श्रीवरदराजशतकम्
काञ्च्यां काञ्चनरत्नशैलशिखरे शुण्डालशैलाग्रिमे
देशे लोकविधातृधातृविहिते देवोऽश्वमेधे हरिः ।
प्रादुर्भावमुपागतो वरद इत्याख्यां गतश्च क्रिया-
द्वाचं वारिधिभङ्गडम्बरमुषं मोचासमानां मम ॥ १॥
यस्याः सद्म सरोरुहं सह जनिश्चन्द्रेण यस्याः पयो-
रशौ यत्करुणावशाद्विधिरपि त्रैलोक्यराज्यं गतः ।
हृत्पद्मे महसा करोतु कमला वासं घनान्तर्गता
विद्युद्वेति मतिं नृणां विदधती वक्षःस्थलस्था विभोः ॥ २॥
वन्दे श्रियःपतिमुदारगुणैरुपेतं
वन्दारुलोकतरणाय वसुन्धरायाम् ।
वासीकृतेभगिरिमध्यतलं विशुद्ध-
वैधात्रवाजिमखवैभवभागधेयम् ॥ ३॥
ज्योत्स्नायमानमृदुहासमुखेन्दुबिम्बः
कस्तूरिकातिलककान्तललाटमध्यः ।
मुक्ताविभूषणविराजदुराः सदास्मान्
संवीक्षतां वरदनामहरिः कटाक्षैः ॥ ४॥
वाग्वीचिमाला मम कैटभारे
वर्ष्माम्बुधेस्ते तनुतां प्रकाशम् ।
गाम्भीर्यकान्त्यादिगुणैरुपेता
सद्वृत्तरत्नश्रियमाददाना ॥ ५॥
लक्ष्मीसहायललिताङ्घ्रिसरोजयुग्मे
वृत्तिं करोतु मम मानसमत्तभृङ्गः ।
नित्यं विशुद्धभुवनस्थितसेव्यगन्धे
सन्मार्दवे श्रुतिशिरःपरिचेयरूपे ॥ ६॥
दत्तां मे दनुजारिपादकमलं सर्वाः सदा सम्पदः
पुण्यं पुण्यजलां मरन्दलहरीसम्मानसम्पादिनीम् ।
गङ्गां शर्वशिरोविभूषणकरीमुत्पादयद्योगिभि-
र्ध्येयं ध्यानपरायणैः श्रुतिशिरःसंवेदनीयं सदा ॥ ७॥
पद्माकान्तपदारविन्दयुगलं संश्रित्य मन्मानसं
ब्रह्मेन्द्रादिसुरोत्तमाङ्गमकुट प्रोद्भासिरत्नश्रिया ।
चित्रं तत्र निरन्तरं निवसतिं कुर्यात्तथा ह्यम्बुजे
लब्धे लुब्धमधुव्रतः किमपरं पुष्पं श्रयेन्नीरसम् ॥ ८॥
नानार्थावगमाय कैटभरिपुर्मह्यं सुधीदीपिकां
कृत्स्नेनान्धतमिस्रनाशनचणां देयाद्दयावारिधिः ।
सूर्यश्चेन्न ददाति पङ्कजचयोल्लासं श्रियं कोऽपरो
देयान्मीलनहेतुकिल्बिषचयप्रध्वंसिनीं प्राणभृत् ॥ ९॥
वाक्कार्मुकं वरद मन्मथमल्लिकादि
पुष्पायुधोद्वहनकार्मुकवन्मदीयम् ।
त्वत्पादपद्मयुगलं मुनिवृन्दवन्द्यं
शुद्धैरलं परिकरोतु सुवृत्तरत्नैः ॥ १०॥
पद्माकान्तपदारविन्दनखरैर्निधूतदोषोदयै-
रक्षीणद्युतिभिः कलङ्करहितैस्ताराधिपो निर्जितः ।
भीत्या तिग्मकरे कदाचिदुदधौ शैले च मह्यन्तरे
स भ्रान्तो विचरन् ह्रिया परिवृतः शङ्कामहे लीयते ॥ ११॥
एतत्किं कमलं न तज्जलवृतं किं वा प्रवालं न तत्
काठिन्यं वहते परं तु सततं शाखाग्रसंशोभितम् ।
मन्ये पल्लवमित्यलं मुनिगणाः पद्माप्रियाङ्घ्रिद्वयं
निज्ञातुं न हि शक्नुवन्ति तरसा साक्षात्कृतं सम्भ्रमात् ॥ १२॥
पद्मानायकपादभावमुररीकृत्याम्बुजं चन्द्रमः-
पादौघेन पराहतं नखमिषान्मन्ये निरुन्धे विधुम् ।
चन्द्रत्वे तु खवर्जनान्नखपदं युक्तं नखानां तथा
पादाम्भोजयुगे पुनर्भवपदं युक्तं पुनस्सम्भवात् ॥ १३॥
शाखाग्रेषु कृतं स्थितिं सुमनसां वृन्देन नित्योच्छ्रितं
सद्रागं पदपल्लवं मधुरिपुस्वर्भूरुहस्यादरात् ।
चेतोभृङ्ग ममामृतात्मकफलं भक्ताय सा त्कुर्वतो
नित्यं संश्रयतां भवान् कुतुकवान् प्राप्नोति तस्मात्सुखम् ॥ १४॥
निर्वाणं नितरां न किं वितनुते स्वीयेन गन्धेन ते
पद्माकान्तपदद्वयं न तनुते मोदं श्रितालेः किमु ।
नादत्ते किमु हंसकश्रियमहो केनारविन्दाभिधं
न स्यात्तद्विधिसंश्रितं भवति चेदेतच्च का वा भिदा ॥ १५॥
पद्माकान्तपदारविन्दनखरः किं वा न वीक्ष्यः पदे
वासं याति न किं कलापरिवृतश्चन्द्रः कुतो नो भवेत् ।
पद्मश्रीपरिभाविपादनिलयः चन्द्रो यदि श्रीपतेः
पादद्वन्द्वनखोऽपि भेदकमतः किं वानयोर्वर्तते ॥ १६॥
त्वत्पादाब्जनखैर्मधुप्रमथन श्रीसम्पदा निर्जितः
चन्द्रो जेतुमशक्नुवन् पुनरमूनेतच्चिताङ्घ्रिप्रभम् ।
पद्मं रश्मिवितानकेन तनुते तेजःपहीणं जनाः
कुर्वन्ति द्विषता हताः प्रतिकृतिं तत्सङ्गते दुर्बले ॥ १७॥
कुप्यत्कालियभोगिभोगफलके रत्नाभिरामे हरे-
र्नाट्यं भूषणनिस्वनैः सुरुचिरं यत्पादपद्मं दधौ ।
तन्मे मङ्गलमातनोतु सततं हृत्पद्मनिष्ठं सदा
यद्ध्यात्वा विबुधाः प्रयान्ति सकलश्रेयःपदं शाश्वतम् ॥ १८॥
यत्पादपद्मरजसा महिलात्वमाप
पाषाणतामुपगतापि मुनीन्द्रपत्नी ।
यत्सम्भवा स्रगिव मूर्ध्नि हरस्य रेजे
गङ्गा मदीयहृदये कुरुतां स्थितिं तत् ॥ १९॥
नागान्तकस्य करपल्लवघट्टनेन
सञ्जातरागमिव भासुरमन्तरङ्गे ।
वृत्तिं करोतु मम सन्ततमङ्घ्रिपद्मं
लोकैकरक्षणपरस्य रमाप्रियस्य ॥ २०॥
पुरन्दरपराजय-प्रभवसर्वसम्पच्चयं
बलेरपि मनःक्लमं मघवतः श्रियश्चेशितुः ।
परत्व-विचिकित्सया पशुपति-प्रभुत्वभ्रमं
पराकुरुत यत्क्रमे पदयुगं हरेस्तद्भजे ॥ २१॥
प्रचण्डकरमण्डलप्रसृतरत्नजालाचित-
स्फुरद्रुचिरनूपुरच्छविभिरम्बरं छादयत् ।
विजृम्भिततमोनुदद्दिविजवृन्दवन्द्यं सदा
विभातु हृदये पदद्वयमधीशितुः श्रीह्रियोः ॥ २२॥
कमण्डलुजलैर्विभोः कलुषदारिभिः क्षालितं
कुरङ्गमदकुङ्कुमप्रचुरचन्दनावासितैः ।
विचित्रवरभूषणैर्विविधकान्तिरत्नोज्ज्वलैः
विभूषितमुपास्महे विबुधवन्द्यविष्णोः पदम् ॥ २३॥
कपर्दि शिरसस्तटं कपिलहुङ्कृतिध्वंसितान्
शतक्रतुहतक्रतोरपि रिरक्षिषाप्रोत्सुकान् ।
हयस्य पदवीं गतान् हतमहत्तमान् सागरान्
पवित्रयति यज्जलं हृदि विभासतां तत्पदम् ॥ २४॥
भवत्पदभवन्नखैर्निभृतकान्तिपूरैर्हरे
समीभवितुमुद्यते शशिनि रोषितैस्ते नखैः ।
भवत्पदभवद्धुनीचलजले स्वयं बिम्बितैः
सृजद्भिरपरान् विधून् विधुरकारि पङ्काङ्कितः ॥ २५॥
श्रुतिप्रचयघोषिते गगनतो महत्त्वे हरे-
रसम्भवमतर्कयन् जगति जन्तवः केचन ।
त्रिविक्रमपदाक्रमाद्गगनदभ्रभावे स्फुटे
जयध्वजपटीकृता हरिपदच्युता जाह्नवी ॥ २६॥
क्षितिं च बलिमस्तकं खमपि विक्षिपंस्त्रिक्रमैः
क्रमेण पदयोहरिर्जयति पूर्वमध्योत्तरैः ।
न देशसमयैः कृतोऽवधिरपि व्यवस्थां श्रुते-
रसम्भवविशङ्किनां जगति कर्मणा स्पष्टयन् ॥ २७॥
मणिप्रवरचित्रितैर्वरविभूषणैर्भूषितं
त्रिविक्रमपदद्वयं ध्वजरथाङ्गवज्राङ्कुशैः ।
सरोजमुखलाञ्छनैरपि परत्वविद्योतनै-
रलङ्कृतमुपेयुषो मम विराजतां मस्तके ॥ २८॥
श्रुतिप्रचयदूरगं श्रमविदारणं भूतले
प्रसार्य सरमः पुमांश्चरणमम्बरे चापरम् ।
प्रसन्ननखचन्द्रिकाततिभिरन्धकारं नुदन्
प्रपन्नजनताहृदां जयति वर्धयन् स्वं वपुः ॥ २९॥
त्रिविक्रमनखक्षपाकरकरालिविध्वंसिते
जगत्त्रितयसद्मनां मलिनचक्षुषां पातके ।
अनादिमिलदंहसां जगति मादृशां पातक-
प्रमार्जनपटीयते हरिपदच्युता जाह्नवी ॥ ३०॥
त्रिविक्रमपदोन्नतेरपघनो नृणां मानसे-
ष्वतुल्यकलुषाद्रिषु प्रतिविजृम्भितेष्वम्बरे ।
हरेः कुलिशमादिशत् कलुषशैलभेदार्थमि-
त्यवैमि विचलज्जलां हरिपदच्युतां जाह्नवीम् ॥ ३१॥
त्रिविक्रमपराक्रमात् तिमिरवृन्दविध्वंसनात्
नखच्छविभिरद्रिराड् रजतरूपतामभ्यगात् ।
सुमेरुरपि हंसकच्छविभिराप सौवर्णतां
पयोधिरपि नीलतां पदयुगस्य भासाध्यगात् ॥ ३२॥
त्रिविक्रमपदेऽम्बरे विलसति स्वभासा सुरा
जगत्त्रयतमोऽपहे हरिमथार्थयन् सन्नताः ।
सदा तिमिरनुत्तये स च रमापतिर्हंसक-
प्रभाभिरकरोद्रविं नखररश्मिलेशैर्विधुम् ॥ ३३॥
वटच्छदपुटे शिशोः शयितुरङ्घ्रिपङ्केरुहं
मुखाब्जविनिवेशितं मधुरसौघनिष्यन्दनम् ।
युगान्ततरणिप्रभाप्रसरदग्धदेहात्मनां
रसेन सुखदं भजे शुभशरीरसंवर्तिनाम् ॥ ३४॥
भजज्जनमनःस्थितः सुहरितत्त्वसंस्फोरणा-
दजस्रपरिपीडितो हरिपदं हि रागः श्रयन् ।
विजृम्भणमुपेयिवान् विजयते विरोधं स्मरन्
वटच्छदपुटस्थितं सुहरितत्त्वमेव श्रिया ॥ ३५॥
हिरण्यकशिपुप्रभृत्यसुरमुख्यसम्पीडिताः
विमोहपरिधूमित-प्रचुरशोकवह्न्यर्दिताः ।
सुरा अपि यदाश्रयान्नखसुधांशुसन्धुक्षिताः
स्वधामनि सुनिर्वृता हरिपदं तदाशास्महे ॥ ३६॥
आक्रान्तं भुवनं मयेति विबुधा गन्धेन वै निर्वृताः
सेव्ये पुण्यकृतां शिरोभिरतुलं रूपं ममास्तीति च ।
मा कार्षीररविन्द गर्वमधिकं राजत्सतां मौलिभिः
पद्मानायकपादपद्ममनघं त्वत्तोऽधिकं वर्तते ॥ ३७॥
नित्यं विष्णुपदाश्रिताः कुवलयं संरोचयन्तः कला-
सन्दोहेन निरस्तपङ्कजगणाः सद्भिः सदा संश्रिताः ।
आह्लादं सततं नृणां विदधतः के वा न कुर्यस्तमो-
भेदं शीतलरश्मिवत् सुमनसः सत्त्वाभिवृद्धिप्रदाः ॥ ३८॥
चतुर्मुखपदोद्धतै-श्चलितवज्रिहृत्पङ्कजैः
सुमालिमुखराक्षसैः सुमथितं सुराणां बलम् ।
चतुर्मुखशिवादिषु प्रबलभीतिषु प्रेक्षितुं
सुवर्णकरपङ्कजस्थितपदत्वरा रक्षति ॥ ३९॥
सुवर्णकमलाकरे सुबहुदिव्यरत्नाकरे
सुनीलघनडम्बरे हरिवपुःसुधाम्भोनिधौ ।
समुत्थितपदाम्बुजं सकललोकसम्मोहनं
सदावतु धराश्रियोर्ललितहस्तसंवाहितम् ॥ ४०॥
फणीन्द्रशयने फणामणिविचित्रकान्त्युज्ज्वले
कुशेशयमृदुत्वचि क्लमपरीमुषः सङ्गमात् ।
पदाम्बुजयुगस्य ते कटकधारिहस्ताब्जया
सुलोहितमभूत् किला किमु मुकुन्द संवाहनात् ॥ ४१॥
सुवर्णकनकाद्रिराडुपरिनीलमेघायित-
स्तदीयकरपङ्कजद्वयविषक्तपादाम्बुजः ।
सरोवरजवोच्छलन्मकरदष्टदन्तावलं
ररक्ष यदुपक्रमान्नरकहावतात्तत्पदम् ॥ ४२॥
प्रपन्नजनगोप्तृताव्रतमथ प्रभोर्मूलतां
प्रसिद्धकरुणं च तं द्विरदपुङ्गवं यत्त्वरा ।
जुगोप जगदन्तरा विततचन्द्रसच्चन्द्रिका-
