वैष्णवधर्मोपदेशः
शृणु रूप! प्रवक्ष्यामि वैष्णवधर्मलक्षणम् ।
यज्ज्ञात्वा वैष्णवाः सर्वे मुच्यन्ते कर्मबन्धनैः ॥ १॥
संस्कृताः पञ्चसंस्कारात्प्रभवन्ति च वैष्णवाः ।
न कुर्वन्ति परद्रोहं कुर्वन्ति चात्मचिन्तनम् ॥ २॥
यथा यज्ञोपवीतं च न त्याज्यं ब्राह्मणैः क्षणम् ।
वैष्णवैर्न तथा माला न त्याज्या क्षणमेव च ॥ ३॥
मूलाच्छतगुणं पुण्यं जीर्णोद्धारे कृते भवेत् ।
तस्मात्सर्वं प्रयत्नेन जीर्णस्योद्धारमाचरेत् ॥ ४॥
गीतं नृत्यं च वाद्यं च सामवेदस्य गायनम् ।
पूजाकाले भवेन्नित्यं शङ्खध्वनिश्च सुस्वरः ॥ ५॥
आद्यस्तु वैष्णवः प्रोक्तो धनुर्बाणाङ्कितो हरेः ।
तुलसी चोर्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः ॥ ६॥
अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः ।
न फलन्ति वटो! तेषां शिलायामुप्तबीजवत् ॥ ७॥
यज्ञो दानं जपो होमः स्वाध्यायः धर्मकर्म च ।
वृथा भवन्ति हे शिष्य! ऊर्ध्वपुण्ड्रं विना कृतम् ॥ ८॥
ध्येयो ज्ञेयश्च रामो हि गेयो वाल्मीकिवाङ्गमयः ।
जप्यः श्रीराममन्त्रश्चेत्याहुर्वैष्णवदेशिकाः ॥ ९॥
अस्माकं परिवारे तु सम्भविष्यन्ति वैष्णवाः ।
इतिहासस्य कर्त्तारः सम्प्रदायस्य रक्षकाः ॥ १०॥
अस्माकं सम्प्रदायस्य भविष्यन्ति प्रचारकाः ।
वृत्तस्य गुरुवर्याणां पूर्वेषां चानुयायिनः ॥ ११॥
एतत्स्थानस्य सूरीणां सानिध्याच्चानुयायिनाम् ।
भवेयुर्वैष्णवाः सर्वे वैष्णवधर्मशिक्षिताः ॥ १२॥
सर्वशास्त्रेषु निष्णाताः सर्वेषां हितकारकाः ।
विरक्ता वैष्णवा ये च शिखासूत्रसमन्विताः ॥ १३॥
संन्यासिनस्तु विज्ञेया सन्ति ते साधुसत्तमाः ।
टीलाचार्येण संन्यासिपरिभाषा विनिश्चिता ॥ १४॥
चतुर्थ आश्रमो ज्ञेयो टीलाचार्येण भाषितः ।
विरक्तानां च साधूनां वैष्णवानां विशेषतः ॥ १५॥
नीतिशास्त्रोपदेशःऽ
आत्मबुद्धिः सुखायैव गुरुबुद्धिर्विशेषतः ।
भृत्यबुद्धिर्विनाशाय स्त्रीबुद्धिः प्रलयावहा ॥ १६॥
द्वाविमौ पुरुषौ लोके न भूतौ न भविष्यतः ।
प्रार्थितं यश्च दीयते यश्च नार्थयते परम् ॥ १७॥
अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत्पुरा ।
तदिदं देहि देहीति विपरीतमुपस्थितम् ॥ १८॥
सम्पत्सरस्वती सत्यं सन्तानं सदनुग्रहः ।
सत्ता सुकृतसम्भारः सकाराः सप्त दुर्लभाः ॥ १९॥
उपभोक्तुं न जानाति श्रियः प्राप्यापि मानवः ।
आकण्ठजलमग्नोऽपि श्वा लेढि जिह्वया जलम् ॥ २०॥
श्रुत्वा धर्म विजानाति श्रुत्वा त्यजति दुर्मतिम् ।
श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च विदन्ति ॥ २१॥
पण्डितैः सह साङ्गत्यं पण्डितैः सह सत्कथाः ।
पण्डितैः सह मित्रत्वं कुर्वाणो नावसीदति ॥ २२॥
स जीवति गुणा यस्य धर्मो यस्य स जीवति ।
गुणधर्मविहीनो यो निष्फलं तस्य जीवितम् ॥ २३॥
शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि ।
सर्वदा सर्वप्रयत्नेन पुत्रे शिष्यवदाचरेत् ॥ २४॥
लालने बहवो दोषास्ताडने बहवो गुणाः ।
तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत् ॥ २५॥
अविद्यं जीवनं शून्यं दिक्शून्या चेदबान्धवाः ।
शिष्यहीनो मठः शून्यः सर्वशून्या दरिद्रता ॥ २६॥
घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान् ।
तस्माद् घृतं च वह्निं च नैकत्र स्थापयेद् बुधः ॥ २७॥
