श्रीवेङ्कटेशस्तोत्रम्
श्रिया परिष्कृतोरस्कं दयामय शुभाकृतिम् ।
श्रीवेङ्कटशिखारत्नं श्रीनिवासं भजामहे ॥ १॥
सते वैकुण्ठखण्डेऽस्मिन्ननन्ताश्चर्यवैभवे ।
सुलभाय नमः पुंसे दुर्लभात्मसमाय नः ॥ २॥
अञ्जनाद्रिशिरस्यात्तव्यञ्जनायाञ्जनच्छिदे ।
अञ्जनाभाय शुद्धाय रञ्जनायात्मने नमः ॥ ३॥
अव्यक्ताय सुसूक्ष्माय स्वयंव्यक्ताय भास्वते ।
वृषभाद्रिविनोदाय विशुद्धज्योतिषे नमः ॥ ४॥
तस्मै परस्मै कस्मैचित्पुंसे संसेविताङ्घ्रये ।
सुरासुरनरैर्मुक्तैरिव नित्यश्रिये नमः ॥ ५॥
अद्रीकृतमहातल्पमविकल्पदयानिधिम् ।
आश्रितप्रार्थनाकल्पमाकल्पयतु मे मनः ॥ ६॥
अखर्वपूर्वदेवादिगर्वसर्वङ्कषौजसे ।
नमः श्रीशाय शर्वादिसुपर्वस्तुतपर्वणे ॥ ७॥
उत्तुङ्गाचलशृङ्गस्थो दयारङ्गैरपाङ्गितैः ।
समानपि समान्पश्यन् जन्तून् मन्तून्क्षिपेत्स नः ॥ ८॥
आकृष्य भविनो व्याजैः आधिव्याध्येकभेषजम् ।
अनुभावयते रूपं निधये श्रीश्रियै नमः ॥ ९॥
नित्यश्रीवासनिर्दुष्टहृदयाय दयात्मने ।
निखिलानुग्रहैकार्थविग्रहाय नमोऽस्तु नः ॥ १०॥
अर्चिताय नमो दिव्यैस्सुमनोभिस्सुगन्धये ।
विबुधामृतदायास्तु वृषभाद्रिविशोभिने ॥ ११॥
घनपत्रलसिम्हाद्रिवनच्छायेन वर्प्भणा ।
घनाघनसमानेन जनतापच्छिदे नमः ॥ १२॥
नानाशाखोपपन्नाय सुपर्णोद्भासितात्मने ।
निश्शेषफलदायास्तु नमः कल्पद्रुमाय नः ॥ १३॥
यामुनाध्वगतोद्बोधसुमनस्संस्तुतात्मने ।
नित्यगोपजनेष्टाय गोविन्दाय नमोऽस्तु नः ॥ १४॥
बालोपच्छन्दनन्यायकृतविश्वहितं परम् ।
अवतीर्णं प्रभुं तीर्णक्लेशं कारणमाश्रये ॥ १५॥
कप्यासकञ्जनेत्राय नमः कल्मषहारिणे ।
मनःप्रग्रहरूद्वाक्षवशीकार्याय विष्णवे ॥ १६॥
प्रशस्तनागपृष्टेऽस्मिन्नाकपृष्ठ इव स्थितम् ।
नित्यसूर्याश्रयं धाम जगत्सवितृ तन्नुमः ॥ १७॥
अपारविभवानेकतीर्थे दिव्ये वृषाचले ।
मध्यलोकमहारत्ने वसते विष्णवे नमः ॥ १८॥
आनन्दनिलयख्यातविमानान्तर्विभूषणम् ।
अशेषेश्वरमानन्दमयं ब्रह्म परं स्तुमः ॥ १९॥
सेवे तौ दम्पती दिव्यौ यावेनांसि भवार्दितान् ।
हरावः प्रणिपात्येति वराहक्षेत्रमाश्रितौ ॥ २०॥
प्रणिपात्यानुगृह्यापि पद्मया प्रेषितान् जनान् ।
प्रपाद्य परमानन्दे मज्जयित्रे नमो नमः ॥ २१॥
सप्तपर्वतसोपानसमारोहश्रमैर्भवान् ।
अघानि फलयन् श्रीश स्वात्मसात्कुरुते श्रितान् ॥ २२॥
आरुह्य पर्वतानुच्चैः अधःस्थान् वीक्ष्य साधवः ।
भक्ताभक्तान्तरं श्रीमन्नेतावदिति मन्वते ॥ २३॥
यं त्वां मुक्तामयाकल्पं सदा मुक्तामयाः श्रिताः ।
मुक्ता मयापि पाप्मानः येन श्रीनाथ ते नमः ॥ २४॥
अदृष्टश्रीनिवासानामश्रिताहीन्द्रभूभृताम् ।
परो दूरेऽस्ति वैकुण्ठः इति धीरस्त्यपवित्रमा ॥ २५॥
अमृतस्यन्दिभिर्मुक्तैर्नित्यमुक्तैस्सभक्तिकम् ।
सुमैस्सुवर्णैस्त्वं नित्यमुक्तैश्च श्रीनिधेऽर्च्यसे ॥ २६॥
चित्रभूरमृतं तेजः प्राणः खं ब्रह्म माधव ।
मूलं फलं रसो वै स सुखं तत् सर्वमप्यसि ॥ २७॥
घनाघनप्रभं शेषधराधरशिरःस्थितम् ।
रमारमणमाहुस्त्वां परापरविदो गतिम् ॥ २८॥
वन्दे वैकुण्ठशैलेशं वैकुण्ठं कुण्ठितांहसम् ।
एककण्ठ्यं प्रमाणानां यत्र, यस्यापि च श्रिया ॥ २९॥
निहत्यान्तस्तमो लोकानवते नवतेजसे ।
सर्वगन्धरसाय स्याद्विचित्र श्रीश ते नमः ॥ ३०॥
अस्तदोषं समस्ताढ्यं शस्तं कस्तं स्तवैस्स्तुवन् ।
पारं द्रक्ष्यत्यतो नैष परीहासाय मे श्रमः ॥ ३१॥
sएच्तिओन्
श्रीवेङ्कटेशाय नमः ।
ज्ञानशीलनिधिं नौमि मुनिं श्रीरङ्गलक्षणम् ।
गुरुं, गुरोर्मुखाद्यस्य श्रीवासो भरमग्रहीत् ॥ ३२॥
प्रपद्ये पञ्चसंस्कारगुरुं त्रव्यन्तलक्ष्मणम् ।
नित्यश्रीवासनिध्यानपूर्णेज्यं प्राज्ञयोगिनम् ॥ ३३॥
नानाकृतिकृतक्षेमं नारायणगिरिस्थितम् ।
प्रपत्तिदर्शनं वन्दे देशिकं वेङ्कटेश्वरम् ॥ ३४॥
श्रुतिचक्षुर्बलद्योऽसौ श्रीनिधिं देवतोत्तमम् ।
स्थापयामास योगीन्द्रश्शेष एतं श्रयेऽनिशम् ॥ ३५॥
बद्धाञ्जलिपुटो नित्यं प्रपद्ये सप्त पर्वतान् ।
श्रिया विहरते सार्धं येषु नः पुरुषोत्तमः ॥ ३६॥
अहीन्द्रशैलवास्तव्यमद्भुतं धाम तन्मयि ।
अपाङ्गरिङ्गणं किञ्चिदातनोत्वनुकम्पया ॥ ३७॥
आनन्दात्म यदाश्रित्य सुखमिन्धे जगत्त्रयम् ।
शेषशैलशिरोरत्नं प्रत्नं तद्दयतां मयि ॥ ३८॥
महिमाऽनन्यसामान्यो मान्यं सौलभ्यमीश्वरे
श्रूयतेऽस्तीति यत्तस्य देव एष निदर्शनम् ॥ ३९॥
कटाक्षाय नमस्तस्मै वेङ्कटब्रह्मणो विभो ।
अनुकम्पामुपाश्लिष्य जाग्रद्यः कुरुते जगत् ॥ ४०॥
निःश्रेयसस्थलमिवैष फणिन्द्रशैलो ।