विशुद्धयशसः श्रियं हरिपदं तदाभातु नः ॥ ४३॥
गुणाधिककृपासखी भगवतस्त्वरा रक्षितुं
समस्तजगदालयान् भगवदङ्घ्रिपङ्केरुहम् ।
प्रयापयति तत्कृपावशसमीरितान्मानसान्
पुरः स्वयमुपार्जितुं भुवनरक्षणोद्यद्यशः ॥ ४४॥
महायवनसेनया मरुदधीशसेनाद्रुहो
निरुद्धतलगोपुरे यदुकुलोद्वहानां पुरे ।
महाभयमपाकरोद्यवनमुख्यजातं त्वरा
मुकुन्दपदगोचरा सुमुचुकुन्दमुक्तिप्रदा ॥ ४५॥
स्फुरत्फणिवराकुलं प्रबलशक्रनक्राकुलं
सुरेन्द्रबलसागरं क्षुभितमुत्कटं कुर्वतः ।
हिरण्यकशिपोरुरःस्थलविदारणप्रोच्चल-
त्प्रभूतरुधिरोक्षिताः करनखा हरेर्भान्तु नः ॥ ४६॥
सन्मार्गस्खलनप्रधानकरणैः स्वीयैर्जलैः पङ्किलं
कुर्वन्तो भुवनं विचेरुरनिशं यत्रैव रक्षोधनाः ।
तत्रैवोदयमाससाद समये रामाङ्घ्रिपङ्केरहं
चित्रं प्राप पुरः श्रियं च भुवनं निष्पङ्कमत्यातनोत् ॥ ४७॥
दम्भोलिः कलुषाद्रिषु श्रितवतां हृत्पङ्कजेष्वर्यमा
रक्षोवृन्दतमोविदारणविधौ साक्षाज्ज्वलन् पावकः ।
कौसल्यादिदृगुत्पलोत्सवविधौ चन्द्रश्चयः स्यात् स्वयं
रामस्याङ्घ्रिसरोरुहस्थनखरो मन्मानसे सर्वदा ॥ ४८॥
कौसल्योदरसर्वसम्भवरमानेत्रोत्पलश्रीकल-
श्रीमत्सुन्दररामचन्द्रचरणश्चञ्चूड्यतां मानसे ।
यन्नेत्रैस्तृषितैः पिबन्ति मुनयः सन्तप्तदेहाः पुरा
दुर्वारत्रयनवादिदुःसहमहातापैश्चकोरा इव ॥ ४९॥
चित्रं रामकराभिमृष्टमनिशं भाति श्रिया स्वोदया-
दुष्णांशोः कुलमुत्पुनाति भुवने रामाङ्घ्रिपङ्केरुहम् ।
नित्यं पुण्यजनोत्तमाङ्गमहितं निष्पादयत्यद्भुतं
लोकं पुण्यजनप्रहीणममलैर्जन्मध्रुगप्यर्च्यते ॥ ५०॥
रक्षोभिः खरदूषणप्रभृतिभिर्नेतुं जगद्दूषितं
रक्षंल्लक्ष्मणपूजिताङ्घ्रिकमलो यात्रां हि यत्राकरोत् ।
रामस्तत्र तदीयपादकमलस्पर्शात् सुरेन्द्रादिभिः
दुष्प्रापं पदमाप वृक्षलतिकागुल्मादि सर्वं जगत् ॥ ५१॥
तमःप्रकृतिषु स्फुरत्सुरवधूमुखाम्भोरुह-
स्थिताधरसुधाशिषु द्विजवराशिषु स्वद्रुहः ।
(यदा)ननविधुन्तुदेष्वसहनं गतश्चन्द्रमा
रघूद्वहपदोल्लसन्नखशरत्वमेत्याक्षिपत् ॥ ५२॥
पादः पुनातु रघुवंशसमुद्रजात
श्रीरामचन्द्र भवतो मम मस्तकाग्रम् ।
क्षिप्तानि येन भुवनस्थितपङ्कजानि
येनैव तत्कुवलयं भजति प्रकाशम् ॥ ५३॥
क्षिप्तो वेदपथः क्षमाक्षयबलैः क्षेमक्षयात्क्षोभिता
क्षीणाः क्षोणिभृतः क्षरत्क्षतजयुक्क्षेत्राः क्षितोत्क्षेपिताः ।
इत्थं क्षोणितलं क्षपाचरगणैः क्षिप्तं क्षणात् प्रापितं
क्षेमं लक्ष्मणपूज्यलक्षणभृता लक्ष्मीप्रियाङ्घ्रिश्रिया ॥ ५४॥
किरीटनिक्षिप्तमणिप्रकाश-
नीराजितं पादसरोजयुग्मम् ।
रामस्थ सेवे रघुपुङ्गवस्य
ब्रह्मेन्द्ररुद्रादिसुरेश्वराणाम् ॥ ५५॥
पायात् पोषितराजहंसनिचये भूभृत्प्रभोर्मानसे
नित्यं जातबलापवारणकरे सञ्जीवनत्यागिनि ।
स्वोत्पत्त्या विदधत्प्रसादमतुलं रामाङ्घ्रिपङ्केरुहं
पङ्कच्छेदि शिरोभिरुत्तमजनैः संसेव्यमानं सदा ॥ ५६॥
सरयूपवने वरयूपमये चरतः परितः समया रमया ।
कलये वलयाभरणौ चरणौ सुनखावनघौ मनसा शिरसा ॥ ५७॥