प्रथमे नर्जिता विद्या द्वितीये नार्जितं धनम् ।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति ॥ २८॥
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥ २९॥
धर्मार्थे यस्य वित्तेहा वरं तस्य निरीहता ।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ ३०॥
सन्देहो वैष्णवे मार्गे न कार्योऽन्यैः कुदर्शनैः ।
रामप्रभावमद्यापि पयोब्धौ पश्य सेतुना ॥ ३१॥
तत्र शिष्य! न वस्तव्यं-यत्र नास्ति चतुष्टयम् ।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥ ३२॥
नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा ।
कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा ॥ ३३॥
दानं वित्तादृतं वाचः कीर्तिधर्मौ तथायुषः ।
परोपकरणं कुर्यादसारात्सारमाहरेत् ॥ ३४॥
आसुरं कुलमनादरणीयं चित्तमेतदमलीकरणीयम् ।
रामधामशरणीकरणीयं लीलया भवजलं तरणीयम् ॥ ३५॥
अर्थातुराणां न गुरुर्न बन्धुः कामातुराणां न भयं न लज्जाः ।
विद्यातुराणां न सुखं न निद्रा क्षुधातुराणां न रुचिर्न बेला ॥ ३६॥
गलारत्नं गीतं गगनतलरत्नं दिनमणिः ।
सभारत्नं विद्वाञ्श्रवणपुटरलं हरिकथा ॥ ३७॥
निशारलं चन्द्रः शयनतलरत्नं च सुन्दरी ।
महीरत्नं श्रीमाञ्जयति रघुनाथो नृपवरः ॥ ३८॥
उपकारः परो धर्मः परार्थ कर्म नैपुणम् ।
पात्रे दानं परः कामः परो मोक्षो वितृष्णता ॥ ३९॥
परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् ।
न हीदृशमनायुष्यं त्रिषु लोकेषु विद्यते ॥ ४०॥
मात्रा स्वस्रा दुहित्रा-वा नैकशय्यासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्रांसमपि कर्षति ॥ ४१॥
उत्तमा आत्मना ख्याताः पितुः ख्याताश्च मध्यमाः ।
अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ॥ ४२॥
कुभोज्येन दिनं नष्टं कुमार्गेण च जीवनम् ।
कुशिष्येण मठो नष्टस्तन्नष्टं यन्न दीयते ॥ ४३॥
अप्युन्नतपदारूढः पूज्यान्नैवापमानयेत् ।
नहुषः शक्रतां प्राप्य च्युतोऽगस्त्यावमाननात् ॥ ४४॥
हितोपदेशं शृणुयात्कुर्वीत च यथोदितम् ।
विदुरोक्तमकृत्वाभूत्कौरवः शोकशल्यभाक् ॥ ४५॥
व्याकुलोऽपि विपत्पातैः स्मरेद्रामं सदा हृदि ।
शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ ४६॥
मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च ।
द्विषतां सम्प्रयोगेण पण्डितोऽप्यवसीदति ॥ ४७॥
गुरूणां स गुरुः श्रेष्ठो यस्य शिष्यस्तु पण्डितः ।
शिष्याणां स वरः शिष्यो येन विश्रूयते गुरुः ॥ ४८॥
अपूज्या यत्र पूज्यन्ते पूज्यानान्तु विडम्बना ।
त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥ ४९॥
धनानि जीवितश्चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ ५०॥
अनुकूले हरौ देयं यतः पूरयिता हरिः ।
प्रतिकूले हरौ देयं यतः सर्वं हरिष्यति ॥ ५१॥
स्वाचार्यजन्मतिथ्यां च यः करोति न पूजनम् ।
प्राचार्यस्य मनुष्येषु स चाधमाधमःश्रुतः ॥ ५२॥
प्राचार्यपूजनं नित्यं कुर्वन्ति वैष्णवा बुधाः ।
न हि कुर्वन्ति पूजां च धूर्ताः पाखण्डिनस्तथा ॥ ५३॥
पूर्वोक्तेन प्रकारेण भविष्यति परम्परा ।
रूपदास! वचः सत्यं ममानुयायिनामिदम् ॥ ५४॥
इति श्रीमङ्गलाचार्यमहामुनीन्द्रप्रणीतः वैष्णवधर्मोपदेशः सम्पूर्णः ।
Encoded and proofread by Mrityunjay Pandey