श्रीमत्सुनीतिभागवतम्
श्रीकृष्णाय नमः ।
प्रथमः स्कन्धः ।
लक्ष्मीसद्दयिते पयोभृदसिते संदत्तसद्वाञ्छिते
दोषौघै रहिते गुणैर्विलसिते मुख्यानिलान्तर्गते ।
सर्वैरप्यजिते सदव्यवहिते नारायणाख्यान्विते
ब्रह्माद्यैर्विनुते दृढं मम हिते कृष्णे मनोऽस्त्वच्युते ॥ १॥
निपीय यद्भागवतामृतं सज्जनोऽग्र्यसंसारभयं जहाति ।
ब्रह्मादिवन्द्यं प्रणमामि वेदव्यासं हरिं मध्वहृदब्जवासम् ॥ २॥
सुदुर्गमैर्दुष्टवचस्तमिश्रैर्निगूहितो भागवतार्थ उच्चैः ।
प्रकाशितो येन सदुक्तिभाभिः स मध्वभानुर्हरतात्तमो मे ॥ ३॥
प्रबोधयद्वालममि सुमध्वशास्त्रं बुधेन्द्रैरपि दुर्विबोधम् ।
येनाञ्जसा संविवृतं निषेवे जयप्रदं तं जयतीर्थराजम् ॥ ४॥
आनन्दतीर्थोक्तिमहानखाग्रैर्विदार्य दुर्वादिजनान् धरण्याम् ।
जहार सन्मार्गगतान्तरायान्स व्यासराट् सिंहवरोऽवतान्माम् ॥ ५॥
रम्या यदीया बहवो निबन्धा अद्यापि लोकस्य हरन्ति हृत्स्थम् ।
तमो वितन्वन्ति च मङ्गलं मां स पातु जीवोत्तमतीर्थवर्यः ॥ ६॥
गोकर्णसत्क्षेत्रवरेऽनवद्यः श्रीविठ्ठलं कोङ्कणविप्रवन्द्यः ।
अपूजयद्यो रघुचन्द्रतीर्थः संजुष्टगङ्गादिसमस्ततीर्थः ॥ ७॥
यतीश्वराद्योऽखिललोकहृद्यो विरक्तिभूपः परिभूतदोषः ।
शास्त्राब्धिचन्द्रो हरिभक्तिसान्द्रो भवेत्प्रसन्नः परमो गुरुर्नः ॥ ८॥
लक्ष्मीशभक्तो बहुधर्मसक्तो विवृद्धसम्पत्परिनाशितापत् ।
सदातिदान्तः प्रगुणः प्रशान्तः स तिम्मपाख्यः कृतसाधुसख्यः ॥ ९॥
द्विजोऽच्युताराधनतः सुपुत्रं लेभे गुणाढ्यं भुवि सर्वमित्रम् ।
महाबुधं सागरवेङ्कटेशं सच्छास्त्रविज्ञं तपनप्रकाशम् ॥ १०॥
ब्राह्मण्यमास्थाप्य बुधाः समस्ता येनैव दुस्तर्कभृतो निरस्ताः ।
आनन्दितः कोङ्कणविप्रसार्थः प्रमोदितः श्रीरघुनाथतीर्थः ॥ ११॥
सद्ब्रह्मसूत्रोत्तमभाष्यटीकाटीका कृता तत्त्वसुकौस्तुभाख्या ।
धर्मा महाभागवता जनेषु संस्थापिता येन च भूर्युपायैः ॥ १२॥
प्रदर्शितो येन च साधुमार्गस्तिरस्कृतोऽभूद्भुवि दुष्टवर्गः ।
दत्ता द्विजेभ्यः सकलाश्च विद्या विस्तारिता कीर्तिरथानवद्या ॥ १३॥
येनोपदिष्टं शुभमुत्तमेभ्यः श्रीमध्वशास्त्रं बहुशो जनेभ्यः ।
व्यर्थं कृतं चैकमपि स्म नाहः प्रसादितः श्रीरमणो नृसिंहः ॥ १४॥
तस्य प्रियायामथ शान्तवाय्यां कोनेरिरामौ तनयौ प्रजातौ ।
बभूवतू राघवलक्ष्मणौ सन्महानुरागाविव बुद्धिमन्तौ ॥ १५॥
तं सद्गुणं सागरवेङ्कटेशं विपश्चिदाश्चर्यवरं प्रणम्य ।
ज्येष्ठं च कोनेरिबुधप्रबर्हं सद्वैष्णवाग्र्यानखिलांस्तथैव ॥ १६॥
श्रीकृष्णभक्तानुचरः सलक्ष्मीनारायणप्रेरणयैव रामः ।
मुदे मुकुन्दस्य च वैष्णवानां सुनीतिसद्भागवतं करोति ॥ १७॥
दयालवः साधुजना गुणज्ञा विमत्सराः सद्गुणशालिनश्च ।
तुष्यन्तु मे वीक्ष्य कृतिं समस्ताः अहं यथा स्यां नितरां कृतार्थः ॥ १८॥
अज्ञस्य बालस्य कृपास्पदस्य प्रवर्तमानस्य सुदुष्करेऽर्थे ।
संगृह्णतः स्वल्पपदैः प्रभूतमर्थं च सङ्कोचनिषक्तबुद्धेः ॥ १९॥
नम्रत्वभाजो मम सर्वसन्तो वात्सल्यवन्तोऽन्यगुणेषु तुष्टाः ।
न्यूनाधिकं काव्यकृतिश्रमज्ञाः किमप्युदारा स्खलनं सहध्वम् ॥ २०॥
सूतोक्तं किल नारदस्तुतमभूद्यत्सत्पदं यः स्वयं
व्यासः फल्गुनभीष्मयोः प्रियतमो भक्तेष्टकृद्धर्मजः ।
प्रोचे यद्गतिमर्जुनो विहरतः खिन्नश्च पार्था ययुः
शप्तोऽयं कलिजित्परीक्षिदभजत्कृष्णः स नो रक्षतात् ॥ २१॥
वर्णितं प्रथमे स्कन्धे भगवद्भक्तसद्यशः ।
गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ २२॥
ग्राह्या विद्योत्तमा हीनजन्मनोऽपि विमत्सरैः ।
श्रीमद्भागवतं सूताच्छुश्रुवुः शौनकादयः ॥ २३॥
अदर्श्यमपि संदर्श्यं तत्रैवेच्छाविवृद्धये ।
शूद्रात्मने हरी रूपं नारदाय न्यदर्शयत् ॥ २४॥
मनस्तुष्टिकरं कार्यशेषं धीमान्न शेषयेत् ।
चक्रे भागवतं व्यासो नारदोक्तोऽखिलार्थकृत् ॥ २५॥
कृतं परेण यत्कर्म कार्या तदुचिता क्रिया ।
ब्रह्मास्त्रे द्रौणिनोत्सृष्टे तन्मुमोच धनञ्जयः ॥ २६॥
द्विजस्याकार्मणः कार्यो निग्रहो हननं विना ।
मणिं कृष्णोदितो द्रौणेर्हृतवान्न शिरोऽर्जुनः ॥ २७॥
न भवेन्महतोऽप्युक्तौ विश्रम्भः पक्षपातिनः ।
प्रबोधितोऽपि कृष्णाद्यैर्भीष्मं पप्रच्छ धर्मराट् ॥ २८॥
वाञ्छितादधिकं पुण्यकृतोऽभीष्टं प्रसिध्यति ।
भीष्मस्यासीत्पुरः कृष्णो मुमूर्षोरुत्तरायणे ॥ २९॥
खेदे प्राप्तेऽपि नो मोच्यमश्रु कर्मणि मङ्गले ।
कृष्णे निर्याति नेत्राम्बु न्यरुन्धन् पाण्डवस्त्रियः ॥ ३०॥
ज्येष्ठमध्यमनीचाश्च माननीया यथोचितम् ।
स्त्रियः प्रजाश्च पित्रादीन्भगवान्सममानयत् ॥ ३१॥
स्थितिज्ञः स्वोचितं कुर्यात्स्वबुद्ध्या वान्यचोदितः ।
धृतराष्ट्रः सभार्योऽगाद्वनं विदुरबोधितः ॥ ३२॥
क्लेशो न कार्यः श्रीविष्णुवशत्वात्संपदापदोः ।
पित्रादिशोकं तत्याज धर्मजो नारदोदितः ॥ ३३॥
निमित्तैरेव धीमद्भिर्भविष्यदवगम्यते ।
दृष्टोत्पातोऽवदद्भीमं धर्मराड्भगवद्गतिम् ॥ ३४॥
व्यर्थेशबलहीनस्य बहुसाधनता मता ।
गाण्डीवाद्यर्जुनस्यासीत्कृष्णस्त्रीरक्षणे वृथा ॥ ३५॥
यस्मिन् देशे न सुहृदो न मित्रं तत्र नो वसेत् ।
श्रुत्वार्जुनोक्तां कृष्णस्वधामाप्तिं पाण्डवा ययुः ॥ ३६॥
दुष्ट उत्तमवेषोऽपि सतामातनुते व्यथाम् ।
पीडयामास गोयुग्मं कलिर्नृपतिलाञ्छनः ॥ ३७॥
रक्ष्यः पूर्वमनम्रोऽपि खलोऽपि पतितः पदोः ।
कलयेऽदाद्वधोद्युक्तः परीक्षित्स्थानपञ्चकम् ॥ ३८॥
श्रान्तोऽतिक्षुधितो वेत्ति स्वयोग्यं न विवेक्यपि ।
मुनेरंसे मृतं सर्पं परीक्षिन्निदधे रुषा ॥ ३९॥
त्यज गर्वं जय क्रोधं हितं ब्रूहि भज क्षमाम् ।
दत्तशापं सुतं राज्ञे प्रणिनिन्द मुनिः क्षमी ॥ ४०॥
प्रत्यासन्ने मृतेः काले विहायान्यद्धरिं भजेत् ।
श्रुतशापोऽच्युतं भेजे परीक्षिन्मुनिसम्मतः ॥ ४१॥
ब्रवीति चतुरः पृष्टः सन्नेवादरतः परैः ।
पृष्टः परीक्षिता राज्ञा श्रीशुकः प्रत्यभाषत ॥ ४२॥
लक्ष्मीशोरुमातेर्लसद्गुणततेः सन्मध्वपूजारतेः
श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् ।
रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते
सच्छ्लोकैर्दशभिर्लसन्द्विगुणितैः स्कन्धोऽन्तमाद्योऽगमत् ॥ ४३॥
इति सुनीतिभागवते प्रथमस्कन्धः समाप्तः ॥
द्वितीयः स्कन्धः ।
संप्रोक्ता च शुकेन वाञ्छितकरी यद्धारणोचेऽब्जजो
यद्वीर्यं च यदीरिताः प्रससृजुर्ब्रह्माण्डमग्र्यं सुराः ।
यः सद्बह्ववतारभागसुरहृत्संप्राप्य बोधं विधि-
र्यस्मात्सर्वजगत्ससर्ज हितकृत्कृष्णः स नो रक्षतात् ॥ १॥
ब्रह्मादिप्रणुते विचित्रचरिते विज्ञानदानोद्यते
सद्रक्षानिरते गुणौघभरिते निःशेषदोषोज्झिते ।
व्यासे वागमृतेऽनिशं प्रमुदिते श्रीमध्वहृत्संस्थिते
भक्तिर्मेऽत्युचिते सदाप्रतिहते स्यात्सत्यवत्याः सुते ॥ २॥
द्वितीये वर्णितं स्कन्धे भगवद्भक्तसद्यशः ।
गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥
क्षिप्रं प्रवृत्तये ब्रूयात् पण्डितः फलनिश्चयम् ।
जगाद धारणां धातृस्मृतिलब्धिकरी शुकः ॥ ४॥
स्वयोग्यतानुसारेण प्रवर्तन्ते मनीषिणः ।
केचिद्भजन्ति वैराजं हृत्स्थं रूपं हरेः परे ॥ ५॥
परिपृच्छेदविज्ञातमहङ्कारसमुज्झितः ।
स्वाज्ञातं नारदस्तत्त्वमपृच्छच्चतुराननम् ॥ ६॥
कार्यं कर्तुमशक्तोऽपि शक्नुयाच्छ्रेष्ठचोदितः ।
ब्रह्माण्डं ससृजुर्विष्णुप्रेरिताः संहताः सुराः ॥ ७॥
दुष्टान् जहि सतो रक्ष सन्मार्गमनुदर्शय ।
वराहाद्यवतारोऽभूदेतदर्थं जनार्दनः ॥ ८॥
साधने सत्यपि ज्ञानं विना कार्यं न सिध्यति ।
जगत्कृतिदृशे ब्रह्मा हर्यादिष्टस्तपोऽचरत् ॥ ९॥
न तुष्यति मनः कस्य परमाद्भुतदर्शने ।
स्वलोकसंस्थितं वेष्णुं दृष्ट्वा तुष्टोऽनमद्विभुः ॥ १०॥
किमलभ्यं भवेत्पुंसः सुप्रसन्ने महात्मनि ।
प्रीतात्सकलविज्ञानं स्वयम्भूः प्राप्तवान् हरेः ॥ ११॥
समस्तमपि कुर्वीत स्वाम्यनुग्रहभाङ्नरः ।
ससर्ज निखिलं वेधा हरिणेक्षाप्रचोदितः ॥ १२॥
सम्यक् परहितं सन्तः कुर्वन्त्येवाप्यनर्थिताः ।
ब्रह्माचरच्च भद्रार्थं प्रजानां नियमान्यमान् ॥ १३॥
लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः
श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् ।
रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते
सच्छ्लोकैर्दशभिर्वरो विलसितः स्कन्धो द्वितीयोऽगमत् ॥ १४॥
इति सुनीतिभागवते द्वितीयस्कन्धः समाप्तः ॥
तृतीयः स्कन्धः ।
मैत्रेयो निजगाद यात्परकथा ब्रह्मासृजच्चोदितो
येनाशेषमथासुरं समवधीद्योऽभूद्धिरण्याक्षहृत् ।
भक्ताभीप्सितदो वराहतनुभाग्यः कर्दमस्येष्टकृत्
साक्षाद्यः कपिलो हितं ह्यकथयत्कृष्णः स नो रक्षतात् ॥ १॥
लक्ष्मीशं भजते जगद्भयहृते द्वैपायनाज्ञाधृते
मोहं नाशयतेऽसुरान् विजयते सच्छास्त्रमातन्वते ।
साधूनुद्धरते प्रधानमरुते मध्वाख्यया राजते
गीर्वाणेष्टकृते नमो गुणवते तस्मै सदा श्रीमते ॥ २॥
तृतीये वर्णितं स्कन्धे भगवद्भक्तसद्यशः ।
गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥
हितमप्युपदेष्टव्यं न मूर्खेभ्यो विशारदैः ।
चकार विदुरस्तीर्थयात्रां भ्रातृजधिक्कृतः ॥ ४॥
न कार्योऽपरिहार्येऽर्थे शोको विज्ञानशालिभिः ।
श्रुत्वोद्धवात्सुहृन्नाशं नातनोद्विदुरः शुचम् ॥ ५॥
प्राप्तं विद्यार्थिनं शान्तं श्रेयोऽर्थी न परित्यजेत् ।
मैत्रेयो माधवादिष्टो विदुरं प्रत्यबोधयत् ॥ ६॥
अज्ञानं सम्भवत्येव कदाचिन्महतामपि ।
नात्मानमपि नाभ्यब्जजातो विधिरबुध्यत ॥ ७॥
महानपि विना सेवामभीष्टं न ददात्यहो ।
ज्ञानार्थं प्रणुतो विष्णुर्ब्रह्मणे तप आदिशत् ॥ ८॥
कृतेऽनिष्टकृतां मूलोन्मूलने स्वेष्टभाग्भवेत् ।
पीत्वा सहाम्भसा वायुं धाता लोकान् विभक्तवान् ॥ ९॥
बालस्य रोदनादन्यद्बलं नास्तीष्टसाधनम् ।
नामानि ब्रह्मणो रुद्रः स्थानानप्याप्तवान् रुदन् ॥ १०॥
अचीर्णतपसा पुंसा प्रजा साध्वी न लभ्यते ।
रुद्रसृष्टां प्रजामुग्रां वीक्ष्यादिशदजस्तपः ॥ ११॥
आचरन्ति महीयांसः कर्म दुष्टविमोहकम् ।
इच्छन्निव विधिर्वाचं तत्याज तनयोक्तितः ॥ १२॥
यतेत पितृशुश्रूषाकृतयेऽनुक्त आत्मजः ।
प्रजावनाय चादिष्टो विधात्राऽऽनन्दितो मनुः ॥ १३॥
कुर्यादतिप्रियस्येष्टं प्रागेव वचसार्थनात् ।
वराहो ब्रह्मनासोत्थोऽसुरं हत्वा क्षितिं न्यधात् ॥ १४॥
तावद्विनीतो लज्जावाञ्जनो यावन्न कामुकः ।
कश्यपस्याहरद्वासः सन्ध्यायां रतये दितिः ॥ १५॥
अकालचरितं कर्म महानर्थफलप्रदम् ।
दुष्पुत्रौ भाविनौ प्रोचे कश्यपो रतिकृद्दितिम् ॥ १६॥
विनाशकाले सम्प्राप्ते विपरीता मतिर्भवेत् ।
जयेन विजयेनापि संरुद्धाः सनकादयः ॥ १७॥
सर्वैरप्यनुमन्तव्यं प्रभोरनुमतं हि यत् ।
भृत्यशापविमोक्षोऽभूद्विष्णूक्तोऽनुमतो द्विजैः ॥ १८॥
धीमानवगते कार्यतत्त्वे न लभते भयम् ।
दितिगर्भाद्भियं देवा मुमुचुः कञ्जजोदिताः ॥ १९॥
रक्षन् कालानुसारी स्वं गणयेन्न पराभवम् ।
निलीना निर्जराः प्रेक्ष्य हिरण्याक्षं रणोद्यतम् ॥ २०॥
इच्छन्ति कलहं दुष्टाः शान्तिमिच्छन्ति सज्जनाः ।
वरुणो हरिमेवोचे हिरण्याक्षस्य युद्धदम् ॥ २१॥
दुरुक्तिवादो मायायां न स्याद्गर्वार्तिकारकः ।
हिरण्याक्षो वराहेण ब्रह्मोक्तेन विनाशितः ॥ २२॥
अज्ञात्वा कुर्वतेऽनिष्टं स्वस्वरूपं निवेदयत् ।
ब्रह्मणा बोधिता जग्धुं प्रवृत्ता यक्षराक्षसाः ॥ २३॥
तदेव विसृजेत्स्वस्य यदर्थं स्यात्पराभवः ।
विससर्ज विधिर्विष्णुप्रोक्तो जघनविग्रहम् ॥ २४॥
स्यादत्याराधनात्प्राप्यं प्रार्थितादधिकं प्रियम् ।
दयितार्थी तपःप्रीतात्प्रापेष्टं कर्दमो हरेः ॥ २५॥
प्रीणयेत्स्वान्तिकं प्राप्तं पूजया वचनैरपि ।
मनोः स्वायंभुवस्यैवं कर्दमः प्रीतिमावहत् ॥ २६॥
प्रार्थितः सन्नवाप्नोति स्वाभीष्टं सुकृती नरः ।
देवहूतिं मुनिर्लेभे कर्दमो मनुनार्थितः ॥ २७॥
स्यान्नोपस्करणत्यक्तमिष्टमप्यतिहर्षदम् ।
देवहूतिर्धवे तुष्ट ऐच्छद्रतिगृहदिकम् ॥ २८॥
सिद्धिर्मनोरथादेव क्षणेन स्यान्महीयसाम् ।
कर्दमो नवरूपः सन् विमानेऽरमत स्त्रिया ॥ २९॥
निजेप्सितं निरुध्यापि कुर्यात्स्वजनवाञ्छितम् ।
भार्यार्थितः सुते जाते तनयाः कर्दमो ददौ ॥ ३०॥
अवाप्य बृहतोऽनुज्ञां कृतं कार्यं शुभप्रदम् ।
सद्गतिं कपिलाज्ञप्तः परिव्राट् प्राप कर्दमः ॥ ३१॥
समस्तैः प्रभुणा हीनैः कार्यं कर्तुं न शक्यते ।
नोदतिष्ठद्विराड्वह्निपूर्वेष्वनुगतेष्वपि ॥ ३२॥
सन्मार्ग एव लोकानामच्छिन्नसुखसाधनम् ।
कपिलोदितमार्गेण हरिं प्राप मनोः सुता ॥ ३३॥
लक्ष्मीशोरुमतेर्लसद्गुणतते सन्मध्वपूजारतेः
श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् ।
रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते
सच्छ्लोकैर्दशभिर्लसस्त्रिगुणितं स्कन्धस्तृतीयोऽगमत् ॥ ३४॥
इति सुनीतिभागवते तृतीयस्कन्धः समाप्तः ॥
चतुर्थः स्कन्धः ।
अत्रेर्दक्षसुयज्ञनाशनकृतो रुद्रस्य सर्वार्चित-
श्चक्रे यश्च मुदं ध्रुवाय परमं प्रीतः पदं यो ददौ ।
अङ्गस्यापि पृथोरभीष्टमकरोद्योऽभूत्प्रचेताः प्रियो
मुक्तो यत्कृपया पुरञ्जननृपः कृष्णः स नो रक्षतात् ॥ १॥
श्रीविष्णुं नमते प्रियं विदधते ग्रन्थान् बहून् कुर्वते
मध्वोक्तिं स्तुवते खलान्नमयते धैर्यं महाभूभृते ।
संभग्नद्विषते सते भगवते साधून् जनान् रक्षते
नित्यं श्रीजयतीर्थराण्मुनियते तुभ्यं नमो धीमते ॥ २॥
चतुर्थे वर्णितं स्कन्धे भगवद्भक्तसद्यशः ।
गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥
महोद्योगेन सिध्यन्ति कार्याण्यतिमहान्त्यपि ।
चन्द्रं दुर्वाससं दत्तं लेभेऽत्रिस्तपसा सुतान् ॥ ४॥
अवमानं करोत्येव स्वावमोऽप्यवमानितः ।
दक्षो रुरोध रुद्रस्य यज्ञभागमनुत्थितेः ॥ ५॥
एकदा नारभेतैव विद्वेषं बहुभिः सह ।
नन्दिशप्तेषु विप्रेषु सदक्षेष्वशपद्भृगुः ॥ ६॥
न शुभं वाशुभं कुर्यात्पत्नी भर्त्रा निवारिता ।
साती गता मखस्थानं दक्षेणानादृताभवत् ॥ ७॥
प्राणानप्युत्सृजेन्नैव शृणुयाच्छ्रेष्ठनिन्दनम् ।
रुद्रावज्ञाकरं दक्षं सती वीक्ष्य जहावसून् ॥ ८॥
कुर्यादुपद्रवप्राप्तौ ज्ञातायां तत्प्रतिक्रियाम् ।
ऋभुभिर्भृगुरीशस्य पार्षदान् संन्यवारयत् ॥ ९॥
संप्रेष्यो विषमे कार्ये समर्थः स्वसमो भटः ।
दक्षयज्ञक्षयायेशो वीरभद्रं समादिशत् ॥ १०॥
श्रेष्ठावज्ञाकृतः पुंसो नानुकूलो भवेद्बुधः ।
भगोऽदृग्भृगुरश्मश्रुः पूषा दन्तोज्झितोऽभवत् ॥ ११॥
पुनर्यथैव नोत्तिष्ठेद्धन्याद्युक्त्या तथा रिपुम् ।
दक्षिणाग्नौ जुहावेशश्छित्वा दक्षपशोः शिरः ॥ १२॥
अपकारिषु रुष्टस्य साम्ना संनाशयेद्रुषम् ।
देवैर्निवेदितो ब्रह्मा रुद्रस्याशमयत्क्रुधम् ॥ १३॥
पूर्वस्थितिं प्रपन्नोऽपि प्रापयेन्नापराधिनः ।
पूषादीनां स्वनिर्वाहं चक्रेऽन्यावयवैः शिवः ॥ १४॥
संदृष्टः पूर्वपुण्येन पूजनीयोऽखिलैः पृथक् ।
प्रादुर्भूतं हरिं दक्षयज्ञे सर्वे प्रतुष्टुवुः ॥ १५॥
कार्याकार्ये न जानाति कान्तया विजितः पुमान् ।
सुरुच्याक्षिप्त उत्तानपादेनोपेक्षितो ध्रुवः ॥ १६॥
कोपितो दुष्करमपि कुर्यात्खिन्नोऽन्यबोधितः ।
अगमत्तपसे बालः सुनीत्या प्रेरितो ध्रुवः ॥ १७॥
परीक्ष्य मानसं सम्यक्पश्चात्कार्यविधिं वदेत् ।
नारदः सुस्थिरं मत्व ध्रुवमूचे तपोविधिम् ॥ १८॥
महात्माङ्गीकृतं सर्वलोकानां दुस्त्यजं भवेत् ।
ध्रुवेण स्वीकृते प्राणरोधे विश्वस्य सोऽभवत् ॥ १९॥
शीघ्रां सन्तुष्टिमभ्येति शिशुनाऽऽराधितः पुमान् ।
वरं स्थानं ध्रुवायादाद्वासुदेवो सुरार्थितः ॥ २०॥
कृतापराधा हन्तव्या बहवोऽपि महाश्रयाः ।
हतोत्तमा ध्रुवेणाजौ धनदानुचरा हताः ॥ २१॥
निर्वैरो विगतक्रोधो महतां मानदो भवेत् ।
ध्रुवो मनूक्तिभिः शान्तः कुबेराद्वरमग्रहीत् ॥ २२॥
आत्मनो हितकर्तारं कार्ये जाते न विस्मरेत् ।
स्थानं ध्रुवो विमानेन गच्छन् मातरमस्मरत् ॥ २३॥
विहीनः सदपत्येन धर्मात्मापि विनिन्द्यते ।
अश्वमेधेऽङ्गराजस्य देवा न जगृहुर्हविः ॥ २४॥
दुष्टसङ्गतितो रक्ष्या बाल्ये बाला शुभार्थिभिः ।
लब्ध इष्ट्वा हरिं वेनो मृत्युसङ्गादधर्म्यभूत् ॥ २५॥
सुत उल्लङ्घितस्वाज्ञे गच्छेद्देशान्तरं पिता ।
त्यक्ताज्ञेऽङ्गः शठे वेने सर्वान् हित्वा ययौ निशि ॥ २६॥
हन्यात्स्ववर्धितमपि दुष्टमुत्पथगामिनम् ।
निजघ्नुर्मुनयो वेनं स्वाभिषिक्तं कृतागसम् ॥ २७॥
गुणा एव प्रपूज्यन्ते महत्वं वयसा वृथा ।
वेनाङ्गात्प्रागभूज्जातो निषादो भूपतिः पृथुः ॥ २८॥
महतः सन्निधानेन मानयन्त्यखिला जनाः ।
अभिषिक्ताय वर्मादि ब्रह्माद्या पृथवे ददुः ॥ २९॥
लज्जामवाप्य गुणिना निन्दनीयात्मनः स्तुतिः ।
सूताद्या पृथुराजेन स्वस्तोत्राद्विनिवारिताः ॥ ३०॥
परोपजीवनायैव वर्धयेदात्मसम्पदः ।
प्रजान्नार्थं पृथुर्भीतां प्रणतां प्रदुदोह गाम् ॥ ३१॥
सुखं न लभते कोऽपि धर्मविघ्नकरः पुमान् ।
पृथुवाजिहरं शक्रमृत्विजो होतुमुद्यताः ॥ ३२॥
नाचरेद्धर्ममप्यग्र्यं महतां कीर्तिनाशकम् ।
वारितोऽभूद्विरिञ्चेन यज्ञः शततमः पृथोः ॥ ३३॥
प्रभुणा परिहर्तव्यो द्वेष आत्मीययोर्मिथः ।
अनुशास्य पृथुं चक्रे शचीपतिसखं हरिः ॥ ३४॥
निःशेषं कथयेत्पृष्टं भक्त्या संप्रार्थितः सता ।
पृथुं सनत्कुमारो हि क्षेमोपायं भवेऽब्रवीत् ॥ ३५॥
अनुगम्यः पतिः पत्न्या श्रीमान्निःस्वो मृतोऽपि वा ।
अर्चिर्बभूव देवीभिः संस्तुतानुगता पृथुम् ॥ ३६॥
सज्जनस्य हितोपायं कृपालुः कथयेत्स्वयम् ।
हरः प्रचेतसो बर्हिष्मदाख्यं चाह नारदः ॥ ३७॥
बहुव्यापारसक्तेन कालवेगो न बुध्यते ।
सक्तः प्रियारतौ कालं बुबुधे न पुरञ्जनः ॥ ३८॥
स्वोदितास्वीकृतो दुष्टा दुरुक्तिं श्रावयन्ति हि ।
स्वयाज्ञाविमुखं मूढा नारदं दुर्भगाशपत् ॥ ३९॥
कुटुम्बी दुर्बलो ह्यन्ते बहून् क्लेशानवाप्नुयात् ।
तापं पुरञ्जनः प्राप गन्धर्वादिभिरर्दितः ॥ ४०॥
न हिंस्याः प्राणिनः कार्या विषयातिरतिर्न च ।
निरये पशुभिश्छिन्नो वैदर्भ्यासीत्पुरञ्जनः ॥ ४१॥
संपद्येव जनः सर्वो हितकृन्मित्रमापदि ।
शोकं नाशितवान् पूर्वो वैदर्भ्या ब्राह्मणः सखा ॥ ४२॥
प्रीणयेदतियत्नेन महान्तं निखिलार्थदम् ।
हरिप्रीतिकृतः प्रापुः सर्वाः सिद्धीः प्रचेतसः ॥ ४३॥
लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः
श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् ।
रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते
स्कन्धोऽगाद्धि चतुर्गुणैश्च दशभिः श्लोकैश्चतुर्थो लसन् ॥ ४४॥
इति श्रीसुनीतिभागवते चतुर्थः स्कन्धः समाप्तः ॥
पञ्चमः स्कन्धः ।
साम्राज्यं समगात्प्रियव्रतनृपश्चाग्नीध्रराण्नाभिराट्
यत्पादाब्जरतः स्वयं य ऋषभो धर्मानथादर्शयत् ।
यद्भक्तो भरतो गयश्च सुयशा यः सर्वलोकस्थितैः
पूज्यो यद्विमुखाः पतन्ति नरके कृष्णः स नो रक्षतात् ॥ १॥
सद्धर्मे सुमतेर्ययातिनृपतेराराधितश्रीपतेः
सत्ये शैलपतेर्जये रातिपतेः साक्षाच्च गौरीपतेः ।
दानेऽङ्गाधिपते रिपौ पितृपतेर्वाण्या च वाचस्पतेः
श्रीमद्व्यासयते दयास्तु मयि ते पूर्णा क्षमायां क्षितेः ॥ २॥
वर्णितं पञ्चमे स्कन्धे भगवद्भक्तसद्यशः ।
गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥
नाश्रयेद्धर्ममन्यस्य विहायोचितमात्मनः ।
प्रियव्रतस्य संन्यासं ब्रह्माऽऽगत्य न्यवारयत् ॥ ४॥
कार्यमत्यद्भुतं कर्म स्वप्रभावप्रकाशकम् ।
चक्रे प्रियव्रतः सप्तसमुद्रंश्चक्रनेमिभिः ॥ ५॥
प्रयस्येन्न बुधः सत्सु परेष्वात्मार्थकारिषु ।
भूमिं विभज्य पुत्रेभ्यः संन्यास्यासीत्प्रियव्रतः ॥ ६॥
योगिनोऽपि विमोहः स्यात्कामिनीमुखदर्शने ।
संप्रार्थ्य भेज आग्नीध्रः पूर्वचित्तिं विमूढधीः ॥ ७॥
कामी देहं विनाश्यापि लब्धुमिच्छति सुन्दरीम् ।
अयजद्धरिमाग्नीध्रः प्रियासालोक्यसिद्धये ॥ ८॥
श्रद्धावान् शुद्धभावेन कर्म स्वोचितमाचरेत् ।
मुकुन्दो यजतो नाभेः प्रसन्नः पुत्रतामगात् ॥ ९॥
अदातुः स्पर्धया स्वेष्टं चेच्छेत्तत्साधयेत्स्वयम् ।
स्ववर्षं ऋषभोऽवृष्टावभ्यवर्षीत्स्वशक्तितः ॥ १०॥
शिक्षणयाः सुताः पित्रा स्वयं संशिक्षिता अपि ।
अनुशिष्टान् स्वतनयानृषभः समशिक्षयत् ॥ ११॥
आचरेदुत्तमान् धार्मान् शिक्षयन् सज्जनान् महान् ।
ऋषभो मुनिशिक्षार्थमवधूत इवाचरत् ॥ १२॥
महात्युल्लङ्घितेऽप्यल्पमलङ्घ्यं दैवतो भवेत् ।
भरतस्य विरक्तस्य दुस्त्यजोऽभून्मृगार्भकः ॥ १३॥
पुनः कुर्यान्न दुष्कर्म फले ज्ञातेऽनुतापवान् ।
अत्यजद्भरतोऽसङ्गः सङ्गाप्तं मृगविग्रहम् ॥ १४॥
व्यर्थायासनिवृत्यर्थं स्वस्याज्ञत्वं प्रकाशयेत् ।
विप्रजन्मात्मनो जाड्यं भरतः समदर्शयत् ॥ १५॥
कृतसाधुवधोद्योगः स्वयमेव विनश्यति ।
हन्तुकामा द्विजं भद्रकाल्या हि वृषला हताः ॥ १६॥
अपराधमपि श्रेष्ठं सहेताज्ञानिना कृतम् ।
उवाह शिबिकां राज्ञो गृहीतो भरतो द्विजः ॥ १७॥
परस्वरूपं विज्ञेयं वचनादेव नाकृतेः ।
स्वभर्त्सितं द्विजं जानन्ननामोक्ते रहूगणः ॥ १८॥
विधायानुग्रहं विद्वानज्ञं सम्यक्प्रबोधयत् ।
विप्रो रहूगणं भूपं बोधयामास सूक्तिभिः ॥ १९॥
सत्सेवाभक्तिधर्मश्रीज्ञानोपशमभाग्भवेत् ।
गयो नाम महाराजः सर्वेष्वप्रतिमोऽभवत् ॥ २०॥
प्राप्यं बहुभिराकारैर्बहुस्थानेषु पूजनम् ।
नानाकृतिर्हरिः सर्वैर्नानास्थानेषु पूज्यते ॥ २१॥
गुर्वप्यत्यन्तमन्यस्य नैव स्यान्महतो गुरु ।
शेषस्य शिरसि क्षोणीमण्डलं सर्षपायते ॥ २२॥
सर्वभूतसुहृद्दान्तः सदाचारी सदा भवेत् ।
नरकेषु यमः पापान्निपातयति निर्दयः ॥ २३॥
लक्श्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः
श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् ।
रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते
सच्छ्लोकैर्दशभिर्लसन् द्विगुणितैः स्कन्धोऽगमत्पञ्चमः ॥ २४॥
इति श्रीसुनीतिभागवते पञ्चमः स्कन्धः समाप्तः ॥
षष्ठः स्कन्धः ।
यत्सेवाकृदजामिलो जयमगाद्धर्यश्वमुख्यास्तथा
श्रीनारायणवर्म वज्र्यधिगतः सद्विश्वरूपोदितम् ।
वृत्रं स न्यवधीत्सुसिद्धिमगमद्राट् चित्रकेतुर्दिते-
र्गर्भं प्राणहरं चकर्त मघवा कृष्णः स नो रक्षतात् ॥ १॥
श्रीशार्चाधिकृतेः कृतात्युपकृतेराचीर्णसत्सत्कृतेः
संशुद्धप्रकृतेरचित्तविकृतेः पादौ सुसौम्याकृतेः
श्रीजीवोत्तमसंयमिप्रवर ते नौमीप्सिताप्तेः कृते ॥ २॥
स्कन्धेऽथ वर्णितः षष्ठे भगवद्भक्तसद्यशः ।
गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥
सुखावहं वरं वस्तु कथञ्चिदपि सेवितम् ।
नारायणेति चाहूय मुक्तः पुत्रमजामिलः ॥ ४॥
संगत्या क्षीयते साधुः संगत्यैव प्रजायते ।
शूद्रस्याजामिलः पापो दूतानां सङ्गतः सुधीः ॥ ५॥
मानयेन्महतो वाक्यं भद्रार्थी तोषयेत्प्रभुम् ।
कन्यां प्रचेतसः प्राप्ता दक्षोऽप्यपेप्सितं हरेः ॥ ६॥
संगतिर्यादृशां जाता यस्य सः स्यात्तु तादृशः ।
हार्यश्वाः सन्तताविच्छां जहुर्नारदसङ्गतेः ॥ ७॥
तितिक्षोरपि कोपः स्यात्पुनरप्यप्रिये कृते ।
भिक्षून् श्रुत्वाशपद्दक्षो नारदं शबलाश्वकान् ॥ ८॥
अवमानकरं श्रेष्ठमपि धीरः परित्यजेत् ।
अदृश्योऽभूद्गुरुर्मत्तं विमुच्येन्द्रमनुत्थितम् ॥ ९॥
वयसोनमपि प्राज्ञं द्विजं सेवेत सम्पदे ।
विश्वरूपं विरिञ्चोक्ता भेजुर्दैत्यार्दिताः सुराः ॥ १०॥
भवेत्सम्यग्धृता विद्या सर्वत्र विजयावहा ।
जिगाय दितिजानिन्द्रः श्रीनारायणवर्मधृत् ॥ ११॥
दुष्टस्नेहो न कर्तव्यो न कार्यं मित्रवञ्चनम् ।
हत इन्द्रेण दैत्येभ्यो विश्वरूपो ददद्धविः ॥ १२॥
न साध्वसाधु वा कर्म महान्तमपि मुञ्चति ।
अब्दान्ते ब्रह्महत्याघं शक्रो भ्वादौ विभक्तवान् ॥ १३॥
शृणुयाद्विजयोपायमज्ञोऽपि प्राज्ञभाषितम् ।