हृदये सदये निदधे विदध-
च्चरणे शरणे निरतं विरतम् ।
करुणावरुणावसथः सपथः
प्रभुवं प्रभवो जगतः स्वगतं (?) ॥ ५८॥
जम्भारिमर्दनविमर्दितदिव्यदेहा
बर्हिर्मुखा युधि दिशो दश विद्रवन्तः ।
भानोः कुले भगवतः पदपद्मयुग्मं
ध्यात्वाभवन् सुमनसः सुमहारिनाशात् ॥ ५९॥
मारीचादिसुरारिवृन्दनिधनव्याजेन भूमण्डलं
सञ्चारेण पदारविन्दयुगलं यद्राघवस्यापुनात् ।
विश्वामित्रमुनीन्द्रयज्ञतपसां सिद्धिश्च यद्दर्शनात्
तन्निःश्रेयसमातनोतु मुनिभिः सम्पूज्यमानं सदा ॥ ६०॥
चरणौ शरणागतप्रियः
करुणावारिधिरब्जलोचनः ।
वरुणालयपाणिमर्दिता-
वरुणाम्भोजनिभौ ददातु मे ॥ ६१॥
जङ्घे जगत्रितयविक्रमजाङ्घिकत्वे
हेतू मधुप्रमथनस्य मनोज्ञरूपे ।
नीलाश्मनिर्मितमनोज्ञगदासरूपे
मालिन्यखण्डनपरे भवतां मनःस्थे ॥ ६२॥
लक्ष्मीनायकजानुनी भुजयुगायामावधी मामके
भासेतां हृदये कराम्बुजयुगस्पर्शेन रोमाञ्चिते ।
उत्सङ्गोपरि सुन्दरे विनिहिते संवाहनार्थं श्रिया
रत्नादर्शसभानरूपसहिते सत्कान्तिपूरावृते ॥ ६३॥
कुम्भीन्द्रहस्तकदलीकरभेन्द्रनील-
स्तम्भाभिभूतिचतुरौ गुणवैभवेन ।
ऊरू रमाप्रणयिनः कमनीयशोभौ
नित्यं मदीयहृदये कुरुतां निवासम् ॥ ६४॥
मेघः किमेष चपलानिचयेन युक्तः
सिन्धुः किमेष बडबामुखवह्नियुक्तः ।
इत्थं सदामरगणा हि विचिन्तयन्ति
पीताम्बरेण सहितं हरिमीक्षमाणाः ॥ ६५॥
लल्मीकान्तकटीतटीनवमणिश्रेणीसमुल्लासित-
स्वच्छस्वर्णमयप्रभाकरकरश्रीचोरसन्मेखला ।
वर्णोत्कृष्टसुतप्तहाटकपटीसञ्छादिता मानसे
नित्यं भातु तदन्तरालनिवसद्ध्वान्तच्छटापाटिका ॥ ६६॥
यस्मात्तोयरुहाद्विधिस्त्रिजगतामीशः प्रभूतः पुरा
यस्मिन्नीलसरोजपत्रसदृशं व्योम द्विरेफाकृतिम् ।
गत्वाराजत तच्च यत्र सरसि प्रादुर्बभूवाम्बुजं
नाभौ तद्गुणसंहतेर्विवरणे देवो न शक्तो विधिः ॥ ६७॥
श्रीवत्सं दनुजार्दनस्य रुचिरे वक्षःस्थले संश्रितं
श्रीर्वत्सं किमु जानती करुणया तत्सन्निधौ वर्तते ।
यद्वा क्षीरपयोनिधावुदयनात् सौन्दर्यबुद्ध्या शुभं
हृद्यं कौस्तुभनामकं मणिवरं द्रष्टुं किमत्रागता ॥ ६८॥
लक्ष्मीकटाक्षा मधुमर्दनोरःस्थले विराजन्ति सदा भ्रमन्तः ।
षडङ्घ्रयः श्रीतुलसीसुगन्धमत्रागता लेढुमिव प्रवृद्धम् ॥ ६९॥
मधुद्विषदुरःस्थले मृदुलरत्नसिंहासने
मनोभवतनोरपि श्रियमुपेयुषि श्रेयसि ।
चराचरविचारणक्रममुपेयुषा श्रेयसा
कटाक्षविसरेण नोऽवति रमेक्षमाणा स्थिता ॥ ७०॥
सर्वाभीष्टफलप्रदानचतुरे भूभर्तृभावोज्ज्वले
नित्यं भावविवर्धने घनरसाश्लेषे प्रिये मारुतैः ।
नित्यं वृद्धिमुपागते निवसतिं लब्धावताद्रूपिणी
विद्युद्विष्णुपदाश्रयाद्विलसती जन्म श्रितावारिधौ ॥ ७१॥
सर्वाभीष्टफलप्रदानचतुरे शाखाभिरुद्भासिते
स्निग्धश्रीकरपल्लवारुणशुभस्कन्धोज्ज्वले श्यामले ।
मध्यस्था हरिचन्दने विलसती श्रीकल्पवल्ली श्रिता-
नस्माँल्लोचनषट्पदैः करुणया संवीक्षमाणा सदा ॥ ७२॥
कार्यद्रव्यनिदानकारणतया जोघुष्यमाणे गुणै-
राश्लिष्टे निजरूपसम्पदुचितात् सत्त्वान्महत्त्वात् सताम् ।
प्रत्यक्षे निरपायसङ्गमुचितं प्राप्ता परा जातिवत्
द्रव्येऽस्माकमुपेयुषां नयनभूर्भूयात् सदा सेन्दिरा ॥ ७३॥
विद्वद्भिः पुरुषार्थसाधनतया सम्प्रार्थ्यमाने गुणै-
रङ्गैः कर्मभिरुज्ज्वले घनरुचा रूपश्रिया राजिते ।
क(श)स्ते स्तोत्रमुखैः प्रकाशमतुलं सम्प्रापिते दक्षिणां
विष्णावध्वरदक्षिणेव कमला संराजतेऽस्मादृशाम् ॥ ७४॥
धातुर्व्याप्तचिरन्तनप्रकृतिसंस्थानश्रिते साधुता-
शालिन्यन्तकृदादिशिक्षणयुते विद्वद्भिरत्यादृते ।
शाब्दब्रह्मणि दुर्विवेचनतया नित्यानुबन्धं गता
श्रीरास्तां करुणामयी प्रकृतिवज्जिह्वाग्रभागेषु नः ॥ ७५॥
पङ्कच्छेदिनि पालितत्रिभुवने पङ्केरुहश्रीकरे
पादस्पर्शपराकृताखिलतमस्तोमे परे ब्रह्मणि ।
पायादंशुमति प्रभेव परमव्योमाश्रये संस्थिता
पद्मापाङ्गनिरीक्षणैः प्रतिकलं पश्यन्त्यनन्याश्रितान् ॥ ७६॥
पद्माया मुखमम्बुजं सुविमले नेत्रे च नीलोत्पले
तस्याश्चित्तमशोकमब्जवसतेर्वेण्यां स्थिता मल्लिका ।
चूतं पाणितलं ततः स्मरशराः पञ्चापि तत्रासते
तैर्नित्यं परिमोहितः किमु हरिर्निद्राति गेहे चिरम् ॥ ७७॥
पद्माया मुखमम्बुजं सुविमले तत्रापि नीलोत्पले
नेत्रे तत्र कनीनिका मधुकराः सञ्चारकाः सर्वदा ।
नीलाम्भोदरुचिर्हरेः कलियुगेष्वातन्वि तेनान्यथा
शुद्धस्फाटिककान्तियुक्ततनुता प्रौढिं गतस्य ध्रुवम् ॥ ७८॥
मुक्ताहारविराजिते मणिवरश्रीसम्पदोद्भासिते
लक्ष्मीलोचनषट्पदैरनुकलं पेपीयमाने मुदा ।
श्रीवत्साङ्कितवक्षसि श्रीतवतामानन्दसन्दोहने
श्रीशस्यानिशमन्तरङ्गमधिकं सक्तं भवेन्मामकम् ॥ ७९॥
लक्ष्मीपादसरोजयावकरसस्पर्शेन मुद्राङ्किते
गोपीतुङ्गपयोधरादरवतो गोपालकस्याद्भुते ।
मुक्ताहारमयी विराजति रमाकान्तस्य वक्षःस्थले
लक्ष्मीमन्दिररक्षिबाह्यपरिघा क्षीराम्बुधेः कुल्यका ॥ ८०॥
सूर्याटोपदलत्सदाघनरुचिव्याप्तं स्फुरत्तारकं
कान्तं नित्यमनन्तमाश्रितवती विश्वप्रियाधायिनी ।
लक्ष्मीरिन्दुकलेव राजति तमस्स्तोमच्छिदां कुर्वती
ह्यस्मन्नेत्रचकोरपारणकरी सत्सञ्चयश्रीकरी ॥ ८१॥
राज्याभिषेकसमये रघुपुङ्गवस्य
शक्रेण सादरसमर्पितपद्ममाला ।
वक्षःस्थले वहति वारिदमध्यगामि-
विद्युत्प्रभां कनकरत्नमयी विचित्रा ॥ ८२॥
लक्ष्मीमन्दिरमिन्दिराप्रणयिनो वक्षःस्थलं राजतां
कस्तूरीधनसारकुङ्कुमरजःपङ्कैः सदा वासितम् ।
मुक्तादामभिरुज्ज्वलं मणिमयैः सम्भूषितं भूषणैः
अस्मन्मानसपङ्कजे हरिधनुश्चित्रं स्फुरत्कौस्तुभम् ॥ ८३॥
लक्ष्मीरिन्दुकलेव राजति शुभानन्तस्य वक्षःस्थले
नित्यं पङ्कजबाधिनी कुवलयानन्दप्रदा वारिधौ ।
जाता विष्णुपदाश्रिता हरशिरःसंसेविता शारदो-
ल्लासैः सर्वजगत्प्रमोदनकरी हृत्पुण्डरीकस्थिता ॥ ८४॥
लक्ष्मीस्तुङ्गपयोधरावृततले मुख्यामृतास्वादना-
यानर्धैर्मणिभिर्विराजिततले मीनादिभावोज्ज्वले ।
रामालब्धनिजान्तरे विलसती श्यामेन्द्रनीलाम्बुधौ
सङ्गं प्राप्तवती निरन्तरमियं मन्मानसावासिनी ॥ ८५॥
