श्रीवरदराजशतकम्

श्रीवरदराजशतकम्

काञ्च्यां काञ्चनरत्नशैलशिखरे शुण्डालशैलाग्रिमे देशे लोकविधातृधातृविहिते देवोऽश्वमेधे हरिः । प्रादुर्भावमुपागतो वरद इत्याख्यां गतश्च क्रिया- द्वाचं वारिधिभङ्गडम्बरमुषं मोचासमानां मम ॥ १॥ यस्याः सद्म सरोरुहं सह जनिश्चन्द्रेण यस्याः पयो- रशौ यत्करुणावशाद्विधिरपि त्रैलोक्यराज्यं गतः । हृत्पद्मे महसा करोतु कमला वासं घनान्तर्गता विद्युद्वेति मतिं नृणां विदधती वक्षःस्थलस्था विभोः ॥ २॥ वन्दे श्रियःपतिमुदारगुणैरुपेतं वन्दारुलोकतरणाय वसुन्धरायाम् । वासीकृतेभगिरिमध्यतलं विशुद्ध- वैधात्रवाजिमखवैभवभागधेयम् ॥ ३॥ ज्योत्स्नायमानमृदुहासमुखेन्दुबिम्बः कस्तूरिकातिलककान्तललाटमध्यः । मुक्ताविभूषणविराजदुराः सदास्मान् संवीक्षतां वरदनामहरिः कटाक्षैः ॥ ४॥ वाग्वीचिमाला मम कैटभारे वर्ष्माम्बुधेस्ते तनुतां प्रकाशम् । गाम्भीर्यकान्त्यादिगुणैरुपेता सद्वृत्तरत्नश्रियमाददाना ॥ ५॥ लक्ष्मीसहायललिताङ्घ्रिसरोजयुग्मे वृत्तिं करोतु मम मानसमत्तभृङ्गः । नित्यं विशुद्धभुवनस्थितसेव्यगन्धे सन्मार्दवे श्रुतिशिरःपरिचेयरूपे ॥ ६॥ दत्तां मे दनुजारिपादकमलं सर्वाः सदा सम्पदः पुण्यं पुण्यजलां मरन्दलहरीसम्मानसम्पादिनीम् । गङ्गां शर्वशिरोविभूषणकरीमुत्पादयद्योगिभि- र्ध्येयं ध्यानपरायणैः श्रुतिशिरःसंवेदनीयं सदा ॥ ७॥ पद्माकान्तपदारविन्दयुगलं संश्रित्य मन्मानसं ब्रह्मेन्द्रादिसुरोत्तमाङ्गमकुट प्रोद्भासिरत्नश्रिया । चित्रं तत्र निरन्तरं निवसतिं कुर्यात्तथा ह्यम्बुजे लब्धे लुब्धमधुव्रतः किमपरं पुष्पं श्रयेन्नीरसम् ॥ ८॥ नानार्थावगमाय कैटभरिपुर्मह्यं सुधीदीपिकां कृत्स्नेनान्धतमिस्रनाशनचणां देयाद्दयावारिधिः । सूर्यश्चेन्न ददाति पङ्कजचयोल्लासं श्रियं कोऽपरो देयान्मीलनहेतुकिल्बिषचयप्रध्वंसिनीं प्राणभृत् ॥ ९॥ वाक्कार्मुकं वरद मन्मथमल्लिकादि पुष्पायुधोद्वहनकार्मुकवन्मदीयम् । त्वत्पादपद्मयुगलं मुनिवृन्दवन्द्यं शुद्धैरलं परिकरोतु सुवृत्तरत्नैः ॥ १०॥ पद्माकान्तपदारविन्दनखरैर्निधूतदोषोदयै- रक्षीणद्युतिभिः कलङ्करहितैस्ताराधिपो निर्जितः । भीत्या तिग्मकरे कदाचिदुदधौ शैले च मह्यन्तरे स भ्रान्तो विचरन् ह्रिया परिवृतः शङ्कामहे लीयते ॥ ११॥ एतत्किं कमलं न तज्जलवृतं किं वा प्रवालं न तत् काठिन्यं वहते परं तु सततं शाखाग्रसंशोभितम् । मन्ये पल्लवमित्यलं मुनिगणाः पद्माप्रियाङ्घ्रिद्वयं निज्ञातुं न हि शक्नुवन्ति तरसा साक्षात्कृतं सम्भ्रमात् ॥ १२॥ पद्मानायकपादभावमुररीकृत्याम्बुजं चन्द्रमः- पादौघेन पराहतं नखमिषान्मन्ये निरुन्धे विधुम् । चन्द्रत्वे तु खवर्जनान्नखपदं युक्तं नखानां तथा पादाम्भोजयुगे पुनर्भवपदं युक्तं पुनस्सम्भवात् ॥ १३॥ शाखाग्रेषु कृतं स्थितिं सुमनसां वृन्देन नित्योच्छ्रितं सद्रागं पदपल्लवं मधुरिपुस्वर्भूरुहस्यादरात् । चेतोभृङ्ग ममामृतात्मकफलं भक्ताय सा त्कुर्वतो नित्यं संश्रयतां भवान् कुतुकवान् प्राप्नोति तस्मात्सुखम् ॥ १४॥ निर्वाणं नितरां न किं वितनुते स्वीयेन गन्धेन ते पद्माकान्तपदद्वयं न तनुते मोदं श्रितालेः किमु । नादत्ते किमु हंसकश्रियमहो केनारविन्दाभिधं न स्यात्तद्विधिसंश्रितं भवति चेदेतच्च का वा भिदा ॥ १५॥ पद्माकान्तपदारविन्दनखरः किं वा न वीक्ष्यः पदे वासं याति न किं कलापरिवृतश्चन्द्रः कुतो नो भवेत् । पद्मश्रीपरिभाविपादनिलयः चन्द्रो यदि श्रीपतेः पादद्वन्द्वनखोऽपि भेदकमतः किं वानयोर्वर्तते ॥ १६॥ त्वत्पादाब्जनखैर्मधुप्रमथन श्रीसम्पदा निर्जितः चन्द्रो जेतुमशक्नुवन् पुनरमूनेतच्चिताङ्घ्रिप्रभम् । पद्मं रश्मिवितानकेन तनुते तेजःपहीणं जनाः कुर्वन्ति द्विषता हताः प्रतिकृतिं तत्सङ्गते दुर्बले ॥ १७॥ कुप्यत्कालियभोगिभोगफलके रत्नाभिरामे हरे- र्नाट्यं भूषणनिस्वनैः सुरुचिरं यत्पादपद्मं दधौ । तन्मे मङ्गलमातनोतु सततं हृत्पद्मनिष्ठं सदा यद्ध्यात्वा विबुधाः प्रयान्ति सकलश्रेयःपदं शाश्वतम् ॥ १८॥ यत्पादपद्मरजसा महिलात्वमाप पाषाणतामुपगतापि मुनीन्द्रपत्नी । यत्सम्भवा स्रगिव मूर्ध्नि हरस्य रेजे गङ्गा मदीयहृदये कुरुतां स्थितिं तत् ॥ १९॥ नागान्तकस्य करपल्लवघट्टनेन सञ्जातरागमिव भासुरमन्तरङ्गे । वृत्तिं करोतु मम सन्ततमङ्घ्रिपद्मं लोकैकरक्षणपरस्य रमाप्रियस्य ॥ २०॥ पुरन्दरपराजय-प्रभवसर्वसम्पच्चयं बलेरपि मनःक्लमं मघवतः श्रियश्चेशितुः । परत्व-विचिकित्सया पशुपति-प्रभुत्वभ्रमं पराकुरुत यत्क्रमे पदयुगं हरेस्तद्भजे ॥ २१॥ प्रचण्डकरमण्डलप्रसृतरत्नजालाचित- स्फुरद्रुचिरनूपुरच्छविभिरम्बरं छादयत् । विजृम्भिततमोनुदद्दिविजवृन्दवन्द्यं सदा विभातु हृदये पदद्वयमधीशितुः श्रीह्रियोः ॥ २२॥ कमण्डलुजलैर्विभोः कलुषदारिभिः क्षालितं कुरङ्गमदकुङ्कुमप्रचुरचन्दनावासितैः । विचित्रवरभूषणैर्विविधकान्तिरत्नोज्ज्वलैः विभूषितमुपास्महे विबुधवन्द्यविष्णोः पदम् ॥ २३॥ कपर्दि शिरसस्तटं कपिलहुङ्कृतिध्वंसितान् शतक्रतुहतक्रतोरपि रिरक्षिषाप्रोत्सुकान् । हयस्य पदवीं गतान् हतमहत्तमान् सागरान् पवित्रयति यज्जलं हृदि विभासतां तत्पदम् ॥ २४॥ भवत्पदभवन्नखैर्निभृतकान्तिपूरैर्हरे समीभवितुमुद्यते शशिनि रोषितैस्ते नखैः । भवत्पदभवद्धुनीचलजले स्वयं बिम्बितैः सृजद्भिरपरान् विधून् विधुरकारि पङ्काङ्कितः ॥ २५॥ श्रुतिप्रचयघोषिते गगनतो महत्त्वे हरे- रसम्भवमतर्कयन् जगति जन्तवः केचन । त्रिविक्रमपदाक्रमाद्गगनदभ्रभावे स्फुटे जयध्वजपटीकृता हरिपदच्युता जाह्नवी ॥ २६॥ क्षितिं च बलिमस्तकं खमपि विक्षिपंस्त्रिक्रमैः क्रमेण पदयोहरिर्जयति पूर्वमध्योत्तरैः । न देशसमयैः कृतोऽवधिरपि व्यवस्थां श्रुते- रसम्भवविशङ्किनां जगति कर्मणा स्पष्टयन् ॥ २७॥ मणिप्रवरचित्रितैर्वरविभूषणैर्भूषितं त्रिविक्रमपदद्वयं ध्वजरथाङ्गवज्राङ्कुशैः । सरोजमुखलाञ्छनैरपि परत्वविद्योतनै- रलङ्कृतमुपेयुषो मम विराजतां मस्तके ॥ २८॥ श्रुतिप्रचयदूरगं श्रमविदारणं भूतले प्रसार्य सरमः पुमांश्चरणमम्बरे चापरम् । प्रसन्ननखचन्द्रिकाततिभिरन्धकारं नुदन् प्रपन्नजनताहृदां जयति वर्धयन् स्वं वपुः ॥ २९॥ त्रिविक्रमनखक्षपाकरकरालिविध्वंसिते जगत्त्रितयसद्मनां मलिनचक्षुषां पातके । अनादिमिलदंहसां जगति मादृशां पातक- प्रमार्जनपटीयते हरिपदच्युता जाह्नवी ॥ ३०॥ त्रिविक्रमपदोन्नतेरपघनो नृणां मानसे- ष्वतुल्यकलुषाद्रिषु प्रतिविजृम्भितेष्वम्बरे । हरेः कुलिशमादिशत् कलुषशैलभेदार्थमि- त्यवैमि विचलज्जलां हरिपदच्युतां जाह्नवीम् ॥ ३१॥ त्रिविक्रमपराक्रमात् तिमिरवृन्दविध्वंसनात् नखच्छविभिरद्रिराड् रजतरूपतामभ्यगात् । सुमेरुरपि हंसकच्छविभिराप सौवर्णतां पयोधिरपि नीलतां पदयुगस्य भासाध्यगात् ॥ ३२॥ त्रिविक्रमपदेऽम्बरे विलसति स्वभासा सुरा जगत्त्रयतमोऽपहे हरिमथार्थयन् सन्नताः । सदा तिमिरनुत्तये स च रमापतिर्हंसक- प्रभाभिरकरोद्रविं नखररश्मिलेशैर्विधुम् ॥ ३३॥ वटच्छदपुटे शिशोः शयितुरङ्घ्रिपङ्केरुहं मुखाब्जविनिवेशितं मधुरसौघनिष्यन्दनम् । युगान्ततरणिप्रभाप्रसरदग्धदेहात्मनां रसेन सुखदं भजे शुभशरीरसंवर्तिनाम् ॥ ३४॥ भजज्जनमनःस्थितः सुहरितत्त्वसंस्फोरणा- दजस्रपरिपीडितो हरिपदं हि रागः श्रयन् । विजृम्भणमुपेयिवान् विजयते विरोधं स्मरन् वटच्छदपुटस्थितं सुहरितत्त्वमेव श्रिया ॥ ३५॥ हिरण्यकशिपुप्रभृत्यसुरमुख्यसम्पीडिताः विमोहपरिधूमित-प्रचुरशोकवह्न्यर्दिताः । सुरा अपि यदाश्रयान्नखसुधांशुसन्धुक्षिताः स्वधामनि सुनिर्वृता हरिपदं तदाशास्महे ॥ ३६॥ आक्रान्तं भुवनं मयेति विबुधा गन्धेन वै निर्वृताः सेव्ये पुण्यकृतां शिरोभिरतुलं रूपं ममास्तीति च । मा कार्षीररविन्द गर्वमधिकं राजत्सतां मौलिभिः पद्मानायकपादपद्ममनघं त्वत्तोऽधिकं वर्तते ॥ ३७॥ नित्यं विष्णुपदाश्रिताः कुवलयं संरोचयन्तः कला- सन्दोहेन निरस्तपङ्कजगणाः सद्भिः सदा संश्रिताः । आह्लादं सततं नृणां विदधतः के वा न कुर्यस्तमो- भेदं शीतलरश्मिवत् सुमनसः सत्त्वाभिवृद्धिप्रदाः ॥ ३८॥ चतुर्मुखपदोद्धतै-श्चलितवज्रिहृत्पङ्कजैः सुमालिमुखराक्षसैः सुमथितं सुराणां बलम् । चतुर्मुखशिवादिषु प्रबलभीतिषु प्रेक्षितुं सुवर्णकरपङ्कजस्थितपदत्वरा रक्षति ॥ ३९॥ सुवर्णकमलाकरे सुबहुदिव्यरत्नाकरे सुनीलघनडम्बरे हरिवपुःसुधाम्भोनिधौ । समुत्थितपदाम्बुजं सकललोकसम्मोहनं सदावतु धराश्रियोर्ललितहस्तसंवाहितम् ॥ ४०॥ फणीन्द्रशयने फणामणिविचित्रकान्त्युज्ज्वले कुशेशयमृदुत्वचि क्लमपरीमुषः सङ्गमात् । पदाम्बुजयुगस्य ते कटकधारिहस्ताब्जया सुलोहितमभूत् किला किमु मुकुन्द संवाहनात् ॥ ४१॥ सुवर्णकनकाद्रिराडुपरिनीलमेघायित- स्तदीयकरपङ्कजद्वयविषक्तपादाम्बुजः । सरोवरजवोच्छलन्मकरदष्टदन्तावलं ररक्ष यदुपक्रमान्नरकहावतात्तत्पदम् ॥ ४२॥ प्रपन्नजनगोप्तृताव्रतमथ प्रभोर्मूलतां प्रसिद्धकरुणं च तं द्विरदपुङ्गवं यत्त्वरा । जुगोप जगदन्तरा विततचन्द्रसच्चन्द्रिका- विशुद्धयशसः श्रियं हरिपदं तदाभातु नः ॥ ४३॥ गुणाधिककृपासखी भगवतस्त्वरा रक्षितुं समस्तजगदालयान् भगवदङ्घ्रिपङ्केरुहम् । प्रयापयति तत्कृपावशसमीरितान्मानसान् पुरः स्वयमुपार्जितुं भुवनरक्षणोद्यद्यशः ॥ ४४॥ महायवनसेनया मरुदधीशसेनाद्रुहो निरुद्धतलगोपुरे यदुकुलोद्वहानां पुरे । महाभयमपाकरोद्यवनमुख्यजातं त्वरा मुकुन्दपदगोचरा सुमुचुकुन्दमुक्तिप्रदा ॥ ४५॥ स्फुरत्फणिवराकुलं प्रबलशक्रनक्राकुलं सुरेन्द्रबलसागरं क्षुभितमुत्कटं कुर्वतः । हिरण्यकशिपोरुरःस्थलविदारणप्रोच्चल- त्प्रभूतरुधिरोक्षिताः करनखा हरेर्भान्तु नः ॥ ४६॥ सन्मार्गस्खलनप्रधानकरणैः स्वीयैर्जलैः पङ्किलं कुर्वन्तो भुवनं विचेरुरनिशं यत्रैव रक्षोधनाः । तत्रैवोदयमाससाद समये रामाङ्घ्रिपङ्केरहं चित्रं प्राप पुरः श्रियं च भुवनं निष्पङ्कमत्यातनोत् ॥ ४७॥ दम्भोलिः कलुषाद्रिषु श्रितवतां हृत्पङ्कजेष्वर्यमा रक्षोवृन्दतमोविदारणविधौ साक्षाज्ज्वलन् पावकः । कौसल्यादिदृगुत्पलोत्सवविधौ चन्द्रश्चयः स्यात् स्वयं रामस्याङ्घ्रिसरोरुहस्थनखरो मन्मानसे सर्वदा ॥ ४८॥ कौसल्योदरसर्वसम्भवरमानेत्रोत्पलश्रीकल- श्रीमत्सुन्दररामचन्द्रचरणश्चञ्चूड्यतां मानसे । यन्नेत्रैस्तृषितैः पिबन्ति मुनयः सन्तप्तदेहाः पुरा दुर्वारत्रयनवादिदुःसहमहातापैश्चकोरा इव ॥ ४९॥ चित्रं रामकराभिमृष्टमनिशं भाति श्रिया स्वोदया- दुष्णांशोः कुलमुत्पुनाति भुवने रामाङ्घ्रिपङ्केरुहम् । नित्यं पुण्यजनोत्तमाङ्गमहितं निष्पादयत्यद्भुतं लोकं पुण्यजनप्रहीणममलैर्जन्मध्रुगप्यर्च्यते ॥ ५०॥ रक्षोभिः खरदूषणप्रभृतिभिर्नेतुं जगद्दूषितं रक्षंल्लक्ष्मणपूजिताङ्घ्रिकमलो यात्रां हि यत्राकरोत् । रामस्तत्र तदीयपादकमलस्पर्शात् सुरेन्द्रादिभिः दुष्प्रापं पदमाप वृक्षलतिकागुल्मादि सर्वं जगत् ॥ ५१॥ तमःप्रकृतिषु स्फुरत्सुरवधूमुखाम्भोरुह- स्थिताधरसुधाशिषु द्विजवराशिषु स्वद्रुहः । (यदा)ननविधुन्तुदेष्वसहनं गतश्चन्द्रमा रघूद्वहपदोल्लसन्नखशरत्वमेत्याक्षिपत् ॥ ५२॥ पादः पुनातु रघुवंशसमुद्रजात श्रीरामचन्द्र भवतो मम मस्तकाग्रम् । क्षिप्तानि येन भुवनस्थितपङ्कजानि येनैव तत्कुवलयं भजति प्रकाशम् ॥ ५३॥ क्षिप्तो वेदपथः क्षमाक्षयबलैः क्षेमक्षयात्क्षोभिता क्षीणाः क्षोणिभृतः क्षरत्क्षतजयुक्क्षेत्राः क्षितोत्क्षेपिताः । इत्थं क्षोणितलं क्षपाचरगणैः क्षिप्तं क्षणात् प्रापितं क्षेमं लक्ष्मणपूज्यलक्षणभृता लक्ष्मीप्रियाङ्घ्रिश्रिया ॥ ५४॥ किरीटनिक्षिप्तमणिप्रकाश- नीराजितं पादसरोजयुग्मम् । रामस्थ सेवे रघुपुङ्गवस्य ब्रह्मेन्द्ररुद्रादिसुरेश्वराणाम् ॥ ५५॥ पायात् पोषितराजहंसनिचये भूभृत्प्रभोर्मानसे नित्यं जातबलापवारणकरे सञ्जीवनत्यागिनि । स्वोत्पत्त्या विदधत्प्रसादमतुलं रामाङ्घ्रिपङ्केरुहं पङ्कच्छेदि शिरोभिरुत्तमजनैः संसेव्यमानं सदा ॥ ५६॥ सरयूपवने वरयूपमये चरतः परितः समया रमया । कलये वलयाभरणौ चरणौ सुनखावनघौ मनसा शिरसा ॥ ५७॥ हृदये सदये निदधे विदध- च्चरणे शरणे निरतं विरतम् । करुणावरुणावसथः सपथः प्रभुवं प्रभवो जगतः स्वगतं (?) ॥ ५८॥ जम्भारिमर्दनविमर्दितदिव्यदेहा बर्हिर्मुखा युधि दिशो दश विद्रवन्तः । भानोः कुले भगवतः पदपद्मयुग्मं ध्यात्वाभवन् सुमनसः सुमहारिनाशात् ॥ ५९॥ मारीचादिसुरारिवृन्दनिधनव्याजेन भूमण्डलं सञ्चारेण पदारविन्दयुगलं यद्राघवस्यापुनात् । विश्वामित्रमुनीन्द्रयज्ञतपसां सिद्धिश्च यद्दर्शनात् तन्निःश्रेयसमातनोतु मुनिभिः सम्पूज्यमानं सदा ॥ ६०॥ चरणौ शरणागतप्रियः करुणावारिधिरब्जलोचनः । वरुणालयपाणिमर्दिता- वरुणाम्भोजनिभौ ददातु मे ॥ ६१॥ जङ्घे जगत्रितयविक्रमजाङ्घिकत्वे हेतू मधुप्रमथनस्य मनोज्ञरूपे । नीलाश्मनिर्मितमनोज्ञगदासरूपे मालिन्यखण्डनपरे भवतां मनःस्थे ॥ ६२॥ लक्ष्मीनायकजानुनी भुजयुगायामावधी मामके भासेतां हृदये कराम्बुजयुगस्पर्शेन रोमाञ्चिते । उत्सङ्गोपरि सुन्दरे विनिहिते संवाहनार्थं श्रिया रत्नादर्शसभानरूपसहिते सत्कान्तिपूरावृते ॥ ६३॥ कुम्भीन्द्रहस्तकदलीकरभेन्द्रनील- स्तम्भाभिभूतिचतुरौ गुणवैभवेन । ऊरू रमाप्रणयिनः कमनीयशोभौ नित्यं मदीयहृदये कुरुतां निवासम् ॥ ६४॥ मेघः किमेष चपलानिचयेन युक्तः सिन्धुः किमेष बडबामुखवह्नियुक्तः । इत्थं सदामरगणा हि विचिन्तयन्ति पीताम्बरेण सहितं हरिमीक्षमाणाः ॥ ६५॥ लल्मीकान्तकटीतटीनवमणिश्रेणीसमुल्लासित- स्वच्छस्वर्णमयप्रभाकरकरश्रीचोरसन्मेखला । वर्णोत्कृष्टसुतप्तहाटकपटीसञ्छादिता मानसे नित्यं भातु तदन्तरालनिवसद्ध्वान्तच्छटापाटिका ॥ ६६॥ यस्मात्तोयरुहाद्विधिस्त्रिजगतामीशः प्रभूतः पुरा यस्मिन्नीलसरोजपत्रसदृशं व्योम द्विरेफाकृतिम् । गत्वाराजत तच्च यत्र सरसि प्रादुर्बभूवाम्बुजं नाभौ तद्गुणसंहतेर्विवरणे देवो न शक्तो विधिः ॥ ६७॥ श्रीवत्सं दनुजार्दनस्य रुचिरे वक्षःस्थले संश्रितं श्रीर्वत्सं किमु जानती करुणया तत्सन्निधौ वर्तते । यद्वा क्षीरपयोनिधावुदयनात् सौन्दर्यबुद्ध्या शुभं हृद्यं कौस्तुभनामकं मणिवरं द्रष्टुं किमत्रागता ॥ ६८॥ लक्ष्मीकटाक्षा मधुमर्दनोरःस्थले विराजन्ति सदा भ्रमन्तः । षडङ्घ्रयः श्रीतुलसीसुगन्धमत्रागता लेढुमिव प्रवृद्धम् ॥ ६९॥ मधुद्विषदुरःस्थले मृदुलरत्नसिंहासने मनोभवतनोरपि श्रियमुपेयुषि श्रेयसि । चराचरविचारणक्रममुपेयुषा श्रेयसा कटाक्षविसरेण नोऽवति रमेक्षमाणा स्थिता ॥ ७०॥ सर्वाभीष्टफलप्रदानचतुरे भूभर्तृभावोज्ज्वले नित्यं भावविवर्धने घनरसाश्लेषे प्रिये मारुतैः । नित्यं वृद्धिमुपागते निवसतिं लब्धावताद्रूपिणी विद्युद्विष्णुपदाश्रयाद्विलसती जन्म श्रितावारिधौ ॥ ७१॥ सर्वाभीष्टफलप्रदानचतुरे शाखाभिरुद्भासिते स्निग्धश्रीकरपल्लवारुणशुभस्कन्धोज्ज्वले श्यामले । मध्यस्था हरिचन्दने विलसती श्रीकल्पवल्ली श्रिता- नस्माँल्लोचनषट्पदैः करुणया संवीक्षमाणा सदा ॥ ७२॥ कार्यद्रव्यनिदानकारणतया जोघुष्यमाणे गुणै- राश्लिष्टे निजरूपसम्पदुचितात् सत्त्वान्महत्त्वात् सताम् । प्रत्यक्षे निरपायसङ्गमुचितं प्राप्ता परा जातिवत् द्रव्येऽस्माकमुपेयुषां नयनभूर्भूयात् सदा सेन्दिरा ॥ ७३॥ विद्वद्भिः पुरुषार्थसाधनतया सम्प्रार्थ्यमाने गुणै- रङ्गैः कर्मभिरुज्ज्वले घनरुचा रूपश्रिया राजिते । क(श)स्ते स्तोत्रमुखैः प्रकाशमतुलं सम्प्रापिते दक्षिणां विष्णावध्वरदक्षिणेव कमला संराजतेऽस्मादृशाम् ॥ ७४॥ धातुर्व्याप्तचिरन्तनप्रकृतिसंस्थानश्रिते साधुता- शालिन्यन्तकृदादिशिक्षणयुते विद्वद्भिरत्यादृते । शाब्दब्रह्मणि दुर्विवेचनतया नित्यानुबन्धं गता श्रीरास्तां करुणामयी प्रकृतिवज्जिह्वाग्रभागेषु नः ॥ ७५॥ पङ्कच्छेदिनि पालितत्रिभुवने पङ्केरुहश्रीकरे पादस्पर्शपराकृताखिलतमस्तोमे परे ब्रह्मणि । पायादंशुमति प्रभेव परमव्योमाश्रये संस्थिता पद्मापाङ्गनिरीक्षणैः प्रतिकलं पश्यन्त्यनन्याश्रितान् ॥ ७६॥ पद्माया मुखमम्बुजं सुविमले नेत्रे च नीलोत्पले तस्याश्चित्तमशोकमब्जवसतेर्वेण्यां स्थिता मल्लिका । चूतं पाणितलं ततः स्मरशराः पञ्चापि तत्रासते तैर्नित्यं परिमोहितः किमु हरिर्निद्राति गेहे चिरम् ॥ ७७॥ पद्माया मुखमम्बुजं सुविमले तत्रापि नीलोत्पले नेत्रे तत्र कनीनिका मधुकराः सञ्चारकाः सर्वदा । नीलाम्भोदरुचिर्हरेः कलियुगेष्वातन्वि तेनान्यथा शुद्धस्फाटिककान्तियुक्ततनुता प्रौढिं गतस्य ध्रुवम् ॥ ७८॥ मुक्ताहारविराजिते मणिवरश्रीसम्पदोद्भासिते लक्ष्मीलोचनषट्पदैरनुकलं पेपीयमाने मुदा । श्रीवत्साङ्कितवक्षसि श्रीतवतामानन्दसन्दोहने श्रीशस्यानिशमन्तरङ्गमधिकं सक्तं भवेन्मामकम् ॥ ७९॥ लक्ष्मीपादसरोजयावकरसस्पर्शेन मुद्राङ्किते गोपीतुङ्गपयोधरादरवतो गोपालकस्याद्भुते । मुक्ताहारमयी विराजति रमाकान्तस्य वक्षःस्थले लक्ष्मीमन्दिररक्षिबाह्यपरिघा क्षीराम्बुधेः कुल्यका ॥ ८०॥ सूर्याटोपदलत्सदाघनरुचिव्याप्तं स्फुरत्तारकं कान्तं नित्यमनन्तमाश्रितवती विश्वप्रियाधायिनी । लक्ष्मीरिन्दुकलेव राजति तमस्स्तोमच्छिदां कुर्वती ह्यस्मन्नेत्रचकोरपारणकरी सत्सञ्चयश्रीकरी ॥ ८१॥ राज्याभिषेकसमये रघुपुङ्गवस्य शक्रेण सादरसमर्पितपद्ममाला । वक्षःस्थले वहति वारिदमध्यगामि- विद्युत्प्रभां कनकरत्नमयी विचित्रा ॥ ८२॥ लक्ष्मीमन्दिरमिन्दिराप्रणयिनो वक्षःस्थलं राजतां कस्तूरीधनसारकुङ्कुमरजःपङ्कैः सदा वासितम् । मुक्तादामभिरुज्ज्वलं मणिमयैः सम्भूषितं भूषणैः अस्मन्मानसपङ्कजे हरिधनुश्चित्रं स्फुरत्कौस्तुभम् ॥ ८३॥ लक्ष्मीरिन्दुकलेव राजति शुभानन्तस्य वक्षःस्थले नित्यं पङ्कजबाधिनी कुवलयानन्दप्रदा वारिधौ । जाता विष्णुपदाश्रिता हरशिरःसंसेविता शारदो- ल्लासैः सर्वजगत्प्रमोदनकरी हृत्पुण्डरीकस्थिता ॥ ८४॥ लक्ष्मीस्तुङ्गपयोधरावृततले मुख्यामृतास्वादना- यानर्धैर्मणिभिर्विराजिततले मीनादिभावोज्ज्वले । रामालब्धनिजान्तरे विलसती श्यामेन्द्रनीलाम्बुधौ सङ्गं प्राप्तवती निरन्तरमियं मन्मानसावासिनी ॥ ८५॥ पा(पु)ण्या कराङ्घ्रिकमलेक्षणतारकादि- नीलोत्पलभ्रमरशोभितगात्रवल्ली । लक्ष्मीर्विभाति तटिनीव महीभृतोऽन्त- र्नागेन्द्रवासरसिकस्य रमाप्रियस्य ॥ ८६॥ लक्ष्मीतुङ्गपयोधरावृततले सत्यश्रियोद्भासिते नानाधातुविमिश्रिते शुभगुहावासे हरिक्ष्माभृति । पद्मा निर्झरिणीव भाति मकरीचित्रा मनोहारिणी सन्मीनाद्यवतारनित्यरसिका ह्यस्मादृशां पावनी ॥ ८७॥ रेखाभिस्तिसृभिस्त्रयीमवधृतश्चोल्लासयन् सीमभिः वर्णोत्कर्षविराजितो रिपुगणान् सम्भीषयन् स्वोद्भवैः । गम्भीरध्वनिभिर्विराजति हरेः कण्ठः सदा कम्बुवत् मुक्ताहारमयूखशुक्लिमयुतो मन्मानसाम्भोरुहे ॥ ८८॥ ग्रीष्मर्तुस्फुरदंशुमत्करसमश्रीमन्मणिश्रेणिका- रोचीराजिविराजिताङ्गदलसद्वाहूदारलङ्कृतः । तद्भोगायितहेमरत्नकटकश्रीमत्कराम्भोरुहः पायान्नः परमः पुमान् करुणया संवीक्षमाणः सदा ॥ ८९॥ चत्वारो भुजगा इवासुररिपोर्विंष्णोरराजन् भुजाः तद्भोगा इव सुन्दरा मुररिपोस्तेषामराजन् कराः । तद्भोगस्थितरत्नवत्कररुहा राजन्ति रत्नश्रिया तद्भासेव करा विरेजुरनिशं रक्तोत्पलश्रीमुषः ॥ ९०॥ भास्वत्कोटिनिरासकारिकिरणस्तोमेन सर्वं जगत् कुवणिं भयहीनमुज्ज्वलशिखाजालैः सुरद्वेषिणाम् । भास्वद्रत्नकिरीटकुण्डललसच्छीर्षच्छिदाकारणं चक्रज्योतिरुपास्महे मधुरिपोर्वामान्यहस्ताश्रयम् ॥ ९१॥ वैरिञ्चप्रलयानलप्रतिभटं भास्वत्परार्धप्रभं कृत्याभेदविनाशि खण्डपरशोः काशीपुरप्लोषणम् । सर्त्विक्सङ्घसुदक्षिणप्रशमनं चैद्यादिनिर्वापणं चक्रं ज्योतिरुपास्महे निरुपमं विष्णोः करश्रीकरम् ॥ ९२॥ सूर्येन्द्राग्नियमानिलादिभयदज्वालासहस्रावृतं कृत्याप्रेषणदुर्नयेन कुपितं दुर्वाससः पार्थिवम् । कल्पान्तानलभीषणं मुनिवरप्राणापहारोत्सुकं कान्तं स्तोत्रगणैर्महीभृदुदितैश्चक्रं महः पातु नः ॥ ९३॥ एतत्किं मह एव नाधिकरणं षट्कोणसंस्थाकृते- यद्येतन्महसो निदानमपरं ज्वालाः कुतः सर्वगाः । धारास्ता इति चेन्न भेदधिषणाभावान्महश्चक्रयोः भेदो वा किमभेद एव न वयं जानीमहे तत्त्वतः ॥ १४॥ ज्वालाकेसरभासिमध्यनिवसत्षद्कोटिसिंहासन- श्रीमत्कोशविराजितं हरिकरस्पर्शाद्विकासं गतम् । नित्यं मामकमानसे विलसताच्चक्राब्जमन्तस्तम- स्तोमच्छेदिसहस्ररश्मिविलसद्भास्वत्परार्धप्रभम् ॥ ९५॥ रूपं यस्य शशिप्रभं श्रुतिमयो यस्मिन् रसः सर्वदा यत्पानादवनीभृदुत्तमपदं दुष्प्रापमापद्ध्रुवः । शब्दो यस्य सुरारिमुख्यहृदये शोकप्रदः सर्वदा सोऽस्तु श्रीधरवामहस्तनिलयः शङ्खः स्फुरन्मानसे ॥ ९६॥ यन्निर्ह्रादविदारिताः सुररिपुप्राकारदुर्गादयो यन्निर्ह्रादविभीषिता दश दिशो विद्राविताः शत्रवः । यन्निध्यानविनिर्मलीकृतधियः सन्तः समुत्तारिताः सोऽस्मन्मानसपङ्कजे विलसतु श्रीशङ्खराजः सदा ॥ ९७॥ कौमोदक्यनिशं विभातु हृदये वैकुण्ठपाणिग्रहा रत्नोद्भासिसुवर्णविग्रहवती सन्मेरुसारास्पदम् । सम्पिष्टासुरवृन्दमांसरुधिरश्लक्ष्णाङ्गरागान्विता नित्यं वीररसोत्सुकाश्रितजनश्रेयोऽभिवृद्धिप्रदा ॥ ९८॥ देवारातिकठोरकण्ठनिकषग्रावच्छिदोल्लेखनात् तैक्ष्ण्यं प्राप्तमतीव केशवकटिश्रीकारणं नन्दकम् । नीलं वर्णमिवाश्रयादुपगतं वह्निं विहायस्थितं धूमस्तोममिवाश्रयेऽहमनिशं पापाद्रिभेदक्षमम् ॥ ९९॥ ज्यानिस्वानविदीर्णवैरिहृदयप्राणोरगोत्सारण- प्रादुर्भूतपराक्रमार्जितयशोव्याप्ताखिलाशान्तिमम् । भास्वद्रश्मिसमानबाणनिकरोच्छुष्मीकृतारिप्रभा- नीरं कार्मुकमाश्रयेऽहमनिशं विष्णोः करश्रीकरम् ॥ १००॥ चक्रं दक्षिणपाणिपङ्कजदले सूर्यायमाणं वहन् शङ्खं वामकराम्बुजे कृतरुचिं हंसायमानं वहन् । भृङ्गावल्युपमं कराम्बुजतले खड्गं परे संवहन् विष्णू राजति वारिताखिलरिपुर्हस्तान्तरे सद्गदाम् ॥ १०१॥ सौरभ्यरक्तिममृदुत्वसमञ्चितस्य विष्णो तवाधरदलस्य मनोज्ञरूपाः । एकद्वियोगसहिता मधुकैटभारे बिम्बप्रवालविटपा न ससा भवन्ति ॥ १०२॥ मुक्ता मुखाम्भोजनिवासमेत्य दन्तच्छलात्ते दनुजेन्द्रशत्रो । मुक्ता बभूवुर्जलजन्मवत्त्वेऽ प्यहो महीयान् गुणसन्निकर्षः ॥ १०३॥ मन्दस्मितं मधुरिपोर्मुखचन्द्रबिम्बे ज्योत्स्नायते जितनिशाचरबालकस्य । करतूरिकातिलकमेति कलङ्कशोभां लीलावशेन विधृतं रुचिरे ललाटे ॥ १०४॥ कन्दर्पः कमलापतेर्मुखरथं दन्ताधराम्भोजस- न्मुक्ताविद्रुमभूषितं त्रिजगतां सम्मोहना यध्रुवम् । नासाभ्रू युगवीक्षणादिशरधीष्वासेषुमुख्यायुधैः सज्जंह्यातनुते ततो हि मुनयस्तद् ध्यानिनो मोहिताः ॥ १०५॥ आकर्णान्तविशाललोचनयुगं पद्मादरात् संश्रिता भृङ्गाणामि मियमालिरित्यकुरुतां बुद्धिं जनानां भ्रुवौ । वेतण्डाचलवासिनो मधुरिपोर्यत्रासने तत्सदा पश्येयं वरदप्रभोर्मुखमहं रत्नस्फुरत्कुण्डलम् ॥ १०६॥ सौन्दर्यामृतदीर्घिका मुररिपोः कर्णद्वयी कुण्डल- प्रत्युप्तानघरत्नकान्तिनिचयप्रद्योतिगण्डस्थला । नेत्रद्वन्द्वविशालतावधिरघश्रेणीसमुत्सारिणी शष्कुल्या सदृशी विभातु हृदये रेखाभिरुद्भासिता ॥ १०७॥ विष्णोर्दक्षिणलोचनं दिनकरो वामं तु ताराधिपो लोकानन्दक इत्यलं मुनिगणा वक्तुं प्रवृत्ता मृषा । दृग्रूपेण तयोः स्थितौ मुररिपोर्नास्ति प्रसक्तिः परं तत्तुल्यं प्रतिबिम्बितं नयनयोस्तच्छङ्खचक्रद्वयम् ॥ १०८॥ कस्तूरीतिलकाङ्कमन्दहसितज्योत्स्नाननेन्दुं हरे- रस्मन्नेत्रचकोरयुग्ममनिशं पेयान्मुदा यस्तमः । कौटिल्यालयकुन्तलाकृतियुतं सद्रत्ननिर्यत्प्रभा- । जालोल्लासिकिरीटसूर्यसहितश्चक्रेऽन्तरापीडितम् ॥ १०९॥ पद्मानायकपादपद्मयुगलीमास्वाद्य तज्जङ्घयोः स्थित्वोरुद्वयमाप्य तत्कटितटीमाश्रित्य तन्नाभिजम् । पद्मं प्राप्य रमापरिग्रहमुरः प्राप्यायुधालङ्कृतान् हस्तानाप्य मुखाब्जतन्मकुटयोर्मन्मानसं स्याद्ध्रुवम् ॥ ११०॥ श्रीमत्कौशिकवंशवारिनिलयादाचार्यरत्नाकरात् कृष्णार्यः समभूत् कलापरिवृतः शीतांशुना निर्मितः । सूनुर्वेङ्कटकृष्णनामसहितस्तस्याकरोद्वैष्णवं श्रीपादादिशिखावधिस्तवमिमं मुख्यं समृद्धार्थकम् ॥ १११॥ ॥ इति श्रीवरदराजशतकं सम्पूर्णम् ॥ Proofread by Musiri Janakiraman
% Text title            : Varadaraja Shatakam
% File name             : varadarAjashatakam.itx
% itxtitle              : varadarAjashatakam
% engtitle              : varadarAjashatakam
% Category              : vishhnu, shataka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Musiri Janakiraman
% Description-comments  : From stotrArNavaH 06-43
% Indexextra            : (Scan)
% Latest update         : July 30, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org