॥ वृषाद्रिनाथस्तोत्रम् ॥

श्रीशेषशिखरिस्वामिन् रमाभृद्वक्षसस्तव विलसत्पद्मसङ्काशौ चरणौ शरणं भजे ॥ त्वत्कल्याणगुणाङ्कितामलवचःपाळी सुधास्यन्दिनी नृत्यन्ती वदने स्वयं विलसते मूढस्य मे श्रीविभो । क्षोणीमण्डलसंस्थसर्वरसिका नन्दौघसन्दायिनी दुर्मांसा शनतत्परे वनमृगे व्याप्ता न किं चन्द्रिका ॥ १॥ वेदास्सर्वसुरेश्वराः कमलभूश्शम्भुश्च मन्वादयः स्तोतुं यस्य महत्त्वमक्षमतमा व्यासादयश्चाभवन् । त्वद्दासस्त्वदुपाश्रितस्तव सुतस्तस्मादहं निर्भयः स्वामिंस्तादृशवैभस्य भवतः कर्तुं यतिष्ये स्तुतिम् ॥ २॥ श्रीवत्साङ्कयतीन्द्रसंनुतहरे श्रीवेङ्कटाख्ये गिरौ वैकुण्ठात्स्वयमागतः प्रकृतिसंश्लिष्टानिमान् प्राणिनः । ब्रह्माण्डान्तरसंस्थितान् हि कृपया पातुं सदा वर्तसे तस्माद्विश्वविधायिनस्तव कृपा निर्हेतुकैव ध्रुवम् ॥ ३॥ प्रह्लादः करिराङ् विभीषण इति ख्याताश्च भक्ता ह्यमी भक्त्या लब्धभवत्कृपापरिणतां तां लेभिरे संपदम् । तस्मात्केचिदहो सहेतुकपरां व्याचक्षिरे त्वत्कृपां तेषां भक्तिमनिन्दितां तव कृपालब्धां कथं नोचिरे ॥ ४॥ सर्वेषां जगतां हि रक्षणविधौ सक्ता कृपा तावकी काकं भू ----- निलयं संरक्षयन्नाद्भुतम् ? । मोहाद्दुर्विषयेषु सक्तमनसां पापात्मनामादिमं मिथ्यादास्ययुतं त्वरक्षदिति मां चित्रं हरे श्रीविभो ॥ ५॥ हे स्वामिन् भवराजयक्ष्मणि बहुप्रारब्धनानामय- व्यालीढ ढे क्षणदुर्भरेतर गुरुतरै रन्यै रसाध्ये परम् । मग्नानां जडताजुषां प्रतिपदं तापत्रयीमूर्च्छया क्लिन्नानां सकलात्मनां विजयते सञ्जीवनी त्वत्कृपा ॥ ६॥ दातॄणां प्रवरेण तेन भवता देयं धनं शाश्वतं सङ्ख्यातीतमनन्तमङ्गलपदं प्राप्यं सुखान्वेषिणाम् । त्यक्त्वा लोष्टविकादिकाम्यमघदं काङ्क्षन्ति ये त्वैहिकं तान्मूढानपि हे विभो तव कृपा मातेव संरक्षते ॥ ७॥ सर्वेषां जगतामधीश्वर इति त्वां ख्यापयन् श्रीविभो स्फूर्जत्प्रत्नचिरत्नरत्नखचितः कोटीनतुल्यप्रभः । ब्रह्मेशानसुरेन्द्रसर्वदिविजैः संस्तूयमानस्य ते साक्षान्मन्मथमन्मथस्य मकुटी संराजते मस्तके ॥ ८॥ देव त्वन्मुखपङ्कजोपरि महासौरभ्यलोभागताः स्निग्धारालविनीलकुन्तलगणा वल्गन्ति भृङ्गा यथा । कर्णाटोर्णौ चोत्पलकर्णपूर विसरत्कान्ति छटाराजितौ पश्ये सुन्दरशष्कुलीपरिचितौ श्रीशेषभूभृद्विभो ॥ ९॥ कर्पूरार्पितमूर्ध्वपुण्ड्रमलिके विभ्राजते सन्ततं हारिद्रं तिलकं च शेषधरणीभृद्वल्लभ श्रीविभो । लावण्यामृतपूरपूरितमुखे किं पुण्डरीकद्वयं भाभातीति महाद्भुतं जनयते द्वन्द्वं हि ते नेत्रयोः ॥ १०॥ भ्रूभङ्गाङ्कयुतं शुचिस्मितरुचिज्योत्स्नापरिष्कारितं सेवे त्वन्मुखचन्द्रमण्डलमहं जृम्भत्तमोहारिणम् । स्वामिन् शुक्रबृहस्पती चिरतरात्तस्योभयोः पार्श्वयोः भ्राजन्ताविव रत्नपुञ्जखचिते द्वे कुण्डले गण्डयोः ॥ ११॥ दन्तालिस्तव कुन्दकुड्मलततेस्तुल्या परं राजते सौगन्ध्यादहिचाम्पकेयकलिकाप्रोद्भासिका नासिका । स्वामिन् विद्रुमबिम्बयुग्ममधरं व्यातन्वते माधुरी- सौरभ्यारुणताश्रयस्त्वदधरः श्रीशेषभूभृद्विभो ॥ १२॥ ग्रैवेयादिविभूषणानुकलितः कण्ठस्त्वदीयो हरे शेषाद्रीश सुवर्णपट्टकलितं शङ्खं विडम्बीयते । चत्वारः किल जातपल्लवसुरक्षोणीजशाखा इव द्योतन्ते तव बाहवः प्रविलसद्रत्नाङ्गदालङ्कृताः ॥ १३॥ श्रीवैकुण्ठमिदं पदाब्जयुगमित्यादर्शयन्नात्मनां श्रीहस्तस्तव दक्षिणश्शमयते तापं भवोपार्जितम् । हस्तोऽन्यः कटिसङ्गतः कथयते कुक्षिस्थसङ्ख्यातिग- ब्रह्माण्डातिभरोद्धृतेर्दृढबलं मध्यस्य कर्तुं दशाम् ॥ १४॥ अन्यो दक्षिणपाणिरप्यमरराजात्यन्तबाधाकृतां दैत्यानां वधकारि चक्रमनिशं धत्तेऽञ्जनाद्रिप्रभो । अन्यो वामकरस्तदब्जनयनागर्भैकनिर्भेदना- रावं शङ्खमुदारचन्द्रसुषमं धत्ते त्रिलोकीविभो ॥ १५॥ यस्मिन् कौस्तुभबिम्बितां निजतनुं दृष्ट्वा रमाऽन्येर्ष्यया त्वां पश्यत्यध ईक्ष्यदृक्प्रसरणैर्वक्षस्तदुद्भावये । संवर्ते विशते यदन्तरगृहं ब्रह्मादिजीवावलिः तस्यां ते विनिवर्तते च जठरं तत्कीर्तये ते हरे ॥ १६॥ ब्रह्मावासपयोजनालनिलयं मे चित्तहं सोऽधुना लावण्यामृतपूरितं प्रविशते नाभिह्रतं तावकम् । कीर्यत्काञ्चनवारिजायतरजस्तुल्याम्बरालङ्कृतं वल्गन्मेखलया परिष्कृतमहं मध्यं भजे सुन्दरम् ॥ १७॥ रम्भास्तम्भमदेभहस्तकरभप्रागल्भ्यचौर्यक्षमौ ऊरू मे हृदयाब्जदर्पणतलस्तंभानुभावं गतौ । स्वामिन्नञ्जनशैलनाथ सततं सेवे भवज्जङ्घिके स्फूर्जन्मन्मथकाहलीकमलगर्भाकारलीला जुषौ ॥ १८॥ स्वामिन् वेदसुवर्णहंसककृतप्रोद्वेलशोभाझरी- चञ्चद्दिव्यमुनीशमानससरोजाताब्जलीलावहौ । नित्यं श्रीकरपल्लवानुकलनासंवाहितौ सुन्दरौ पादौ तेऽञ्जनशैलनायक निधिप्रायौ सदा संश्रये ॥ १९॥ प्रागुत्तुङ्गपयोधिवारिधिजले त्वं योगनिद्रां भजन् नाभिप्रोत्थितपङ्कजस्थितविधिं दृष्ट्वा बहुव्याकुलम् । पुच्छोद्घट्टनकम्पिताखिलजगन्मीनाकृतिं भेजिवान् घोराकारयुतं सुरारिमवधीश्चोरं श्रुतीनां हरे ॥ २०॥ जृम्भद्दैत्यसुपर्वबाहुपटलीसंसक्तसर्पाधिराड्- भोगालीढविघूर्णितावनिधरे मग्ने जले वारिधेः । वास्तल्यादुदधार्षि ? भूधरममुं त्वं कच्छपाकारवान् ब्रह्मेशानबलारिपु स्तुतिपरेष्वम्भोरुहाक्ष प्रभो ॥ २१॥ स त्वं जृम्भितघुर्घुरारवविभिन्नाशावशावल्लभ- श्रोत्रो यज्ञवराहमूर्तिरसुरं हत्वा हिरण्याक्षकम् । अम्भोधौ सरसीव नागदशनाग्रासक्तपद्माकृतिं दंष्ट्राग्रेण रसामधार्षि भगवञ् श्रीशेषभूभृद्विभो ॥ २२॥ प्रह्लादाभयदामरेश्च भयदां ते नारसिंहीं तनुं वन्दे भूरिसटाच्छटाविदलित प्रोत्तुङ्ग धाराधराम् । घूर्णत्पाटलनेत्रकोणनिपतज्ज्वालास्फुलिङ्गावृत- क्षोणीचक्रतलां हिरण्यकशिपुप्रध्वंसिकां श्रीविभो ॥ २३॥ भिक्षुत्वाट्बहुदैन्यतो बलिसखे खिन्नस्तदा सायनैः वामनः तिष्ठन्वेङ्कटभूधरे बहुजनाद्वित्तं बलादाप्स्यसे । ? क्षत्रान् पापवतो महाबलयुतांस्त्रिस्सप्तकृत्वोऽवधीः तीक्ष्णाग्रेण परश्वथेन भगवंस्त्वं भार्गवस्सन् हरे ॥ २४॥ रामो दाशरथिर्भवंस्त्रिभुवनप्रख्याततेजोरवि- प्रोद्वेलांशुगणैरिवातिनिशितौस्सान्द्रैश्शरैस्सानुजः । शेषाद्रीश विभो सुरारिमवधीस्सीतारमाचोरकं पौलस्त्यं दशकन्धरं युधि जगद्विद्रावणं रावणम् ॥ २५॥ स्वामिन् हन्तुमशक्यमम्बुजभवास्त्राद्यैश्शरैस्तीक्षणैः कक्षे रावणमानिबध्य चतुरो वार्धिन् य आसेदिवान् । तादृग्विक्रमशालिनं बलवतामग्रेसरं वालिनं धैर्यादेकशरेण घोरमवधीश्चित्रं महत्वं तव् ॥ २६॥ त्यक्त्वा त्वामिह धर्मरूपमनघं यत्तुच्छधर्मार्थिने त्वत्पित्रे न कृतैव मोक्षसरणिर्जाताय सूर्यान्वये । तत्कार्यं मम धर्म इत्यभिमतं प्राप्ताय गृघ्राय वै तच्चित्रं परमं पदं भगवता दत्तं त्वया श्रीविभो ॥ २७॥ यस्ते भूर्यपराधकृच्चलमतिर्दृप्तश्च काकासुरः पापात्मा भवदस्त्रघर्षणभिया धावन्विधीन्द्रेश्वरान् । मां रक्षध्वमितीच्छया शरणमागम्याक्षमैरक्षितुं त्यक्तस्तैः पुनरागतस्तव कृपापात्रं बभूव प्रभो ॥ २८॥ अत्रत्याखिलभक्तरक्षणमिषाद्ब्रह्मादिभिः संस्तुतः कान्तारे पितृवाक्यपालनपरः स्वाम्यागमिष्यत्यसौ । इत्येवं दृढनिश्चयात्तमनसा दत्तं शबर्या फलं भुक्त्ता तृप्तिमवाप्यसे रघुवर श्रीशेषभूभृद्विभो ॥ २९॥ क्रूराणां भुवि दानवाम्शजनुषां कंसादिदुष्टात्मनां संहाराय वसुन्धरास्थितजनात्यन्तव्यथाकारिणाम् । श्रीकृष्णोऽसि निजाङ्घ्रिपद्मयुगसेवासक्तशिष्टात्मनां संरक्षाभरकारणाय च हरे श्रीशेषभूभृद्विभो ॥ ३०॥ पौरावेदितनैजचेष्टितगणानाकर्ण्य मात्रा भृशं कुप्यन्त्या यदुलूखले दृढतरं रज्ज्वा निबद्धो भवान् । लीलाभिस्तदुलूखलं करतलेनोद्धाट्य गत्वाऽर्जुन- द्वन्द्वस्यामररूपतामविदधच्छेषक्षमाभृद्विभो ॥ ३१॥ बाले मातुलसंज्ञकेन रिपुणा कंसेन या प्रेषिता वक्षोज (द्वय) गुप्तभूरिगरला तत्पूतना या पुरा । स्तन्यं क्ष्वेलमयं सहासुभिरहो पीत्वा च निश्चेतनां कृत्वा तां गिरिसन्निभामविहरच्छ्रीमान् भवान् श्रीविभो ॥ ३२॥ एकं बालमधो विधाय विजने स्थित्वा च तस्योपरि क्षिप्रं गोपगृहे पिबन् दधि महायन्त्रे घटान्तःस्थितम् । शेषं तस्य मुखे विमृज्य सहसा निर्गत्य तत्रान्तरे ह्यायातैर्गृहिभिर्निरीक्ष्य स भवान् तं ताहितं प्राहसत् ॥ ३३॥ बाल्येन त्वयि मृत्तिकां कबलयत्याक्रोशतः सादरं मात्रा मृत्परिहारणाय वदनं चोद्धाठ्य ते पाणिना । यत्रालोक्य किलाब्जजाण्डपटलीमाश्चर्यसंमोहिता तस्थावञ्जनशैलनायक हरे माया तवात्यद्भुता ॥ ३४॥ कालिन्दीसविधे विनोदमुरलीनादेन संमोहिताः सुन्दर्यस्त्वरयाऽऽगताः स्मरनिभं त्वां वीक्ष्य गोपाङ्गनाः । त्वद्ब्रह्मात्मकताविलोकनदशापन्ना मुनीशा यथा दिव्यानन्दपयोधिमग्नमनसोऽभूवन् वृषाद्रि प्रभो ॥ ३५॥ हे स्वामिन् यमुनातटे तव परं वेत्तुं महत्त्वं पुरा वत्सान् धेनुगणांश्च गोपपृथुकान् धात्रा स्वमायाहृतान् । ज्ञात्वा तादृशरूपकांस्त्वमपि तान् कृत्वा मनोहङ्कृतिं छित्त्वा तस्य बहूकृतिं च कमलास्वामिन्नकार्षीः प्रभो ॥ ३६॥ अक्रूराय भवत्पदैकप्रनसे पूर्वं त्वया दर्शितान् दीप्यत्कौस्तुभशङ्खचक्रमकुटीश्रीविद्युता शोभितान् दिव्यानन्दमयामितामृतरसासारप्रदान् श्रीविभो सेवेऽहं बहुविग्रहान् घननिभांस्त्वद्विश्वरूपात्मकान् ॥ ३७॥ बिभ्रल्लाङ्गलमायुधं सुररिपून् भिन्दन् सपक्षान्नृपान् संरक्षन् करुणार्द्रदृष्टिभिरमून् लोकान् समालोकयन् इन्द्राद्यैर्दिविजौस्स्तुते कटितटीनीलाम्बरालङ्कृतो रेवत्या हृदयप्रियोऽसि भगवन् श्रीशेषभूभृद्विभो ॥ ३८॥ बुद्धोऽसि त्रिपुराङ्गनाव्रतकृते भङ्गं विधायासुरान् तद्भर्तॄन् शितिकण्ठसायकहतान् कृत्वा पुरा श्रीविभो । म्लेच्छान्वाजिखुरोद्धतक्षितिपरागाच्छादिताशाम्बरान् क्षुद्रान् भूरिबलान् नृशंसचरितान् कल्की हरिष्यस्यहो ॥ ३९॥ पङ्केजातभवो जगज्जननकृट्ब्रह्मा चतुर्भिर्मुखैः क्षोणीमण्डलभारवाहचतुरश्शेषस्सहस्राननैः । यत्खेलाविहितावतारगणनां कर्तुं न शक्तो हरे तेऽनन्ताः खलु दिव्यमङ्गलगुणैः संशोभितास्तावकाः ॥ ४०॥ त्वत्पादाम्बुजयुग्मचिन्तनसुधापानैकलोलात्मनः पुंसो मानसमन्यदेव विषयं कृत्यं कथं वाञ्छति । त्यक्त्वा दिव्यरसालसालजनितं माधुर्यसारं फलं कीरः काङ्क्षति किं शलाटुपटलं नैम्बं हरे श्रीविभो ॥ ४१॥ अज्ञानावृतमात्मधर्मरहितं दूष्यं च नीचैर्गुणैः नानादुर्विषयानुषक्तहृदयं क्षुद्रं कृतघ्नं जडम् । त्वद्भक्तेषु कृतापचारमपि मां संरक्षसे ? बन्धुवत् तस्मात्त्वां न च विस्मरामि सततं श्रीशेषभूभृद्विभो ॥ ४२॥ संशोध्यन्मणिदीपकस्थिरदृशा सन्यांशितास्सन्त्यजन् ? लब्ध्वा वज्रमनर्धमात्तकुतुकस्सन्न त्यजत्यादरात् । त्रय्या शोधयता मुमुक्षुरखिलान् सामान्यदेवांस्त्यजन् लब्ध्वा त्वां शरणं परात्परतरं हृष्यन्न मुञ्चत्यहो ॥ ४३॥ भूसंस्थाश्च पराशरप्रभृतयः खे नारादाद्यर्षयः पङ्केजोद्भवलोकसंस्थमुनयस्सर्वे सनन्दादयः । तत्सायुज्यसमुद्युजोऽपि परमे व्योम्नि स्थितास्सूरयः त्वमेवाञ्जनशैलराजनिलयं पस्यन्ति वै सन्ततम् ॥ ४४॥ शेषाद्रेश्शिखरे सुवर्णरचिते साले कटाहाकृतौ गुप्तं मूलधनं यथा तव परब्रह्मस्वरूपं हरे । विज्ञानाञ्जनमुद्रितान्तरदृशा दृष्ट्या भृशं योगिनः प्रयच्छन्नुपलभ्य मोक्षसरणीदारिद्र्यनिर्मोचनम् ॥ ४५॥ ईशानं जगतामनन्तगुणिनं दिव्योल्लसद्विग्रहं लक्ष्मीशं धृतशङ्खचक्रमनघं शेषक्षमाभृद्विभो । सत्यं ज्ञानमनन्तमित्यभिमतश्रुत्यर्थवैषम्यतः व्याचक्षन् कुदृशो निराकृतिकलं त्वां निर्गुणं मायिनः ॥ ४६॥ ब्रह्माद्यईः सकलैस्सुपर्वपतिभिर्यद्वै दुरापं पदं ध्यानोन्मीलितयोगिनामपि भृशं यच्चेतसां दूरगम् । यद्वाचामपि दूरवर्ति परमं दद्धाम लक्ष्मीविभो त्वत्पादाब्जयुगप्रपत्तिनिरता गच्छन्ति सौलभ्यतः ॥ ४७॥ त्वद्भक्तो निवसन्निहैव द्रुहिणस्याण्डाद्बहिस्संस्थिते वैकुण्ठेऽनुभवत्यपारकरुणं त्वां दिव्यदृष्ट्या हरे । वात्सल्यादनुवर्तसे त्वमपि तं नित्यानपायात्मना वत्सं धेनुरिवानुलालनरता श्रीशेषभूभृद्विभो ॥ ४८॥ शेषाद्रीश कियन्निशाकरसुधासारासुलुण्टाकिनी ? दृक् ते सञ्चरिणी जिजीवयिषते जागत्कजीवव्रजान् । कल्पस्स व्यवह्नी ह्यभिधी यते सहि लयः कालः परीफण्यते हालाहल्यशिखावलीसहचरी यस्मिन्विसर्पिष्यति ॥ ४९॥ सृष्ट्यां भौतिकरूपकाण्यपघनान्यास्वाद्य वै प्राणिनः पुण्यापुण्यपरीणतानि परितश्चाराचरव्यापिनः । स्वर्गं नार्कमम्बुजासनपदं धात्रीमधोविष्टपं यातायातशतैः प्रयान्ति भवते मायाविमोहीकृताः ॥ ५०॥ मायावृत्तकलेबरान्तरगतास्सर्वे तनूभृद्गणाः ब्रह्माण्डान्तरकोणकूपकुहरे विभ्रामिताः कर्मभिः । तन्निष्क्रामिकमार्गबोधरहितास्तिष्ठन्ति मूढात्मकाः बद्धद्वारविटङ्कमध्यविचराः कीटा इव श्रीविभो ॥ ५१॥ एतायस्तावद्भवमग्नजन्तुगणितः पापात्मनामादिमः क्षुद्रः क्रूरमना नृशंसचरितस्चापल्यदोषाकरः । दृप्तस्सन्ततनीचकृत्यनिरतो गत्यन्तराभाववान् सोऽहं ते चरणौ व्रजामि शरणं श्रीशेषभूभृद्विभो ॥ ५२॥ सर्वेष्वब्जभवाण्डकोटिषु जनास्सङ्ख्यापराश्चेत्सदा तेषामायुरनन्तकालिकमिति स्याच्चेत्परार्धादिकम् । सङ्ख्याऽन्या समुपार्जिता यदि भवेदाजन्मजन्मान्तरं स्वामिन् मत्कृतपातकानि गणितुं शक्यानि लक्ष्मीविभो ॥ ५३॥ आस्तां कल्पशतानुभाव्यदुरितव्रातः परं दुर्वचः त्वत्कैङ्कर्यरुचिः कदाचिदपि वा नास्त्येव मे पापिनः शेषक्ष्माधरनाथ मामथ यतो रक्षेति वाङ्नास्ति तत् स्वामिन् केवलतावकीयकृपया संरक्षणीयो हरे ॥ ५४॥ पुत्रत्वान्न च हातुमिच्छसि हरे पापात्मकत्वाच्च मां स्वामिन्नानुग्रहीतुमिच्छसि परं नाचा ? शङ्क्य दौष्कामिकम् । तस्मान्नारकदुःखहेतुदुरितं दृष्ट्वा परं दुःख्यसि हाहा हन्त तवापि दुःखवशतां दास्यामि लक्ष्मीविभो ॥ ५५॥ पापानीह मया कृतानि गणितुं शक्यानि लक्ष्मीविभो सद्यस्तानि समुह्य वारय कृपादृष्ट्या निरातङ्कया । यद्वा तावकभक्तिमेव परमां तन्निष्कृतिं देहि मे नोपेक्ष्यश्शरणागतः खलु धरानाथस्य सत्यात्मनः ॥ ५६॥ यद्वा दुर्वचपापकृत्यनिरतं मं रक्ष लक्ष्मीविभो वात्सल्यादिगुणोदधिं मम गुरुं संवीक्ष्य सत्त्वात्मकम् । कृत्वा मायिनिराकृतिं तव मतप्रख्यातनिर्वाहकं ब्रह्मेन्द्रादिकिरीटरत्नसुषमानीराजिताङ्घ्रे हरे ॥ ५७॥ त्वद्याथात्म्यनिबोधके मनुवरे निष्टामवाप्यादरात् ओङ्कारार्थमवेत्य तत्त्वसशरणाणस्तन्नारशब्दोदितम् अर्थं चायनशब्दवेद्यममलं व्युत्पत्तियुग्मेप्सितं मुक्तस्स्याद्विबुधोचितार्थमपि वै ज्ञानी चतुर्थीरितम् ॥ ५८॥ लक्ष्मीनाथ परात्मनश्चिदचितोस्तत्त्वस्य रूपं विदन् शेषित्वं भवतश्चराचरविभोश्शेषत्वमप्यात्मनः । वैषम्यं प्रकृतेर्विचाय सदुपायोपेयभावात् सुधीः त्वत्पादौ शरणं गतस्तदितरो सन्मुक्तो भवेत्सन्त्यजन् ॥ ५९॥ सुक्तस्संप्रतिपूजितस्सुरवरैर्ब्रह्मादिभिस्संव्रजन् अण्डं चावरणान्यतीत्य च महाव्यक्तेस्तक्ते त रन्वै ततः स्नातस्सन् विरजासरित्यथ भजन् दिव्योल्लसद्विग्रहं वैकुण्ठं भवतैव नन्दति समं श्रीशेषभूभृद्विभो ॥ ६०॥ सौवर्णाञ्चितदिव्यवज्रफलकप्रत्युप्तसालावृते भव्योत्तुङ्गसहस्ररत्नखचितस्तम्भोद्धृते मण्डपे । देवीभिस्सह संस्थितं फणिपतेर्भोगे फणालङ्कृते ध्याये त्वां धृतशङ्खचक्रमनघं संवेष्टितं सूरिभिः ॥ ६१॥ दिव्यं तत्पुरधामनामकपुरद्वारोल्लसद्गोपुरं भास्वत्कोटिसमप्रभं हृदि सदा ध्यायेऽञ्जनाद्रिप्रभो । तस्मिन् या विरजा नदी प्रवहते तस्योभयोः पार्श्वयोः सौवर्णद्रुमपुष्पगुच्छसुरभीण्युद्यानबृन्दानि च ॥ ६२॥ हरे सूरयस्ते परे धाम्नि संस्थाः नमन्तो वदन्तेतो भवत्कीर्तनानि । प्रगीययाथ साम प्रधीयन्ति कीर्तिं वितन्वन्ति नित्यं विचित्रं च कृत्यम् ॥ ६३॥ क्वचित्कीररूपा हरे सूरयस्ते प्रवक्ष्यन्ति नामानि शाखिव्रजेषु । क्वचिद्भृङ्गरूपा भवन्माल्यगन्धान् समाघ्राय दिव्यं प्रमोदं लभन्ते ॥ ६४॥ तव परमपदे वै सूरयः पार्ष्वयोस्ते परिषदि रचयन्ते द्राविडाम्नायगानम् । इति यतिकुलनाथश्रीशठारिप्रमुख्याः अपि च गुरुवरास्ते मङ्गलान्याचरन्ति ॥ ६५॥ श्रीशेषशैलशिखरे चिदचिद्विशिष्टं श्रीसंश्रितोरसमपारकृपैकपात्रम् । आपादशीर्षमवलोक्य हरे जनास्त्वां भक्ताभयप्रद सदैव मुदं लभन्ते ॥ ६६॥ अम्मङ्गिवेङ्कटाचार्यचरणाम्बुजसंश्रितः । चकार रघुनाथार्यः शेषभूभृद्विभोस्स्तुतिम् ॥ ॥ इति तिरुनन्दाळ्वंशरघुनाथाचार्येण कृतं वृषाद्रिनाथस्तोत्रं संपूर्णम्॥ Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com From a telugu book veNkaTeshakAvyakalApa

% Text title            : vRiShAdrinAthastotram
% File name             : vRiShAdrinAthastotram.itx
% itxtitle              : vRiShAdrinAthastotram (tirunandALvaMsharaghunAthAchAryarachitam)
% engtitle              : Vrishadrinathastotram
% Category              : vishhnu, venkateshwara, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Texttype              : stotra
% Author                : tirunandALvaMsharaghunAthAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : Venkatesha Kavyakalapa
% Indexextra            : (Venkatesha Kavyakalapa)
% Latest update         : April 4, 2015
% Send corrections to   : sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP