श्रीवैकुण्ठस्तवः
पञ्चस्तव्यां १ श्रीवैकुण्ठस्तवः
(श्रीवत्सचिह्नमिश्रैरनुगृहीतायां पञ्चस्तव्याम्)
श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-
व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ १॥
त्रैविद्यवृद्धजनमूर्धविभूषणं यत्
सम्पच्च सात्त्विकजनस्य यदेव नित्यम् ।
यद्वा शरण्यमशरण्यजनस्य पुण्यं
तत्संश्रयेम वकुळाभरणाङ्घ्रियुग्मम् ॥ २॥
भक्तिप्रभावभवदद्भुतभावबन्ध-
सन्धुक्षितप्रणयसाररसौघपूर्णः ।
वेदार्थरत्ननिधिरच्युत दिव्यधामा
जीयात्पराङ्कुशपयोधिरसीमभूमा ॥ ३॥
यन्मङ्गलाय महते जगतामुशन्ति
त्रैविष्टपान्यपि पदानि यदाश्रयाणि ।
वन्दामहे सरसिजेक्षणमद्धितीयं
वेदान्तवेद्यमनिदम्प्रथमं महस्तत् ॥ ४॥
पीताम्बरं वरदशीतलदृष्टिपात-
माजानुलम्बिभुजमायतकर्णपाशम् ।
तन्मेघमेचकमुदग्रविशालवक्षो
लक्ष्मीधरं किमपि वस्तु ममाविरस्तु ॥ ५॥
यत्त्तत्वमक्षरमदृश्यमगोत्रवर्णं
अग्राह्यमव्ययमनीदृशमद्वितीयम् ।
ईशानमस्य जगतो यदणोरणीयः
तद्वैष्णवं पदमुदात्तमुदाहरामः ॥ ६॥
आम्नायमूर्धनि च मूर्धनि चोर्ध्वपुंसां
यद्धाम वैष्णवमभीक्ष्णतरं चकास्ति ।
तन्मादृशामपि च गोचरमिति वाचो
मन्ये तदीयमिदमाश्रितवत्सलत्वम् ॥ ७॥
जानन्नपीह किल मामनपत्रपिष्णुः
विष्णोः पदप्रणयिनीं गिरमाद्रियेऽहम् ।
न श्वावलीढमपि तीर्थमतीर्थमाहुः
नोदन्यतापि च शुना किल लज्जितव्यम् ॥ ८॥
देवस्य दैत्यमथनस्य गुणेष्वियत्ता
सङ्ख्या च वाङ्मनसगोचरमत्यभूताम् ।
अप्येवमण्वपि च तत्र ममार्तिशान्त्यै
कीटस्य तृप्यत उदन्वति विप्रुषोऽलम् ॥ ९॥
प्रेमार्द्रविह्वलगिरः पुरुषाः पुराणाः
स्वां तुष्टुवुर्मधुरिपो मधुरैर्वचोभिः ।
वाचो विडम्बितमिदं मम नीचवाचः
क्षान्तिस्तु ते सविषया मम दुर्वचोभिः ॥ १०॥
आज्ञा तवात्रभवती विदिता त्रयी सा
तां हि प्रमाणमभिजग्मुरतीन्द्रियेऽर्थे ।
आभासभूयमभियान्त्यपराणि दोषैः
एषा तु दोषरहिता महिता पुराणी ॥ ११॥
अन्तर्हितो निधिरसि त्वमशेषपुंसां
लभ्योऽसि पुण्यपुरुषैरितरैर्दुरापः ।
तत्र त्रयीं सुकृतिनः कृतिनोऽधिजग्मुः
बाह्येषु बाह्यचरितैरितरैर्निपेते ॥ १२॥
चित्रं विधेर्विलसितं त्विदमाविरस्ति
दुष्टात्मनामयगहो किल दुर्विपाकः ।
यत्केचिदत्रभवतीं श्रुतिमाश्रयन्तो-
