वामनस्य विश्वरूपवर्णनम्

वामनस्य विश्वरूपवर्णनम्

वामन उवाच - एतावता दैत्यपते कृतकृत्योऽस्मि मार्गताम् । अन्येषामर्थिनां वित्तमिच्छया दास्यते भवान् ॥ ५०॥ एतच्छ्रुत्वा तु गदितं वामनस्य महात्मनः । वाचयामास तत्तस्मै वामनाय पदत्रयम् ॥ ५१॥ पाणौ तु पतिते तोये वामनो भूतभावनः । सर्वदेवमयं रूपं दर्शयामास तत्क्षणात् ॥ ५२॥ चन्द्रसूर्यौ च नयने द्यौः शिरश्चरणौ क्षितिः । पादाङ्गुल्यः पिशाचाश्च हस्ताङ्गुल्यश्च गुह्यकाः ॥ ५३॥ विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः । यक्षा नखेषु सम्भूता रेखास्वप्सरसः स्थिताः ॥ ५४॥ दृष्टिर्धिष्णान्यशेषाणि केशाः सूर्यांशवः प्रभो । तारका रोमकूपाणि रोमाणि च महर्षयः ॥ ५५॥ बाहवो विदिशस्तस्य दिशः श्रोत्रं महात्मनः । अश्विनौ श्रवणौ तस्य नासा वायुर्महाबलः ॥ ५६॥ प्रसादश्चन्द्रमा देवो मनो धर्मः समाश्रितः । सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ॥ ५७॥ ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्तथा । स्वर्गद्वारमभून्मैत्रं त्वष्टा पूषा च वै भ्रुवौ ॥ ५८॥ मुखं वैश्वानरश्चास्य वृषणौ तु प्रजापतिः । हृदयं च परं ब्रह्म पुंस्त्वं वै कश्यपो मुनिः ॥ ५९॥ पृष्ठेऽस्य वसवो देवा मरुतः सर्वसन्धिषु । सर्वसूक्तानि दशना ज्योतींषि विमलप्रभाः ॥ ६०॥ वक्षःस्थले तथा रुद्रो धैर्ये चास्य महार्णवः उदरे चास्य गन्धर्वा मरुतश्च महाबलाः । लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्याश्च वै कटिः ॥ ६१॥ सर्वज्योतींषि यानीह तपश्च परमं महत् । तस्य देवातिदेवस्य तेजः प्रोद्भूतमुत्तमम् ॥ ६२॥ स्तनौ कुक्षौ च वेदाश्च जानू चास्य महामखाः । इष्टयः पशुबन्धाश्च द्विजानां चेष्टितानि च ॥ ६३॥ तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महाबलाः । उपसर्पन्ति दैतेयाः पतङ्गा इव पावकम् ॥ ६४॥ इति विष्णुधर्मेषु सप्तसप्ततितमोऽध्यायान्तर्गतं वामनस्य विश्वरूपवर्णनं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Vamanasya Vishvarupavarnanam
% File name             : vAmanasyavishvarUpavarNanam.itx
% itxtitle              : vAmanasya vishvarUpavarNanam (viShNudharmopapurANAntargatam)
% engtitle              : vAmanasyavishvarUpavarNanam
% Category              : vishhnu, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Vishnudharma Upapurana. Adhyaya 77
% Indexextra            : (Text)
% Latest update         : December 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org