वस्त्रहरणम्
श्रीवल्लवेन्द्रनन्दनाय नमः ।
वन्याश्रिता मुरारिः कन्याः सन्यायमुन्मदयन् ।
अन्याभिलाषितां ते धन्यार्पितसौहृदो हन्यात् ॥ १॥
सहसि व्रतिनीरभितः कृतिनीर्गिरिजास्तवने सलिलाप्लवने
कलितोल्लसनाः किल दिग्वसनास्तटभाक्पटिका रसलम्पटिकाः
स्फुटबाल्ययुताः पशुपालसुताः कुतुकी कलयन् मतिमुल्ललयन्न्
उपगत्य मनोभववत्कमनो हृतवान् सिचयान् सुहृदां
निचयान्तरगं तरसा प्रियकं स्वरसादधिरुह्य नगं तटकाननगं
कृपया स्नपयन्नथ तास्त्रपयन् पृथुलां सरटीधृतधौतपटी
पटलो हसितप्रभोयोल्लसितः शृणुत प्रमदा गिरमश्रमदां
उपगत्य हितामभितः सहिता यदि वा क्रमतः स्फुटविभ्रमतः
सिचयान्नयत च्छलनं न यतः कथितं न मया जनुषः समयाद्
अनृतं ललिता यशसोज्ज्वलिता विदुरिन्दुहृदस्तदमी सुहृद-
तनवै न हसादुदितं सहसा बत यूयमिता व्रततः श्रमिता
इति सङ्कथयन् पटुतां प्रतह्यन्नतिचञ्चल हे विश मा कलहे
वितराद्य पटं कुरु मा कपटं करवाम सदा वचनं रसदा-
तव दास्यपरा न वयं त्वपरा न हि चेत् त्वरितं निखिलं चरितं
खलु राज्ञि तव प्रबले कितव प्रगदाम मदोद्धतघोरमदो
वचनं च रुषा प्रसरत्पुरुषाक्षरमित्युदितं सरुषा रुदितं
जडताकलिले यमुनासलिले विलसद्वपुषां गुरुकम्पजुषां
चलचारुदृशां बहुधा सुदृशां निशमय्य ततः प्रणयी सतत
स्मितचन्द्रिकया स्फुरितोऽधिकया यदि यूयं ऋते मम वागमृते
भवथ ग्रहिला नियतं महिला उपसृत्य ततः प्रियकात् पततः
स्वपटीपदकान् स्वपरिच्छदकान् उररीकुरुत प्रमदाद् गुरुत-
त्यजतानुचितं हृदि सङ्कुचितं न हि चेन्नितरां न पटान्
वितराम्युरुवीर्यचये मयि किं रचयेन्नृपतिः परितः स रुषा भरितः
स्फुटमित्यमलं निगदन् कमलं भ्रमयन्न् उदितः शशिवन् मुदितः
स्वकराम्बरिणीरथ ता हरिणीनयनाः कलयन् स्वशिरश्चलयन्
बत नग्नतया स्पृहयोन्नतया जलमज्जनतः कृतवर्जनतः
कपतेर्जनिता लघुता वनितास्तदलं दुरितक्षतये स्फुरित
द्युतिसुन्दरयोर्युगलं करयोः शिरसि प्रयता द्रुतमर्पयता
रुणमित्यधुना निजवाङ्मधुना परिलभ्य मदं हृदि विभ्रमदं
किरतीभिरलं नयनं विरलं रचिताञ्जलीभिः प्रमदावलीभिः
प्रणतो मधुरः कृतकामधुरः सुभगङ्करणं वसनभरणं
विहितानतये लालनाततये दददङ्कुरितप्रणयच्छुरितः
परितो हृषिते मदनोत्तृषिते त्रपया नमिते प्रियसङ्गमिते
नवरागधरे द्युतिभागधरे हसिताङ्कुरतः स्फुरिते पुरतः
स्थगिते रसनाविलसद्वसनाकुलिते पृथुना स्फुटवेपथुना
चलदग्रकरे प्रमदाप्रकरे विहितेष्टवरः प्रणयिप्रवरः
सुतरां सुखिभिर्वलितः सखिभिर्बहुधाखुरलीविलसन्मुरली
नवकाकलिकालिभिरुत्कलिकाकुलमुन्नमयन् सुदृशां रमयन्
धियमुन्मदनः कृपया सदनप्रहितप्रमदः कलितप्रमदः
कुसुमस्तवकं श्रवणे नवकं दधदाभरणं जगतां शरणं
जय केशिहर प्रमणा विहर त्वमतिप्रणयं स्वजने प्रणयन्
मयि दुर्हृदये भगवन् विदये कलयेररुणाधर हे करुणाम् ॥ १॥
कुसुमस्तवकच्छन्दः
यस्य स्फूर्तिलवाङ्कुरेण लघुनाप्यन्तर्मुनीनां मनः
स्पृष्टं मोक्षसुखाद् विरज्यति झटित्यास्वाद्यमानादपि ।
प्रेम्णस्तस्य मुकुन्द साहसितया शक्नोतु कः प्रार्थने
भूयाज् जन्मनि जन्मनि प्रचयिनी किन्तु स्पृहाप्यत्र मे ॥ २॥
इति श्रीरूपगोस्वामिविरचितस्तवमालायां वस्त्रहरणं सम्पूर्णम् ।