श्रीवरदराजस्तोत्रम्

श्रीवरदराजस्तोत्रम्

दद्यान्मे देवराजो वितरतु भगवान् मङ्गलं मङ्गलाना- मावासो हस्तिशैले मणिमयशिखरे शेखरो दीप्यमानः । लक्ष्मीनाथो दयालुर्विधिमुखविबुधैर्वन्दितश्रीपदाब्जः सर्वेषामिष्टदाता स्मितमधुरमुखः श्रीनिधिर्लोकनाथः ॥ १॥ हस्त्यद्रौ पुण्यकोट्यां विलसितममलं वत्सलं देवराजं शेषाद्यैः सूरिसङ्घैर्नतपदकमलं लोकानाथं दयालुम् । पारावारप्रसूतापदकमललसल्लाक्षया लक्षिताङ्गं वेदान्ते पाश्चरात्रे प्रविदितविभवं वन्दिषीय क्षमाब्धिम् ॥ २॥ तीरे श्रीवेगवत्या विलसति विमलैरुत्तरे पुण्यकोट्यां सर्वाभीष्टप्रदाता प्रवरगुणनिधिर्देवरजो मुकुन्दः । वेदान्तेषु प्रसिद्धः सरसिजनयनो भासमानप्रभावः दिव्यं कल्याणमाद्यं दिशतु मम पदं वत्सलः स्वाश्रितानाम् ॥ ३॥ अनन्तगरुडादिभिः प्रणतपादपद्मो रमा- स्तनस्तबकचञ्चलो वरादराजभृङ्गः सदा । मुदा मम हृदम्बुजे रमतु हस्तिशैलाभु- र्नितान्तललिताननः कमलदिवयनेत्रोज्ज्वलः ॥ ४॥ सुवर्णमकुटोज्ज्वलं सुभगदिव्यनीलालकं ललाटफलकोल्लसत्तिलकपुण्ड्रन्दीप्राननम् । विचित्रमणिभूषणज्वलितनीलगात्रप्रभं भजे करिगिरीश्वरं वरदराजमत्युज्ज्वलम् ॥ ५॥ रथाङ्गजलजाङ्कुशध्वजसरोजरेखादिभिः स्वलङ्कृतलौ बहिर्विलसदिन्द्रनीलप्रभौ । विकासिकमलोपमौ विविधरत्नभूषोज्ज्वलौ करीशचरणौ भजे सकलभक्तसौख्यप्रदौ ॥ ६॥ सुकल्पकतरुश्रिया तुलितदिव्यजङ्घोज्ज्वलं कनत्प्रभककुत्समज्वलितभास्वदूरुप्रभम् । कटीतटसमुल्लसत्सुभगदिव्यपीताम्बरं भजे करिगिरीश्वरं वरदमब्जनीलप्रभम् ॥ ७॥ सनाभिकनकप्रभज्वलितयज्ञसूत्रोज्ज्वलं मणीन्द्रकमलालसद्विपुलदिव्यवक्षःस्थलम् । करीन्द्रकरसन्निभस्फुरितवृत्तबाहोज्ज्वलं भजे करिगिरीश्वरं विलसदसभूषोज्ज्वलम् ॥ ८॥ लसद्गलसमुज्ज्वलस्फटिकरत्नहारोज्ज्वलं विलास्यधरपल्लवप्रभवदिव्यमन्दस्मितम् । सुफालतलमुन्नसं नमितसुन्दरभ्रूयुगं भजे करिगिरीश्वरं विकचपद्मनेत्रोज्ज्वलम् ॥ ९॥ सुनीलघनसन्निभं सुभगदिव्यरत्नाढ्यक- स्फुरन्मकुटशोभितं कनकदिव्यभूषोज्ज्वलम् । दयागुणपयोनिधिं दरदलत्सरोजाननं भजे करिगिरीश्वरं वरदराजमत्यद्भुतम् ॥ १०॥ अव्यादव्याजबन्धुर्दिवि भुवि जगतां वेदशास्त्रप्रशस्तः लोकानामाभिमुख्ये त्वभिमतवरदो देवदेवाधिराजः । भक्तानां दोषभोग्यः करिगिरिशिखरप्रोल्लसत्कल्पवृक्षः संसाराब्धौ निमग्नं मदनपरवशं दुर्दशं दुगुणं माम् ॥ ११॥ मेघश्यामः कृपालुः करिगिरिशिखरप्रोज्ज्वलत्पारिजातः पद्माक्षः पद्मपाणिः सरसिजवदनः सर्ववेदान्तवेद्यः । मुक्तादामप्रभास्वन्मणिवरकमलावन्सजाज्वल्यवक्षाः पित्रादिर्बन्धुवर्गो मम किल विविधः पातु मां देवराजः ॥ १२॥ अब्जानाथः पदाब्जप्रणतजननिधिः प्रज्वलत्कौस्तुभादि- श्रीभूषादीप्रगात्रः प्रवरगुणनिधिर्नीलमेघप्रभाभः । सर्वज्ञः सर्वधाता शकनबलयुतः सत्यसङ्कल्पमानो- भूतानामादिबन्धुः करिगिरिवरदः पातु मां देवराजः ॥ १३॥ असारं संसारं धिगशुचिमलजं हृदय मे निराबाधं नित्यं कमलनयनं शेषशयनम् । करीशं कन्दर्पप्रभममलकल्याणगुणकं मुरारिं लोकेशं मधुमथनमाद्यं भज हरिम् ॥ १४॥ जगन्नाथं नाथं भज हृदय नाथं प्रणामता- मानाथं मानाथं कमलभववन्द्यं गुणनिधिम् । पयः पारावारप्रभववदनं पद्मचरणं मदीशं हस्तीशं मदनशततुल्यं मुरभिदम् ॥ १५॥ करीशं लोकेशं कमलचरणं भक्तरमण मुमेशब्रह्मेन्द्रप्रमुखसुरसङ्घस्तुतपदम् । घनाभं श्रीनाभिप्रविलसितसूत्रोज्ज्वलतनुं भजेयं देवेश शुभगुणसुधाम्भोनिधिमहम् ॥ १६॥ रथाङ्गं श्रीशार्ङ्घं प्रणतजनरक्षार्थममलो हरिः शङ्खं खड्गं सततमपि बिभ्रन्मुररिपुः । गरिष्ठश्रेष्ठानां करिगिरिलसन् कल्पकतरु- र्वरिष्टं कल्याणं दिशतु मम वात्सल्यजलधिः ॥ १७॥ कलानाथःक्षीरप्रभवलसदास्यस्मितरुचि- र्दयासिन्धुर्बन्धुर्मम तु करिशैलोज्ज्वलतरुः । जगन्नाथो दिव्यस्फटिकमकुटप्रोज्ज्वलतनुः मम क्षेमं दद्यादतुलगुणवात्सल्यजलधिः ॥ १८॥ विधोशाधीशानो विनतजनताकल्पकतरुः करीशः पद्मेशः परमपुरुषो वत्सलतरः । सुशीलो देवेशः कमलनयनः सौम्यवदनः मम क्षेमं दद्यादतुलमहिमा भक्तरमणः ॥ १९॥ सदामारामोराः करिगिरिशिरोभूषणवरः दयापारावारः परमपुरुषो मङ्गलनिधिः । गुणानां पाथोधिः सुभगसुलभोदारचरणो मन क्षेमं दद्यादतुलमहिमा भक्तरमणः ॥ २०॥ सकलभुवननाथः सर्वबन्धुर्दयालु- र्विमलमधुरमन्दस्मेरवक्त्त्रारविन्दः । कलशजलधिकन्याप्राणनाथो मुकुन्दः प्रणतवरदराजः पातु मां देवराजः ॥ २१॥ इति श्रीवरदराजस्तोत्रं सम्पूर्णम् । Proofread by Saritha Sangameswaran
% Text title            : Shri VaradarAja Stotram 06 06
% File name             : varadarAjastotram2.itx
% itxtitle              : varadarAjastotram 2 (dadyAnme devarAjo vitaratu bhagavAn)
% engtitle              : varadarAjastotram 2
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Saritha Sangameswaran
% Description/comments  : prakIrNastotrANi Stotrarnavah Ed. T.Chandrasekharan 1961 From stotrArNavaH 06-06
% Indexextra            : (Scan)
% Latest update         : March 27, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org