वीरराघवस्तोत्रम्
missing initial portion in the manuscript. Need to find other source.
....नित्यं यतिनृपतिरुदारो मामपायात् स पायात् ॥ ३॥
(रुधिरोद्गारिण्यधिसृतिविमनोयोगेन निजसुखं प्राप्ताः ।
चैत्रे सितसप्तम्यां गोविन्दार्या हरेः पदं याताः ॥ )
जयति गलदविद्या न्यासविद्या सुहृद्या
विधुतनमदवद्या मुक्तिसम्पन्निषद्या ।
यदनघसुवचोभिः ख्यापिता ख्यातभूमा
श्रुतिमकुटगुरुर्मे मानसे सोऽस्तु नित्यम् ॥ ४॥
सोऽयं श्रीवण्छठारिर्जयति यतिपतिः सर्वविज्ञानसीमा
श्रीमान् रामानुजार्योऽपर इति विबुधैः साधु सन्तर्क्यमाणः ।
नाथः श्रीवैष्णवानां प्रगुणगुणभृतां प्राप्तसिंहासनानां
यस्य प्रेषोपदेशं नरहरिरकरोत् स्वस्य संराधनार्थम् ॥ ५॥
दुस्तर्काध्वगतागतश्रमलसद्दुर्वादिगर्वापह-
स्वैरोदार गभीरसारमधुरव्याहारधारान्वितः ।
मूर्तिः श्रीनृहरेः परेति जगति ख्यातो दिशेदञ्जसा
श्रीमाञ्छ्रीनिधिसंयमीन्द्रगुरुराट्छ्रेयांसि भूयांसि नः ॥ ६॥
दान्तं शान्तमनन्तचिन्तनपरिश्रान्तं महान्तं शुभ-
स्वान्तं कान्तगुणं तमन्तकभयध्वान्तं हरन्तं नृणाम् ।
सन्तं सन्तमसं ततं तनुभृतां निन्दन्तमन्तः स्थितं
भान्तं रङ्गधुरीणसंयमिथराधौरेयमीडीमहि ॥ ७॥
श्रीमान् वीररचूद्वहश्रुतिशिरोयोगीश्वरोऽहोबिला-
भिख्यश्रीनृहरेः पदे सुमहितोऽसौ सप्तविंशोऽधुना ।
तर्कव्याकृतितन्त्रशिक्षितमतिस्त्रय्यन्तपारीणधी-
र्वीक्षारण्यधुरीणवीररघुराट्स्तोत्रं विधत्ते कृती ॥ ८॥
श्रीमन् वीररघूद्वहाद्य भवतः स्तुत्यां प्रवर्तामहे
त्वन्माहात्म्यमवेक्ष्य मन्दमतयो लज्जामहे साम्प्रतम् ।
स्तोतुं त्वां प्रभवन्ति नो पटुधियः प्राञ्चो विरिञ्चादयो
लज्जां निह्नुमहेतरां तत इह त्वस्मत्प्रयत्नः फली ॥ ९॥
वाल्मीकिर्भगवान् वरेण महता सार्वज्ञ्यमध्यञ्चितः
स्तुत्यां तेऽधिकृतो भवद्गुणनुतौ कार्येन नेष्टे स्म सः ।
क्वाहं मन्दमतिः क्व ते गुणगणा वेधोमुखैर्दुःशका
मातुं वीररचूद्रहाद्य भवतः स्तुत्यां यते साहसात् ॥ १०॥
त्वद्भक्तिः सुदृढा सुमन्दधिषणं मां प्रेरयत्यञ्जसा
त्वत्स्तुत्यां किल वीरराघव ततः किं दुष्करं मेऽधुना ।
सुग्रीवः सुचिरं विनष्टनगरः शोचन् दवीयाञ्श्रिय-
स्त्वामञ्चन् परिधूय वालिनमसौ साम्राज्यमासेदिवान् ॥ ११॥
मत्स्तुत्या विषयीकृतोऽप्यगुणया त्वं राजसे ज्योतिषां
ज्योतिर्वीररघूद्वह श्रुतिशिरःसिद्धान्तसिद्धालय ।
धन्योऽहं त्वधुना भवत्स्तुतिकृतेः सन्तापभूम्ना शुना
लीढा किं न विराजते सुरसरित् तापात् स मुक्तो न किम् ॥ १२॥
तरुणतुलसीमालं मालम्बनीयनिजोरसं
रिपुजन ततीकालं कालङ्घनीयनिजाज्ञकम् ।
धरणितनयालोलं लोलम्ब डिम्भसमच्छविं
विमलविलसच्छ्रीलं श्रीलं भजेमहि राघवम् ॥ १३॥