शुश्रुवुर्विष्णुना प्रोक्तं वृत्रासुरजिताः सुराः ॥ १४॥
परोपकृतये धीरः स्वशरीरमपि त्यजेत् ।
दधीचिरमरैः सेन्द्रैर्याचितः स्वातनुं जहौ ॥ १५॥
मुखरोऽवसरे युद्धे शूरः स्याद्धीर आपदि ।
वृत्रो धैर्यादिना तुष्टैः पूजितोऽभूत्सुरासुरैः ॥ १६॥
दुष्पक्षपाती हन्तव्यो विद्वानप्यतियत्नतः ।
कुक्षेर्निष्क्रम्य वृत्रस्य वज्रेणेन्द्रोऽहरच्छिरः ॥ १७॥
क्षीयन्ते दुस्तरा दोषाः कृते महति कर्मणि ।
हयमेधकृतो वृत्रहत्या नष्टा शचीपतेः ॥ १८॥
पूर्वमेव वदेद्भावि बुद्धिमान् साध्वसाधु च ।
प्रोचे हर्षार्तिदं पुत्रमङ्गिराश्चित्रकेतवे ॥ १९॥
अमान्यमप्यतिक्षुद्रं नावमन्येत कञ्चन ।
कृतद्युतेः शिहुः स्त्रीभिर्भर्तुर्द्वेषाद्धि मारितः ॥ २०॥
क्षिप्रं फलति सद्विद्या प्रसन्नगुरुणोदिता ।
नारदोदितया सिद्धश्चित्रकेतुर्हि विद्यया ॥ २१॥
आलम्ब्य धृष्ठतां श्रेष्ठं परं नोपहसेत्सुधीः ।
चित्रकेतुर्हसन् रुद्रं दुर्योनिं शिवयाऽऽपितः ॥ २२॥
निहन्यादेव संलब्धच्छिद्रः प्राणहरं रिपुम् ।
गर्भः शक्रेण सन्ध्यायां सुप्ताया दारितो दितेः ॥ २३॥
लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः
श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् ।
रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते
सच्छ्लोकैर्दशभिर्लसन् द्विगुणितैः स्कन्धश्च षष्ठोऽगमत् ॥ २४॥
इति श्रीसुनीतभागवते षष्ठः स्कन्धः समाप्तः ॥
सप्तमः स्कन्धः ।
प्राप्तब्रह्मवराद्धिरण्यकशिपोर्भीतामरभ्योऽभयं
योऽदात्तत्तनयस्य दुःखहृदभूद्धत्वा तमिष्टप्रदः ।
गौः पीतामृतसद्रसस्त्रिपुरहृद्रुद्रप्रियो योऽभव-
च्छूद्रोऽयं श्रित आस नारदमुनिः कृष्णः स नो रक्षतात् ॥ १॥
श्रीनाथाङ्घ्रिगतेः कृताजितनुतेरत्यक्तमध्वस्मृते-
र्गोकर्णावसतेः सुनिर्मलमतेरुत्सृष्टदुःसङ्गतेः ।
सद्भक्तेः प्रथिते मते दशमतेर्देवादिभिः सेविते
दास्यं श्रीरघुचन्द्रमस्करियतेः स्यान्मेऽभिवन्द्यस्थितेः ॥ २॥
वर्णितं सप्तमे स्कन्धे भगवद्भक्तसद्यशः ।
गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥
बालं मत्वातिसामर्थ्यभाजं नैवावमानयेत् ।
सनन्दनादिभी रुद्धैः शप्तश्च विजयो जयः ॥ ४॥
प्राप्तेऽप्यनुभवे दुष्टः पापं कर्म करोति हि ।
हिरण्यकशिपुर्धर्मविघ्नं चक्रे हतानुजः ॥ ५॥
गतशोको न कर्तव्यो विचिन्त्यं कार्यमुत्तरम् ।
व्याधोऽविध्यत्कुलिङ्गं हि शोचन्तं दयितां चिरम् ॥ ६॥
मानयेद्युक्तिभिर्युक्तं शिशोरपि वचो बुधः ।
सुयज्ञज्ञातयोऽगृह्णन् बालरूपियमोदितम् ॥ ७॥
मतिर्न दुष्टसंसर्गान्निःशेषा क्षीयते सतः ।
दित्या अकथयत्तत्त्वं हिरण्यकशिपुः परम् ॥ ८॥
निवेदनीया प्रभवे स्वोपद्रवसमागतिः ।
ब्रह्मणेऽवर्णयन् देवा दितिजेन्द्रतपोऽर्दिताः ॥ ९॥
अदेयमपि दातव्यं महत्कार्यं प्रपश्यता ।
दैत्येन्द्राय वरानुग्रान् प्रददौ चतुराननः ॥ १०॥
सम्पद्दुरात्मनो लोकसन्तापायैव जायते ।
हिरण्यकशिपुर्लब्धवरः सार्वानतापयत् ॥ ११॥
सर्वेभ्योऽप्यभयं देयं विश्सेषाच्छरणर्थिने ।
देवेभ्यो दैत्यभीतेभ्यो दत्तवानभयं हरिः ॥ १२॥
पथ्यमेवाप्रियमपि पारैः पृष्टो वदेत्सुधीः ।
पित्रा पृष्टोऽवदत्साधु प्रह्लादो हरिसेवनम् ॥ १३॥
उपद्रवा न बाधन्ते कृते महत आश्रये ।
प्रह्लादे कारितं पित्रा निष्फलं ताडनाद्यभूत् ॥ १४॥
विस्मृता न भवेद्विद्या गुर्वनुग्रहशालिनः ।
न प्रह्लादो विसस्मार सत्तत्त्वं नारदोदितम् ॥ १५॥
परोक्तिदूषितधियो विद्वानज्ञान् प्रबोधयेत् ।
सत्तत्त्वं दैत्यपुत्रेभ्यः प्रह्लादः संन्यवेदयत् ॥ १६॥
अत्युत्कटं सुदुष्कर्म न कुर्यादकुतोभयः ।
स्तम्भोत्थेन नृसिंहेन हिर्ण्यकशिपुर्हतः ॥ १७॥
कोपं विहाय कुर्वन्ति बालके प्रीतिमुत्तमाः ।
हित्वा ब्रह्मादिकान् प्रीतः प्रह्लादस्याभवद्धरिः ॥ १८॥
तातमुद्धरते दोषात्सुपुत्रः स्वेन तेजसा ।
प्रह्लादः पितरं पूतं नृसिंहवरतो व्यधात् ॥ १९॥
पूर्वं नाश्यमुपायेन बलं शत्रोर्वधेच्छुना ।
विष्णुर्मयस्य गौर्भूत्वा सिद्धामृतरसं पपौ ॥ २०॥
अन्यतोऽपि बलं प्राप्य शत्रूनुन्मूलयेत्सुधीः ।
ददाह त्रिपुरं गुप्तो भगवत्तेजसा शिवः ॥ २१॥
असङ्ग्रहपरश्च स्याद्दैवलब्धप्रतोषवान् ।
मुनिर्मधुव्रताग्र्याह्योः शिक्षयारमतेदृशः ॥ २२॥
विरोधान्महतां नष्टाधिका स्याच्छ्रीरनुग्रहात् ।
प्राप नारदतां प्राप्तः शूद्रतामुपबर्हणः ॥ २३॥
लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः
श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् ।
रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते
सच्छ्लोकैर्दशभिर्लसन् द्विगुणितैः स्कन्धोऽगमत् सप्तमः ॥ २४॥
इति श्रीसुनीतिभगवते सप्तमः स्कन्धः समाप्तः ॥
अष्टमः स्कन्धः ।
यः स्वायम्भुवसन्मनोश्च जगतः संरक्षको हस्तिनो
दध्रे मंदरभूभृतं मथनकृद्वार्धेः सुधां यो ददौ ।
देवेभ्योऽथ विमोहयन् दितिसुतान् सन्तापयन् वज्रिणे
स्वार्गं बद्धबलिः श्रुतिश्च विधये कृष्णः स नो रक्षतात् ॥ १॥
लक्ष्मीप्राणपतेर्जये दिनपतेर्द्युत्यां मतौ गीर्पतेः
कीर्तौ देवपतेर्धृतौ गिरिपतेः शान्तौ च तारापतेः ।
व्याख्यानेऽहिपतेर्बलेऽनिलपतेर्गाम्भीर्यकेऽपाम्पते-
र्वक्तुं श्रीरघुचन्द्रसद्गुरुयतेः कोऽलं गुणान् सत्पतेः ॥ २॥
अष्टमे वार्णितं स्कन्धे भगवद्भक्तसद्यशः ।
गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥
श्रेष्ठाराधनसक्तस्य नैव कुर्यादुपद्रवम् ।
यज्ञेनाप्ता हता दैत्या जग्धुं स्वायम्भुवं मनुम् ॥ ४॥
असत्यवादी दुःशीलो भूतद्रोही च नो भवेत् ।
एवंविधाश्च यक्षाद्या सत्यसेनेन घातिताः ॥ ५॥
उपायान्तरहीनस्तु कार्यं स्तुत्यैव साधयेत् ।
गाजेन्द्र श्रीहरिं स्तुत्वा विमुक्तो नक्रवक्त्रतः ॥ ६॥
गुरुं सम्पादयेत्कार्यं सन्धिं कृत्वापि शत्रुभिः ।
अमृतार्थे हरिप्रोक्ता देवा दैत्यैः सहोद्यताः ॥ ७॥
उद्योगे न महाकार्ये कार्यः स्वानुचिते बलात् ।
देवदैत्योद्धृतोऽद्रिस्तान् मन्दरोऽचूर्णयत्पतन् ॥ ८॥
यत्रोचितो य आकारो बिभृयात्तत्र तं बुधः ।
कूर्मरूपेण गोविन्द उद्दधार हि मन्दरम् ॥ ९॥
नैव प्रार्थ्यं प्रतिष्ठायै वरं वस्तु विनाशकृत् ।
श्रान्ता अतितरां दैत्या गृहीत्वा वासुकेर्मुखम् ॥ १०॥
परद्वारा न सिद्धं चेत्स्वयं कार्यं प्रसाधयेत् ।
ममन्थ सर्वमथितमजितोऽब्धिं सुधाऽऽप्तये ॥ ११॥
लोकोपकृतये प्राप्तो नैव भङ्गोऽपि दूषणम् ।
रुद्रस्य विषपानोत्थो भूषणं गलकालिमा ॥ १२॥
प्रार्थयन्तमपि त्यक्त्वा दोषिणं गुणिनं भजेत् ।
लक्ष्मी सुरासुरान् हित्वा वव्रे नारायणं पतिम् ॥ १३॥
परेषां सत्यनाशाय स्वां शक्तिं दर्शयेत्क्वचित् ।
धन्वन्तरिः समर्थोऽपि दैत्येभ्योऽमृतमत्यजत् ॥ १४॥
त्यक्तसत्यैर्बलान्नीतं प्रसाध्यं वस्तु कूटतः ।
स्त्रीरूपो मोहयन् दैत्यान् देवेभ्योऽदात्सुधां हरिः ॥ १५॥
स्वायोग्यं प्राप्नुयान्नैव कपटेन समन्वितः ।
अमृतं पिबतो राहोश्चकर्त हि शिरोऽच्युतः ॥ १६॥
महतां दर्शनेनैव मायाजालं विनश्याति ।
विष्णुर्दर्शनतो नष्टा माया दैत्यविनिर्मिता ॥ १७॥
क्षीणं पूर्वगतं पश्यन् कार्यार्थं न स्वयं व्रजेत् ।
जम्भासुरो हतो युध्यन् वज्रिणा बलघातिना ॥ १८॥
क्वचित्क्षुद्रेण यत्सिध्येन्महता तन्न सिध्यति ।
फेनेनेन्द्रोऽहरद्वज्राच्छेद्यं हि नमुचेः शिरः ॥ १९॥
प्राप्तार्थः कलहं मुञ्चेन्मध्यस्थेन निवारितः ।
विहाय समरं देवा नारदोक्ता दिवं ययुः ॥ २०॥
दुस्तरा मायिनो माया निःसङ्गैः पण्डितैरपि ।
योषिद्रूपं हरेः पश्यन्मायया मोहितो हरः ॥ २१॥
सर्वस्वं च समर्प्यापि प्रीणयेत्प्राणरक्षकम् ।
बलिरिन्द्रहतः सर्वं शुक्रायोज्जीवितो ददौ ॥ २२॥
समर्थोऽपि भवेत्त्रस्तः शत्रोर्विद्यावदाश्रयात् ।
शुक्रगुप्ताद्बलेर्भीता देवस्त्यक्त्वा दिवं ययुः ॥ २३॥
स्वात्मानमपि संदद्यादत्यन्ताराधितः पुमान् ।
आत्मानमेव तनयं प्रीतो दित्यै हरिर्ददौ ॥ २४॥
अवाप्नोति फलं सद्यो महतो विप्रियं ब्रुवन् ।
आप्तवान् शुक्रतः शापं बलिः स्वश्रीक्षयप्रदम् ॥ २५॥
प्रकाशनीयं विद्वद्भिः स्वरूपं कार्यसिद्धये ।
वामनो बलये व्याप्तं स्वरूपं समदर्शयत् ॥ २६॥
माननीयो महान् दैवात्संप्राप्तः स्वगृहान्तिकम् ।
त्रिविक्रमपदं व्याप्तं द्वितीयं विधिरर्चयत् ॥ २७॥
कार्ये गते तु कलहं नैव कुर्याद्रुषान्वितः ।
दैत्या हन्तुं हरिं प्राप्तास्ताडिता विष्णुपार्षदैः ॥ २८॥
अनुमन्येत सभक्त्या प्रभुणाविप्रियं कृतम् ।
प्रह्लादो वामनहृतामनुमेने बलेः श्रियम् ॥ २९॥
दीनोऽपि भ्रंशितः स्थानान्निबद्धो न त्यजेद्व्रतम् ।
बलेः सत्यव्रतस्त्वासीद्वामनो द्वारपालकः ॥ ३०॥
भिक्षित्वापीप्सितं देयं वयःश्रेष्ठाय बन्धवे ।
स्वर्गं ददौ महेन्द्राय याचित्वा वामनो बलेः ॥ ३१॥
आप्तोक्तं भावयन् भावि विदध्यात्तत्र तूचितम् ।
सत्यव्रतो हि मत्स्योक्तिं शृण्वन्नावि स्थितोऽभवत् ॥ ३२॥
नीचं रूपमपि ग्राह्यं भवेद्येन प्रयोजनम् ।
हरिर्मत्स्यो हयग्रीवं हत्वा वेदान् विधेरदात् ॥ ३३॥
लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः
श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् ।
रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते
सच्छ्लोकैर्दशभिर्लसंस्त्रिगुणितैः स्कन्धः समाप्तोऽष्टमः ॥ ३४॥
इति श्रीसुनीतिभागवते अष्टमः स्कन्धः समाप्तः ॥
नवमः स्कन्धः ।
श्रीनाभागसदम्बरीषलृपतौ चेक्ष्वाकुमान्धातृराट्-
पूर्वा यद्भजनान्महत्सगरराण्मुख्याः शुभं लेभिरे ।
खट्वाङ्गो रघुपः स्वयं मिनिविधूगाधिः स्वयं भार्गवो
योऽलर्कश्च ययातिपूरुभरताः कृष्णः स नो रक्षतात् ॥१॥
श्रीरोदातिहितेशशैलमहिते शक्रद्विपेन्द्रोद्धते
गङ्गासह्गसितेव सर्वबुधिते विद्वद्वरैर्वर्णिते ।
लोके कल्पलतेव दत्तदयिते सच्चन्द्रिकाव्यायते
त्वं हे सागरवेङ्कटेशबुधसत्कीर्ते पुनीह्येव नः ॥२॥
वर्णितं नवमे स्कन्धे भगवद्भक्तसद्यशः ।
गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥
गुरुमाराधयेत्कार्ये महति प्रत्युपस्थिते ।
गुरुप्रसादतः पुंस्त्वं प्राप्तेला हि मनोः सुता ॥ ४॥
स्वरूपहानिकृद्दोषो ज्ञानाद्वाज्ञानतः कृतः ।
पृषध्रो हतगुः प्राप शूद्रतां गुरुशापतः ॥ ५॥
उत्तमोऽप्यल्पकर्यार्थमाचारेद्दासवत्क्रियाम् ।
मरुतः परिवेष्टारो मरुत्तस्य मखेऽभवन् ॥ ६॥
विद्ययैव हि संसिध्येत्स्त्रीपुत्रादीष्टसाधनम् ।
प्रदाय विश्रवा विद्यां तृणबिन्दोः सुतां ह्यगात् ॥ ७॥
स्त्रीणा हि सत्पतिप्राप्तावदृष्टं कारणं भवेत् ।
सुकन्या च्यवनं भेजे युवानं जरठं पुरा ॥ ८॥
कालं नोल्लङ्घयेदिष्टे महतः संमतीच्छया ।
रेवत्या हि वरा नाप्ताः कृता हृदि ककुद्मिना ॥ ९॥
अर्जयेद्द्रविणं सत्यवाद्यनिच्छन् परार्जितम् ।
ऋतवादी हि नाभागो बहुलं धनमाप्तवान् ॥ १०॥
पीडयेद्वैष्णवान्नैव महानपि तपस्व्यपि ।
अम्बरीषार्तिकृत्प्राप्तो दुर्वासा असमां दशाम् ॥ ११॥
नोल्लङ्घनीयः सकलैरपि प्राणात्यये विधिः ।
इक्ष्वाकुणा विकुक्ष्याख्यः सुतस्त्यक्तः शशादनः ॥ १२॥
स्वकीयकार्यसम्प्राप्त्यै लभेत लघुतां सुधीः ।
शक्रो घातयतो दैत्यान् ककुत्स्थस्यास वाहनम् ॥ १३॥
वधे शक्तोऽपि नो कुर्याद्विग्रहं क्रूरवैरिणा ।
धुन्धुमारसुता दग्धा धुन्धुनापि विनश्यता ॥ १४॥
लोकस्य नैव बुद्ध्यादिबलं दैवबलं बलम् ।
मान्धाता निर्गतः कुक्षेर्युवनाश्वश्च नो मृतः ॥ १५॥
सर्वथापि त्यजेदेव मुमुक्षुः सङ्गमन्यतः ।
पत्स्यसङ्गात्प्रियापुत्रबन्धनं प्राप सौभरिः ॥ १६॥
स्वयशो गायतः पुंसः साध्वसं ध्वंसयेद्बुधः ।
गन्धर्वान्तस्मृतेः सर्पात्पुरुकुत्सोऽहरद्भयम् ॥ १७॥
पराभूतस्तु महता महान्तं परमाश्रयेत् ।
गुरुशप्तस्त्रिशङ्कुः स्वर्गतः कौशिकतेजसा ॥ १८॥
अशुभं वारयेत्प्राप्तं कालस्यातिविलङ्घनात् ।
हरिश्चन्द्रसुतस्त्रातो वरुणाद्रोहितो न किम् ॥ १९॥
स्वदुष्कृतोदये संपत्क्षणमात्राद्विनश्यति ।
बाहुकोऽरिहृतश्रीको ममार विपिने नृपः ॥ २०॥
नाशहेतौ कृतेऽप्यन्यैर्भव्यं नियमतो भवेत् ।
सपत्नीदत्तविषतः सहैव सगरोऽजनि ॥ २१॥
अतिक्रमस्तु महतो न कार्यो बहुभिर्जनैः ।
सागराः कपिलद्रोहान्मृताः षष्टिसहस्रिणः ॥ २२॥
यत्नो देहव्ययेनापि कार्यो बन्धुशुभाप्तये ।
प्रख्यातावंशुमत्पूर्वौ गङ्गानयनतत्परौ ॥ २३॥
दत्वा परेष्टं किमपि लभेत स्वप्रियं ततः ।
ऋतुपर्णोऽक्षहृदयदोऽश्वविद्यां नलादगात् ॥ २४॥
यादृशं कर्म कुरुते तादृशं फलमश्नुते ।
ब्राह्मण्या रतिहृन्नैव कल्माषाङ्घ्री रतिं ययौ ॥ २५॥
आयुषोऽपचयं जानन् कार्यं प्रागेव साधयेत् ।
मुहूर्तमायुर्ज्ञात्वा स्वं खट्वाङ्गो बन्धनं जहौ ॥ २६॥
माननीयः पितावश्यं स्त्रीवशोऽकुशलोऽपि वा ।
रामो दशरथस्याज्ञां स्वीकृत्य प्रययौ वनम् ॥ २७॥
आत्मानं यत्नतो रक्षन्नश्यत्स्वकुलमुद्धरेत् ।
सूर्यवंशं कलेरन्ते मरुः किं नोद्धरिष्यति ॥ २८॥
परघातकरो लोके बृहन्नपि न जीवति ।
वसिष्ठस्तु निमिं शप्त्वा मृतोऽभूत्तस्य शापतः ॥ २९॥
दुर्जया विषया पुंसा विदुषापि विवेकिना ।
चन्द्रो बृहस्पतेर्भार्यां जहार विषयातुरः ॥ ३०॥
विश्वासो नैव कर्तव्यो नारीषु स्वैरवृत्तिषु ।
विहाय प्रययौ कान्तां पुरूरवसमुर्वशी ॥ ३१॥
यत्नेन दुर्लभं दत्वा प्राप्नुयाद्वस्तु तादृशम् ।
लेभे सत्यवतीं गाधेरृचीकोऽश्वसहस्रदः ॥ ३२॥
दुर्लभं वस्तु मित्रस्य लुब्धः सन्न नयेद्बलात् ।
जमदग्नेर्हरन् धेनुं कार्तवीर्यो हतोऽर्जुनः ॥ ३३॥
अविचार्यैव कुर्वीत त्वरया वचनं पितुः ।
मात्रा रामः सह भ्रातॄन् जमदग्न्युदितोऽवधीत् ॥ ३४॥
न हन्याद्दुर्बलो दैवाच्छिद्रे प्राप्ते महात्मनः ।
जमदग्न्यन्तका नष्टा न किमर्जुनसूनवः ॥ ३५॥
विनश्यति कुलं सर्वमेकस्यैवापराधतः ।
अर्जुनात्मजदोषेण क्षीणा क्षत्रियसन्ततिः ॥ ३६॥
आत्मैवोद्धारकः स्वस्य पिता माता न वापरः ।
विमुक्तः पितृविक्रीतः शुनःशेपः सुरान् स्तुवन् ॥ ३७॥
भजेत सम्पदं भोगे दक्षश्चिरतरं स्थिराम् ।
अलर्को बुभुजे पृथ्वीं बहुवर्षसहस्रकम् ॥ ३८॥
स्ववशे स्थापितं द्रव्यं प्रतिदद्याद्रहोऽर्थितः ।
इन्द्रायाप्रतियच्छन्तः स्वर्गं नष्टा रजेः सुताः ॥ ३९॥
नेच्छेत्सुधीर्महैश्वर्यमहङ्कारमदप्रदम् ।
नहुषेण यतिर्दत्तं राज्यं न जगृहे यतः ॥ ४०॥
गृह्णीयादनभिप्रेतं स्वायोग्यमपि चार्थितः ।
देवयानीमुदवहद्ययातिः शुक्रकन्यकाम् ॥ ४१॥
धर्ममप्याचरेन्नैव प्रतिकूलं महात्मनः ।
शर्मिष्ठां रमयन् धर्माद्ययातिर्लब्धवान् जराम् ॥ ४२॥
याचितस्तनयः पित्रे प्राणानपि समर्पयेत् ।
अर्पितस्ववयाः पूरुर्जातो भूमण्डलाधिपः ॥ ४३॥
स्वमनो रमते यस्मिन्नाचरेत्तन्महामतिः ।
मनः प्रवृत्तेर्दुष्यन्त उपयेमे शकुन्तलाम् ॥ ४४॥
कथञ्चिदपि सत्पुत्रं लभेतातिप्रयत्नवान् ।
भरतः प्राप देवेभ्यो भरद्वाजं सुतं यथा ॥ ४५॥
दद्यादेवार्थिने किञ्चिदपि धीमानकिञ्चनः ।
रन्तिदेवो ददद्भोज्यं क्षुधितोऽप्याप सद्यशः ॥ ४६॥
यद्वस्तु महतां योग्यं तेभ्यः प्राङ् न लभेत तत् ।
शन्तनोः परिवेत्तुर्यदिन्द्रो राष्ट्रे ववर्ष न ॥ ४७॥
स्वपुत्रायैव शान्ताय विद्यामुपदिशेद्वराम् ।
व्यासः शुकाय पैलादीन् हित्वा भागवतं जगौ ॥ ४८॥
श्रीहरिं शरणं गच्छेत्प्राप्तायां परमापदि ।
द्रौणेर्ब्रह्मास्त्रतः कृष्णो ररक्ष हि परीक्षितम् ॥ ४९॥
दुष्टाः सर्वेऽपि हन्तव्या एकस्मिन्नपकारिणि ।
तक्षकारिरहीनग्नौ जुहाव जनमेजयः ॥ ५०॥
अयत्नेनैव दुर्लभ्यं प्राप्यते पुण्यशालिना ।
ऋष्यशृङ्गो नृपसुतां कर्णं चाधिरथो ह्यगात् ॥ ५१॥
द्वितीयां नोद्वहेद्भार्यां सुतार्थी त्वरयान्वितः ।
ज्यामघो नाप किं पुत्रं शैब्यायामेव कालातः ॥ ५२॥
वृथा विद्यां परीक्षेत नैवाधर्मं तु नाचरेत् ।
कुन्ती प्राप्ता रवेः पुत्रं कृष्णेनाधर्मिणो हताः ॥ ५३॥
लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः
श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् ।
रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते
स्कन्धोऽन्तं नवमोऽगमत्परिलसन् श्लोकैश्च पञ्चाशतैः ॥ ५४॥
इति श्रीसुनीतिभागवते नवमस्कन्धः समाप्तः ॥
दशमः स्कन्धः - पूर्वार्धः ।
देवक्यामुदभून्नुतो विधिमुखैर्नन्देष्टकृद्दुष्टहृद्-
गोपीर्योऽरमयत्सन्तश्च सबलं कंसं च बार्हद्रथम् ।
जित्वाऽऽजौ नरकानपि कुरून् संनाश्य पार्थप्रियो
रेमे स्त्रीसुतपूर्वकैर्निरुपमैः कृष्णः स नो रक्षतात् ॥ १॥
लक्ष्मीशोरुमते लसद्गुणतते सन्मध्वपूजारते
चीर्णाग्र्यानुसृते जितारिसमिते व्याख्यातशास्त्रश्रुते ।
निर्दोषावगते बुधाहितनते सत्कीर्तिपूर्णक्षिते
सेवे सागरवेङ्कटेशबुध ते पादाम्बुजं सद्वृते ॥ २॥
वर्णितं दशमे स्कन्धे भगवद्भक्तसद्यशः ।
गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥
स्वार्थादप्यधिकं सन्तः परकार्यार्थमुद्यताः ।
भूभारहृतये ब्रह्मा विष्णूक्तमवदत्सुरान् ॥ ४॥
दुष्टस्य मित्रभवेन विश्वस्यान्न विचक्षणः ।
श्रुताशरीरवाक्कंसो भगिनीं हन्तुमुद्ययौ ॥ ५॥
विनाशं विविधोपायैः सद्यः प्राप्तं निवारयेत् ।
उक्त्वा पुत्रार्पणं शौरिररक्षत्कंसतः प्रियाम् ॥ ६॥
नैव विश्वसनीया वागसतोऽविजितात्मनः ।
कंसेन प्रतिदत्तोऽपि नानन्दच्छौरिरात्मजे ॥ ७॥
सन्मार्गं सन्त्यजन्त्यज्ञाः परवाग्भिन्नबुद्धयः ।
सर्वान्निपीडयामास कंसो नारदबोधितः ॥ ८॥
कर्तुं यदा यदीशेन प्रोक्तं कार्यं तथैव तत् ।
देवक्या अनयद्गर्भं योगमाया हि रोहिणीम् ॥ ९॥
संधृतस्वमहाकर्यभारं स्तुत्या प्रहर्षयेत् ।
प्रादुर्भूतोऽथ देवक्यां विष्णुर्ब्रह्मादिभिः स्तुतः ॥ १०॥
वस्तूत्तममतिक्लेशं विना न प्राप्यते जनैः ।
पितृस्तुतो हरिः प्रोचे स्वजन्म प्राक्तपः फलम् ॥ ११॥
सति दैवसहाये किं कर्तुं न प्रभवेन्नरः ।
वसुदेवो व्रजे कृष्णं न्यस्यानिन्ये हि चण्डिकाम् ॥ १२॥
वारितोऽपि विनाश्येष्टं मूर्खः पश्चात्प्रतप्यते ।
कंसस्ताडितकन्योक्तः स्वसृशौरी असान्त्वयत् ॥ १३॥
अतिविभ्रष्टबुद्धिः स्यात्स्वयमज्ञोऽज्ञबोधितः ।
सद्वधायादिशद्दैत्यान् कंसः संमन्त्र्य मन्त्रिभिः ॥ १४॥
बाले दृष्टेऽपि सामर्थ्ये जायते न महत्वधीः ।
रक्षां विदधिरे गोप्यः पूतनाघातिनो हरेः ॥ १५॥
साक्षाद्द्रष्ट्रुक्तमज्ञो न श्रद्दधाति कुयुक्तिभाक् ।
अनोक्षभङ्गं स्वीचक्रुर्न गोपः कृष्णनिर्मितम् ॥ १६॥
रुद्धो येन न तं मुञ्चेत्तेन त्यक्तुमपीच्छितः ।
श्रीशो गुरुस्तृणावर्तनीतोऽमुञ्चंस्तमावधीत् ॥ १७॥
केनाप्युपायेनात्मीयं महिमानं प्रकाशयेत् ।
जृम्भमाणो मुखेऽनन्तो विश्वं मातुरदर्शयत् ॥ १८॥
स्वकार्यं साधयेद्गूढो रहस्याप्तेऽप्यरेर्भये ।
चकार नामकरणं गर्गः श्रीरामकृष्णयोः ॥ १९॥
यादृशो धृत आकारः कर्म तादृशमाचरेत् ।
विततान विभुर्बालो बाललीलाः पृथग्विधाः ॥ २०॥
मनस्वी न स्वमाहात्म्यं ब्रूयात्किन्तु प्रदर्शयेत्
मृदोऽशनाद्धरिर्मात्रोपालब्धोऽदर्शयज्जगत् ॥ २१॥
स्वभक्तवश्यतां यायाद्दर्शयित्वाऽऽत्मदक्षताम् ।
बन्धं प्राप यशोदाया भित्वेशो दध्यमत्रकम् ॥ २२॥
उद्धरन्ति विपद्भ्योऽन्यानस्वस्था अपि साधवः ।
कुबेरपुत्रौ देवर्षेः शापात्प्रभुरमोचयत् ॥ २३॥
सर्वो भजति कार्यार्थं प्रियः कोऽपि न कस्यचित् ।
गोपा वृन्दावनं जग्मुर्दृष्ट्वोत्पातान् बृहद्वने ॥ २४॥
सत्सङ्गतिर्न वा जातिर्दुःशीलस्य सुखप्रदा ।
कृष्णेन रक्षता वत्सान् वत्सरूपोऽसुरो हतः ॥ २५॥
दर्शितोऽपि स्वसामर्थ्ये हन्याद्भूयः कृतागसम् ।
मुक्तोऽर्यास्यं दहन् कृष्णोऽभिनद्घातोद्यतं बकम् ॥ २६॥
अभीष्टं सुलभं पुंसां विनष्टे विघ्नकर्तरि ।
रामेण निहते तालफलान्यादन्हि धेनुके ॥ २७॥
सर्वसम्पत्करं नॄणां महत्कारुण्यवीक्षणम् ।
अजीवन् हरिणा दृष्टा गोपा पीतविषाम्भसः ॥ २८॥
बहूनामर्थ इष्टानां प्रियमेकं परित्यजेत् ।
ममर्द कालियं वीक्ष्य नन्दादीन् दुःखितान् विभुः ॥ २९॥
लोकोपद्रवकर्तारं साधुं निष्कासयेदपि ।
यमुनायाः स्तुतः कृष्णः कृष्णाहिमुदवासयत् ॥ ३०॥
व्यसनं केन न प्राप्तं प्रभूणां किं न दुष्कृतम् ।
दहन्तं निशि गोपालान् दावाग्निमपिबत्प्रभुः ॥ ३१॥
निहन्याद्वञ्चकं मित्रं शठत्वे प्रकटे सति ।
प्रलम्बो हलिना गोपरूप्युदूह्य द्रवन् हतः ॥ ३२॥
सुकरं महतोऽन्येषां प्रयत्नैरपि दुष्करम् ।
गोपैरलब्धान् विभ्रष्टान् गोगणान् हरिराह्वयत् ॥ ३३॥
व्यज्यते महतां शक्तिरापद्येव न सम्पदि ।
दह्यमानान् जुगोपेशो गोपान् पीत्वा वनानलम् ॥ ३४॥
जह्यान्नैव सखीन्योग्यान् भोजनक्रीडनादिषु ।
क्रीडन् जलान्तिके गोपैर्बुभुजेऽन्नं वनेऽच्युतः ॥ ३५॥
सद्गुणा यदि विद्यन्ते वर्ण्यन्ते ते स्वतो जनैः ।
श्रुतवेणुरवाः कृष्णक्रीडा गोप्यो ह्यवर्णयन् ॥ ३६॥
स्ववस्त्वप्यनुसृत्यैव लभेताग्र्यस्य हस्तगम् ।
मज्जने गोपिका नग्नाः कृष्णाद्वासांसि लेभिरे ॥ ३७॥
गुरवोऽपि विमुह्यन्ति क्वचिन्नाज्ञा जना अपि ।
मुकुन्दायार्पयन्नन्नं ब्राह्मण्यो न द्विजातयः ॥ ३८॥
अपहार्यं स्वभक्तस्यापीष्टं दर्पनिवृत्तये ।
निवार्येन्द्रमखं रूपान्तारेणादद्धरिर्बलिम् ॥ ३९॥
प्राप्तापद्यन्निमित्तं या वार्या तेनैव सा भवेत् ।
इन्द्रातिवृष्टेर्धृत्वावीद्व्रजं गोवर्धनं विभुः ॥ ४०॥
कुपिता अपि योगेन मृदवः स्युर्हि सज्जनाः ।
स्तुतोऽभिषिक्तो गोविन्दः स्वर्गं शक्रमवापयत् ॥ ४१॥
सिद्ध्यं विधेय उद्योगः स्वयोग्योऽपि महात्मभिः ।
पाशिलोकं प्रभुर्गत्वा पितरं प्रत्युपानयत् ॥ ४२॥
महताङ्गीकृतोऽभीष्टदानेन परिपाल्यते ।
दर्शयामास नन्दादीन् वैकुण्ठं नन्दनन्दनः ॥ ४३॥
प्राप्तस्यात्मगतित्वेन कार्यं सर्वमभीप्सितम् ।
कालिन्द्यां गोपिका गानाकृष्टा हरिररीरमत् ॥ ४४॥
मदाहङ्कारनाशाय स्वकीयमपि खेदयेत् ।
अन्तर्हितो विभुः स्त्रीभिः क्रीडन्नप्येकया पुनः ॥ ४५॥
स्वजनस्य गते गर्वे विदध्यादधिकं प्रियम् ।
गोपिकाभिः स्तुतो रासोत्सवेनारमयत्प्रभुः ॥ ४६॥
वरं पादप्रहारोऽपि श्रेष्ठान्मानो न नीचतः ।
सुदर्शनोऽभूच्छ्रीशाङ्घ्रेः स्पर्शान्नन्दं ग्रसन्नहिः ॥ ४७॥
आपत्प्रदोऽविवेकोऽतो न कुर्यात्सहसा क्रियाम् ।
विभुना कालयन् गोपीः शङ्खचूडो निपातितः ॥ ४८॥
संस्तुवन्ति परोक्षेऽपि गुणाढ्यं गुणिनो जनाः ।
रेमिरेऽहस्सु गायन्त्यः कृष्णलीलां व्रजस्त्रियः ॥ ४९॥
साधूपद्रवकृत्साधुरूपशाल्यपि भज्यते ।
वृषाश्वरूपौ निहतौ प्रभुणारिष्टकेशिनौ ॥ ५०॥
मिथो विरोधिनोर्दक्षः स्याद्द्वयोरपि सम्मतः ।
कंसेन मानितोऽभ्येत्य श्रीशं तुष्टाव नारदः ॥ ५१॥
क्रीडार्थं कथितं व्याजात्सत्यं कुर्वन्विपद्यते ।
व्योमो मेषायितान् गोपांश्चोरयन् हरिणा हतः ॥ ५२॥
गूढमन्त्रोऽर्थतत्त्वज्ञो दयालुर्दुःखितो भवेत् ।
अक्रूराकारितोऽनन्तो गच्छन् गोपीरसन्त्वयत् ॥ ५३॥
प्रवृद्धेऽनुग्रहेऽभीष्टं विदध्याद्विबुधोऽधिकम् ।
माधवोऽदर्शयद्रूपं स्वमक्रूराय मज्जते ॥ ५४॥
कोपप्रसादयोर्धीमान् फलं सद्यः प्रदर्शयेत् ।
कृष्णो रजकसद्वप्तृसुदाम्नां पर्यदर्शयत् ॥ ५५॥
असाधु साधु कुरुते प्रभुश्चाग्र्यमनुत्तमम् ।
ऋज्वीं चक्रे त्रिवक्रां च बभञ्ज धनुरीश्वरः ॥ ५६॥
स्वयं व्रजेन्न युद्धार्थं न मुञ्चेत्समुपागतान् ।
चापरक्षान् बलं चेशो गजं मल्लाननाशयत् ॥ ५७॥
परोऽपि हितकारी स्वः आत्मीयोऽप्यहितः परः ।
निहत्य मातुलं कंसं कृष्णः सर्वाननन्दयत् ॥ ५८॥
सतामनुसरेन्मार्गं निषेवेत विपश्चितः ।
गर्गोपनीतो गोविन्दो भेजे सान्दीपनिं गुरुम् ॥ ५९॥
को न वध्यः कृतद्रोहः किं न देयं महात्मने ।
यमार्चितः पञ्चजनं हत्वेशोऽदाद्गुरोः सुतम् ॥ ६०॥
भवेन्मनः समाधानं निजवल्लभभाषितैः ।
उद्धवः कृष्णसन्देशैर्जहाराधिं व्रजौकसाम् ॥ ६१॥
इष्टं स्वसनतस्यैव विदधाति महानपि ।
सैरन्ध्रीं च तथाक्रूरं भगवान् पर्यतोषयत् ॥ ६२॥
निराश्रये कृपां कुर्यात्खिन्ने बाले च दुर्बले ।
बुबुधे पार्थवृत्तान्तं सम्प्रेष्याक्रूरमच्युतः ॥ ६४॥
लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः
श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् ।
रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते
षष्ठ्या श्लोकवरैर्लसद्धि दशमे स्कन्धेऽर्धमाद्यं त्वगात् ॥ ६४॥
इति श्रीसुनीतिभागवते दशमस्कन्धे पूर्वार्धः समाप्तः ॥
दशमः स्कन्धः - उत्तरार्धः ।
मुख्यं प्रागेव नो हन्याद्दुष्टमप्यपकारिणम् ।
जरासन्धं मुमोचाजः सैन्यं हत्वा मुहुर्महत् ॥ ६५॥
मन्यतेऽनुगुणं कार्ये विप्रवाक्यं जनार्दनः ।
स्वपुरान्निर्गतो रामादनुज्ञामाप साग्रजः ॥ ६६॥ (परशुरामात्)
स्वभ्रातापि प्रहर्तव्यं पापात्मा स्ववधोद्यतः ।
सृगालवासुदेवः श्रीवासुदेवेन सूदितः ॥ ६७॥
सिध्यति स्वयमेवेष्टं पुरुषस्य महात्मनः ।
कृष्णमूर्ध्नि हरेर्मौलिं गोमन्ते गरुडो न्यधात् ॥ ६८॥
महात्मानो विना यत्नं दुर्घटं घटयन्त्यहो ।
निनाय द्वारकां श्रीशो मधुरायां स्थितान्निजान् ॥ ६९॥
स्वानुग्रहाय भक्तेन कारयेन्महतीं क्रियाम् ।
ददाह यवनं शार्ङ्गी मुचुकुन्दाक्षिवह्नितः ॥ ७०॥
फलन्ति निजकर्माणि पुंसां नैव महान् पुमान् ।
मुचुकुन्दो मुदं कृष्णादयान्म्लेच्छबलं क्षयम् ॥ ७१॥
विद्रवन्तमपि श्रेष्ठमशक्तोऽप्यनुधावति ।
रामकृष्णौ जरासन्धोऽन्वगच्छत्सह सेनया ॥ ७२॥
न क्षुद्रोपद्रवं धीरो गणयत्युरुपौरुषः ।
हरिरुत्पत्य गोमन्ताद्दह्यमानात्पुरीं ययौ ॥ ७३॥
निश्चयेन सती वार्ता ज्ञेया कौतुककारिणी ।
प्रभुर्द्रुपदबन्धादि ज्ञातवान् कृतवर्मतः ॥ ७४॥
प्राप्तियोग्यं हि यद्यस्य संप्राप्नोति तमेव तत् ।
प्रपेदे रेवतीं रामः प्रियामादियुगोद्भवाम् ॥ ७५॥
गुणवान् प्रार्थ्यते सर्वैर्बलवाँल्लभतेऽखिलम् ।
रुक्मिण्यार्थित आपेशः पार्थिवान् परिभूय ताम् ॥ ७६॥
च्यवते दैवहीनस्य ह्येकं सन्धित्सतोऽपरम् ।
आनेतुं रुक्मिणीं यातुश्च्युतं श्मश्र्वादि रुक्मिणः ॥ ७७॥
एका क्रिया द्व्यर्थकरी क्रियाविधिविदा भवेत् ।
मणिं जाम्बवतीं चाप मण्यर्थं प्रगतः प्रभुः ॥ ७८॥
हेतुः सर्वार्थसंसिद्धेर्दानादन्यो न विद्यते ।
सत्राजिद्धरये सत्यां स्वाघोऽपहृतये ददौ ॥ ७९॥
लोकानुसार्यभिज्ञोऽपि विदध्यात्समयोचितम् ।
कुल्यहेतोः कुरून् यातः सत्योक्तोऽजः शुचा ययौ ॥ ८०॥
प्रवृत्तिर्महतो न स्यान्निःस्पृहस्यापि निष्फला ।
विद्धलक्ष्यान् ददर्शेशः पार्थान् द्रुपदराट्पुरे ॥ ८१॥
न श्रोतव्यं परप्रोक्तमात्मैव फलभुग्यतः ।
शतधन्वा हतोऽक्रूरनिरस्तश्चक्रिणा द्रवन् ॥ ८२॥
साम्ना सिध्यन्ति कार्याणि दुःसाध्यान्यखिलान्यपि ।
प्रकाश्य मणिमक्रूरेऽक्रोधं रामं विभुर्व्यधात् ॥ ८३॥
स्वाभीष्टमप्यवाप्नोति परेष्टकरणे रतः ।
गतेन्द्रप्रस्थ ईशोऽगात्कालिन्दीं यमुनातटे ॥ ८४॥
यस्यार्हं यद्भवेद्वस्तु प्रसाध्यं तस्य तत्कृते ।
धर्मजस्य विभुर्विश्वकर्मणाचीकरत्पुरम् ॥ ८५॥
स्वेष्टं क्वचिद्बलात्प्राप्यं क्वचित्कृत्वा परेप्सितम् ।
मित्रविन्दां जहाराजो नीलां बद्ध्वाऽऽप गोवृषान् ॥ ८६॥
स्वप्रियं प्राप्नुयाद्दत्तं निरुद्धं निजपौरुषात् ।
प्रदत्तां जगृहे भद्रां लक्षणां जह्र ईश्वरः ॥ ८७॥
संविज्ञापितमात्रः स्यात्सत्प्रभुः कार्यकारकः ।
शक्रविज्ञापितो भौमं हन्तुं सत्यापतिर्ययौ ॥ ८८॥
क्रियासिद्धिर्भवेत्सत्त्वे महतां न तु साधने ।
मुरादीनप्यसेनोऽहन्नरकं तार्क्ष्यवाहनः ॥ ८९॥
तस्येष्टं कुरुतेऽग्र्योऽपि यस्य सन्त्युत्तमा गुणाः ।
भगदत्तं प्रमान्येशः कामिनीः प्राहिणोत्पुरीम् ॥ ९०॥
यदर्थं हि महान् यत्नः कृतोऽन्ते तन्न विस्मरेत् ।
इन्द्रार्चितोऽदितेः प्रीतिं कुण्डलाभ्यां विभुर्व्यधात् ॥ ९१॥
स्वमित्रादपि भीतः सन्नुत्तमं वस्तु गोपयेत् ।
पारिजातं प्रजग्राह सत्यभामार्थितोऽच्युतः ॥ ९२॥
स्वस्वरूपमविज्ञाय क्षीयन्ते रचितोद्यमाः ।
सर्वे देवा गता योद्धुं सेशेन्द्राः शार्ङ्गिणा जिताः ॥ ९३॥
त्यजातिवैरमात्मीये प्रकृतार्थं प्रसाधय ।
पुरीमिन्द्रस्तुतोऽभ्येत्य स्वर्द्रुणानन्दयत्प्रभुः ॥ ९४॥
निज एव निजो हि स्याद्यः परः पर एव सः ।
प्रद्युम्नः शम्बरं हत्वा पितृप्रीतिं व्यधत्त यत् ॥ ९५॥
महत्सादृश्यमाप्तोऽपि किं नीचस्तत्समो गुणैः ।
धृतोरुशङ्खचक्रादिः पौण्ड्रकश्चक्रिणा हतः ॥ ९६॥
स्वस्य स्वकृतमेव स्यान्नाशायावलिनः खलु ।
सुदक्षिणं स्वकृत्याग्निश्चक्रप्रतिहतोऽदहत् ॥ ९७॥
पुण्यक्षेत्राणि सेवेत पुण्यकालेऽपि सन्मतिः ।
समन्तपञ्चकं श्रीशः सभार्योऽगाद्रविग्रहे ॥ ९८॥
को न याति मुदं लोके सत्कृतः प्रभुणा भृशम् ।
नन्दपार्थमुखास्तुष्टा मिलिता हरिमानिताः ॥ ९९॥
सत्यां साधनसम्पत्तावेव धर्मं समाचरेत् ।
वसुदेवोऽध्वरं कृत्वा मुन्युक्तो द्वारकामयात् ॥ १००॥
पुत्रः स एव योऽभीष्टं कुर्यान्मातुस्तथा पितुः ।
तत्त्वान्युक्त्वाच्युतो मातुर्बलीड्योऽदर्शयत्सुतान् ॥ १०१॥
भवत्यसह्यं हासार्थमुक्तमप्यतिविप्रियम् ।
भैष्म्या नर्मोक्तितः खेदं प्रेक्ष्येशस्तामशान्तयत् ॥ १०२॥
यौवनं भर्तृसङ्गेन पुत्रोत्पत्या च भाति सः ।
एकैकशो दश दश पुत्रान् प्रापुर्हरेः प्रियाः ॥१०३॥
वदेच्छलेन योऽसत्यं दण्ड एव तदुत्तरम् ।
रुक्मिणं ग्लहजिद्रामः पौत्रोद्वाहोत्सवेऽवधीत् ॥१०४॥
नास्त्येव वनिताभ्योऽन्यत् त्रिलोक्यां सुखदायकम् ।
श्रीशः षोडशसाहस्रैर्दारै रेमे शताधिकैः ॥१०५॥
कार्याणि निर्वहत्येकः समर्थः सुबहून्यपि ।
क्रियाकृन्नारदेनेशो दृष्टः प्रत्यङ्गनागृहम् ॥१०६॥
बहुभिर्हेतुभिः कार्यमेकमारभते बुधः ।
इन्द्रप्रस्थं स उक्तोऽयाद्दूतनारदसूद्धवैः ॥ १०७॥
सुसंमन्त्र्य प्रवृत्तस्य सिद्धिरव्यभिचारिणी ।
भीमः प्राप्य जरासन्धं जघान हरिसंमतः ॥ १०८॥
स्वयं यदि भवेत्साधुर्लभेदेव स मङ्गलम् ।
सहदेवोऽभिषिक्तश्च भूपाः कृष्णेन मोचिताः ॥ १०९॥
न श्रावयेद्वचः क्रूरं मत्सरं च परित्यजेत् ।
यज्ञोत्सवे जघानाजश्चैद्यमाप्ताग्रपूजनः ॥ ११०॥
महानारब्धकार्यस्य समाप्तिकरणं गुणः ।
पार्थानां पूरयित्वागाद्राजसूयं प्रभुः पुरम् ॥ १११॥
अपकारप्रतीकारं सद्यः कुर्यात्स्वभीतये ।
प्रेक्ष्याद्रुत्य पुरं भग्नं शाल्वं हत्वाच्युतोऽविशत् ॥ ११२॥
मित्रं विपदि सम्पत्तावपि तुल्यक्रियं हि यत् ।
आकर्ण्याप्तवनान्पार्थानाश्वास्येशोऽगमत्पुरम् ॥ ११३॥
संसर्ग एव महतां फलाय महते भवेत्
कृष्णहस्ताम्बुजस्पर्शान्नृगो मुक्तः कुयोनितः ॥ ११४॥
अकृतोपद्रवो लोके पूज्यते न महानपि ।
व्रजं गतेन रामेणाकृष्टा तं यमुनार्चयत् ॥ ११५॥
स नश्यत्येव शीघ्रं यः करोत्युत्तमहेलनम् ।
लोकद्विट् द्विविदो धूर्तो हलिना निहतः कपिः ॥ ११६॥
नीचात्सिध्यति कोऽप्यर्थो न साम्ना किन्तु दण्डतः ।
ससाम्बोऽगाद्बलः पुर्यां कृष्टाया कुरुभिः स्तुतः ॥ ११७॥
धनिके निर्धने वापि भक्ते कार्योऽत्यनुग्रहः ।
हरिर्गत्वा मुदं चक्रे मैथिलश्रुतदेवयोः ॥ ११८॥
उपकारं न कुर्वीत नाशे प्राप्तेऽपि दुर्मतेः ।
शम्भुर्दत्तवरो भीतो वृकाद्वैकुण्ठमाव्रजत् ॥ ११९॥
युक्त्या यत्सुकरं भूरिपौरुषैस्तन्न साधयेत् ।
वाक्यैर्व्यनाशयद्विष्णुर्दारको मोहयन्वृकम् ॥ १२०॥
ते श्रेष्ठा विक्रियन्ते न ये हेतौ विकृते सति ।
भृगुणाङ्घ्रिप्रहारोऽपि नतोऽग्र्यो निश्चितोऽच्युतः ॥ १२१॥
भावि जानन्नपि हितं वदेदनपकीर्तये ।
उपप्लाव्ये गतः पार्थान्दूत्यं चक्रे जगत्पतिः ॥ १२२॥
नङ्क्ष्यन्तं न स्वतो हन्याद्भीषयेताभिभावुकम् ।
प्रदर्श्यानन्तरूपत्वं कृष्णोऽगाद्बद्धुमिच्छितः ॥ १२३॥
दूषणत्वमवाप्नोति गुणोऽप्यसमये नृणाम् ।
प्रबोध्येशेन युद्धाय विरक्तः प्रेरितोऽर्जुनः ॥ १२४॥
