १-५१॥ अलं न निर्देष्टुमियत्तया त्वामशेषनाथ श्रुतिरग्रिमापि । स एव साक्षात्क्रियते पुनस्त्वमहो जितं नः सुकृतैरनल्पैः ॥ १-५२॥ तृणाय मत्वा निखिलानि शार्ङ्गिन् पदानि वैधेयमनोहराणि । आवृत्तिशून्यं परमं पदं ते वाञ्छन्ति वैराग्यधना महान्तः ॥ १-५३॥ इति स्तुतो देवगणेन देवो दयानिधिर्दानवकालरात्रिः । न्यषीददुत्थाय भरावभुग्ने भुजङ्गतल्पे भुवनैकनाथः ॥ १-५४॥ विष्वक् स वैकुण्ठविलासिनीनां सलीलमान्दोलितचामराणाम् । निवारयन्नग्रकरारविन्दैः कोलाहलं काञ्चनकङ्कणोत्थम् ॥ १-५५॥ प्रसादवत्या कमलासनादीन् सुरानशेषाननुगृह्य दृष्ट्या । उवाच वाचं दशनांशुपूरैः समेधयन् दुग्धमयं पयोधिम् ॥ १-५६॥ अधिज्यकोदण्डधरो निषङ्गी सन्नाहवान् पाणिधृतैकबाणः । अयं समाजो भवतां द्विषद्भ्यो भयं समावेदयति स्फुटं मे ॥ १-५७॥ अलं विलम्बेन दिवौकसस्तन्निवेद्यतामद्य कुतो भयं वः । अयं करो दुष्टवधोत्सुकं मे सुदर्शनं न क्षमते निरोद्धुम् ॥ १-५८॥ इत्यूचिवांसं परमं पुमांसं नत्वा शिरोभिर्बहुशः सुरास्ते । आरूढहर्षातिशयाः स्वमर्थमारेभिरे वक्तुमशेषमेव ॥ १-५९॥ निवार्य सर्वानपि वक्तुकामान् सेनापतिस्तानमरान् करेण । सविभ्रमप्रेरितया पुरस्थं दृष्ट्या सरोजासनमाजुहाव ॥ १-६०॥ अथागतस्तेन करे गृहीत्वा नीतः प्रभोरन्तिकमब्जयोनिः । वक्तुं नियुक्तः स कृतप्रणामो विज्ञापयामास विनीतवेषः ॥ १-६१॥ वयं त्वया दत्तविभूतयोऽपि मोहातिरेकादभिमन्यमानाः । कृच्छ्रे पुनस्त्वां शरणं व्रजन्तः हा निस्त्रपाणां प्रथमे भवामः ॥ १-६२॥ अपारदुःखार्णवपोतपात्रीं त्वया कृपामुद्वहतातिगुर्वीम् । कृतघ्नताजन्मभुवाममीषामस्माकमर्थे न किमन्वभावि ॥ १-६३॥ मनस्विलोकस्य विगर्हणीये प्रतिग्रहे वर्जयता जुगुप्साम् । पुरा पुरस्ताद्बलिदानवस्य प्रसारितो नाग्रकरस्त्वया किम् ॥ १-६४॥ दैत्याधिराजेन हिरण्यनाम्ना पर्याकुलं त्रातुमशेषलोकम् । इदं तु दिव्यं परिहृत्य रूपं न त्वं किमासीर्नरतिर्यगात्मा ॥ १-६५॥ स्वविक्रमाक्रान्तसुरासुरस्य रक्षःपतेर्निग्रहणादरेण । भूत्वा सुतः पङ्क्तिरथस्य राज्ञस्तां तामवस्थां न किमन्वभूस्त्वम् ॥ १-६६॥ अनेकधा पालयितारमेवं सम्प्रत्यपि त्वां शरणं प्रपन्नाः । सन्तापहारी ननु चातकानां भूयोऽपि भूयोऽपि पयोद एव ॥ १-६७॥ विश्वं विदन्नप्यविदन्निव त्वं नाथानुयुङ्क्षे भयहेतुमस्मान् । अनुग्रहस्यैतदपि प्रभूणां प्रायः प्रकारान्तरमाश्रितेषु ॥ १-६८॥ तपोभिरुग्रैर्भगवन् सुराणामवध्यभावं दनुजाः प्रपन्नाः । पातालमुर्वीं च विजित्य दर्पादुपक्रमं ते दिवमद्य जेतुम् ॥ १-६९॥ न जातु शून्यः कुलिशेन पाणिर्वक्षो न मुक्तं मणिकङ्कटेन । शक्रस्य दैत्यागतिशङ्किनोऽस्य नासज्जितस्तिष्ठति वारणेन्द्रः ॥ १-७०॥ दण्डं यमात्पाशमपामधीशाद्गदां कुबेरात्कुलिशं मघोनः । आदातुकामः प्रहिणोति दूतान् कंसः स्वदोर्विक्रमनिर्जिताशः ॥ १-७१॥ रणे विनिर्जित्य बलं सुराणां पराक्रमेणाप्रतिमेन वीरः । भोजेश्वरः क्रीडति सावरोधो मूलेषु सम्प्रत्यमरद्रुमाणाम् ॥ १-७२॥ धनुर्धराध्यासितवप्रशीर्षाः द्वाःपालनव्यग्रसमग्रयोधाः । प्रवीरनिर्भर्त्सितकान्दिशीका स्थातुं न जानाति पुरी सुराणाम् ॥ १-७३॥ हाहेति विक्रोशदनाथमेतद्विश्वं जगत्पीडयतः प्रकामम् । त्वया विनाऽन्यस्त्रिषु विष्टपेषु न कर्तुमीष्टे नरकस्य भङ्गम् ॥ १-७४॥ प्रलम्बकेशिप्रमुखास्तथान्ये परस्सहस्रं परियन्ति दैत्याः । निर्घातकल्पैर्निजसिंहनादैर्विदारयन्तो वियदाहवेषु ॥ १-७५॥ षट् सूनवस्सन्ति हिरण्यनाम्नो दैत्यस्य पातालतलाधिवासैः । तैर्न्नः क्रियन्ते दुरितानि यानि वक्तुं न शक्यानि मुकुन्द तानि ॥ १-७६॥ तेषां महीध्रप्रतिमाकृतीनां भारं मही सोढुमसावशक्ता । अस्मान् पुरस्कृत्य भवत्सकाशं प्राप्ता निजक्लेशनिवेदनाय ॥ १-७७॥ तदेतदावेदनमस्मदीयं श्रुत्वा प्रमाणं प्रभुरित्युदीर्य । विधिर्व्यरंसीद्विहितप्रणामः स चापि गम्भीरमुवाच देवः ॥ १-७८॥ अलं विषादेन दिवौकसो वः समीहितं हस्तगतं मनुध्वम् । व्रतं हि मे केवलमेतदेव संरक्षणं यच्छरणागतानाम् ॥ १-७९॥ मामर्थयन्ते वसुदेवपत्न्यौ पत्नी च नन्दस्य सुतं गुणाढ्यम् । अंशद्वयेन व्रतकर्शिताङ्गीस्तिस्रोऽपि ताः पुत्रवतीर्विधास्ये ॥ १-८०॥ इयं च लोकत्रितयस्य माता मायाभिधाना मम शक्तिरग्र्या । कार्याणि वः कान्यपि कर्तुकामा जनिष्यते जन्मविनाशशून्या ॥ १-८१॥ तद्गच्छत स्वर्गमपेतखेदाः न कालहानिः परिशङ्कनीया । अनेन शार्ङ्गेण शपे शरैर्वः सद्यो मनःशल्यमपाकरिष्ये ॥ १-८२॥ इति तममरलोकं सान्त्वयित्वा स देवः सपदि नवघनाभः पद्मनाभस्तिरोऽभूत् । स च विहितनमस्यस्तस्य वाचं प्रशंसन् निजपदमभिपेदे हर्षपर्याकुलात्मा ॥ १-८३॥ इति सुकुमारकृतौ कृष्णविलासकाव्ये प्रथमस्सर्गः ॥ १ ॥
द्वितीयः सर्गः अथैकदा पुत्रफलानि सम्यग्व्रतानि बाह्योपवने चरन्तीम् । रथेन कंसो वसुदेवयुक्तः स्वसारमालोकयितुं जगाम ॥ २-०१॥ स्फुरत्प्रभापल्लविताङ्गयष्टीं कथञ्चिदूढस्तनमञ्जरीकाम् । तत्रालकैः षट्/पदिनीमजानात् स तां लतामध्यगतां चिरेण ॥ २-०२॥ सा सन्नताङ्गी नियमावसाने ज्येष्ठाय तस्मै विदधे नमस्याम् । स चाशिषा तामनुगृह्य साध्वीं भोजेश्वरो वाक्यमिदं बभाषे ॥ २-०३॥ अद्यापि बालासि सुताननेकान् प्रसोष्यसे किं व्रतयातनाभिः । पश्याधुना पल्लवसूतिकाले किं कल्पते चूतलता फलाय ॥ २-०४॥ कृशासि कामं विरम प्रयासान्मनोभिरामानुपभुङ्क्ष्व भोगान् । अङ्गानि ते सन्नतगात्रि दुःखं मृणालकल्पानि कथं सहेरन् ॥ २-०५॥ तामेवमुक्त्वा स तु साभ्यनुज्ञां रथं समारोप्य सहैव पत्या । प्रयातुकामः पुरमन्तरिक्षे शुश्राव वाचं शतधारकल्पाम् ॥ २-०६॥ त्वदन्तिकस्था सहजाशमीयं प्रसोष्यते पुत्रमयं कृशानुम् । मरुत्समिद्धस्स तु दुर्निवारस्त्वां भस्मसात् कंस करिष्यतीति ॥ २-०७॥ निशम्य तद्भूतवचो निकामं कंसस्स रोषागमदुर्निरीक्ष्यः । कृपां परित्यज्य कृपाणपाणिः स्वसुर्वधाय स्वयमुद्यतोऽभूत् ॥ २-०८॥ नृशंसकृत्ये नितरां प्रवृत्तमुदग्रकोपस्फुरिताधरोष्ठम् । प्रसादयन्नानकदुन्दुभिस्तमुवाच धीमानुपपत्तियुक्तम् ॥ २-०९॥ अलं तवानेन वधोद्यमेन त्वया विधेयो नृपते विमर्शः । किमेष नाश्रावि विचारशून्यं व्रजन्त्यनर्था इति साधुवादः ॥ २-१०॥ भयेन युद्धेषु पुरन्दरादीन् सुरान् पराचस्त्रपया विमुञ्चन् । महीश्वर स्त्रीवधपातकेऽस्मिन् कथं तवोपक्रमते कृपाणः ॥ २-११॥ अनेन किं वा तव जीवितेन यद्रक्षणं स्यात् सहजावधेन । गुणेन केनापि हि लब्धनाम्नामपि स्वनाशादयशो गरीयः ॥ २-१२॥ प्रपद्यमानस्य सदाभिवृद्धिं दिवानिशं प्रीणयतश्च लोकान् । भवद्यशश्चन्द्रमसोऽस्य माभून्नवः कलङ्को भगिनीवधेन ॥ २-१३॥ स्वसुर्वधेनास्य भवेदकीर्तिस्तेन त्यजेयुस्सुहृदोऽपि भीताः । इत्येव नूनं भुजनिर्जितैस्तैस्सुरैः प्रयुक्तस्सुमहानुपायः ॥ २-१४॥ कालेन तद्द्रक्ष्यसि यन्मदुक्तं मा भूत्तवास्मिन् विषयेऽपि शङ्का । तथापि चेतस्तव शङ्कते चेदाकर्ण्यतां तर्ह्यपरः प्रकारः ॥ २-१५॥ सर्वाण्यपत्यानि वशे तवाहं जातानि जातानि समर्पयिष्ये । तन्निग्रहं वा तदनुग्रहं वा विचिन्त्य कर्तासि दशानुरूपम् ॥ २-१६॥ किं बुद्धिमान्द्येन निजेन तस्य किं भागधेयेन वराङ्गनायाः । बलेन किं वा भवितव्यतायास्तथेति जग्राह वचस्तदीयम् ॥ २-१७॥ वधप्रवृत्तो वसुदेवमन्त्रप्रभावसंस्तम्भितघोरकर्मा । निवृत्य निस्त्रिंशमहाभुजङ्गो महीभृतः कोशबिलं विवेश ॥ २-१८॥ सत्या नु सा स्यादशरीरिणी वाक् सत्यं किमेतद्वसुदेववाक्यम् । वितर्कयन्नेवमुदस्तकेतुं पुरीं प्रपेदे मणितोरणाढ्याम् ॥ २-१९॥ आलोकनैर्मौलिषु भूपतीनामासज्जयन्नञ्जलिबन्धनानि । स वैमनस्येन मुखस्थितेन भयावहः स्वं भवनं जगाम ॥ २-२०॥ विशङ्कमानः स गृहोपकण्ठे तौ सद्मनि क्वापि विधाय गुप्तौ । पराक्रमाक्रान्तसमस्तलोकः पुरेव भोगानयमन्वभुङ्क्त ॥ २-२१॥ माया हरेस्साऽथ हिरण्यपुत्रान् यान् देवकीगर्भगतानकार्षीत् । भोजेश्वरस्सत्वरमेत्य भीत्या तान् जातमात्रानवधीत् क्रमेण ॥ २-२२॥ जगद्विभूत्यै परमस्य पुंसः यो देवकीगर्भमविक्षदंशः । आकृष्य तस्मान्मुरवैरिमाया तं रोहिणीगर्भगतं चकार ॥ २-२३॥ चकास सप्तच्छदपाण्डुरेण सुतेन सा गर्भतिरोहितेन । वलाहकान्तर्हितशीतभानोर्दिशो दशां वृत्रजितः प्रपन्ना ॥ २-२४॥ ततस्समाह्लादनमीक्षणानामसूत पुत्रं शरदिन्दुकल्पम् । प्रकर्षमापन्नुदयेन यस्य सद्यः समुद्रा इव सत्ववन्तः ॥ २-२५॥ पत्युस्समादिष्टमिदं विधाय शेषं चिकीर्षुस्सुरकार्यमार्या । चराचराणां जगतां सवित्री सा श्रद्दधे जन्मभुवं यशोदाम् ॥ २-२६॥ अथ प्रजानामभिवृद्धिकामो देवो दयायाः किल जन्मभूमिः । स्वजन्मने जन्मविनाशहेतुः प्राप्यस्सतां प्राप स देवकीं ताम् ॥ २-२७॥ कृशावलग्ना कुचयोर्गरिम्णा सा देवकी सन्नतगात्रयष्टिः । जगत्त्रयीपुण्यकृतावलम्बा बभार गर्भेण जगन्निवासम् ॥ २-२८॥ अन्तर्दधाना सरसीरुहाक्षं स्वेनावतारेण भुवं पुनाना । सा देवकी सा च कवेरकन्या मिथोऽदधातामुपमानभावम् ॥ २-२९॥ अलं निवासाय न यस्य विश्वं वसन् स गर्भे मुमुदे मुकुन्दः । परोपकारप्रभवं हि दुःखं पुंसस्सुखायैव महत्तरस्य ॥ २-३०॥ बहिःस्फुरन्त्या करपाञ्चजन्यत्विषेव विष्णोरुदरस्थितस्य । अधत्त तस्यास्तपनीयवर्णा मधूकपुष्पच्छविमङ्गयष्टिः ॥ २-३१॥ बभार हारं कुचयोर्न तन्वी न पादयोर्नूपुरमामुमोच । दधौ मणिं भारभिया न मौलौ तदेव कैवल्यमभूषयत्ताम् ॥ २-३२॥ दृशः प्रयत्नेन दधौ तिरश्चीरुवाच मन्दं निभृतं जहास । शनैर्ययौ दत्तकरा सखीभिर्भृशं निशश्वास च तावदेव ॥ २-३३॥ सहैव हर्षेण सुधाशनानां सहैव पुण्येन वसुन्धरायाः । भयेन भोजाधिपतेश्च देवो सहैव गर्भे ववृधे मुकुन्दः ॥ २-३४॥ शिरोभिरूढेन वनस्पतीनां फलोपहारेण निवेदितर्द्धिः । प्रावृट् समासादितसूतिकालां तां देवकीं द्रष्टुमिवाजगाम ॥ २-३५॥ अथैकदेशा इव वारिराशेरुच्चैः पुरोमारुतविप्रकीर्णाः । वृतास्तडिद्विद्रुमवल्लरीभिर्विरेजिरे व्योमनि वारिवाहाः ॥ २-३६॥ बलाहकव्रातभवैस्तमोभिर्दिनेषु दुर्बोधपुरःस्थितेषु । न कश्चिदासीदभिसारिकाणां विद्युत्प्रकाशेन विनाऽन्तरायः ॥ २-३७॥ पयोदभस्त्रान्तरनिर्गतेन झात्कारिणा चण्डसमीरणेन । वियोगिनां चेतसि मेघकालः सन्धुक्षयामास मनोभवाग्निम् ॥ २-३८॥ स्मरेण लोकत्रितयेश्वरेण सम्भाविताज्जीवितनिर्विशेषम् । ऋतोर्वसन्ताज्ज्वलदागमस्य जहार जातिर्निखिलं निकर्षम् ॥ २-३९॥ बलाद्गृहीता इव वैतसीभिः शाखाभिरारूढमदा इवोच्चैः । परिस्खलन्त्यो निखिलास्तटिन्यः जग्मुर्जवादुद्भटफेनहासाः ॥ २-४०॥ उदारसौरभ्यवशीकृतानामन्वीयमानः पटलैरलीनाम् । अकल्पयत् केतकमातरिश्वा मनोभवस्यापि मनोविकारम् ॥ २-४१॥ अत्यम्बुपानप्रभवस्य कर्तुमन्तर्जडिम्नः प्रतिसंविधानम् । पपुस्तिरस्कारपदेन मेघाः मयूखमालामरविन्दबन्धोः ॥ २-४२॥ रराज खर्जूरफलप्रकाशं नवं पयः काननपल्वलेषु । पयोदवृन्दैः परिपीय मुक्तं प्रभाकरस्येव मरीचिजालम् ॥ २-४३॥ महीभृतां मूर्द्धसु दत्तपादं विलोक्य मित्रं विहतप्रतापम् । मग्ने जले मर्तुमिवारविन्दे मधुव्रताश्चुक्रुशुरन्तरिक्षे ॥ २-४४॥ निषेव्य हंसा मधुरैर्वचोभिः पद्माकरं लब्धसमीहितार्थाः । सद्यो ययुस्तस्य विपत्तिकाले जलाशयानां प्रकृतिः किलैषा ॥ २-४५॥ प्ररूढसस्याः फलमूलशाकैर्निरन्तराः स्वादुनवोदकाढ्याः । पल्लीजुषां चेतसि पामराणां धृतिं परामादधिरे वनान्ताः ॥ २-४६॥ समुन्मिषन्ती गिरिमल्लिकानां प्रसूनराजिस्सुतरां विरेजे । मुक्त्वा नभो मेघविमर्दभीत्या नक्षत्रमालेव गता धरित्रीम् ॥ २-४७॥ धारालजीमूतकृतान्धकारे तस्मिन्नपर्यन्तजडिम्नि काले । अलक्ष्यमाणः क्वचिदंशुमाली दिवाऽप्युवासेव तनूनपाति ॥ २-४८॥ इति प्रवृत्ते समये घनानां मासे नभस्ये निशि मध्यमायाम् । गणे शुभाख्यायिनि च ग्रहाणां देवक्युवाह प्रसवाभिमुख्यम् ॥ २-४९॥ हरत्सु बाह्यं भुवनस्य तापं प्रावृट् प्रसूतेषु वलाहकेषु । असूत तस्यान्तरतापशान्त्यै कृष्णाम्बुवाहं कृपयेव देवी ॥ २-५०॥ दिशः प्रसेदुः सह निम्नगाभिर्जहर्ष लोकेन सहाम्बुराशिः । जाते मुकुन्दे मुमुचुश्च सद्यः भयेन देवाः सह पुष्पवृष्टिम् ॥ २-५१॥ मनोभिरामेण मधुव्रतानां नादेन शंसन्निव दिष्टवृद्धिम् । चचार वायुः सुमनोंऽशुकानि सम्प्राप्य सम्प्राप्य महीरुहेभ्यः ॥ २-५२॥ व्यजृम्भत प्रस्फुटशङ्खनादः तारेण गीतध्वनिना विमिश्रः । समश्नुवानः ककुभां मुखानि दिवौकसां मङ्गलतूर्यघोषः ॥ २-५३॥ त्रपामपास्यन् विनयं विलुम्पन् नीतिं निगृह्णन् भयमाशु भञ्जन् । शरीरिणामच्युतजन्मजन्मा मोदो जजृम्भे मदनिर्विशेषः ॥ २-५४॥ आषाढिनं पाणिमुदस्य दूरं ब्रह्मर्षिलोकः पतदुत्तरीयः । ननर्त पर्याकुलपादचारः प्रहस्यमानः सुरसुन्दरीभिः ॥ २-५५॥ शृङ्गोज्झितैः कुङ्कुमवारिपूरैरन्योन्यमभ्युक्षणतत्पराणाम् । प्रमोदजन्मा दिवि सम्बभूव कोलाहलः कोऽपि सुधाशनानाम् ॥ २-५६॥ पितॄंश्च पुत्रा पितरश्च पुत्रान् गुरूंश्च शिष्या गुरवश्च शिष्यान् । पतींश्च दाराः पतयश्च दारान् प्रमोदमत्तास्सिषिचुः पयोभिः ॥ २-५७॥ असिञ्चदम्भोरुहयोनिरिन्द्रं तं पङ्कजावासमसिञ्चदिन्द्रः । असिञ्चतां द्वौ विबुधानशेषान् सर्वे सुरास्तौ च बलादसिञ्चन् ॥ २-५८॥ मिथः पयोभिः सिषिचुर्विनेदुः ववल्गुरुच्चिक्षिपुरम्बराणि । अन्योन्यमंसेन सुदूरमूहुर्मत्ता इव स्वर्गसदो बभूवुः ॥ २-५९॥ त्रिलोकनाथोदयसम्भवेन मोदेन पर्याकुलमानसानाम् । गीते च नृत्ते च सुराङ्गनानां बभूव तालस्खलितं न दोषः ॥ २-६०॥ शृङ्गोदकास्फालनरक्तनेत्राः विच्छिन्नहाराश्च्युतकर्णभूषाः । प्रहाससीदध्वनिभिर्वचोभिः समालपन्तो विबुधा विजह्रुः ॥ २-६१॥ जाते हरौ दैत्यविमर्दनेन विश्वम्भराभारमपाचिकीर्षौ । मुनेः प्रहर्षः कलहप्रियस्य जगत्प्रहर्षश्च समावभूताम् ॥ २-६२॥ इति प्रहर्षाकुलितैर्मनोभिः विशृङ्खलं क्रीडति देहिवर्गे । कंसस्सभृत्यः प्रतिपद्य मूर्छां निद्राभिधानां न किमप्यबोधि ॥ २-६३॥ श्यामं चतुर्बाहुमुदारहारं किरीटिनं कुण्डलदीप्तगण्डम् । पिताऽपि माता च विलोक्य पुत्रमानन्दमग्नौ विवशावभूताम् ॥ २-६४॥ नियम्य हर्षोदयपारवश्यं तं देवकीजानिरुवाच वाचम् । प्रसीद भीतोऽहमतीव कंसादिदं तु रूपं प्रतिसंहरेति ॥ २-६५॥ तत्प्रेरितस्तल्पगतं कराभ्यां तमाददे कल्पितबालभावम् । तयोश्शयानः करयोस्स तस्य प्रकाममप्रीयत पद्मनाभः ॥ २-६६॥ अशेत यः प्राग्वटपत्रमध्ये लोकानशेषानुदरे दधानः । विना तपोभिः किमु तस्य सिध्येत्तत्पाणियुग्मे शयनं मुरारेः ॥ २-६७॥ तमालनिलेन तमोभरेण निपीडिताशावलये निशीथे । आदाय पङ्केरुहलोचनं तं सद्यः स निर्गत्य गृहात् प्रतस्थे ॥ २-६८॥ निवार्य वर्षोदकमात्मनैव प्रकाश्य मार्गं फणरत्नभासा । उपायमुक्त्वा वसुदेवकर्णे शेषस्सिषेवे बहुधैव विष्णुम् ॥ २-६९॥ पुरात् स निर्गत्य पुमांसमाद्यं वहन् वहन्तीं यमुनामपश्यत् । कूलङ्कषौघाऽपि कलिन्दकन्या तदीयगुल्फद्वयसोदकाऽभूत् ॥ २-७०॥ उत्तीर्य तां तत्तटसंश्रितानां दातुं करं वार्षिकमागतानाम् । व्रजौकसां नन्दपुरोगमानां प्रीतो निवेशं सहसा विवेश ॥ २-७१॥ प्रविश्य जानन्निव नन्दगोपनिवेशनं सुप्तशरीरिवर्गम् । सुतां प्रसूय प्रतिपन्ननिद्रां ददर्श तद्धर्मवधूं यशोदाम् ॥ २-७२॥ तं शाययित्वा शयने तदीये कन्यां समादाय निपत्य गच्छन् । शुश्राव पुत्रोदयहर्षमूलं कोलाहलं गोपवधूजनानाम् ॥ २-७३॥ करेण कन्यां मनसा च पुत्रं वहन् मुहूर्तेन विलङ्घ्य मार्गम् । विशङ्कमाविश्य गृहं गृहिण्याः निधाय बालां शयने स तस्थौ ॥ २-७४॥ सा चञ्चरीकस्वनसन्निभेन नादेन लोकस्य मनो हरन्ती । रुरोद किञ्चिद्विवृतेन बाला स्फुटत्पयोजाकृतिना मुखेन ॥ २-७५॥ आकर्ण्य बालध्वनिमस्तनिद्राः प्रधाव्य रक्षापुरुषा जवेन । प्रबोध्य यत्नेन पतिं पृथिव्याः शशंसुरस्मै भगिनीं प्रसूताम् ॥ २-७६॥ सद्यः समागत्य स तत्र दृष्ट्वा बालाममर्षेण विमर्शशून्यः । स्वस्रा निषिद्धोऽपि वधाभिलाषी जग्राह तस्याश्चरणौ कराभ्याम् ॥ २-७७॥ उदस्य दूरं तरसा करेण चिक्षेप तां दुर्मतिरश्मपृष्ठे । महीमयातैव दिवि स्थिता सा जज्वाल धाम्ना जगतां सवित्री ॥ २-७८॥ ततः करैस्तामरसप्रकाशैः सा मन्दमान्दोलितशस्त्रजाला । विलोक्य तं विह्वलचित्तवृत्तिं जगाद वाचं जगदेकमाता ॥ २-७९॥ त्वमग्रहीर्मच्चरणौ रुषाऽपि प्रायः फलं तस्य न हन्मि यत्त्वाम् । जातः पृथिव्यां तव जाल्म हन्ता सद्यो हितं चिन्तय साधयामि ॥ २-८०॥ इति नृपमभिधाय ज्योतिषा कुर्वती सा तडिदिव नयनानि प्राणिनामाकुलानि । सुरयुवतिभिरुच्चैर्गीयमानापदाना सुरपदमभिपेदे पाटिताभ्रा जवेन ॥ २-८१॥ श्रुत्वा तस्या श्रवणपरुषां वाचमन्तर्विषण्णः पुत्रापायव्यथितमनसं सान्त्वयित्वा स्वसारम् । पद्भ्यामेव स्वभवनमथ प्राप्य कृच्छ्रादनैषीत् कंसश्चिन्ताकुलितहृदयो जाग्रदेव त्रियामाम् ॥ २-८२॥ इति सुकुमारकृतौ कृष्णविलासकाव्ये द्वितीयास्सर्गः ॥ २ ॥
