महाबलिकृतं सुदर्शनस्तोत्रम्
बलिरुवाच -
अनन्तस्याप्रमेयस्य विश्वमूर्तेर्महात्मनः ।
नमामि चक्रिणश्चक्रं करसङ्गि सुदर्शनम् ॥ ५०॥
सहस्रमिव सूर्याणां सङ्घातं विद्युतामिव ।
कालाग्निमिव यच्चक्रं तद्विष्णोः प्रणमाम्यहम् ॥ ५१॥
दुष्टराहुगलच्छेदशोणितारुणतारकम् ।
तन्नमामि हरेश्चक्रं शतनेमि सुदर्शनम् ॥ ५२॥
यस्यारकेषु शक्राद्या लोकपाला व्यवस्थिताः ।
तदन्तर्वसवो रुद्रास्तथैव मरुतां गणाः ॥ ५३॥
धारायां द्वादशादित्याः समस्ताश्च हुताशनाः ।
धाराजालेऽब्धयः सर्वे नाभिमध्ये प्रजापतिः ॥ ५४॥
समस्तनेमिष्वखिला यस्य विद्याः प्रतिष्ठिताः ।
यस्य रूपमनिर्देश्यमपि योगिभिरुत्तमैः ॥ ५५॥
यद्भ्रमत्सुरसङ्घानां तेजसः परिबृंहणं
दैत्यौजसां च नाशाय तन्नमामि सुदर्शनं
भ्रमन्मतमहावेगविभ्रान्ताखिलखेचरं
तन्नमामि हरेश्चक्रमनन्तारं सुदर्शनं
नक्षत्रवद्वह्निकणव्याप्तं कृत्स्नं नभस्तलं
तन्नमामि हरेश्चक्रं करसङ्गि सुदर्शनं
स्वभावतेजसा युक्तं यदर्काग्निमयं महत् ।
विशेषतो हरेर्गत्वा सर्वदेवमयं करम् ॥ ५७॥
दुर्वृत्तदैत्यमथनं जगतः परिपालकम् ।
तन्नमामि हरेश्चक्रं दैत्यचक्रहरं परम् ॥ ५८॥
करोतु मे सदा शर्म धर्मतां च प्रयातु मे ।
प्रसादसुमुखे कृष्णे तस्य चक्रं सुदर्शनम् ॥ ५९॥
स्वभावतेजसा युक्तं मध्याह्नार्कसमप्रभं
प्रसीद संयुगेऽरीणां सुदर्शनसुदर्शनम् ।
विद्युज्ज्वालामहाकक्षं दहान्तर्मम यत्तमः ॥ ६०॥
जहि नो विषयग्राहि मनो ग्रहविचेष्टितम् ।
विस्फोटयाखिलां मायां कुरुष्व विमलां मतिम् ॥ ६१॥
एवं संस्थूयमानं तद्वह्निपिण्डोपमं महत् ।
बभूव प्रकटं चक्रं दैत्यचक्रपतेस्तदा ॥ ६२॥
ददर्श स महाबाहुः प्रभामण्डलदुर्दृशम् ।
अग्निज्वालागतं ताम्रं तप्तचक्रमिवापरम् ॥ ६३॥
भ्रमतस्तस्य चक्रस्य नाभिमध्ये महीपते ।
त्रैलोक्यमखिलं दैत्यो दृष्टवान्भूर्भुवादिकम् ॥ ६४॥
मेर्वादीनखिलाञ्छैलान्गङ्गाद्याः सरितस्तथा ।
क्षीराब्धिप्रमुखांश्चाब्धीन्द्वीपाञ्जम्ब्वादिसंज्ञितान् ॥ ६५॥
वैमानिकान्सगन्धर्वान्सूर्यादींश्च तथा ग्रहान् ।
नक्षत्रतारकाकाशं शक्रादींश्च दिवौकसः ॥ ६६॥
रुद्रादित्यांश्च मरुतां साध्यानां च महीपते ।
सन्निधानं निरीक्ष्यासौ दैत्यानां विस्मितोऽभवत् ॥ ६७॥
ततः प्रणम्यार्तिहरं सुराणामपारसारं परमायुधं हरेः ।
नमो नमस्तेऽस्त्विति दैत्यराजः प्रोवाच भूयोऽपि नमो नमस्ते ॥ ६८॥
यन्नोऽशुभं चेतसि वायुवेग यन्नोऽशुभं वाचि हुताशनोत्थ ।
यच्चाशुभं कायकृतं हरेस्तद्वरायुधं त्वं प्रशमं नयाशु ॥ ६९॥
प्रसीद सत्कारकृतं ममाघं प्रयातु ते नाशमनन्तवीर्य ।
सतां च सन्मार्गवतां मनांसि स्थिरीभवन्त्वच्युतपादयुग्मे ॥ ७०॥
इति विष्णुधर्मेषु अष्टसप्ततितमोऽध्यायान्तर्गतं महाबलिकृतं सुदर्शनस्तोत्रम् ।
Proofread by PSA Easwaran