वसुदेवसुताष्टकम्
वनमालयुतं स्मितहास्यरतं
मृदुवासितकुञ्चितकेशयुतम् ।
सितचन्दनचर्चितभालतटं
प्रणमामि हरिं वसुदेवसुतम् ॥ १॥
घनगोपकदम्बवने वसितं
शुभवेणुनिनादसुधाधरितम् ।
प्रणवाकृतिविग्रहधर्मरतं
प्रणमामि हरिं वसुदेवसुतम् ॥ २॥
नवनीरदकोमलशान्तियुतं
नवचन्द्रमुखं नवनीतमुखम् ।
नवभास्करनिन्दितकान्तियुतं
प्रणमामि हरिं वसुदेवसुतम् ॥ ३॥
शठदानवकंसविनाशकरं
गजरक्षणतत्परचक्रधरम् ।
अहिराजविमर्दितविश्वनुतं
प्रणमामि हरिं वसुदेवसुतम् ॥ ४॥
वृषभानुसुतावरमुग्धवचं
रसराजकलेवरमञ्जुकचम् ।
कटिशोभितपीतदुकूलदृतं
प्रणमामि हरिं वसुदेवसुतम् ॥ ५॥
वरदायकवैष्णवभक्तिधरं
सुरनायककेशवरोगहरम् ।
मुनिमानसपङ्कजगन्धयुतं
प्रणमामि हरिं वसुदेवसुतम् ॥ ६॥
कुरुपाण्डवमण्डितदण्डधरं
विधिशङ्करवासवदर्पहरम् ।
यदुगौरवसौरभसर्वगतं
प्रणमामि हरिं वसुदेवसुतम् ॥ ७॥
मम मानसमन्दिरलिङ्गपरं
हरिनाथमहाप्रभुबुद्धवरम् ।
वरदानपरं गरहानकरं
प्रणमामि हरिं वसुदेवसुतम् ॥ ८॥
इति नन्दप्रदीप्तकुमारविरचितं वसुदेवसुताष्टकं समाप्तम् ।
Composed, encoded, and proofread by
Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com