तृतीयः सर्गः प्रातः प्रलम्बप्रमुखानमात्यान् सर्वान् समाहूय स भोजराजः । सविभ्रमप्रेरितदृष्टिदत्ते स्थाने निषण्णानवदद्विनीतः ॥ ३-०१॥ सन्दिह्य मोहाद्वसुदेववाक्यं मया प्रमाणीकृतभूतवाचा । हता नृशंसेन सुता भगिन्यास्तेनाविलं मे हृदयं यशोऽपि ॥ ३-०२॥ जातां पुनः काञ्चनकाञ्चनाभां सुतां गतायुर्न्निशि हन्तुमैच्छम् । उत्प्लुत्य सा व्योम्नि जवादतिष्ठत् शस्त्रोत्कटा दर्शितदिव्यरूपा ॥ ३-०३॥ नियम्य सा मातुल इत्यमर्षं प्रसेदुषी मामवदच्च बाला । अरिर्महीयानजनिष्ट भूमौ तवोचितं सम्प्रति चिन्तयेति ॥ ३-०४॥ व्याहृत्य मां द्यां प्रति देवनारीगणैर्गतायामिति सेवितायाम् । देव्यामहं दुश्चरितं स्वमेव स्मरन् विनिद्रो रजनीमनैषम् ॥ ३-०५॥ युद्धेषु देवा पुरुहूतमुख्याः भग्ना मया स्थातुमशक्नुवन्तः । अश्वान् परित्यज्य विमुच्य नागान् मुक्त्वा च शस्त्राणि दिशो द्रवन्ति ॥ ३-०६॥ तदेषु नैकोऽपि भुवं गतो मे शक्नोति कर्तुं प्रतिकूलभावम् । महीयसः किं घटते परागः समीरणस्याभिमुखं प्रसक्तुम् ॥ ३-०७॥ किमन्यदार्ताभ्यवपत्तिकामः सुरेषु सन्दर्शितपक्षपातः । अजायतोर्व्यामसुरान्निहन्तुं स एव मन्ये सरसीरुहाक्षः ॥ ३-०८॥ सर्वे वयं दैत्यकुलप्रसूताः केनापि जाता भुवि कारणेन । स तेन सन्नह्यति जेतुमस्मानुक्तोऽयमर्थः किल नारदेन ॥ ३-०९॥ अतस्तदुच्छेदविधौ विनिद्राः यतध्वमद्यैव बलानुरूपम् । नखाग्रलाव्यस्तरुरङ्कुरात्मा परश्वधस्यापि ततोऽतिभूमिः ॥ ३-१०॥ यस्मिन् भवत्याश्रितवत्सलत्वं विप्रेषु यस्यास्ति विशेषसङ्गः । मनोहरं यश्च बिभर्ति रूपं वधं स बालोऽर्हति मत्सकाशात् ॥ ३-११॥ मखाश्च तत्प्रीतिकृतो निवार्याः निवारणीया श्रुतिरग्रिमाऽपि । तृणीकृताशेषजनप्रभावा संस्थौति या तन्महिमानमेव ॥ ३-१२॥ गते विरामं गरुडध्वजेऽस्मिन् मखेषु सर्वत्र निवारितेषु । सुरेषु सर्वेष्वपि दुर्बलेषु हस्ते भविष्यत्यमरावती नः ॥ ३-१३॥ इत्यूचुषस्तस्य पदोपकण्ठं नीराजयन्तो मकुटप्रभाभिः । अवादिषुर्विक्रमदर्पितास्ते कृताट्टहासध्वनिकम्पिताशाः ॥ ३-१४॥ किं चिन्तया पार्थिव भुङ्क्ष्व भोगानस्मासु जीवत्सु कुतो रिपुस्ते । कथं मयूखेषु परिस्फुरत्सु सरोजबन्धोस्तमसाभिभूतिः ॥ ३-१५॥ अमातरिश्वानमहव्यवाहं असूर्यशीतांशुमवज्रपाणिम् । अनच्युतेशानपितामहं च द्रष्टासि राजन्नचिरेण लोकम् ॥ ३-१६॥ इत्यूचुषस्तानुचितोपहारैः सम्भाव्य कृत्येषु समादिदेश । स देवकीमानकदुन्दुभिं च विमोचयामास च बन्धनस्थौ ॥ ३-१७॥ लब्ध्वा निधानं न तथा दरिद्रो गतिं समासाद्य तथा न पङ्गुः । तथा न चान्धो दृशमाप्य हृष्येद्यथाप्तपुत्रः स जहर्ष नन्दः ॥ ३-१८॥ तपने चरमाचलं प्रपन्ने तमसा च स्थगितेषु दिङ्मुखेषु । यमुनातटवासिनं तमूचे वसुदेवः प्रतिपद्य नन्दगोपं ॥ ३-१९॥ तपसा तव नन्दगोप मन्ये फलितं जन्मसहस्रसञ्चितेन । ऋणमन्त्यमपोहितुं त्वदीयं यदयं पुत्रनिधिः समाविरासीत् ॥ ३-२०॥ इह खेलति पूतनेति कृत्या शिशुहत्यानिरता पुरोपकण्ठे । तदहर्न्निशमत्र रक्षणीयो नयनानन्दकरः सुतस्त्वयाऽयं ॥ ३-२१॥ अथवा किमिवास्यते त्वयास्मिन्निजमुत्सृज्य पदं पुरोपकण्ठे । सविधे न वसन्ति बुद्धिमन्तो फणिनो वायुसखस्य भूपतेश्च ॥ ३-२२॥ प्रतिवेदि निविष्टपूर्णकुम्भं विलसत्तोरणमुज्ज्वलप्रदीपम् । व्रज गोकुलमाकुलं प्रजाभीभवदीयागमनप्रहर्षिणीभिः ॥ ३-२३॥ शिशुरस्ति ममापि रौहिणेयो भवदीये विषये विवर्धमानः । स च साधु निरीक्ष्य रक्षितव्यो वपुषा केवलमावयोर्हि भेदः ॥ ३-२४॥ इत्युक्त्वा गतवति देवकीसहाये संत्रस्तः कथमपि नीतरात्रिशेषः । आरोहत्युदयमहीधरस्य शृङ्गं तिग्मांशौ निजवसतिं प्रति प्रतस्थे ॥ ३-२५॥ सचकितमृगमण्डलानि कुर्वन् शकटशतध्वनिभिर्वनान्तराणि । प्रमुदितमथ गोकुलं प्रपेदे दिशि दिशि मारुतधूतकेतुमालम् ॥ ३-२६॥ निजवसतिमभिप्रपद्य तुष्टः किमपि न कर्म करोति नन्दगोपः । नवनलिनपलाशचारुनेत्रं वदनमहर्न्निशमात्मजस्य पश्यन् ॥ ३-२७॥ मुग्धभावमधुरेण रञ्जयन् शैशवेन हृदयं व्रजौकसाम् । गोकुले स विजहार केशवः क्षीरवारिनिधिमप्यचिन्तयन् ॥ ३-२८॥ वदनं मधुसूदनः कराभ्यां चरणाङ्गुष्ठमुपानयत् पिपासुः । गलितेव ततस्सुरस्रवन्ती नखमुक्तामणिदीधितिच्छलेन ॥ ३-२९॥ अमृतांशुरिवापरः प्रमोदं नयनानां जनयन् स पद्मनाभः । भवनं भवनात् करौ कराभ्यां व्रजयोषिद्भिरनीयताङ्कमङ्कात् ॥ ३-३०॥ अधः कदाचिच्छकटस्य शायितः स्वकार्यपर्याकुलया यशोदया । स लीलया पादसरोरुहं शनैरुदञ्चयामास सरोजलोचनः ॥ ३-३१॥ मधुभिदश्चरणाम्बुजताडितं शकटमाशु समुत्थितमम्बरे । विपरिवृत्य पपात महीतले पटुतरध्वनिपूरितदिङ्मुखम् ॥ ३-३२॥ शकटपतनजन्म नन्दमुख्याः स्तनितमिव ध्वनितं निशम्य गोपाः । किमिदमिति भयेन तत्र जग्मुस्त्वरितगतिच्यवमानकेशबन्धाः ॥ ३-३३॥ कुचकलशविलग्नपाणिपद्मा विगलितबन्धमनोज्ञकेशपाशा । सपदि सह सखीभिरन्वधावत् कलमणिनूपुरशिञ्जिता यशोदा ॥ ३-३४॥ कृतस्मितं क्वचिदपरिक्षतं सुतं विलोक्य तं प्रमुदितमानसा परम् । व्रजौकसां सविधनिवासिनां मुखाद्विसिस्मिये विदिततदीयविक्रमा ॥ ३-३५॥ स्रुतशोणितमेव मन्यमाना चरणं तस्य निसर्गपाटलं तत् । उदमार्जयदंशुकाञ्चलेन द्रुतमागत्य पुनः पुनर्यशोदा ॥ ३-३६॥ तिलकं मधुविद्विषो ललाटे रजसा गोमयजन्मना विधाय । उरसा परिरभ्य नन्दगोपः सुचिरं तस्य सुमङ्गलानि दध्यौ ॥ ३-३७॥ शकटं मधुसूदनस्य दृष्ट्वा चरणोदञ्चनविभ्रमेण भग्नम् । अथ वारिनिधेर्विवेश गर्भं स्वरथस्यापि विशङ्क्य भङ्गमर्कः ॥ ३-३८॥ परितःस्फुरता नवेन सन्ध्यामहसा पल्लवपाटलेन लिप्ताः । पतिता इव पावके विरेजुः ककुभो दुस्सहभानुविप्रयोगात् ॥ ३-३९॥ क्षुभितश्चिरमम्बराम्बुराशिः तपनस्यन्दनवाहनावगाहात् । स्फुरदुद्भटतारकापदेशात् सहसाऽऽकीर्यत फेनमण्डलेन ॥ ३-४०॥ अहिमरुचि रसातलं प्रविष्टे भयचकितः स्वविनाशमाकलय्य । तत इव तरसोत्पतन्नसीमा तिमिरभरः पृथिवीतलं प्रपेदे ॥ ३-४१॥ भूरन्तरिक्षं भवनानि रथ्याः वनानि शैलास्सरितस्समुद्राः । ध्वान्ते दिशां रुन्धति चक्रवालं व्यक्तं न केनापि किमप्यवेदि ॥ ३-४२॥ अथ प्रयाति प्रहरे यशोदा जने च किञ्चिन्निभृते सनिद्रे । पुत्रं पयःपानगुरुप्रमोदं प्रस्वापयन्ती कलमित्यगायत् ॥ ३-४३॥ कुन्दत्विषस्तालफलप्रकाशाः तापिञ्छवर्णास्तरुणार्कभासाः । प्रभूतदुग्धा नवनीतवत्यो गावस्सहस्रं तनय त्वदीयाः ॥ ३-४४॥ प्रियालखर्जूरसमग्रसानुः फलाढ्यरम्भावनशोभनीयः । ननूपभोगाय सुतायमास्ते गोवर्धनो नाम महीधरस्ते ॥ ३-४५॥ सरसिरुहवने गतेऽपि निद्रां कथमिव ते नयनाम्बुजे विनिद्रे । श्रुतिपरिचयशालिनो हि कर्म स्वजननिषेवितमेव संश्रयन्ते ॥ ३-४६॥ तद्ध्वनिश्रवणजातकौतुका बालजीवितविलोपविश्रुता । आजगाम गगनेन पूतना यातना तनुमतीव देहिनां ॥ ३-४७॥ साऽवतीर्य नभसो निशाचरी गूढमेव निषसाद कुत्रचित् । सा च सुप्त इव वीक्षिते सुते स्वापमाप सरसीरुहेक्षणा ॥ ३-४८॥ कृष्णमङ्कमधिरोप्य निर्दया दातुमारभत पूतना स्तनम् । यत्पयोधरमुखे मुखार्पणादायुषा शिशुजनो वियुज्यते ॥ ३-४९॥ पाञ्चजन्यमिव पूतनास्तनं पाणिपल्लवयुगेन पीडयन् । आननेन मधुशत्रुरान्तरानाददे स तु ततस्समीरणान् ॥ ३-५०॥ विप्रकीर्णकचबालपल्लवा भग्नबाहुविटपा निशाचरी । सा पपात भुवि घोरनिःस्वना मारुताहतमहीरुहोपमा ॥ ३-५१॥ झटिति व्यपनीतगाढनिद्रो महता तेन रवेण पूतनायाः । प्रतिपत्तुमियाय तां प्रवृत्तिं सह गोपालगणेन नन्दगोपः ॥ ३-५२॥ तस्याश्शरीरमधिरुह्य विचेतनायाः क्रीडन्तमम्बुरुहलोचनमीक्षमाणाः । तस्थुस्समुन्मिषितविस्मयनिर्विकाराः नासाधिरोपितकराङ्गुलयो मुहूर्तम् ॥ ३-५३॥ नन्दः प्रमृज्य नयने मुहुरश्रुपूर्णे पुत्रं कृतान्तमुखनिर्गलितं निदध्यौ । दध्यौ च तस्य नितरामभिवृद्धिकामः तत्त्वं परं स हृदयेन समाहितेन ॥ ३-५४॥ श्यामलः कमलपत्रलोचनो नीलकुन्तलभरः शुचिस्मितः । ध्यायतो मनसि तस्य सन्निधिं पुत्र एव विदधे पुनः पुनः ॥ ३-५५॥ न क्षमं भवति पुत्रवासनानिस्तरं हृदयमच्युतस्मृतौ । इत्यशेषदुरितापहारिणीरग्रजन्मभिरकारयत् क्रियाः ॥ ३-५६॥ पूतनाचरितभावनाभवं दारुणं हृदयदारणं पितुः । श्रीपतिः शमयति स्म वैशसं क्रीडितैरखिललोकमोहनैः ॥ ३-५७॥ स लोचने किञ्चिदुपान्तघूर्णिते निधाय मातुर्वदने शुचिस्मितः । पयोधरं पाणियुगावलम्बितं मनश्च तस्या मधुसूदनः पपौ ॥ ३-५८॥ पाणिजानुपरिचङ्क्रमश्रमस्वेदबिन्दुमधुरं मुखं वहन् । धूसरेण वपुषा जनार्दनो गोकुलं निखिलमन्वरञ्जयत् ॥ ३-५९॥ परिभ्रमन्तं भुवि पाणिजानुना गवामधस्तात्प्रविशन्तमेकदा । सुतं यशोदा गृहकृत्यतत्परा बबन्ध पाशेन बलादुलूखले ॥ ३-६०॥ जनो हि यः कर्म करोति यादृशं स सर्वथा तादृशमश्नुते फलम् । बलिः पुराऽबध्यत येन दानवः स लोकनाथोऽपि तदाप बन्धनम् ॥ ३-६१॥ निखिलभुवनमुक्तिदे मुरारौ भगवति गाढमुलूखले निबद्धे । परिशिथिलसमाधिराविरासीन्मनसि महामुनिमण्डलस्य हासः ॥ ३-६२॥ निषीद लोलेति निबध्य सस्मितं चकार कार्याणि चकोरलोचना । अनादरेण भ्रमयन्नुलूखलं विनिर्ययौ विश्वपतिः स्वमन्दिरात् ॥ ३-६३॥ उपेयिवांसौ ककुभद्रुमात्मतां महीयसा नारदशापतेजसा । अतिष्ठतामध्वनि कैटभद्विषः कुबेरपुत्रौ तरसैव रिङ्खतः ॥ ३-६४॥ स सन्निकृष्य स्थितयोः परस्परं महीरुहोर्मध्यपथेन निस्सरन् । गतेन तिर्यक्त्वमुलूखलेन तौ बभञ्ज दामोदरगन्धवारणः ॥ ३-६५॥ प्रपद्य दिव्यं वपुरम्बरस्थितौ विमुक्तशापौ धनदात्मजावुभौ । प्रणम्य भक्त्या पुरुषं पुरातनं मुदान्वितौ जग्मतुरन्तिकं पितुः ॥ ३-६६॥ नन्दादयः सपदि गोकुलवासिनस्ते तद्भङ्गजन्म सुमहद्ध्वनितं निशम्य । अभ्येत्य भग्नपतितौ ककुभद्रुमौ तौ तत्राक्षतं च ददृशुस्सरसीरुहाक्षं ॥ ३-६७॥ नन्दः समीक्ष्य दुरितानि बहूनि सद्भ्यः दत्वा गवामयुतमात्मसुताभिवृद्ध्यै । सम्मन्त्र्य बन्धुभिरपास्य पदं तदाशु वृन्दावनं प्रति ययौ शकटैरसङ्ख्यैः ॥ ३-६८॥ गत्वा स गोकुलपतिर्मनसोऽनुकूले कूले कलिन्ददुहितुर्निदधे पदानि । रेमे च तत्र पुरुहूतपदाभिरामे लीलायितानि तनयस्य निरीक्ष्यमाणः ॥ ३-६९॥ दधिनिर्मथने निरुद्यमा सा नवनीतश्रपणे गवां च दोहे । सुतकेलिहृतेक्षणा यशोदा क्षणकल्पानि निनाय वासराणि ॥ ३-७०॥ अनुयाति जिघृक्षयेव नन्दे तरसा रिङ्खणतत्परस्य विष्णोः । ललितालकवेल्लितानि रेजुर्मुखमात्रेण मुहुर्निवर्तितानि ॥ ३-७१॥ अन्तरा विहतिमद्भिरुत्थितैरस्फुटाक्षरपदाभिरुक्तिभिः । भङ्गुरैश्च परिरम्भणोद्यमैर्गोकुलं निखिलमन्वरञ्जयत् ॥ ३-७२॥ पश्य मातुलमिति प्रदर्शितं यामिनीषु गगने यशोदया । आजुहाव ललितेन पाणिना शीतभानुमरविन्दलोचनः ॥ ३-७३॥ आत्मनः प्रतिकृतिं विलोकयन् मातृहस्तमणिदर्पणोदरे । एहि मित्र किमिहेति कौतुकाद्व्याजहार शतपत्रलोचनः ॥ ३-७४॥ गौरवं कथमियं सहेत मे मेदिनीति कृपयेव चिन्तयन् । माधवः पतनभीतिमुद्वहन् मन्दमेव निदधे पदावलिं ॥ ३-७५॥ देवो निशासु हरिरङ्कगतो जनन्याः शृण्वन् कथा मधुमुचो महताऽऽदरेण । मन्दं तदीयकरपल्लवताडितोरुः सुष्वाप कुड्मलितलोचनपुण्डरीकः ॥ ३-७६॥ कौतुकेन पितुरग्रतो हरेर्धावतस्खलनमीक्षमाणया । मोदनिघ्नमनसा सलज्जया न स्थितं न चलितं यशोदया ॥ ३-७७॥ मुखडिण्डिमवादिना परीतो मधुजित् कौतुकिना सुहृद्गणेन । अधिरोपितवारणेन्द्रभावो ललिताभिर्गतिभिर्गृहेषु रेमे ॥ ३-७८॥ अथाभिवृद्धिं प्रतिपद्यमानो दध्यादिषु प्रीतिमुवाह शौरिः । तत्तत् प्रदानेन वशे विधातुमारेभिरे गोकुलयोषितस्तम् ॥ ३-७९॥ कुरुष्व नृत्तं नवनीतमूल्यं कृष्णेति साभ्यर्थनमूचिषीणाम् । व्रजाङ्गनानां स पुरस्सलीलमुदञ्चयामास पदारविन्दम् ॥ ३-८०॥ तासां मनःप्रीतिविधानदक्षे तथा क्षणं तस्थुषि शार्ङ्गपाणौ । एकाङ्घ्रिसंस्पर्शवियोगमात्रादधन्यमात्मानममन्यतोर्वी ॥ ३-८१॥ उदञ्चितं तस्य विलोक्य पादं वेधा पुनर्विक्रमशङ्किचेताः । कमण्डलुं पाणितलेन गृह्णन्नभ्युद्यतोऽभूदवनेजनाय ॥ ३-८२॥ नृत्तामृतं गोकुलयोषितस्तत् कृष्णस्य नेत्राञ्जलिभिः पिबन्त्यः । प्रीतिप्रकर्षस्तिमितैर्मनोभिरालेख्ययोषित्प्रतिमा बभूवुः ॥ ३-८३॥ विदुर्न तद्दर्शनपारवश्याद्दातुं करस्थं नवनीतमेकाः । विस्रस्य भूमौ पतितं तदन्याः न मेनिरे पाणिसरोरुहेभ्यः ॥ ३-८४॥ अजस्रमेवं भवनेषु तासां बभ्राम कृष्णो नवनीतभिक्षाम् । पुरा किलान्यैरनिवर्तनीया निवर्तिता येन हरस्य भिक्षा ॥ ३-८५॥ धिग्याचनां चौर्यभवस्य भूयानस्त्यंहसो निर्हरणाभ्युपायः । मत्वेति नूनं नवनीतचौर्ये मधोर्निहन्ता मतिमाबबन्ध ॥ ३-८६॥ निर्वाप्य दीपं मुखमारुतेन हैयङ्गवीनं निशि हर्तुमिच्छन् । कृष्णः कटीभूषणरत्नभासा विहन्यमानो विषसाद भूयः ॥ ३-८७॥ निपीडयन्नग्रपदेन पृथ्वीमुन्नम्य देहं भृशमूर्ध्वबाहुः । पयोघटस्पर्शनमश्नुवानस्त्रिविक्रमोऽभूत् परिहासपात्रम् ॥ ३-८८॥ नियमितश्वसितो निभृतैः पदैर्निशि कथञ्चन गर्भगृहं गतः । स तु भयादसमाप्तमनोरथो निववृते नवनीतहरो हरिः ॥ ३-८९॥ हर्तुं हरेर्व्यवसितस्य घने निशीथे भूषारवश्रुतिभयाद्व्रजतोऽतिमन्दम् । अन्तर्गृहस्य नवनीतवतः प्रवेशात् प्रागेव हन्त पथि सा रजनी विभाता ॥ ३-९०॥ गोपीसमागमभिया च तृषा च गुर्व्या पातुं विहातुमपि गोपगृहेष्वजानन् । आद्वारमादधिघटं च गतागतानि कुर्वन् सरोजनयनः श्रममेव लेभे ॥ ३-९१॥ भित्तिषु प्रतिशरीरदर्शनात् शङ्कितः स नवनीतनिःस्पृहः । किञ्चिदन्यदिव तत्र मार्गयन्निर्जगाम मणिमन्दिरोदरात् ॥ ३-९२॥ जिहीर्षुरन्तर्भवनेषु गोरसं दिनान्यनैषीत्तदुपायचिन्तया । स जागरूकश्च निनाय यामिनीं मनोहराभिर्हरणप्रवृत्तिभिः ॥ ३-९३॥ दृष्टेऽपि तत्सविधसञ्चरणे स तत्र वक्तुं निमित्तमुचितं कृतनिश्चयस्सन् । अभ्यर्ण एव निदधे दधिभाजनस्य लीलायितोपकरणानि निजानि शौरिः ॥ ३-९४॥ वहन् गृहीतो नवनीतमच्युतो भयेन पारिप्लवनेत्रपङ्कजः । पदा लिखन् भूमिमवाङ्मुखस्थितो जहार चेतोऽपि च गोपयोषिताम् ॥ ३-९५॥ शपे पितृभ्यामित ऊर्ध्वमेवं नाहं विधास्ये नवनीतचौर्यम् । विनिःश्वसन्नित्यभिधाय कृष्णो जहार मातुश्च पितुश्च चेतः ॥ ३-९६॥ एहि सद्म तनयेति सादरं याचितोऽपि स मुहुर्यशोदया । आननेन नवनीतगन्घिना नाजगाम विहरन्निवाच्युतः ॥ ३-९७॥ हृतं नवं मे नवनीतमालयात् हृतं घृतं मे दधि मे हृतं निशि । इति प्रभाते वचनानि योषितामुवाह श्रृण्वन् न मुखे स विक्रियाम् ॥ ३-९८॥ पुत्रं कुलस्य भुवनस्य च रक्षितार- मभ्यर्थितोऽपि भगवानरविन्दनाभः । त्वां मे ददौ विधिवशाद्भुवनैकचोर- मित्याह कोपमभिनीय सुतं यशोदा ॥ ३-९९॥ स सान्त्वनेन प्रतिपादनेन भेदेन तीव्रेण च तर्जनेन निबद्ध्य पृष्टोऽपि मुहुर्जनन्या नाङ्गीकरोति स्म हरिः स्वचौर्यम् ॥ ३-१००॥ संरक्षणाय जगतामवतीर्य पृथ्व्यां गोपालसद्मसु हरत्यखिलं मुकुन्दः । इत्थं निशम्य परिहासवचस्सुराणाम्- अन्तर्जहास भगवानरविन्दनाभः ॥ ३-१०१॥ कृष्णस्य केलिसमरेक्षणकौतुकेन गोपीषु मुक्तभवनासु बहिः स्थितासु । मित्रैः पराजित इव द्रुतमेत्य गेहं बद्ध्वा कवाटमहरन्नवनीतमन्तः ॥ ३-१०२॥ त्रिभुवनमहनीयैरभ्युपायैरसङ्ख्यैः निखिलमिति स मुष्णन् गोकुलं नन्दसूनुः । अरमत सवयोभिस्तत्र गोपालपुत्रै- रपर इव शशाङ्कः प्राणिनां प्रीतिहेतुः ॥ ३-१०३॥ इति सुकुमारकृतौ कृष्णविलासकाव्ये तृतीयः सर्गः ॥ ३ ॥
चतुर्थः सर्गः स रोहिणीसूनुनिबद्धरागः सतां शरण्यस्तमसोऽपहर्ता । मनोहरो बाल इवौषधीशो दिने दिने पोषमियाय शौरिः ॥ ४-०१॥ त्यक्त्वा हरिः स्तैन्यकृतापवादं तच्छैशवं प्राप्य दशान्तरं सः । मन्ये तदंहःपरिमार्जनाय गवां परित्राणसमुद्यतोऽभूत् ॥ ४-०२॥ पुत्रे तथोद्योगिनि नन्दगोपो गोपालपुत्राननुनीय सर्वान् । त्रातुस्त्रयाणामपि विष्टपानां संरक्षणे तस्य समादिदेश ॥ ४-०३॥ मात्रा कृतस्वस्त्ययनः प्रभाते पित्रा परिष्वज्य चिरं विसृष्टः । सहैव रामेण समग्रहर्षः विनिर्ययौ विश्वपतिर्वनाय ॥ ४-०४॥ स प्रातराशी व्यतिषक्तपाणिर्यष्टिं वहन्नंसविषक्तशृङ्गः । विमुच्यतां गौरिति सम्भ्रमेण गच्छन् प्रतिद्वारमवोचदुच्चैः ॥ ४-०५॥ निशम्य तस्य ध्वनिमूर्ध्वकर्णाः विलूनपाशा भृशमुत्सुकिन्यः । वत्सानपि स्वाननवेक्ष्य गावः ससम्भ्रमं निर्ययुरालयेभ्यः ॥ ४-०६॥ गत्वा पुरस्ताद्गजराजगामी गोष्ठं गरिष्ठो गुणमण्डलेन । आपूरयन्मित्रगणागमार्थं पित्रोरभीष्टेन सहैव शृङ्गम् ॥ ४-०७॥ नभस्स्पृशा कर्णपथं गतेन तेनैव संज्ञागवलस्वनेन । आदाय तत्तत्परिबर्हजातं सद्यो गृहेभ्यः सुहृदो निरीयुः ॥ ४-०८॥ गवां खुरन्याससमुद्भवेन विषाणसङ्घट्टनजन्मना च । प्रसर्पता दिक्षु महास्वनेन घोषः क्षणं घोषमयो बभूव ॥ ४-०९॥ प्रधावनैरुत्प्लुतिभिस्सुदूरं मिथो बलाद्ग्राहविमोचनैश्च । समागतैस्तत्र समं सुहृद्भिर्बहुप्रकारं विजहार शौरिः ॥ ४-१०॥ परेण हर्षेण पुराणपुंसः सङ्क्रीडमानस्य समं सुहृद्भिः । पवित्रयामास पदाम्बुजोत्थिता करीषधूलिः ककुभां मुखानि ॥ ४-११॥ महर्षयस्तत्र महानुभावाः गृहीतरूपान्तरदुर्न्निरूपाः । भवाग्निसन्तापहरे ममज्जुः पदोत्थिते तस्य परागपूरे ॥ ४-१२॥ प्रहर्षमालोकयतां जनानां क्रीडाभिरापाद्य मनोहराभिः । उत्थापयामास स चीत्कृतेन गोष्ठे हरिर्गोसमजं शयानं ॥ ४-१३॥ तस्मिन् गवां पालनकौतुकेन वनाय निर्गछति दैत्यशत्रौ । ययुः प्रियाख्यानचिकीर्षयेव दिवाकृतो दिग्वलयं मयूखाः ॥ ४-१४॥ कूलद्रुमाणां कुसुमानि धून्वन् कर्षन् पयश्शीकरमण्डलानि । कृष्णं कृतानेकविहारखिन्नं यान्तं सिषेवे यमुनासमीरः ॥ ४-१५॥ परस्य पुंसः पदपङ्कजाभ्यां प्रवेक्ष्यतो गोकुलपालनाय । चकार नीहारहरैर्मयूखैः प्रवेशयोग्यानि वनानि भानुः ॥ ४-१६॥ प्रेम्णा परित्यक्तुमशक्नुवन्तं बद्धाञ्जलिं बन्धुजनं निवार्य । रामं पुरस्कृत्य समित्रवर्गः विवेश विष्णुर्विपिनान्तराणि ॥ ४-१७॥ अरण्यभूमीरवगाहमानं तमातपक्लान्तमवेक्षमाणः । पक्षातपत्रेण परिस्तृतेन वियत्यसेविष्ट विहङ्गराजः ॥ ४-१८॥ मा गच्छ गङ्गे यमुने क्व यासि किं तत्र गोदावरि धावसीति । न्यषेधि तत्तद्व्यपदेशपूर्वं मार्गच्युतं गोकुलमच्युतेन ॥ ४-१९॥ प्ररूढसुस्निग्धतृणाङ्कुरासु छायाद्रुमश्यामलितान्तरासु । गवां कुलं तत्सुलभोदकासु प्रचारयामास वनस्थलीषु ॥ ४-२०॥ साटोपमान्दोलितलम्बसास्नाः गावश्चरन्त्यो वलमानवालाः । त्रुट्यत्तृणस्तोमचटत्कृतिन्यः चक्रुः प्रियं चेतसि चक्रपाणेः ॥ ४-२१॥ हरिन्मणिश्यामरुचीनि तत्र स्वैरं चरन्तीषु तृणानि गोषु । शौरिः स्वयं भुक्त इवाप तृप्तिं तृप्यन्त्युदाराः परतर्पणेन ॥ ४-२२॥ सर्वासु कण्डूयनलिप्सयोच्चैरुन्नम्य कण्ठं दधतीषु गोषु । बालो हरिर्बाहुसहस्रशून्यं जन्मात्मनो निष्फलमेव मेने ॥ ४-२३॥ परिभ्रमद्गोकुलमुग्रकोपं समुच्चलद्धूलिरटद्विषाणम् । स युद्धमुक्ष्णां मदनिर्भराणां प्रविश्य मध्यं शमयाञ्चकार ॥ ४-२४॥ शाखाकराग्रैरवलम्ब्य पृथ्वीं निषेदुषः पुष्पफलावनम्रान् । तत्र द्रुमान् सादरमीक्षमाणो जगाम तृप्तिं न कदाऽपि शौरिः ॥ ४-२५॥ अलक्ष्यमूलान्यतिविप्रकर्षाद् घोषानुमेयस्खलितोदकानि । उत्तुङ्गरोधस्तरुमण्डलानि निम्नानि दृष्ट्वा नितरां स रेमे ॥ ४-२६॥ अतुच्छगुच्छस्तनभारनम्राः लताः प्रवालाधरलोभनीयाः । स तत्र वीक्ष्य भ्रमरालकाढ्यास्तामस्मरत्तामरसाधिवासाम् ॥ ४-२७॥ समुत्सुकं सागरकन्यकायामाक्रष्टुमन्तःकरणं मुरारेः । सर्वस्य वेत्ता सरसां स वाचं सङ्कर्षणस्सादरमित्युवाच ॥ ४-२८॥ अन्तस्समीरभ्रमणप्रसङ्गादुदीर्णनादेन गुहामुखेन । भूयः प्रयुङ्क्ते पृथिवीधरस्ते गोवर्धनः स्वागतमेष शौरे ॥ ४-२९॥ निशम्य गोवर्धननिर्झराणां धीरध्वनिं कृष्णशिखण्डिनोऽमी । मुदा त्वदालोकनजातयेव नृत्यन्ति चक्रीकृतबर्हभाराः ॥ ४-३०॥ पादाविमौ सञ्चरणाय नालमत्रेति मत्वा मृगयूथमेतत् । स्वलोचनांशुस्तबकापदेशान्नीलोत्पलैर्भूमिमिवास्तृणाति ॥ ४-३१॥ विकीर्य विष्वग्विपिनद्रुमाणां मधूनि पुष्पस्तबकच्युतानि । अर्कांशुतप्तामनिलो धरित्रीं सञ्चारयोग्यां भवतो विधत्ते ॥ ४-३२॥ न भीतिरन्तर्न दृशोश्चलत्वं नास्था तृणेनोत्सुकताऽपि शाबे । रूपेण दामोदर मोहितास्ते तिष्ठन्त्यमी काष्ठकृता इवैणाः ॥ ४-३३॥ तेनेति सन्दर्शितमग्रजेन मनोहरं तत्तदवेक्षमाणः । गाश्चारयन् शाद्वलिनीषु भूषु रेमे रमाया रमणः प्रकामम् ॥ ४-३४॥ तं तत्र दृष्ट्वा महनीयरूपं शौरिं शबर्यश्चरितार्थनेत्राः । फलोपहारैरुपसृत्य वन्यैरवादिषुः प्रश्रयशोभि वाक्यम् ॥ ४-३५॥ इतः पदं नः शरपातमात्रं यायास्सहानेन सुहृद्गणेन । अत्रागमिष्यन्ति किरातपुत्राः गवाममूषां परिपालनाय ॥ ४-३६॥ व्याधाहृतैर्वारणकुम्भगर्भात् मुक्ताफलैरामलकाभिरामैः । प्रसाधनं त्वां भुवनत्रयस्य प्रसाधयिष्यन्ति किरातकन्याः॥ ४-३७॥ कन्याऽस्ति काचिच्छबरेश्वरस्य या नः कुलानामधिदेवतेव । तां सर्वथा दास्यति ते स राजा महान्त्यनर्घाणि च यौतकानि ॥ ४-३८॥ इत्यूचिषीणां शबराङ्गनानामत्यादरं चेतसि वीक्षमाणः । कृष्णः कृपानिघ्नमनास्स वाचमित्याह लज्जामृदुना स्वनेन ॥ ४-३९॥ पित्रोरनुज्ञामधिगम्य भद्राः समीहितं वः सकलं विधास्ये । मयि स्थिते तिष्ठति गोकुलं तद्गच्छामि मा भूत विषादवत्यः ॥ ४-४०॥ गते पुलिन्दीरिति सान्त्वयित्वा तदिष्टभङ्ग्व्यथिते मुकुन्दे । फलापचायादिषु निस्पृहास्ताः शनैर्ययुः पक्कणमेव खिन्नाः ॥ ४-४१॥ विहृत्य गर्भेषु लतागृहाणां निपीय वारीणि च पल्वलानाम् । फलानि चास्वाद्य महीरुहाणां वनानि धन्यानि चकार शौरिः ॥ ४-४२॥ अथाधिरूढे गगनस्य मध्यं दिवाकरे दुःसहभानुजाले । घर्माकुलं गोकुलमीक्षमाणः हलायुधः प्राह रथाङ्गपाणिम् ॥ ४-४३॥ किञ्चित्परिम्लानलताप्रवालस्तृणाङ्कुरभ्रान्तकुरङ्गयूथः । अह्नः परित्यक्तजनप्रचारः प्रवर्तते मध्यम एष भागः ॥ ४-४४॥ कुलानि वीक्षस्व विहङ्गमानां पक्षान्तरस्थापितशाबकानि । कठोरमेनं गमयन्ति कालं नीडेषु निद्रालसलोचनानि ॥ ४-४५॥ प्रायः कठोरातपपीडयेव छायाः परित्यक्तबहिर्विहाराः । आलोकयाध्वन्यजनेन सार्द्धमध्यासते मूलमनोहकानां ॥ ४-४६॥ करैरसह्यैरयमंशुमाली तपन् महीमुग्र इव क्षितीशः । आशंसितापत्प्रसरः प्रजाभिर्धत्ते दशामद्य विगर्हणीयाम् ॥ ४-४७॥ विहृत्य कान्तारमहीषु वेगाद्व्रजन्नपः पुष्करिणीषु पातुम् । मार्गे करीन्द्रः करशीकरेण प्रियामसावुक्षति तापखिन्नाम् ॥ ४-४८॥ तप्तानि भासा तपनस्य हंसाः विहाय वारीणि नखंपचानि । पत्रेषु विन्यस्य पदानि मन्दं पद्माकरे सम्प्रति पर्यटन्ति ॥ ४-४९॥ निगूढमीनग्रहणाभिसन्धिं कृछ्रेण मुक्त्वा कपटासिकां स्वाम् । अमी बकोटास्तपनांशुतापात्तटीनिकुञ्जं तरसा विशन्ति ॥ ४-५०॥ तदेहि यामस्तरुषण्डमेतद् घर्माकुलं गोकुलमानयामः । अत्रैव विश्रम्य मुहूर्तमात्रं भूयोऽपि गावः प्रचरन्त्वरण्ये ॥ ४-५१॥ इतीरितं तत्समयानुरूपं वाक्यं समाकर्ण्य हलायुधस्य । आर्यो यथाज्ञापयतीति कृष्णस्तं राममुक्त्वा तरुषण्डमाप ॥ ४-५२॥ अलब्धमार्ताण्डकरप्रवेशमारामकल्पं तरुषण्डमेत्य । आनेतुकामः स गवां कुलं तदासज्जयामास मुखेन वेणुम् ॥ ४-५३॥ सलीलमीषत्परिवृत्तपादं सविभ्रमोदञ्चितसव्यनेत्रं । कृष्णस्य वंशार्पितपाटलोष्ठं वीक्ष्य स्थितं विस्मयमाप लोकः ॥ ४-५४॥ तत्र स्थितं तामरसायताक्षं तापिञ्छवर्णं शिखिपिञ्छचूडं । तमेव पश्यन्ननिमेषतायाः फलं प्रपेदे सुरसिद्धसङ्घः ॥ ४-५५॥ स्थितस्त्रिभङ्ग्या विवरेषु वेणोर्व्यापारयन्नङ्गुलिपल्लवानि । जगत्त्रयीमोहविधानदक्षमुत्थापयामास स नादमुच्चैः ॥ ४-५६॥ अथोत्थितानन्दनिमीलिताक्ष्यः विलूनदूर्वाङ्कुरलाञ्छितास्याः । गावस्तदभ्याशमुपेत्य तस्थुः निस्पन्ददेहा निभृतैः श्रवोभिः ॥ ४-५७॥ नैसर्गिकं वैरमपत्यसङ्गस्तृष्णा बुभुक्षा कुसुमायुधश्च । तद्वेणुनादश्रुतितत्पराणां नालं विधातुं विकृतिं तिरश्चाम् ॥ ४-५८॥ तस्मिन् मनोहारिणि चक्रपाणेर्वनान्तरे मूर्छति वंशनादे । विधीयमानं परिहृत्य कर्म सर्वेऽपि सत्वा लिखिता इवासन् ॥ ४-५९॥ प्रवृत्तमात्रौ वनपद्मिनीषु दातुं गृहीतुं च मृणालभङ्गम् । चक्राह्वयस्तद्गृहमेधिनी च प्रसार्य चञ्चू परमासिषाताम् ॥ ४-६०॥ उपाविशन्नुज्झितचापलानि स्वजानुविन्यस्तकराननानि । निष्पन्ददृष्टीनि वनद्रुमाणां शाखासु शाखामृगमण्डलानि ॥ ४-६१॥ पद्भ्यामवष्टभ्य महीमुभाभ्यां सद्यस्समुत्तम्भितपूर्वकायः । सिंहः करीन्द्राक्रमणे प्रवृत्तस्तस्थौ तथा कृत्रिमसिंहकल्पः ॥ ४-६२॥ सिद्धाः कलत्राणि लतागृहेषु समुद्यताः पाययितुं मधूनि । करद्वयोदञ्चितरत्नपात्राः निषेदुरालेख्यमिव प्रपन्नाः ॥ ४-६३॥ तद्वंशनालाच्च्युतमच्युतस्य गेयामृतं साधु निषेव्य वृक्षाः । चिरं जराजर्जरितत्वचोऽपि बाला इवासन्नवपल्लवाढ्याः ॥ ४-६४॥ नादेन वेणोर्विवशीकृतानां विद्याधराणां गलिताः करेभ्यः । गतिर्भवास्माकमपीति नूनं वीणा निपेतुर्मधुविद्विषोऽग्रे ॥ ४-६५॥ स्ववेणुनादेन स जीवलोकमित्थं परानन्दमयं विधाय । प्रभुर्व्यरंसीदमराश्च सर्वे सुप्तोत्थितानां स्थितिरन्वभूवन् ॥ ४-६६॥ प्रत्यागते चेतसि ते विदित्वा प्रभ्रश्य हस्तात् पतिता विपञ्चीः । पुनर्न्न चक्रुः प्रतिपन्नलज्जाः विद्याधरास्तद्ग्रहणाभिलाषम् ॥ ४-६७॥ मधुव्रतानां ध्वनिभिर्मनोज्ञैर्वाचालयन्ती वलयं दिशानाम् । प्रसूनवृष्टिः सुरसिद्धमुक्ता पपात मौलौ परमस्य पुंसः ॥ ४-६८॥ अवर्षि केनायमदृष्टपूर्वः प्रसूनराशिस्तव मूर्धनीति । पृष्टो विहस्याह विभुस्सहायान् ज्ञानं भवद्भोऽपि कथं ममेति ॥ ४-६९॥ विषह्यतां याति विवस्वदंशौ विश्रान्तमुत्थाप्य गवां स पुञ्जम् । भूयस्तृणाश्यामलभूतलेषु प्रारब्ध सञ्चारयितुं वनेषु ॥ ४-७०॥ ततः परिक्षीणसहस्रभानोरशाम्यदूष्मा दिवसस्य तीव्रः । यथा विनाशे धनसञ्चयस्य महावलेपो धनिनो जनस्य ॥ ४-७१॥ प्रभाकरे पाटलभासि दूरं दिशं प्रतीचीमवगाहमाने । आलोक्य रामः परिणाममह्नो दामोदरं सादरमित्युवाच ॥ ४-७२॥ आविर्भवन्मन्दमरुत्प्रचारा शान्तातपा निर्वृतसर्वसत्वा । विरामवेला दिवसस्य शौरे प्रवर्तते पश्य मनोभिरामा ॥ ४-७३॥ शिरोभिरूढेन्धनशाकमूलाः स्वयूथ्यमुच्चैःस्वरमाह्वयन्तः । वनेचरा वीक्ष्य विराममह्नः समारभन्ते सहसैव गन्तुम् ॥ ४-७४॥ शतं शतं व्योमनि बद्धमालाः शात्कारवाचालविलोलपक्षाः । व्रजन्ति लक्ष्मीकृतवासवृक्षाः मनोजवाः पश्य पतत्रिणोऽमी ॥ ४-७५॥ भुवः परागे बहुशो लुठित्वा प्रविश्य नीडं कलविङ्गयूथम् । धिनोत्यपत्यानि बुभुक्षितानि ग्रासेन चञ्चूपुटसञ्चितेन ॥ ४-७६॥ तदेहि शौरे तपनव्यपायात्प्रागेव यामः पदमस्मदीयम् । इयं क्षतिः श्वभ्रतटेन पश्चाद्दुःसञ्चरा लुब्धकनिर्मितेन ॥ ४-७७॥ श्रुत्वेति रामस्य गिरं मुरारिः अस्त्वेवमित्यादरपूर्वमुक्त्वा । सह प्रतस्थे स च मित्रवर्गैः प्रचण्डश्रृङ्गध्वनिपूरिताशैः ॥ ४-७८॥ सहप्रयाणाय कृतत्वराणामूधोभराद्दूरविलम्बिनीनाम् । स तत्र तत्र प्रतिपाल्य तस्थौ प्रीतो गवामागमनं मुकुन्दः ॥ ४-७९॥ समावृतो गोपजनेन नन्दः गोपाङ्गनाभिश्च वृता यशोदा । अतिष्ठतामध्वनि लोचनाभ्यां पुत्रागतिप्रेक्षणसस्पृहाभ्याम् ॥ ४-८०॥ चकार कर्णेषु तयोः प्रमोदं दामोदरापूरितशृङ्गनादः । दिवि प्रसर्पन्नथ पांसुपूरः नेत्रेषु पीयूषमिवाभ्यवर्षत् ॥ ४-८१॥ तौ धूसराङ्गौ रजसा कुमारौ गत्वा स नन्दः परिरभ्य गाढम् । आत्मानमानन्दसमुद्रमग्नं नालं समुद्धर्तुमभून्मुहूर्तम् ॥ ४-८२॥ उत्पत्य धावद्भिरुदस्तशस्त्रैः क्ष्वेलारवक्षोभितदिग्विभागैः । आभीरवीरैस्स वृतः प्रपेदे व्रजं समाकर्णिततूर्यघोषम् ॥ ४-८३॥ चाटूक्तिभिः पार्श्वचरानशेषान् विसृज्य गोपान् सहितस्स मित्रैः । विवेश कृष्णो भवनं दिनान्ते समुज्वलन्मङ्गलदीपिकाभिः ॥ ४-८४॥ कामं दिवा कर्णपथं गतेन नीताः प्रियं वेणुरवेण विष्णोः । प्रतिप्रियं चक्रुरमुष्य सायं गावः पयोदोहननिःस्वनेन ॥ ४-८५॥ अनुदिनमिति कुर्वन् पालनं गोकुलस्य क्षणमिव दिवसानि क्रीडया यापयन् सः । अखिलमपि धरित्रीभारमभ्युद्धरिष्यन् अरमत सह शौरिस्तत्र सङ्कर्षणेन ॥ ४-८६॥ इति सुकुमारकृतौ कृष्णविलासकाव्ये चतुर्थः सर्गः ॥ ४ ॥
Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com

% Text title            : kRiShNavilAsakAvyam
% File name             : shrIkRiShNavilAsakAvyam.itx
% itxtitle              : kRiShNavilAsakAvyam (sukumArakavivirachitam)
% engtitle              : kRiShNavilAsakAvyam by Sukumarakavi
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : pramukha
% Author                : sukumArakavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NS Panicker in Malayalam http://sreekrishnavilasam.blogspot.in/
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Latest update         : August 2, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP