श्रीत्रिपुरारिस्तोत्रम्

श्रीत्रिपुरारिस्तोत्रम्

नमामोऽसुरारेस्सुरारेर्गणाग्र्यं नमामोऽन्धकारिं मखारिं निजारेः (रिम्) । शिरो गाङ्गवारिप्रचारक्षमोऽस्य नमामः पुरारिम् मुरारेः प्रियं तम् ॥ १॥ मुखैः पञ्चभिः पञ्चभिः पञ्चषष्ठं त्रयीसाङ्ख्ययोगाङ्गमारण्यकानि । जगौ भक्तिकाण्डं हरेस्सौख्यभाण्डं नमामः पुरारिं मुरारेः प्रियं तम् ॥ २॥ हरेरङ्घ्रितो गाङ्गवारि प्रसूतं कपर्दे कपर्दे कपर्द्दीचकार । अखर्वं च गर्वं हरन् जह्नुजाया नमामः पुरारिं मुरारेः प्रियं तम् ॥ ३॥ गुरूणां गुरुर्यो मतो नारदेन उपज्ञोऽपि शिष्यः परः पूरुषस्य । तृतीयं गुणं यो नियन्तुं नियन्ता । नामः पुरारिं मुरारेः प्रियं तम् ॥ ४॥ समस्तागमा मूलमन्त्राश्च सर्वे यतः सम्प्रसूता यतः सिद्धिमन्त्राः । पुराणार्णमाद्यं दशार्णं जपन्ते नमामः पुरारिं मुरारेः प्रियं तम् ॥ ५॥ सदाम्नायमाद्यं जगौ नारदाय विकुण्ठाधिनाथादवाप्यैव पूर्वम् । ततः शेषतः शेषधर्मं दधार नमामः पुरारिं मुरारेः प्रियं तम् ॥ ६॥ कृपातो गतो व्यापिवैकुण्ठभाजां समीपे ददर्श व्रजेशं रसेशम् । ततोऽनुगृहीतोऽखिलैभक्तिवर्यैः नमामः पुरारिं मुरारेः प्रियं तम् ॥ ७॥ स्थितो यो निदेशाय सिंहासने स्वे मणिव्रातकीर्णे मुनिव्रातमध्ये । उपज्ञो गुरुर्ज्ञानदानाय लोके नमामः पुरारिं मुरारेः प्रियं तम् ॥ ८॥ व्यासेन कथितं पुण्यं त्रिपुरारेर्महास्तवम् । कीर्तयेच्छृणुयाद्यस्तु स मुरारेः प्रियो भवेत् ॥ ९॥ (२९-३७) इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे चतुर्थांशे एकादशोऽध्याये श्रीत्रिपुरारिस्तोत्रं सम्पूर्णम् । मुरारिस्तोत्रम् Proofread by Manish Gavkar
% Text title            : Shri Tripurari Stotram
% File name             : tripurAristotram.itx
% itxtitle              : tripurAristotram murAristotram cha (shANDilyasaMhitAntargatam)
% engtitle              : tripurAristotram
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Indexextra            : (Scan)
% Latest update         : September 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org