श्रीशुकस्तुतिः २
श्रीशुकः -
नमः परस्मै पुरुषाय भूयसे
सदुद्भवस्थाननिरोधलीलया ।
गृहीतशक्तित्रितयाय देहिना-
मन्तर्भवायानुपलक्ष्यवर्तिने ॥ १॥
भूयो नमः सद्वृजिनच्छिदे सता-
मसम्भवायाखिलसत्त्वमूर्तये ।
पुंसां मुहुः पारमहंस्य आश्रमे
व्यवस्थितानामनुमृश्य दाशुषे ॥ २॥
नमो नमस्तेऽस्त्वृषभाय सात्वतां
विदूरकाष्ठाय मुहुः (च) योगिनाम् ।
निरस्तसाम्यातिशयेन राधसा
स्वधामनि ब्रह्मणि रंस्यते नमः ॥ ३॥
यत्कीर्तनं यत्स्मरणं यदीक्षणं
यद्वन्दनं यच्छ्रवणं यदर्हणम् ।
लोकस्य सद्यो विधुनोति कल्मषं
तस्मै सुभद्रश्रवसे नमो नमः ॥ ४॥
विचक्षणा यच्चरणोपसाधनात्
सङ्गं व्युदस्योभयतोऽन्तरान्मनः ।
विन्दन्ति हि ब्रह्मगतिं गतक्लमाः
तस्मै सुभद्रश्रवसे नमो नमः ॥ ५॥
तपस्विनो वानपरा यशस्विनो
मनस्विनो मन्त्रविदः सुमङ्गलाः ।
क्षेमं न विन्दन्ति विना यदर्पणं
तस्मै सुभद्रश्रवसे नमो नमः ॥ ६॥
किरातहूणान्ध्रपुलिन्दपुल्कसा
आभीरकङ्का यवनाः कषादाः ।
येऽन्ये च पापा यदपाश्रयाश्रयाः
शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ ७॥
स एष आत्मात्मवतामधीश्वर
त्रयीमयो धर्ममयस्तपोमयो ।
गतव्यलीकैरजशङ्करादिभि
र्वितर्क्यलिङ्गो भगवान् प्रसीदतु ॥ ८॥
श्रियः पतिर्यज्ञपतिः प्रजापति-
र्धियां पतिर्लोकपतिर्धरापतिः ।
पतिर्गतिश्चान्धकवृष्णिसात्वतां
प्रसीदतां मे भगवान् सतां पतिः ॥ ९॥
इति श्रीशुकस्तुतिः सम्पूर्णा ।
Proofread by Rajesh Thyagarajan