श्रीनिवासस्तोत्रम्

श्रीनिवासस्तोत्रम्

ॐ राजोवाच - दर्शनात्तव गोविन्द नाधिकं वर्तते हरे । त्वां वदन्ति सुराध्यक्षं वेदवेद्यं पुरातनम् ॥ १॥ मुनयो मनुजश्रेष्ठाः तच्छ्रुत्वाहमिहागतः । स्वामिन्नच्युत गोविन्द पुराणपुरुषोत्तम ॥ २॥ अप्राकृतशरीरोऽसि लीलामानुषविग्रहः । त्वामेव सृष्टिकरणे पालने हरणे हरे ॥ ३॥ कारणं प्रकृतिर्योनिं वदन्ति च मनीषिणः । जगदेकार्णवं कृत्वा भवानेकत्वमाप्य च ॥ ४॥ जीवकोटिधनं देव जठरे परिपूरयन् । क्रीडते रमया सार्धं रमणीयाङ्गविश्रमः ॥ ५॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । त्वन्मुखाद्विप्रनिचयो बाहुभ्यां क्षत्रमण्डलम् ॥ ६॥ ऊरुभ्यामभवन्वैश्याः पद्भ्यां शुद्राः प्रकीर्तिताः । प्रभुस्त्वं सर्वलोकानां देवानामपि योगिनाम् ॥ ७॥ अन्तःसृष्टिकरस्त्वं हि बहिः सृष्टिकरो भवान् । नमः श्रीवेङ्कटेशाय नमो ब्रह्मोदराय च ॥ ८॥ नमो नाथाय कान्ताय रमायाः पुण्यमूर्तये । नमः शान्ताय कृष्णाय नमस्तेऽद्भुतकर्मणे ॥ ९॥ अप्राकृतशरीराय श्रीनिवासाय ते नमः । अनन्तमूर्तये नित्यमनन्तशिरसे नमः ॥ १०॥ अनन्तबाहवे श्रीमन्ननन्ताय नमो नमः । सरीसृपगिरीशाय परब्रह्मन्नमो नमः ॥ ११॥ पन्नगाचलवासाय परब्रह्म नमो नमः । इति स्तुत्वा श्रीनिवासं कमनीयकलेवरम् ॥ १२॥ विरराम महाराज राजेन्द्रो रणकोविदः । स्तोत्रेणानेन सुप्रीतस्तोण्डमानकृतेन च ॥ १३॥ सन्तुष्टः प्राह गोविन्दः श्रीमन्तं राजसत्तमम् ॥ १३॥ श्रीनिवास उवाच - राजन्नलमलं स्तोत्रं कृतं परमपावनम् । अनेन स्तवराजेन मामर्चन्ति च ये जनाः ॥ १४॥ तेषां तु मम सालोक्यं भविष्यति न संशयः । इति श्रीवेङ्कटाचलमाहात्म्यमन्तर्गतं तोण्डमानकृतं श्रीनिवासस्तोत्रं सम्पूर्णम् । अथवा श्री श्रीनिवासस्तुतिः NA, PSA Easwaran, Aruna Narayanan
% Text title            : shrInivAsastotram or shrInivAsastutiH by Tondaman
% File name             : shrInivAsastotramThondaman.itx
% itxtitle              : shrInivAsastotram shrInivAsastutiH (toNDamAnavirachitaM darshanAttava govinda)
% engtitle              : shrInivAsastotram by Thondaman
% Category              : vishhnu, venkateshwara, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Author                : King Thondaman
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA, PSA Easwaran, Aruna Narayanan
% Indexextra            : (Stotram 1, 2, audio, mAhAtmya 1, 2, Video)
% Latest update         : October 4, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org