नैव कुर्यात्समर्थोऽपि किञ्चिदन्यस्य कीर्तये ।
नीत्वार्जुनं शिवोपान्तं प्राप्तेऽर्स्त्रेऽभ्यगमद्धरिः ॥ १२५॥
भवितव्यं भवत्येव स्वकाले समुपस्थिते ।
शान्तेनापि हतः सूतो रामेण मुनिमानितः ॥ १२६॥
अपकृत्या सुधीः खिन्नानुपकृत्या प्रहर्षयेत् ।
ऋषीणामिष्टकृद्दैत्यमवधीद्बल्वलं बलः ॥ १२७॥
दोषं कुर्यान्न कस्यापि विशेषाद्बलशालिनः ।
दुर्योधनोऽपि भीमेन सानुबन्धो हतो द्विषन् ॥ १२८॥
समर्थानपि कार्याप्त्यै कर्तव्यो बृहदाश्रयः ।
प्रपेदिरे महद्राज्यं पाण्डवाः केशवं श्रिताः ॥ १२९॥
गृहीत्वैकमसङ्ख्यातं प्रददाति महामतिः ।
सम्पदोऽदात्कुचेलाय हरिः पृथुकमुष्टिभुक् ॥ १३०॥
कार्या नैवात्मनः श्लाघा प्रतिज्ञाप्यतिगर्वितः ।
द्विजात्मजप्रदानेऽतिक्लेशमाप यतोऽर्जुनः ॥ १३१॥
अश्वमेधमपि त्यक्त्वा कुर्यान्मित्रेप्सितं द्रुतम् ।
आनीयेशः स्वधाम्नोऽदात्सार्जुनो विप्रबालकान् ॥ १३२॥
न करोति स यो वक्ति विधत्ते स न वक्ति यः ।
विकत्थमानः कृष्णेन दन्तवक्त्रो निषूदितः ॥ १३३॥
निस्तीर्णसर्वकार्याब्धिर्नितरां परिमोदिते ।
रेमे स्त्रीपुत्रपौत्राद्यैर्द्वारकायां श्रियःपतिः ॥ १३४॥
लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः
श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् ।
रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते
सप्तत्या दशमेऽर्धमन्तमपरं स्कन्धे सुपद्यैरगात् ॥ १३५॥
इति श्रीसुनीतिभागवते दशमस्कन्धे उत्तरार्धं समाप्तम् ॥
एकादशः स्कन्धः ।
यस्य प्रेरणया द्विजा यदुकुलं शेपुश्च यो वर्णितः
कव्याद्यैरपि नारदेन गतये धाम्नोऽर्जितोऽजादिभिः ।
सद्विप्रोद्धवमुख्यभक्तसुखकृन्नीत्वा क्षयं यादवान्
धामाप्तो विजयो यदिष्टमकरोत्कृष्णः स नो रक्षतात् ॥ १॥
श्रीकृष्णं वृणुते जगन्ति पुनते मध्वं च ये प्रीणते
सद्धर्मान् ब्रुवते प्रियं प्रददते सत्तत्त्वमामन्वते ।
न स्स्वान् संस्तुवते गुणान् विदधते श्रेयो यशस्तन्वते
दुष्टान् संधुनते ह्यघं विलुनते सन्तः प्रसीदन्तु ते ॥ २॥
गीतमेकादशे स्कन्धे भगवद्भक्तसद्यशः ।
गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥
फलत्येव द्विजस्योक्तिर्विशिष्टस्य विशेषतः ।
सम्प्राप्तं मुसलं विप्रशापाद्यदुकुमारकैः ॥ ४॥
लभते महतोऽभीष्टमपकुर्वन्नपि क्वचित् ।
कामाद्या उर्वशीं चार्वीं प्रापुर्नारायणान्मुनेः ॥ ५॥
स्वयमेव हितोपायं पृच्छेत्कुर्याद्यथोदितम् ।
कव्याद्युक्तान्निमिर्धर्मानातिष्ठन्नाप सद्गतिम् ॥ ६॥
सतां गुरौ प्रकृत्यैव विनयो व्यसनं श्रुतौ ।
वसुदेवो भागवतान् धर्मान् शुश्राव नारदात् ॥ ७॥
योग्यं किञ्चिदपि स्वेष्टं सतां सम्मतमाचरेत् ।
इयेष धाम गन्तुं स्वं कृष्णो ब्रह्ममुखर्थितः ॥ ८॥
हिताहिते नरं स्वीयं वेदयन्त्येव सज्जनाः ।
उत्पातेषूद्धवं भक्तं कृष्णो दृष्टेष्वबोधयत् ॥ ९॥
सद्बुद्ध्यैव प्रकर्तव्यं स्वकीयं सकलं जनैः ।
अवधूतो गुरूनूचे यदवे बुद्ध्युपाश्रितान् ॥ १०॥
महाधिकारिणोऽभीश्टं चिन्तनादेव सिध्यति ।
हंसोऽजचिन्तितस्तत्त्वं सनकादिभ्य उक्तवान् ॥ ११॥
सर्वसम्पत्सु नष्टासु सद्बुद्धिर्जायते नृणाम् ।
खिन्नः क्षीणधनो भिक्षुरावन्त्योऽभूद्द्विजः सुधीः ॥ १२॥
स्वधर्मान्नोच्चलेज्जानन्सुखदुःखप्रदं मनः ।
न चुकोप स्वधर्मस्थो भिक्षुर्दुष्टैरुपद्रुतः ॥ १३॥
दुःखकृद्विषयासङ्गो वैराग्यं सुखसाधनम् ।
निर्वेदेनोर्वशीत्यक्तः सुखं प्राप पुरूरवाः ॥ १४॥
प्राज्ञं प्रत्येव साधूपदेशः स्यान्न निरर्थकः ।
उद्धवो हरिणा प्रोक्तो ययौ बदरिकाश्रमम् ॥ १५॥
यतेत श्रेयसे तावद्यावत्स्वस्थं कलेवरम् ।
प्रभासमाप्य कृष्णोक्ता यादवा धर्ममाचरन् ॥ १६॥
अदृष्टवशतो भावि निरोद्धुं कः प्रभुर्भवेत् ।
उन्मत्ता यादवाः प्राप्ताः क्ष्ययं घ्नन्तो मिथस्तृणैः ॥ १७॥
नोपकारोऽपकारश्च भक्तिरेव प्रयोजिका ।
विद्धः स्तुतो जराव्याधं भगवाननयद्दिवम् ॥ १८॥
सर्वानप्युद्धरेत्कृच्छ्राद्विशेषेणोद्धारेन्निजान् ।
इन्द्रप्रस्थाप्तयेऽन्येषां कृष्णो दारुकमादिशत् ॥ १९॥
प्रभुः सम्मान्यते सार्वैर्नितान्तमुपकारकः ।
कृष्णो विवेश धाम स्वं स्तूयमानोऽब्जजादिभिः ॥ २०॥
किं देहेनाखिलार्थैः किं महात्मविरहो यदि ।
कृष्नादीन् वसुदेवाद्या अपश्यन्तो जहुस्तनूः ॥ २१॥
धीरो हि कुरुते धैर्यं विहितं च विपद्यपि ।
अर्जुनः कारयामास बन्धूनां सांपरायिकम् ॥ २२॥
स सुहृद्यो ददातीष्टं न जहाति विपद्गतम् ।
सर्वान्नीत्वार्जुनो वज्रमिन्द्रप्रस्थेऽभ्यषेचयत् ॥ २३॥
लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः
श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् ।
रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते
ऽगाच्छ्लोकैर्दशभिर्लसन् द्विगुणितैः स्कन्धोऽन्तमेकादशः ॥ २४॥
इति श्रीसुनीतिभागवते एकादशस्कन्धः समाप्तः ॥
द्वादशः स्कन्धः ।
ब्रह्माद्याः स्तुवते रमापि जुषते सम्यङ् न यं जानते
केऽप्युत्पादयते जगत्समुचिते काले स्म यस्त्रायते ।
एकः संहरते तथा स नुदते ज्ञानादिदो द्योतते
भक्तान् प्रीणयते स्वधाम नयते नारायणः प्रीयताम् ॥ १॥
कल्की यो जनमेजयः पितृवधादारब्धसर्पाध्वरा-
द्यद्दासो विरतो यजूंषि सवितुः श्रीयाज्ञवल्क्योऽध्यगात् ।
मार्कण्डेयमुनिर्जितस्मरमुखोऽपश्यल्लयं चाच्युतः
यद्भक्त्यादि वरानवाप गिरिशात्कृष्णः स नो रक्षतात् ॥ २॥
वर्णितं द्वादशे स्कन्धे भगवद्भक्तसद्यशः ।
गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥
कार्योऽन्येषु न विश्वासः सर्वेष्वपि कलौ युगे ।
रिपुञ्जयाद्या निहताः स्वकीयैर्मुनिकादिभिः ॥ ४॥
यदा यदुचितं प्राज्ञो विदधाति तदैव तत् ।
हनिष्यत्यसतः कल्की शुको राज्ञार्चितो ययौ ॥ ५॥
धनैः को वश्यतां नैति प्रयत्नैः किं न साध्यते ।
काश्यपं तर्पयित्वार्थैर्नृपतिं तक्षकोऽदशत् ॥ ६॥
क्षुद्रान् कृतपरद्रोहान्नाङ्गीकुर्याद्बृहन्नपि ।
तक्षकाङ्गीकृतेरिन्द्रः सर्पसत्रे प्रचालितः ॥ ७॥
मान्यान् सम्मानयेज्जह्यात्स्वायोग्यकरणे रतिम् ।
सर्पसत्रान्निववृते गुरूक्तो जनमेजयः ॥ ८॥
न नश्यति दुरुक्त्या किं सदुक्त्या किं न सिध्यति ।
याज्ञवल्क्यो गुरुत्यक्तो यजूंष्याप स्तुताद्रवेः ॥ ९॥
निःस्पृहस्य तृणं सर्वं महदुल्लङ्घितुस्तथा ।
जेतुं शेकुर्न कामाद्या मार्कण्डेयं जितान्तकम् ॥ १०॥
कामयन्ते गरीयांसो बृहदेव न चात्यणु ।
मायां द्रष्टुं ययाचे स मुनिर्नारायणं मुनिम् ॥ ११॥
क्वचिद्बिभेति धीरोऽपि क्वचिद्धृष्यति विस्मितः ।
मार्कण्डेयो लये भीतो दृष्टे विष्णावमोदत ॥ १२॥
गुणिनामेव कुर्वन्ति प्रियमप्रार्थिता अपि ।
विष्णुभक्त्यादि रुद्रोऽदान्मार्कण्डेयाय मोदितः ॥ १३॥
लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः
श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् ।
रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते
सच्छ्लोकैर्दशभिः शुभैर्विलसितः स्कन्धोऽगमद्द्वादशः ॥ १४॥
श्रीमद्भागवताखिलातिपृथुलस्कन्धार्थसम्बोधिनी
सद्भक्त्यावधृता चतुःशतलघुश्लोकीयमुर्वी बुधैः ।
पापं नाशयति ह्यशेषविपदः श्रीकृष्णभक्तिं महा-
सम्पत्तिं च ददाति मुक्तिमतुलां धर्मार्थकामान् शुभम् ॥
इति श्रीमत्सागरवेङ्कटेशाचार्यपुत्रेण रामेण कृते
सुनीतिभागवते द्वादशः स्कन्धः समाप्तः ॥
श्रीकृष्णाय नमः । श्री वेदव्यासाय नमः ॥
The Suniti Bhagavatam of Sagara rAmAchArya of the 17th
Century is based on a manuscript at Sukrtindra Oriental
Research Institute, Cochin, Kerala. The author gives in
each verse a principle of right conduct in the first line,
and as an illustration of it, the story of the Bhagavata
in the second line.
Encoded and proofread by PSA Easwaran