ऽप्यर्थे कुदृष्टिविनिविष्टधियो विनष्टाः ॥ १३॥
बाह्याः कुदृष्टय इति द्वितयेऽप्यपारं
घोरं तमस्समुपयान्ति न हीक्षसे तान् ।
जग्धस्य काननमृगैर्मृगतृष्णिकेप्सोः
कासारसत्त्वनिहतस्य च को विशेषः ॥ १४॥
न्यायस्मृति प्रभृतिभिर्भवता निसृष्टैः
वेदोपबृंहणविधावुचितैरुपायैः ।
श्रुत्यर्थमर्थमिव भानुकरैर्विभेजुः
त्वद्भक्तिभावितविकल्मषशेमुषीकाः ॥ १५॥
ये तु त्वदङ्घ्रिसरसीरुहभक्तिहीनाः
तेषाममीभिरपि नैव यथार्थबोधः ।
पित्तघ्नमञ्जनमनाप्नुषि जातु नेत्रे
नैव प्रभाभिरपि शङ्खसितत्वबुद्धिः ॥ १६॥
वेदार्थधीस्त्वयि तु भक्तित एव लभ्या
यावान् हि यश्च भगवन्नसि तत्त्वतस्त्वम् ।
ज्ञातु तथा भुवनभावन वेदवेद्यं
द्रष्टुं प्रवेष्टुमपि भक्तित एव शक्यः ॥ १७॥
तत्त्वार्थतत्परपरश्शतवेदवाक्यैः
सामर्थ्यतः स्मृतिभिरप्यथ तादृशीभिः ।
त्वामेव तत्त्वपरसात्त्विकसत्पुराणैः
देवज्ञधीभिरपि निश्चिनुमः परेशम् ॥ १८॥
अन्यत्र तु क्वचन केचिदिहेशशब्दात्
लोकप्रसिद्धिमुपगम्य तमीशमाहुः ।
तैश्च प्रसिद्धविभवस्य समूलतायै
ग्राह्या त्रयी त्वयि तु साऽच्युत सम्भुखीना ॥ १९॥
यः खल्वणोरणुतरो महतो महीयान्
आत्मा जनस्य जनको जगतश्च योऽभूत् ।
वेदात्मकप्रणवकारणवर्णवाच्यं
तं त्वां वयन्तु परमेश्वरमामनामः ॥ २०॥
आत्मेश्वरोऽसि न परोऽस्ति तवेश्वरोऽन्यो
विश्वस्य चासि पतिरस्य परायणं च ।
नारायणाच्युत परस्त्वमिहैक एव
ब्रह्मादयोऽपि भवदीक्षणलब्धसत्ताः ॥ २१॥
नित्स्समाभ्यधिकवर्जित ऊर्जितश्रीः
नित्येऽक्षरे दिवि वसन्पुरुषः पुराणः ।
सत्त्वप्रवर्तनकरो जगतोऽस्य मूलं
नान्यस्त्वदस्ति धरणीधर वेदवेद्यः ॥ २२॥
यं भूतभव्यभवदीशमनीशमाहुः
अन्तस्समुद्रनिलयं यमनन्तरूपम् ।
यस्य त्रिलोकजननी महिषी च लक्ष्मीः
साक्षात्स एव पुरुषोऽसि सहस्रमूर्धा ॥ २३॥
सर्वं श्रुतिष्वनुगतं स्थिरमप्रकम्प्यं
नारायणाह्वयधरं त्वमिवानवद्यम् ।
सूक्तं तु पौरुषमशेषजगत्पवित्रं
त्वामुत्तमं पुरुषमीशमुदाजहार ॥ २४॥
आनन्दमैश्वरमवाङ्मनसाऽवगाह्यं
आम्नासिषुश्शातगुणोत्तरितक्रमेण ।
सोऽयं तवैव नृषु हि त्वमिहान्तरात्मा
त्वं पुण्डरीकनयनः पुरुषश्च पौष्णः ॥ २५॥
यन्मूलकारणमबुध्यत सृष्टिवाक्यैः
ब्रह्मेति वा सदिति वाऽऽत्मगिराऽथवा तत् ।
नारायणस्त्विति महोपनिषद्ब्रवीति
सौबालिकीप्रभृतयोऽप्यनुजरमुरेनाम् ॥ २६॥
ज्योतिः परं परमतत्त्वमथो परात्मा
ब्रह्मेति च श्रुतिषु यत्परवस्त्वधीतम् ।
नारायणस्तदिति तद्विशिनष्टि काचि-
द्विष्णोः पदं परममित्यपरा गृणाति ॥ २७॥
सन्तीदृशाश्श्रुतिशिरस्सु परस्सहस्रा
वाचस्तव प्रथयितुं परमेशितृत्वम् ।
किञ्चेह न व्यजगणःकृमिधातृभेदं
क्रामन् जगन्ति निगिरन् पुनरुद्गिरंश्च ॥ २८॥
रूपश्रिया परमया परमेण धाम्ना
चित्रैश्च कैश्चिदुचितैः भवतश्चरित्रैः ।
चिह्नैरनिह्ववपरैरपरैश्च कैश्चित्
निश्चिन्वते त्वयि विपश्चित ईशितृत्वम् ॥ २९॥
यस्याः कटाक्षणमनुक्षणमीश्वराणां
ऐश्वर्यहेतुरिति सार्वजनीनसिद्धम् ।
तं श्रीरिति त्वदुपसंश्रयणान्निराहु-
स्त्वां च श्रियश्श्रियमुदाहुरुदारवाचः ॥ ३०॥
माया त्वया गुणमयी किल या निसृष्टा
सा ते विभो किमिव नर्म न निर्मिमीते ।
कौतस्कुताः स्थिरकुतर्कवशेन केचित्
सत्यां श्रुतौ च बधिरास्त्वयि तन्महिम्ना ॥ ३१॥
यत्स्थावरक्रिमिपतङ्गमतङ्गजादि-
ष्वन्येषु जन्तुषु सदैव विजायमानः ।
त्वन्नित्यनिर्मलनिरञ्जननिर्विकार-
कल्याणसद्गुणनिधे स इतीरितस्तैः ॥ ३२॥
त्वद्दृष्टिजुष्टमिदमाविरभूदशेषं
नोचेत्कटाक्षयसि नैव भवेत्प्रवृत्तिः ।
स्थातुं च वाञ्छति जगत्तव दृष्टिपातं
तेन श्रुतौ जगदिषे हि जगत्त्वमेव ॥ ३३॥
एव भगो इह भवत्परतन्त्र एव
शब्दोऽपि रूपवदमुष्य चराचरस्य ।
ऐश्वर्यमीदृशमिदं श्रुतिषूदितं ते
पापीयसामयमहो त्वयि मोहहेतुः ॥ ३४॥
ये त्वत्कटाक्षलवलक्ष्यमिव क्षणं तै-
रैश्वर्यमीदृशमलभ्यमलम्भि पुम्भिः ।
यत्केऽपि सञ्जगदिरे परमेशितृत्वं
तेषामपि श्रुतिषु तन्महिमप्रसङ्गात् ॥ ३५॥
नित्येषु वस्तुषु भवन्निरपेक्षमेव
तत्तस्वरूपमिति केचिदिह भ्रमन्तः ।
ऐश्वर्यमत्र तव सावधिकं गिरन्ते
ब्रूते त्रयी तु निरुपाधिकमीशनं ते ॥ ३६॥
इच्छात एव तव विश्वपदार्थसत्ता
नित्यं प्रियास्तव तु केचन ते हि नित्याः ।
नित्यं त्वदेकपरतन्त्र निजस्वरूपा
भावत्कमङ्गळगुणा हि निदर्शनं न ॥ ३७॥
विश्वस्य विश्वविधकारणमच्युतत्वं
कार्यं तदेतदखिलं चिदचित्स्वरूपम् ।
त्वं निर्विकार इति वेदशिरस्सु घोषो
निस्सीममेव तव दर्शयतीशितृत्वम् ॥ ३८॥
किं साधनः क्व निवसन् किमुपाददानः