पा(पु)ण्या कराङ्घ्रिकमलेक्षणतारकादि-
नीलोत्पलभ्रमरशोभितगात्रवल्ली ।
लक्ष्मीर्विभाति तटिनीव महीभृतोऽन्त-
र्नागेन्द्रवासरसिकस्य रमाप्रियस्य ॥ ८६॥
लक्ष्मीतुङ्गपयोधरावृततले सत्यश्रियोद्भासिते
नानाधातुविमिश्रिते शुभगुहावासे हरिक्ष्माभृति ।
पद्मा निर्झरिणीव भाति मकरीचित्रा मनोहारिणी
सन्मीनाद्यवतारनित्यरसिका ह्यस्मादृशां पावनी ॥ ८७॥
रेखाभिस्तिसृभिस्त्रयीमवधृतश्चोल्लासयन् सीमभिः
वर्णोत्कर्षविराजितो रिपुगणान् सम्भीषयन् स्वोद्भवैः ।
गम्भीरध्वनिभिर्विराजति हरेः कण्ठः सदा कम्बुवत्
मुक्ताहारमयूखशुक्लिमयुतो मन्मानसाम्भोरुहे ॥ ८८॥
ग्रीष्मर्तुस्फुरदंशुमत्करसमश्रीमन्मणिश्रेणिका-
रोचीराजिविराजिताङ्गदलसद्वाहूदारलङ्कृतः ।
तद्भोगायितहेमरत्नकटकश्रीमत्कराम्भोरुहः
पायान्नः परमः पुमान् करुणया संवीक्षमाणः सदा ॥ ८९॥
चत्वारो भुजगा इवासुररिपोर्विंष्णोरराजन् भुजाः
तद्भोगा इव सुन्दरा मुररिपोस्तेषामराजन् कराः ।
तद्भोगस्थितरत्नवत्कररुहा राजन्ति रत्नश्रिया
तद्भासेव करा विरेजुरनिशं रक्तोत्पलश्रीमुषः ॥ ९०॥
भास्वत्कोटिनिरासकारिकिरणस्तोमेन सर्वं जगत्
कुवणिं भयहीनमुज्ज्वलशिखाजालैः सुरद्वेषिणाम् ।
भास्वद्रत्नकिरीटकुण्डललसच्छीर्षच्छिदाकारणं
चक्रज्योतिरुपास्महे मधुरिपोर्वामान्यहस्ताश्रयम् ॥ ९१॥
वैरिञ्चप्रलयानलप्रतिभटं भास्वत्परार्धप्रभं
कृत्याभेदविनाशि खण्डपरशोः काशीपुरप्लोषणम् ।
सर्त्विक्सङ्घसुदक्षिणप्रशमनं चैद्यादिनिर्वापणं
चक्रं ज्योतिरुपास्महे निरुपमं विष्णोः करश्रीकरम् ॥ ९२॥
सूर्येन्द्राग्नियमानिलादिभयदज्वालासहस्रावृतं
कृत्याप्रेषणदुर्नयेन कुपितं दुर्वाससः पार्थिवम् ।
कल्पान्तानलभीषणं मुनिवरप्राणापहारोत्सुकं
कान्तं स्तोत्रगणैर्महीभृदुदितैश्चक्रं महः पातु नः ॥ ९३॥
एतत्किं मह एव नाधिकरणं षट्कोणसंस्थाकृते-
यद्येतन्महसो निदानमपरं ज्वालाः कुतः सर्वगाः ।
धारास्ता इति चेन्न भेदधिषणाभावान्महश्चक्रयोः
भेदो वा किमभेद एव न वयं जानीमहे तत्त्वतः ॥ १४॥
ज्वालाकेसरभासिमध्यनिवसत्षद्कोटिसिंहासन-
श्रीमत्कोशविराजितं हरिकरस्पर्शाद्विकासं गतम् ।
नित्यं मामकमानसे विलसताच्चक्राब्जमन्तस्तम-
स्तोमच्छेदिसहस्ररश्मिविलसद्भास्वत्परार्धप्रभम् ॥ ९५॥
रूपं यस्य शशिप्रभं श्रुतिमयो यस्मिन् रसः सर्वदा
यत्पानादवनीभृदुत्तमपदं दुष्प्रापमापद्ध्रुवः ।
शब्दो यस्य सुरारिमुख्यहृदये शोकप्रदः सर्वदा
सोऽस्तु श्रीधरवामहस्तनिलयः शङ्खः स्फुरन्मानसे ॥ ९६॥
यन्निर्ह्रादविदारिताः सुररिपुप्राकारदुर्गादयो
यन्निर्ह्रादविभीषिता दश दिशो विद्राविताः शत्रवः ।
यन्निध्यानविनिर्मलीकृतधियः सन्तः समुत्तारिताः
सोऽस्मन्मानसपङ्कजे विलसतु श्रीशङ्खराजः सदा ॥ ९७॥
कौमोदक्यनिशं विभातु हृदये वैकुण्ठपाणिग्रहा
रत्नोद्भासिसुवर्णविग्रहवती सन्मेरुसारास्पदम् ।
सम्पिष्टासुरवृन्दमांसरुधिरश्लक्ष्णाङ्गरागान्विता
नित्यं वीररसोत्सुकाश्रितजनश्रेयोऽभिवृद्धिप्रदा ॥ ९८॥