निजपदनमत्सोमं सोमं मुखेन पराकृतं
सततविलसद्भूमं भूमण्डनं रवुपुङ्गवम् ।
मुनिजनदृशोऽभीमं भीमं दशास्यदृशां भृशं
विहितविनमत्कामं कामं सदेहमिवाश्रये ॥ १४॥
निरुपमतनुश्रीकं श्रीकञ्जभूप्रमुखाञ्चितं
निजधृतिलसद्भूकं भूकण्टकव्रजसूदनम् ।
विधुतदिविषद्भीकं भीकन्दलद्रिपुसैन्यकं
स्मर रुचिरभासाकं साकं श्रिया रघुपुङ्गवम् ॥ १५॥
नतजनमहोदारं दारं विपद्विततेः सतां
विनतदिविषद्वारं वारं प्रशस्तमहांहसाम् ।
रणभुवि महाधीरं धीरम्यमार्तजनावनं
रघुपतिममुं स्मारंस्मारं वसेयमहं सदा ॥ १६॥
निजपद भवद्गङ्गा गङ्गात्मजप्रमुखेडिता
कृतदुरितक्रुद्भङ्गाभङ्गात्मशक्तिरकुण्ठिता ।
धरणितनयासङ्गासङ्गा रघूद्वहदेवता
जयति हसितानङ्गानङ्गान्तकद्रुहिणाञ्चिता ॥ १७॥
निरुपधिदयासारं सारङ्गमुख्यवरप्रदं
परिधुतमहीभारं भारम्यकं खुपुङ्गवम् ।
नतजनमनोऽदूरं दूरं कुदृष्टिमतां मृडे
प्रकटितमहातारं तारं श्रये भववारिधेः ॥ १८॥
वीक्षारण्यपतिर्विराजतितरां साक्षाच्छ्रियः श्रीः सदा
धीक्षान्त्यादिगुणोज्ज्वलैः सुमहितैः साक्षात्कृतो योगिभिः ।
द्राक्षासारसदृक्षनैजफणितिर्दाक्षायणीशादिभिः
स्वेक्षाकाङ्क्षिभिरञ्चितः प्रणमतां काङ्क्षाधिकार्थप्रदः ॥ १९॥
श्रीमान् वीररघूद्वहः श्रुतिशिरःसीमा पुमानेधते
कामाहङ्कृतिधिक्कृतिक्षमवपुर्भूमाभिरामाननः ।
कामासक्तनृणां सुदुर्ग्रहगतिर्वैमानिकेन्द्राञ्चितः
श्यामात्मा नवनीरदप्रकरवद्धामाभिभूतारुणः ॥ २०॥
पायाद् वीररघूद्वहोऽखिलगुरुः कायाधवाद्यैः सदा
मायासंवृतिदूरकैरभिनुतो मायाविनामग्रणीः ।
छायानाथविलोचनोऽखिलसुधीगेयानुभावः स्वयं
हेयातीतगुणोज्ज्वलो विनमतामायासहारी हरिः ॥ २१॥
नाराचप्रवरप्रधूतदिविषद्वाराभियातिव्रजः
सारात्यद्भुतशक्तिदुग्धजलधिः स्मेराब्जतुल्याननः ।
धोरात्मा सनकादिभिर्मुनिजनैराराध्यमानः स सं-
साराम्भोनिधिमज्जनप्रणतसन्ताराङ्घ्रिको दीव्यति ॥ २२॥
दीनानाथदुरन्तशोकशमनो नानाविकारोज्झितो
मानातीतनिजप्रभावलसितोऽहीनाल्पतल्पोज्ज्वलः ।
ध्यानारूढमहर्षिसञ्चयमनः सूनाश्रयो भूसुता-
धीनात्मा रघुपुङ्गवो विजयते दानार्द्रहस्ताम्बुजः ॥ २३॥
हुङ्कारेण विधृतनिर्जरगणोऽहङ्कारपाथोनिधिः
कङ्कालोपममुष्टिको निजधनुष्टङ्कारवाचालितः ।
पङ्काविष्टमना मनाग् विनिहतो लङ्काधिनाथो यतो
ऽहं कामप्रतिमं श्रये रघुपतिं तं कामितार्थप्रदम् ॥ २४॥
नेतुं पातकमण्डलं भुवि लयं सेतुं वितेनेऽम्बुधौ
भेत्तुं राक्षससञ्चयं वनचरं केतुं व्यधाद् यः स्वयम् ।
पातुं सर्वजनान् नरत्वमवहन्मातुं त्रिलोकीं बलिं
जेतुं वामनतां च तं रघुपतिं ध्यातुं यतध्वं जनाः ॥ २५॥
ध्यातं योगिजनैर्विधूत कलुषैः शीतं दयास्रोतसा
क्रीतं भ ....
....
....श्रीलालितं संश्रये ॥ ३२॥
आहुः श्रीरघुपुङ्गव श्रुतिशिरःसिद्धान्तबद्धादराः
प्राज्ञास्त्वां शरणागतप्रियतमं त्वागः कृपाकारणम् ।
प्राणेभ्योऽपि गरीयसीं जनकजां व्याकोपयन् वायसो
व्याजं कञ्चिदुपेत्य तावकदयागुम्फेन विस्रम्भितः ॥ ३३॥
अब्धिं वानरपुङ्गवं च शरणं यातस्त्वमद्धा रघु-
क्ष्माभृद्वर्य महर्षिसङ्घमहितां श्रीन्यासविद्यामिमाम् ।
लोकानुग्रहकारणेन जगति प्रख्यापयन् मादृशां
मन्दानां विधुनोषि संशयमहो किं ब्रूमहे त्वां विभो ॥ ३४॥
श्रीमन् वीररघूद्वह श्रुतिशिरःसिद्धान्त निर्धारितं
न्यासं त्वं प्रकटीकरोषि न यदि प्रायेण नो सेत्स्यति ।
जन्तुर्दन्तुरधीः समन्तुरिह सङ्गन्तुं त्वदीयं पदं
नो शक्नोति चतुर्मुखप्रभृतयो नालं हि तत् प्रार्थये ॥ ३५॥
श्रीमन् किङ्गृहरत्नदीप भवता प्रख्यापिता धीमता
शङ्काकूटमसौ धुनाति हि फले श्रीन्यासविद्या नृणाम् ।
नो चेद्धैतुकदुर्वचः शतमहाकान्तारतान्तात्मनां
विस्रम्भो न हि बोभवीति भगवन् तस्मान्नमस्याम्यहम् ॥ ३६॥
भक्तिर्मुक्तिकरी विरक्तिजननी संसारकुक्षिम्भरी
त्रव्यन्तैः प्रथिता प्रपत्तिरपि सा संसिद्धिसम्पादिनी ।
स्वातन्त्र्येण न मुक्तिहेतुरखिलैः शास्त्रैर्निषेधादिति
प्राप्ते कोसलराज कः प्रतिवदेत् त्वत्तः समर्थः परः ॥ ३७॥
शङ्कपङ्किलमाविरञ्चमखिलं तापत्रयोत्क्रीडितं
भ्रान्तं हन्त जगत् कथं तरति तं संसारपाथोनिधिम् ।
धीर श्रीरघुपुङ्गव प्रणतसंरक्षैकदीक्षोऽवनौ
नो जायेत भवान् यदि ध्रुवमहो मुक्तेश्च मुक्तिर्भवेत् ॥ ३८॥
भक्तिः प्रपत्तिरिति मुक्तिपथस्य हेतू
द्वावामनन्ति रघुपुङ्गव साधु सन्तः ।
आद्या पराशरमुखाधिकृतिः परा तु
मादृग्जनाधिकृतिरित्यपि सङ्गिरन्ते ॥ ३९॥
काले कलौ कलुषधीः कलितापराधः
कामार्दितो नरपशुः कथमुत्सहेत ।
भक्तिं महर्षिमहितां भगवंस्त्वदङ्घ्रि-
पङ्केरुहद्वयभरन्यसनं विनाहो ॥ ४०॥
अत्यल्पबुद्धिरमितोत्कटदुःखमग्नः
स्वल्पायुरल्पशकुनश्चलचित्तवृत्तिः ।
त्वत्सन्निधौ रघुपते शरणोक्तिमात्र
मुक्त्वा कथं तरति संसृतिवारिराशिम् ॥ ४१॥
भक्तिः प्रपत्तिरपि सञ्जनयेद् विमुक्तिं
स्वस्वाधिकारमनुरुध्य कृता यदि स्यात् ।
स्नानं हि सप्तविधमप्यधिकारक्लृप्त्या
सूते फलं रघुधुरीण समं जनानाम् ॥ ४२॥
गौणेऽप्यवान्तरभिदा प्रतिपादिता श्री-
रक्षादिषु श्रुतिकिरीटगुरूत्तमेन ।
आतो रघूद्वह यथाधिकृति प्रसूते
गौणो विधिः फलमिति प्रवदन्ति सन्तः ॥ ४३॥
भक्तिः प्रपत्तिरथवा भगवंस्त्वदुक्ति-
स्तन्निष्ठसंश्रय इतीह विकल्प्यमानम् ।
इत्येवमाह निगमान्तगुरुः किमत्र
वक्तव्यमस्ति रघुपुङ्गव मादृशानाम् ॥ ४४॥
शरणमिति वदन्तो नाथ भट्टारकाद्या-
स्तव चरणसरोजाभ्यन्तिके सत्त्वनिष्ठाः ।
परिमितधिषणानां मादृशानां जनानां
विदधति धियमर्थ्यां मुक्तिनिष्ठनुरक्ताम् ॥ ४५॥
शरणवरणविद्याङ्गोपसंहारशक्ति-
स्तदुपकरणभूतं त्वद्गुणाम्रेडनं च ।
रघुवर रसिकानां सूक्ष्मबुद्ध्यान्वितानां
प्रभवति मितधीः स्यात् किं स्वनिष्ठाधिकारी ॥ ४६॥
द्वयवचनमुदारं मुक्तिघण्टापथस्य
प्रघटकमिति बुद्धिं प्राप्य पूर्वेभ्य एषः ।
अनुवचनपटुस्तामुक्तिनिष्ठां गरिष्ठा-
मभिमृशति न चान्योऽकल्प्यवाक् कोसलेन्द्र ॥ ४७॥
रघुवर बधिरादिर्मूकभावं गतो वा
परिमृशति विमुक्त्यै जन्तुराचार्यनिष्ठाम् ।
अधिकृतिनियतैषाप्युक्तिराचार्यनिष्ठा
जनयति फलमद्धा तुल्यमेव प्रजानाम् ॥ ४८॥
न च जनयितुमीष्टे वैपरीत्येन क्लृप्ता
कलुषमतिभिरेषा ह्यक्तिनिष्ठार्यनिष्ठा ।
फलमिति निगमान्ताचार्यवर्यैरभाणि
ध्रुवमिह रघुवर्य क्वास्ति शङ्कावकाशः ॥ ४९॥
तव चरणसरोजाभ्यन्तिके कोसलेन्दो
शरणमिति वदन्तस्तावदुन्मीलयन्ति ।
निरवधिकरुणाब्धिं निस्तुलानन्दकन्दं
श्रयति यदि मुकुन्दं त्वां फलं किं न विन्देत् ॥ ५०॥
निगममकुटविद्यादेशिकेन्द्रेण सम्यक्
प्रकटितमिदमद्धा संशये नास्तिकानाम् ।
कुकथक कुहनोक्त्या मोहितानां जनानां
भवति रघुकुलेन्दो भेषजं त्वच्चरित्रम् ॥ ५१॥
मन्ये वीररघूद्वहावतरणं भावत्कमुर्व्यां नृणां
संसाराम्बुधिमग्नमानसजुषां दुर्वादतान्तात्मनाम् ।
मुक्त्यर्थं शरणागतिं घटयितु केचित् समाचक्षते
पङ्क्तिग्रीवमुखप्रभञ्जनकृते युक्तं न मन्ये हि तत् ॥ ५२॥
मायामोहितबुद्धयो विधिशिवेन्द्राद्याः स्वयं देवता
दातुं न प्रभवन्ति मुक्तिमनघां दीनाः किमन्ये पुनः ।
त्वत्पादाम्बुज चञ्चरीकचरितास्त्वन्नामपाठोद्यताः
श्रीमद्वीररघूद्वह प्रजनयन्त्यद्धा विमुक्तिं नृणाम् ॥ ५३॥
द्वैतं केचिदुदीरयन्ति हि विशिष्टाद्वैतमाहुः परे
शुद्धाद्वैतमुदाहरन्ति कतिचित् तत्त्वं ततो दुर्ग्रहम् ।
वीक्षारण्यपते कृतेऽखिलपते न्यासे तवाङ्घ्र्यम्बुजे
तत्त्वार्थः सुगमः प्रणश्यति नृणामन्तर्दुरन्तं तमः ॥ ५४॥
ज्ञाज्ञावित्यसकौ श्रुतिर्विजयते जीवेशयोर्भेदिका
सर्वं खल्विदमित्यपि श्रुतिरसौ जागर्त्यभेदग्रहे ।
श्रीमत्किं गृहनाथ निस्तुलमिति श्रीलक्ष्मणार्यो मुनि-
स्त्वन्न्यस्तात्मभरो विरोधमनयोर्धूत्वा बभाषेऽद्भुतम् ॥ ५५॥
मायाकल्पितमेव हन्त जगदित्याहुः परे तद् वयं
नो युक्तं किल मन्महे रघुपते त्वच्छेषभावोज्ज्वलाः ।
शेषित्वं तव शेषवस्तुविरहे दुःसाधमापद्यते
शेषपह्नवकारिणां किमु भवेच्छेषप्रसिद्धिः क्वचित् ॥ ५६॥
त्वद्दास्यं निरुपाधिकं भुवि नृणां ब्रह्मादिभिः प्रार्थितं
मुक्तैश्वर्यनिशावसानसमयासक्तिं विधत्तेऽञ्जसा ।
मिथ्यावादिमते विमुक्तिरसकौ भूयात् तपस्विन्यहो
शेषाख्यां फणिपुङ्गवो न सहते बिभ्रन्मृषाकल्पनाम् ॥ ५७॥
श्रीमन् वण्शठवैरिसंयमिधराधौरेयमुख्यैर्यति-
क्षोणीशैरनघैः समर्चितपदाम्भोजो भृशं राजसि ।
वीक्षारण्यपदे हरे नरहरेरास्थानलक्ष्मीं स्थिरां
पुष्णासि प्रणमद्भयप्रशमनप्रागल्भ्यविभ्राजितः ॥ ५८॥
संसारसागरसमज्जनमानसोऽहं
सन्तारितः करुणया कथमप्यरीश ।
संयोजितोऽस्मि रघुपुङ्गव योगिमुख्ये-
ष्वाहोबिलेषु निगमान्तनिरूढधीषु ॥ ५९॥
वयं समकरिष्महि स्फुटतरं रघुक्ष्मापते
करिक्षितिपतिस्तवे नियतदेवसम्प्रीणनम् ।
त्रयीशिखरदेशिकप्रभृतिभिर्विनिर्धारितं
तदेतदिति हैतुकप्रशिथिलप्रलापो वृथा ॥ ६०॥
श्रीमन् हृत्तापनाशिन्यभिधकमलिनीनीरकल्लोलमाला-
लोलत्पाथोजजालप्रसृतमधुझरीशीकरामोदयुक्ते ।
रोधस्याजीव्यसि त्वं प्रदिशसि सकलं वाञ्छितं किङ्गृहेश
त्वत्तोऽप्येषाब्जिनी सन्दिशति किल फलानीप्सितान्यञ्जसाहो ॥ ६१॥
मूको जल्पाकति त्वच्चरणनलिनसंसेवनात् कोसलेन्दो
काणोऽप्यक्ष्णाभिपश्यत्यखिलमपि जगत्यञ्ज .... ॥ ६२॥
End portion missing in the manuscript. Need to find other source.
इति वीरराघववेदान्तदेशिककृतं वीरराघवस्तोत्रं सम्पूर्णम् ।
स्तोत्रसमुच्चयः २ (७५)
The Viraraghavastotra (75) on the
God at Tiruvallur (Viksharanya) by
Viraraghavavcdantadesika, twentyseventh pontiff
of Ahobila Matha, discusses incidentally certain
tenets of Srivaisnavism (like nyasavidya,
prapatti; vv. 35 ff.) and refers to the
works of Ramanuja (v. 55). He also refers
(v. 60) to another Stoira by him, namely the
Hastigirishastava (80) on God Varadaraja at
Kanchipuram. He pays homage, in the opening
verse of the latter stotra, to Srinivasayogin
and Ranganathayati. References to the Sribhashya
(vv. 16, 23, 43 etc.), the commentaries thereon
by Sudarsanasuri (v. 18) and Vedantadcsika
( Tailvatika , vv. 24, 44) and also to the
Sachcharitraraksha (v. 19) are found in this
Stotra. Allusions to several conclusions and
discussions in the above works may be found in
both the stotra-s.
Proofread by Rajesh Thyagarajan