कस्मै फलाय सृजतीश इदं समस्तम् ।
इत्याद्यनिष्ठितकुतर्कमतर्कयन्तः
त्वद्वैभवं श्रुतिविदो विदुरप्रतर्क्यम् ॥ ३९॥
यत्संवृतं दशगुणोत्तरसप्ततत्त्वै-
रण्डं चतुर्दश जगद्भवधातृधाम ।
अण्डानि तत्सुसदृशानि परश्शतानि
क्रीडाविधेस्तव परिच्छदतामगच्छन् ॥ ४०॥
इच्छाविहारविधये विहितान्यमूनि
स्यात्तद्विभूतिलवलेशकलायुतांशः ।
या वै न जातु परिणामपदास्पदं सा
कालात्मिका तव परा महती विभूतिः ॥ ४१॥
यद्वैष्णवं हि परमं पदमामनन्ति
खं वा यदेव परमं तमसः परस्तात् ।
तेजोमयं परमसत्त्वमयं ध्रुवं य-
दानन्दकन्दमतिसुन्दरमद्भुतं यत् ॥ ४२॥
यद्ब्रह्मरुद्रपुरुहूतमुरवैर्दुरापं
नित्यं निवृत्तिनिरतैस्सनकादिभिर्वा ।
सायुज्यमुज्ज्वलमुशन्ति यदाऽऽपरोक्ष्यं
यस्मात्परं न पदमञ्जितमस्ति किश्चित् ॥ ४३॥
रूपेण सद्गुणगणैः परया समृद्ध्या
भावैरुदारमधुरैरपि वा महिम्ना ।
तादृक्तदीदृगिदमित्युपवर्णयन्त्यो
वाचो यदीयविभवस्य तिरस्क्रियायै ॥ ४४॥
यद्वृद्ध्यपक्षयविनाशमुखैर्विकारैः
एतैरसंस्तृतमनस्तमितास्तिशब्दम् ।
यद्गौरवात् श्रुतिषु फल्गुफलं क्रियाणा-
मादिष्टमन्यदसुखोत्तरमध्रुवं च ॥ ४५॥
निष्कल्मषैर्निहतजन्मजराविकारै-
भूयिष्ठभक्तिविभवैरभवैरवाप्यम् ।
अन्यैरधन्यपुरुषैर्मनसाऽप्यनाप्यं
वैकण्ठनाम तव धाम तदामनन्ति ॥ ४६॥
नित्या तवान्यनिरपेक्षमहामहिम्नो -
ऽप्येतादृशी निरवधि निर्यता विभूतिः ।
ज्ञानादयो गुणगणास्समतीतसीमा
लक्ष्मीः प्रिया परिजनाः पतगेन्द्रमुख्याः ॥ ४७॥
एकस्य येषु हि गुणस्य लवायुतांशः
स्यात्कस्यचित्स खलु वाङ्मनसातिगश्रीः ।
ते तादृशोऽत्यवधयस्समतीतसङ्ख्याः
त्वत्सद्गुणास्त्वमसि तन्निरपेक्षलक्ष्मीः ॥ ४८॥
सर्वस्य चैव गुणतो हि विलक्षणत्व-
मैश्वर्यतश्च किल कश्चिदुदञ्चितस्स्यात् ।
तत्प्रत्युत त्वयि विभो विभवो गुणाश्च
सम्बन्धतस्तव भजन्ति हि मङ्गलत्वम् ॥ ४९॥
दूरे गुणास्तव तु सत्त्वरजस्तमांसि
तेन त्रयी प्रथयति त्वयि निर्गुणत्वम् ।
नित्यं हरे निखिलसङ्गुणसागरं हि
त्वामामनन्ति परमीश्वरमीश्वराणाम् ॥ ५०॥
ज्ञानात्मनस्तव तदेव गुणं गृणन्ति
तेजोमयस्य हि मणेर्गुण एव तेजः ।
तेनैव विश्वमपरोक्षमुदीक्षसे त्वं
रक्षा त्वदीक्षणत एव यतोऽखिलस्य ॥ ५१॥
त्रय्युद्यता तव युवत्वमुखैर्गणौघै-
