श्रीसुदर्शनषट्कमम्
सर्वकार्यसिद्ध्यर्थे श्रीसुदर्शनषट्कम् ॥
सहस्रादित्यसंकाशं सहस्रवदनं प्रभुम् । परम्
सहस्रदं सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥ १॥
हसंतम् हारकेयुर मुकुटाङ्गद भूषणैः ।
शोभनैर्भूषिततनुं प्रपद्येऽहं सुदर्शनम् ॥ २॥
स्राकार सहितं मंत्रं वदतां शत्रु निग्रहम् ।
सर्वरोग प्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ३॥
रणत्किङ्किणि जालेन राक्षसघ्नं महात्भुतम् ।
व्याप्तकेशं विरूपाक्षं प्रपद्येऽहं सुदर्शनम् ॥ ४॥
हूँकार भैरवं भीमं प्रणतार्ति हरं प्रभुम् ।
सर्वदुष्ट प्रशमनं प्रपद्येऽहं सुदर्शनम् ॥ ५॥
फट्शारान्तमनिर्देश्यं दिव्यमंत्रेण संयुतम् ।
शुभं प्रसन्नवदनं प्रपद्येऽहं सुदर्शनम् ॥ ६॥
एतैष्षड्भिः स्तुतो देवः प्रसन्नः श्रीसुदर्शनः ।
रक्षां करोतु सर्वात्मा सर्वत्र विजयीभवेत् ॥ ७॥
Encoded and proofread by Usha K.Iyer iyerku at gmail.com