श्रीवृन्दावनस्तोत्रम् २

श्रीवृन्दावनस्तोत्रम् २

वाञ्छिताय भवतां विजृम्भतां मत्तहस्तिवदनं महन्महः । लाञ्छितं ललितभृङ्गसुन्दरी- लेखया च शशिलेखया च यत् ॥ १॥ देवी सरस्वती स्वैरं सेवावसरकाङ्क्षिणी । देवदेवमियं धन्या सेवतां देवकीसुतम् ॥ २॥ अस्ति वृन्दावनं नाम वनं भुवनपावनम् । वृन्दया नश्चन सूनोश्च कृपया परिरक्षितम् ॥ ३॥ (नश्चन्द) यत्र गावश्च गोपाश्च गोप्यश्च तरवश्व तम् । अवतीर्णाः सह स्वर्गात् सेवन्ते स्म जगत्प्रभुम् ॥ ४॥ यत्र रामश्च कृष्णश्च रेमाते बाललीलया । निरन्तरपरीरम्भनिर्भरोऽद्भुतहर्षया ॥ ५॥ यत्र दृष्टवा विषास्पृष्टं कदम्बममृतोक्षितम् । स्पृष्ट्वा कृष्णेन निर्भीभ्यां पद्भयां पेदे फणिव्रदे ॥ ६॥ (फणिह्रदे) यत्र कालियनागस्य मध्यमं भुवनोत्तमम् । फणं चकार भगवान् पादाम्बुरुहलीलया ॥ ७॥ यत्र द्वादश मार्ताण्डा शीतार्तं कालियं हृदे । कृष्णं क्षणमुपस्पृश्य करैर्जग्मुः कृतार्थताम् ॥ ८॥ यत्र द्वादश मार्ताण्डाः प्रतापं वीक्ष्य शाङ्गिणः । तत्क्षणानिव कान्तः सेवन्तेऽद्यापि तैः करैः ॥ ९॥ यत्र गोपीसहस्रेण खेलमानं सहस्रशः । प्रेक्ष्य देवं सहस्राक्षः सहस्राक्षफलं ययौ ॥ १०॥ यत्र त्रिभुवनाभोगसुभगां तनुमुद्वहन् । धन्यैरन्यापि गोविन्दा लोचनैः परिचुम्ब्यते ॥ ११॥ यत्र केशिनमाक्रम्य वामपादेन केशवः । वामहस्तेन चाकृष्टैः प्राणैरन्यापि खलति ॥ १२॥ इति यत्र विचित्राणां विष्णोर्बाल्यमुपेयुषः । पवित्राणि चरित्राणि गीयन्ते मुनिपुङ्गवैः ॥ १३॥ यत्रोद्गीतं गोपिकानां हिमाद्रेः । श्रुत्वा शम्भुर्ध्यानभङ्गानुपेत्य । गुप्तस्तृप्तं कृष्णमीशिष्टदीर्घं श‍ृण्वन् गीतं भाति गोपीश्वराख्यः ॥ १४॥ किमत्र बहुनोक्तेन निःश्रेयसविधिः स्वयम् । निःश्रेयसवनं गत्वा यत्र रेभे रभासखः ॥ १५॥ तदेतदमृतस्यन्दि बुन्दावनमहो दृशोः । चिरोत्क्रन्दितमागम्य जन्मनः फलमाप्नुमः ॥ १६॥ वन्दे वनमिदं मूर्ध्ना यत्र चित्रं जगत्प्रभोः । प्राप्य प्रतिपदं रेजे स्थलपद्मपदं पदम् ॥ १७॥ अपि वा भुवनोल्लङ्गिसौभाग्यं वीक्ष्य चक्रिणा । पादमुद्रापदेशेन यच्चक्रेणात्मसात्कृतम् ॥ १८॥ जगज्जन्मस्थितिलया लीला यस्य जगत्प्रभोः । तस्यास्य कृष्णदेवस्य लीलोद्यानमिदं कियत् ॥ १९॥ वृन्दादेव्या बद्धरक्षं तदेतत् वृन्दारण्यं पुण्यभाजो भजन्ते । गोपीरूपैर्यत्र लक्ष्मीसहस्रैः देवः स्वैरं सेवितो दैवतैश्च ॥ २०॥ वन्दे भगवतीं वृन्दां वनस्यैतस्य रक्षिणीम् । यत्र दत्तकहरः स्वैरं चिक्रीडति जगत्प्रभुः ॥ २१॥ वन्दे वृन्दावनेन्द्रस्य विश्वनाथस्य शैशवम् । वैभवोद्गन्धिमङ्गल्यकटाक्षोक्षितदिङ्मुखम् ॥ २२॥ वन्दे कन्दर्पसाम्रज्यवृन्दावनवनेचरम् । वृन्दैरिन्दीवराक्षीणां वन्दितं तमितस्ततः ॥ २३॥ तावकं भगवन् भातु तत्त्वमस्तमितोपमम् । निस्तरङ्गनिरातङ्कनीरन्ध्रसुखसङ्कुलम् ॥ २४॥ भगवान् पुण्डरीकाक्षो भासतां मम मानसे । मृगलाञ्छनवंशस्य मणिलाञ्छनतां गतः ॥ २५॥ मधुराभिजनं धाम मधुराधरपल्लवम् । हृदयङ्गसमभ्येतु हृदयं गलितोपमम् ॥ २६॥ देवकीवसुदेवाभ्यां दत्त्वा नेत्रोत्सवं सकृत् । ददौ नन्दयशोदाभ्यां यत्तत्पुत्रोत्सवोत्सवान् ॥ २७॥ तदेतदवलिभ्यादौ बाललीलाः सहस्रशः । (तदेतदवलम्ब्यादौ) अनुचुम्बितकैशोरकेलिः खेलतु मे हृदि ॥ २८॥ देवः क्रीडन् गोपगोपीसहस्रैः दत्तास्थाने गोसहस्रः परीतः । क्लृप्तच्छायः कल्पकश्रीसहस्रैर्गायन वेणुं गाहतां मानसं मे ॥ २९॥ वृन्दारण्ये पण्यगोपाङ्गनाभिः कलेकूले क्लृप्तहर्म्ये लताभिः । क्रीडन् कृष्णः कृष्णया बद्धदूरं वीचीहस्तैर्भातु बद्धाञ्जलिर्मे ॥ ३०॥ अविशङ्कमनङ्गसङ्कुलाभिर्वनिताभिर्विनताभिरात्तरासः । कमलारमणः किशोरवेषं परिपुष्यन् मम चित्तमभ्युदेतु ॥ ३१॥ मध्ये मध्ये कुष्णमाणिः मिश्रा भाला काचिद्वल्लवीनां सहस्रैः । (कुष्णमाणिक्य) चित्ताभोगैर्भागिनां धन्यधन्यैर्जीयादेषा दीर्घमाध्रायमणा ॥ ३२॥ व्योमाभोगे विस्मयाविष्टनेत्रैः साथैर्दिव्यैर्निर्निमेषं निषेव्यम् । गोपीलक्षैः क्लप्तरासं समन्ताद् गोपं कश्चित्पञ्चबाणोऽप्युपास्ते ॥ ३३॥ चपलं भवतु चरित्रमेतत् कमलाकेलिभुजार्तरे निलीना । (भुजान्तरे) मुनयश्च मुहुर्मुहुर्मुरारे विहरन्ते तव चापलं गृणन्तः ॥ ३४॥ मदान्धगोपीजनवल्लभाय नमोऽस्तु नारायणचापलाय । यद्वीक्ष्य लक्ष्मीर्भुजमध्यलीना हा हन्त लीलावसरप्रतीक्षा ॥ ३५॥ त्वयि देव दयाम्बुधे मुरारे निखिलं न्यस्य भरं ? ? गतान्ध्य । विहराणि विजृम्भमाणतत्वच्चरणाम्भोरुहचुम्बनोत्सवेन ॥ ३६॥ नन्दप्रजाभरण नीलमणिप्रवाळ नाथ त्वदीयचरणाम्बुजचुम्बनान्धः । पुण्यैः पुरा परिणतैः परिरस्यमानैर्भूयो भवेय भगवन् भुवनान्तरेऽपि ॥ ३७॥ जीयाजगत्त्रयीकान्त कृपार्णव जयार्णव । जिग्ये फणिफणा येन पादेन च करेण च ॥ ३८॥ न केवलं भवान् देव पोतो नन्दयशोदयोः । किन्तु सिन्धुममुं घोरमुत्तरीतुं च मादृशाम् ॥ ३९॥ भुवनेश्वरमालम्बे तन्त्वां वृन्दावनेश्वरम् । स्मरताममृतोद्गारिकैशोरकदयाद्भुदुतम् ॥ ४०॥ वृन्दारण्ये वीरगोपालबालं वारं वारं वारितोदान्तदैत्यम् । नागांल्लोकान्निष्पतत्तुष्पवीचीधारावर्षस्मेरमौलिं स्मरामः ॥ ४१॥ भजतां हृदयाम्भोजभागधेयमुपास्महे । यजतामधिदैर्व यद्यच्च ब्रजभृगीदृशाम् ॥ ४२॥ पङ्केरुहप्रतिभटं पदपल्लवेन पारङ्गतं त्रिभुवनाद्भुतविभ्रमाणाम् । पिञ्छावतंसपरिलाञ्छितकेशहस्तं पीताम्बरं किमपि धाम वयं भजामः ॥ ४३॥ यशोदाया यशःपुञ्जमञ्जनाभमुपास्महे । विस्मयं यत्र विन्दन्ति वृन्दावनमृगा अपि ॥ ४४॥ वृन्दावनचरं देवं वृन्दादृतपदाम्बुजम् । नन्दात्मजमुपासीना नन्दाम शरदःशतम् ॥ ४५॥ न हन्त तपसा सिद्धा न च मुग्धाः प्रजाङ्गनाः । (व्रजाङ्गनाः) तदिह त्वद्दृशोः पात्रं भवितुं देव के वयम् ॥ ४६॥ पश्येम तव विश्वेश वृन्दावनविहारिणः । वैभवं शैशवोद्गन्धिसिन्धुकन्यारतनादृतम् ॥ ४७॥ कस्तूरिकाकर्बुरकण्ठकाण्डं कञ्चित्किशोरं कमलायताक्षम् । विस्तारिणीभिः स्मितचन्द्रिकाभिर्विलोचनं लोचनयोर्वहामः ॥ ४८॥ गोगोपीगोपलक्षैः परिवृतमभितः कल्पकच्छायशीतं गीतं वंश्या दुहानं त्रिदशपुरमहापुष्पवृष्टिप्रहृष्टम् । ऊर्ध्वाधस्तिर्यगाशामखशतभरितैर्भाग्यभाजां परार्धेः दैवं लेलिह्यमानं त्रिभुवनविजयं दीप्यतां नेत्रयोमे ॥ ४९॥ चपला सफला ममास्तु दृष्टि श्चतुरं वीक्ष्य चतुर्भुजस्य बाल्यम् । अधरामृतवाहिवेणुनादै रधिवृन्दावनमिन्दिरावलेह्यम् ॥ ५०॥ इन्दीवरदलश्याममिन्दिरानयनोत्सवम् । वृन्दावनचरं बालं वन्देमहि कथं दृशाम् ॥ ५१॥ मन्दस्मितामृतार्द्रेण वदनेन मनोहरम् । कन्दर्पतातकैशोरं कदा मम दृशोः पदम् ॥ ५२॥ नन बजाङ्गनालक्षनयनोत्सवनिःसितम् । (नत) कन्दर्पतातसौभाग्यं कदा मम दृशा स्पृशे ॥ ५३॥ साधारणपदातीतराधारणरसादृतः । नारायणभवन्बाल्यपारयणपरे दशौ ॥ ५४॥ कदा नु कमलाबन्धो वृन्दावनदिलासिनः । विलासि बदनाम्भोजं विलह्य सफले दृशौ ॥ ५५॥ (विलोक्य सफले) सफले चपले कृष्ण कदा तव मदालसम् । वदनाम्बुरुहं बुन्दावनेऽप्याचुम्ब्य गद्दृशौः ॥ ५६॥ वृन्दावने विहरतस्तव दिव्यवेषं दृग्भ्यां निपातुमतिलम्पटयोर्दृशोर्मे । यावत्प्रशस्यसि जगत्त्रयकान्त कृष्ण तावत्तवानुचरणं चरणे करोमि ॥ ५७॥ त्वत्पादपङ्कजरजःपरिचारकस्य किन्नाम किङ्करजनस्य जगत्यसाध्यम् । दिव्यां दृशं दिश यया किल दिव्यवेषं त अन्तर्बहिस्तव विलय भवन्ति धन्याः ॥ ५८॥ यद्वा चित्तपथे विचिन्त्य भवतो भक्तैकचिन्तामणे भावं भावनया कयापि भगवन् प्राप्स्याम्यभीप्सास्पदम् । किं वा केवलया तवैव कृपया हे कृष्ण कृष्णासख स्वामिन् कामदुधैः कटाक्षविभवैः सार्धं लभे लिप्सितम् ॥ ५९॥ वृन्दावनव्यसनिनस्तव देव कृष्ण लीलाशुकेन रचित निचितं रसौघैः । प्रत्यक्षरं परिदुहन्मधुकर्णयोस्ते स्तोत्रं तदेतदनिशं विलिहन्तु धन्या ॥ ६०॥ इति श्रीकृष्णलीलाशुकमहाकविमुनिविरचिन्तं षष्टिसङ्खयं स्तोत्ररत्नसोदरन्नाम वृन्दावनस्तोत्रं सम्पूर्णम् । Proofread by Gopalakrishnan
% Text title            : Shri Vrindavana Stotram 2 06 14
% File name             : vRRindAvanastotram2.itx
% itxtitle              : vRindAvanastotram 2 (shrIkRiShNalIlAshukamahAkavimunivirachintam)
% engtitle              : vRindAvanastotram 2
% Category              : vishhnu, stotra, shrIkRiShNalIlAshukamuni
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Shrikrishnalilashukamahakavimuni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : From stotrArNavaH 06-14
% Indexextra            : (Scan)
% Latest update         : September 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org