रानन्दमेधितमियानिति सन्नियन्तुम् ।
ते ये शतन्त्विति परम्परया प्रवृत्ता
नैवैष वाङ्मनसगोचर इत्युदाह ॥ ५२॥
एवं तया चतुरया तव यौवनाद्या-
स्सर्वे गुणास्सह समस्तविभूतिभिश्च ।
प्रव्याहृताः स्युरवधीनवधीरयन्तो
वाचामगोचरमहामहिमान एव ॥ ५३॥
सवर्तवर्ति निखिलं निरभिज्ञमज्ञं
चित्रे च कर्मणि यथार्हमहो नियच्छन् ।
सद्यः कृमिद्रुहिणभेदमभेदमेत-
दाविश्चकर्थ सकृदीक्षणदीक्षणेन ॥ ५४॥
अस्तं यदुद्यदुपचाय्यपचायि चैव-
मीशं दरिद्रमथ जङ्गममप्यलिङ्गम् ।
विश्वं विचित्रमविलक्षणवीक्षणेन
विक्षोभयस्यनवधिर्बत शक्तिरैशी ॥ ५५॥
रूपप्रकार परिणामकृतव्यवस्थं
विश्वं विपर्यसितुमन्यदसच्चकर्तुम् ।
क्षाम्यन् स्वभावनियमं किमुदीक्षसे त्वं
स्वातन्त्र्यमैश्वरमपर्यनुयोज्यमाहुः ॥ ५६॥
संवर्तसम्भृतकरस्य सहस्ररश्मे-
रुस्रं तमिस्रयदजस्रविहारहारि ।
नित्यानुकूलमनुकूलनृणां परेषा-
मुद्वेजनं च तव तेज उदाहरन्ति ॥ ५७॥
नैव ह्यवाप्यमनवाप्तमिहास्ति यस्य
सत्ताऽपि तस्य तव वीक्षणतः प्रजानाम् ।
सम्पत्तु किं पुनरितो न वदान्यमन्यं
मन्ये त्वमेव खलु मन्दिरमिन्दिरायाः ॥ ५८॥
पापै रनादिभवसम्भववासनोत्थै-
र्दुःखेषु यः खलु मिमङ्क्षति हन्त जन्तुः ।
तं केवलं नु कृपयैव समुद्धरिष्यन्
तद्दुष्कृतस्य ननु निष्कृतिमात्थ शास्त्रैः ॥ ५९॥
शास्त्रैरनादिनिधनैः स्मृतिभिस्त्वदीय-
दिव्यावतारचरितैश्शुभया च दृष्ट्या ।
निःश्रेयसं यदुपकल्पयसि प्रजानां
सा त्वत्कृपाजलधितल्लजवल्गितश्रीः ॥ ६०॥
है हन्त जन्तुषु निरन्तरसन्ततात्मा
पाप्मा हि नाम वद कोऽयमचिन्त्यशक्तिः ।
यस्त्वत्कृपाजलधिमप्यतिवेलरवेल-
मुल्लङ्घयत्यकृतभासुरभागधेयान् ॥ ६१॥
यद्ब्रह्मकल्पनियतानुभवेऽप्यनाश्यं
तत्किल्बिषं सृजति जन्तुरिह क्षणार्धे ।
एवं सदा सकलजन्मसु सापराधं
क्षाम्यस्यहो तदभिसन्धिविराममात्रात् ॥ ६२॥
क्षान्तिस्तवेयमियती महती कथन्नु
मुह्येदहो त्वयि कृताञ्जलिपञ्जरेषु ।
इत्थं स्वतो निखिलजन्तुषु निर्विशेषं
वात्सल्यमुत्सकजनेषु कथं गुणस्ते ॥ ६३॥
विश्वं धियैव विरचय्य निचाय्य भूय-
स्सञ्जह्रुषस्सति समाश्रितवत्सलत्वे ।
आजग्मुषस्तव गजोत्तमबृंहितेन
पादं पराममृशुषोऽपि च का मनीषा ॥ ६४॥
यः कश्चिदेव यदि किञ्चन हन्त जन्तु-