देवारातिकठोरकण्ठनिकषग्रावच्छिदोल्लेखनात्
तैक्ष्ण्यं प्राप्तमतीव केशवकटिश्रीकारणं नन्दकम् ।
नीलं वर्णमिवाश्रयादुपगतं वह्निं विहायस्थितं
धूमस्तोममिवाश्रयेऽहमनिशं पापाद्रिभेदक्षमम् ॥ ९९॥
ज्यानिस्वानविदीर्णवैरिहृदयप्राणोरगोत्सारण-
प्रादुर्भूतपराक्रमार्जितयशोव्याप्ताखिलाशान्तिमम् ।
भास्वद्रश्मिसमानबाणनिकरोच्छुष्मीकृतारिप्रभा-
नीरं कार्मुकमाश्रयेऽहमनिशं विष्णोः करश्रीकरम् ॥ १००॥
चक्रं दक्षिणपाणिपङ्कजदले सूर्यायमाणं वहन्
शङ्खं वामकराम्बुजे कृतरुचिं हंसायमानं वहन् ।
भृङ्गावल्युपमं कराम्बुजतले खड्गं परे संवहन्
विष्णू राजति वारिताखिलरिपुर्हस्तान्तरे सद्गदाम् ॥ १०१॥
सौरभ्यरक्तिममृदुत्वसमञ्चितस्य
विष्णो तवाधरदलस्य मनोज्ञरूपाः ।
एकद्वियोगसहिता मधुकैटभारे
बिम्बप्रवालविटपा न ससा भवन्ति ॥ १०२॥
मुक्ता मुखाम्भोजनिवासमेत्य
दन्तच्छलात्ते दनुजेन्द्रशत्रो ।
मुक्ता बभूवुर्जलजन्मवत्त्वेऽ
प्यहो महीयान् गुणसन्निकर्षः ॥ १०३॥
मन्दस्मितं मधुरिपोर्मुखचन्द्रबिम्बे
ज्योत्स्नायते जितनिशाचरबालकस्य ।
करतूरिकातिलकमेति कलङ्कशोभां
लीलावशेन विधृतं रुचिरे ललाटे ॥ १०४॥
कन्दर्पः कमलापतेर्मुखरथं दन्ताधराम्भोजस-
न्मुक्ताविद्रुमभूषितं त्रिजगतां सम्मोहना यध्रुवम् ।
नासाभ्रू युगवीक्षणादिशरधीष्वासेषुमुख्यायुधैः
सज्जंह्यातनुते ततो हि मुनयस्तद् ध्यानिनो मोहिताः ॥ १०५॥
आकर्णान्तविशाललोचनयुगं पद्मादरात् संश्रिता
भृङ्गाणामि मियमालिरित्यकुरुतां बुद्धिं जनानां भ्रुवौ ।
वेतण्डाचलवासिनो मधुरिपोर्यत्रासने तत्सदा
पश्येयं वरदप्रभोर्मुखमहं रत्नस्फुरत्कुण्डलम् ॥ १०६॥
सौन्दर्यामृतदीर्घिका मुररिपोः कर्णद्वयी कुण्डल-
प्रत्युप्तानघरत्नकान्तिनिचयप्रद्योतिगण्डस्थला ।
नेत्रद्वन्द्वविशालतावधिरघश्रेणीसमुत्सारिणी
शष्कुल्या सदृशी विभातु हृदये रेखाभिरुद्भासिता ॥ १०७॥
विष्णोर्दक्षिणलोचनं दिनकरो वामं तु ताराधिपो
लोकानन्दक इत्यलं मुनिगणा वक्तुं प्रवृत्ता मृषा ।
दृग्रूपेण तयोः स्थितौ मुररिपोर्नास्ति प्रसक्तिः परं
तत्तुल्यं प्रतिबिम्बितं नयनयोस्तच्छङ्खचक्रद्वयम् ॥ १०८॥
कस्तूरीतिलकाङ्कमन्दहसितज्योत्स्नाननेन्दुं हरे-
रस्मन्नेत्रचकोरयुग्ममनिशं पेयान्मुदा यस्तमः ।
कौटिल्यालयकुन्तलाकृतियुतं सद्रत्ननिर्यत्प्रभा- ।
जालोल्लासिकिरीटसूर्यसहितश्चक्रेऽन्तरापीडितम् ॥ १०९॥
पद्मानायकपादपद्मयुगलीमास्वाद्य तज्जङ्घयोः
स्थित्वोरुद्वयमाप्य तत्कटितटीमाश्रित्य तन्नाभिजम् ।
पद्मं प्राप्य रमापरिग्रहमुरः प्राप्यायुधालङ्कृतान्
हस्तानाप्य मुखाब्जतन्मकुटयोर्मन्मानसं स्याद्ध्रुवम् ॥ ११०॥
श्रीमत्कौशिकवंशवारिनिलयादाचार्यरत्नाकरात्
कृष्णार्यः समभूत् कलापरिवृतः शीतांशुना निर्मितः ।
सूनुर्वेङ्कटकृष्णनामसहितस्तस्याकरोद्वैष्णवं
श्रीपादादिशिखावधिस्तवमिमं मुख्यं समृद्धार्थकम् ॥ १११॥
॥ इति श्रीवरदराजशतकं सम्पूर्णम् ॥
Proofread by Musiri Janakiraman