र्भव्यो भजेत भगवन्तमनन्यचेताः ।
तं सोऽयमीदृश इयानिति वाप्यजानन्
है वैनतेय स ममाप्युररीकरोषि ॥ ६५॥
त्वत्साम्यमेव भजतामभिवाञ्छसि त्वं
त्वत्सात्कृतैर्विभवरूपगुणैस्त्वदीयैः ।
मुक्तिं ततोऽपि परमं तव साम्यमाहु-
स्त्वद्दास्यमेव विदुषां परमं मतं तत् ॥ ६६॥
तद्वै तथाऽस्तु कतमोऽयमहो स्वभावो
यावान्यथाविधगुणो भजते भवन्तम् ।
तावांस्तथाविधगुणस्तदधीनवृत्तिः
संश्लिष्यसे त्वमिह तेन समानधर्मा ॥ ६७॥
श्रीवैकुण्ठनाथमभिष्टौति --
नीलाञ्जनाद्रिनिभमुन्नसमायताक्ष-
माजानुजैत्रभुजमायतकर्णपाशम् ।
श्रीवत्सलक्षणमुदारगभीरनाभिं
पश्येम देव शरदश्शतमीदृशं त्वाम् ॥ ६८॥
अम्भोरुहाक्षमरविन्दनिभाङ्घ्रियुग्म-
माताम्रतामरसरम्यकराग्रकान्तिम् ।
भृङ्गालकं भ्रमरविभ्रमकायकान्तिं
पीताम्बरं वपुरदस्तु वयं स्तुवाम ॥ ६९॥
भ्रूविभ्रमेण मृदुशीतविलोकितेन
मन्दस्मितेन मधुराक्षरया च वाचा ।
प्रेमप्रकर्षपिशुनेन विकासिना च
सम्भावयिष्यसि कदा मुखपङ्कजेन ॥ ७०॥
वज्राङ्कुशध्वजसरोरुहशङ्खचक्र-
मत्स्यीसुधाकलशकल्पककल्पिताङ्कम् ।
त्वत्पादपद्मयुगळं विगळत्प्रभाभि-
र्भूयोऽभिषेक्ष्यति कदा नु शिरो मदीयम् ॥ ७१॥
त्रैविक्रम क्रमकृताक्रमणत्रिलोकं
उत्तंसमुत्तममनुत्तमभक्तिभाजाम् ।
नित्यं धनं मम कदा हि मदुत्तमाङ्ग-
मङ्गीकरिष्यति चिरं तव पादपद्मम् ॥ ७२॥
उन्निद्रपत्रशतपत्रसगोत्रमन्त-
र्लेखारबिन्दमभिनन्दनमिन्द्रियाणाम् ।
मन्मूर्ध्नि हन्त करपल्लवतल्लजं ते
कुर्वन्कदा कृतमनोरथयिष्यसे माम् ॥ ७३॥
आङ्गी निसर्गनियता त्वयि हन्त कान्ति-
र्नित्यं तवालमियमेव तथाऽपि चान्या ।
वैभूषणी भवतिं कान्तिरलन्तरां सा
है पुष्कलैव निखिलाऽपि भवद्धिभूतिः ॥ ७४॥
श्रीवत्सकौस्तुभकिरीटललाटिकाभिः
केह्यहारकरकोत्तमकर्णिकाभिः ।
उद्दामदाममणिनूपुर नीविबन्धै-
र्भान्तं भवन्तमनिमेषमुदीक्षिषीय ॥ ७५॥
ऐन्दीवरी क्वचिदपि क्वचिदारविन्दी
चन्द्रातपी क्वचन च क्वचनाथ हैमी ।
कान्तिस्तवोढपरभागपरस्परश्रीः
पार्येत पारणयितुं किमु चक्षुषोर्मे ॥ ७६॥
त्वां सेवितं जलजचक्रगदासिशार्ङ्गै-
स्तार्क्ष्येण सैन्यपतिनाऽनुचरैस्तथाऽन्यैः ।
देव्या श्रिया सह वसन्तमनन्तभोगे
भुञ्जीय साञ्जलिरसङ्कुचिताक्षिपक्ष्मा ॥ ७७॥
कैङ्कर्यनित्यनिरतैर्भवदेकभोगै-
र्नीत्यैरनुक्षणनवीनरसार्द्रभावैः ।
नित्याभिवाञ्छितपरस्परनीचभावै-
र्मद्दैवतैः परिजनस्तव सङ्गमीय ॥ ७८॥
यत्किञ्चिदुज्जलमिदं यदुपाख्ययाऽऽहुः
सौन्दर्यमृद्धिरिति यन्महिमांशलेशैः ।
नाम्नैव यां श्रियमुशन्ति यदीयधाम
त्वामामनन्ति यतमायतमानसिद्धिः ॥ ७९॥
या च त्वयाप्युदधिमन्थनयत्नलभ्या
यान्तर्हितेति जगदुन्मथनोद्यतोऽभूः ।
या च प्रतिक्षणमपूर्वरसानुबन्धै-
र्भवैर्भवन्तमभिनन्दयते सदैव ॥ ८०॥
रूपश्रिया गुणगणैर्विभवेन धाम्ना
भावैरुदारमधुरैश्चतुरैश्चरित्रैः ।
नित्यं तवैव सदृशीं श्रियमीश्वरीं त्वां
त्वां चाञ्चितः परिचरेयमुदीर्णभावः ॥ ८१॥
या बिभ्रती स्थिरचरात्मकमेव विश्वं
विश्वम्भरा परमया क्षमया क्षमा च ।
तां मातरं च पितरं च भवन्तमस्य
व्युञ्छन्तु रात्रय इमा वरिवस्यतो मे ॥ ८२॥
भावैरुदारमधुरैर्विविधैर्विलासैः
भ्रूविभ्रमस्मितकटाक्षनिरीक्षणैश्च ।
या त्वन्मयी त्वमपि यन्मय एव सा मां
नीला नितान्तमुररीकुरुतामुदारा ॥ ८३॥
भावैरनुक्षणमपूर्वरसानुविद्धै-
रत्यद्भुतैरभिनवैरभिनन्द्य देवीः ।
भृत्यान् यथोचितपरिच्छदिनो यथार्हं
सम्भावयन्तमभितो भगवन् भवेयम् ॥ ८४॥
हा हन्त हन्त हतकोऽस्मि खलोऽस्मि धिङ्मां
मुह्यन्नहो अहमिदं किमुवाच वाचा ।
त्वामङ्ग मङ्गळगुणास्पदमस्तहेय
मा स्मर्तुमेव कथमर्हति मादृगंहः ॥ ८५॥
अंहः प्रसह्य विनिगृह्य विशोध्य बुद्धिं
व्यापू(धू)य विश्वमशिवं जनुषाऽनुबद्धम् ।
आदाय सद्गुणगणानपि नाहमर्ह-
स्त्वत्पादयोर्यदहमत्र चिरं निमग्नः ॥ ८६॥
जानेऽथवा किमहमङ्ग यदेव सङ्गा-
दङ्गीकरोषि न हि मङ्गलमन्यदस्मात् ।
तेन त्वमेन मुररीकुरुषे जनं चे-
न्नैवामुतो भवति युक्ततरो हि कश्चित् ॥ ८७॥
यन्नाभवाम भवदीयकटाक्षलक्षं
संसारगर्तपरिवर्तमतोऽगमाम ।
आगांसि ये खलु सहस्रमजस्रमेव
जन्मस्वतन्महि कथं त इमेऽनुकम्प्याः ॥ ८८॥
सत्कर्म नैव किल किञ्चन सञ्चिनोमि
विद्याप्यवद्यरहिता च तु विद्यते मे ।
किञ्च त्वदञ्चितपदाम्बुजभक्तिहीनः
पात्रं भवामि भगवन् भवतो दयायाः ॥ ८९॥
किं भूयसा प्रलपितेन यदेव किञ्चि-
त्पापाह्वमल्पमुरु वा तदशेषमेषः ।
जानन्न वा शतसहस्रपरार्धकृत्वो
योऽकार्षमेनमगतिं भगवन् क्षमस्व ॥ ९०॥
देव त्वदीयचरणप्रणयप्रवीण
रामानुजार्य विषयीकृतमप्यहो माम् ।
भूयः प्रधर्षयति वैषयिको विमोहो
मत्कर्मणः कतरदत्र समानसारम् ॥ ९१॥
गर्भेषु निर्भरनिपीडनखिन्नदेहः
क्षोदीयसोऽतिमहतोऽप्यखिलस्य जन्तोः ।
जन्मान्तराण्यनुविचिन्त्य परस्सहस्रा-
ण्यत्राहमप्रतिविधिर्निहतश्चरामि ॥ ९२॥
भूयश्च जन्मसमयेषु सुदुर्वचानि
दुःखानि दुःखमतिरिच्य किमप्यजानन् ।
मूढोऽनुभूय पुनरेव तु बालभावं
दुःखोत्तरं निजचरित्रममुत्र सेवे ॥ ९३॥
भूयांसि भूय उपयन्विविधानि दुःखा-
न्यन्यच्च दुःखमनुभूय सुखभ्रमेण ।
दुःखानुबन्धमपि दुःखविमिश्रमल्पं
क्षुद्रं जुगुप्सितसुखं सुखमित्युपासे ॥ ९४॥
लोलद्भिरिन्द्रियहयैरपथेषु नीतो
दुप्प्रापदुर्भगमनोरथमथ्यमानः ।
विद्याधनाभिजनजन्ममदेन काम-
क्रोधादिभिश्च हतधीर्न शमं प्रयामि ॥ ९५॥
लभ्येषु दुर्लभतरेष्वपि वाञ्छितेषु
जाते सहस्रगुणतः प्रतिलम्भनेऽपि ।
विघ्नैर्हतेऽप्यपि च तेषुसमूलघातं
वर्धिष्णुरेव न तु शाम्यति हन्त तृष्णा ॥ ९६॥
त्वत्कीर्तनस्तुतिनमस्कृतिबेदनेषु
श्रद्धा न भक्तिरपि शक्तिरथो न चेच्छा ।
नैवानुतापमतिरेष्वकृतेषु किन्नु
भूयानहो परिकरः प्रतिकूलपक्षे ॥ ९७॥
एतेन वै सुविदितं बत मामकीन-
दौरात्म्यमप्रतिविधेयमपारमीश ।
सम्मूर्च्छतोऽप्यपदमस्मि यतस्त्वदीय
निस्सीमभूम करुणामृतवीचिवायोः ॥ ९८॥
ऐश्वर्यवीर्यकरुणागरिमक्षमाद्याः
स्वामिन्नकारणसुहृत्त्वमथो विशेषात् ।
सर्वे गुणास्सविषयास्तव मामपार-
घोराघपूर्णमगतिं निहतं समेत्य ॥ ९९॥
त्वत्पादसंश्रयणहेतुषु साधिकारा-
नुद्युञ्जतश्चरितकृत्स्नविधींश्च तांस्तान् ।
त्वं रक्षसीति महिमा तव नालमेषा
मां चेदनीदृशमनन्यगतिं न रक्षे ॥ १००॥
या कर्मणामधिकृतिर्य इहोद्यमस्ते
एष्वप्यनुष्टितिरशेषमिदं हि पुंसाम् ।
त्वामन्तरेण न कथञ्चन शक्यमाप्तुं
एवं तु तेषु मयि चास्ति न ते विशेषः ॥ १०१॥
निर्बन्ध एष यदि ते यदशेषवैध
संसेविनो वरद रक्षसि नेतरांस्त्वम् ।
तर्हि त्वमेव मयि शक्त्यधिकारवाञ्छाः
प्रत्यूहशान्तिमितरच्च विधेहि विश्वम् ॥ १०२॥
व्यक्तीकुर्वन्निगमशिरसामर्थमन्तर्निगूढं
श्रीवैकुण्ठस्तुतिमकृत यश्श्रेयसे सज्जनानाम् ।
कूराधीशं गुरुतरदया दुग्धसिन्धुं तमीडे
श्रीवत्साङ्गं श्रुतिमतगुरुच्छात्रशीलैकधाम ॥ १०३॥
इति वैकुण्ठस्तवः सम्पूर्णः ।
Proofread by PSA Easwaran