नाथ त्वया भवति मङ्गलविग्रहेण
तन्मादृशाननुगृहाण तथा यथा त्वाम् ।
आराधयेयुरपि तामनपेक्ष्य मुक्तिम् ॥ ४१॥
नूनं वसन्नपि भवानमृते विभूतौ
आत्मप्रभाभिरतसीसुममेचकाभिः ।
व्याप्नोति वेङ्कटविभो भुवनान्यथापि
भाग्याय नस्तव तु मङ्गलविग्रहोऽयम् ॥ ४२॥
पित्रोरनुग्रहपदं न परं सुपुत्राः
दुष्टास्सुता अपि तदस्तु रमानिवास ।
बाढं तु विश्वसिमि हानपदं न चाहं
क्केवोपयोक्ष्यत इयं करुणा विना माम् ॥ ४३॥
याचे भवन्तमिह काङ्क्षितमर्पयेति
नो चेद्विभो क्क तव गच्छतु शेष एषः ।
त्रायस्व वा वृषगिरीश दयाप्रभावात्
आहो त्यज ध्रुवमिदं शरणं त्वमेव ॥ ४४॥
द्विदशशतरसज्ञो नायमीष्टेऽपराधान्
मम गणयितुमेषा निष्कृतिस्सा क्क कोणे ।
अतिविमलधियो यां यां मुनीन्द्रास्स्मरन्ति
त्वयि शमयतु तत्तान् साञ्जलिर्मे प्रणामः ॥ ४५॥
सकृदपि यदि शेषश्शेषशैलेश्वर त्वां
नमति निहितबुद्धिः तत्प्रभृत्येष धन्यः ।
मम तु किमिह कुर्यां चञ्चलं मानसं यत्
क्षणमपि न पुनस्त्वद्व्युग्रतामेति कृच्छात् ॥ ४६॥
त्वयि विनिहितबुद्धिर्नाथ जात्वेष भूयात्
भवतु मयि दया ते मा प्रतीक्षस्व किञ्चित् ।
तृणमपि न चलेत्त्वामन्तरेणेति सत्ये
मम कथमिह यत्नस्सिध्यतु त्वां विनैव ॥ ४७॥
अनुदिनमतिभाग्यादाश्रयन्ते भवन्तं
य इह विमलचित्ताः द्विष्टसंसारदुःखाः ।
न न भवति तदा नः तैस्सह त्वत्स्तवेच्छा
वृषगिरिभुवि विष्णो मां यदि त्वं दयेथाः ॥ ४८॥
पुनन्तु पादाम्बुजयुग्मरेणवः
फणीन्द्रशैलेश्वर ते प्रतिक्षणम् ।
स्मरन् ध्रुवं यान् समयेषु सादरं
प्रगल्भते प्रार्थितलम्भने जनः ॥ ४९॥
वृषाद्रिशृङ्गे विभवं श्रियःपते
विभाव्य ते विस्मरतात् कथं जनः ।
मुहुर्मुहुर्यः क्रमशोऽनुसंहितो
विधास्यति त्वय्यतुलां दृढां मतिम् ॥ ५०॥
श्रियःपते वैभवमेव ते महत्
यदाश्रितस्सप्त गिरीनहो जनः ।
अखिन्नपादस्सुखमेव लङ्घयन्
सिसेविषुस्त्वामभिवन्द्य मोदते ॥ ५१॥
जगन्नियन्ता न भवेद्भवेद्वा
नास्ते यतो जातु न दृश्यतेऽपि
यद्यस्ति दृश्येत तदेति पक्षः
त्वया वृषाद्रीश विलीयते स्म ॥ ५२॥
आम्नायबाह्ये जगति प्रभूते
न कश्चन त्वां ध्रुवमभ्युपैष्यत् ।
नचेद्भवान् शेषमहीध्रभूमौ
अद्योतयिष्यत्स्वमनन्यवेद्यः ॥ ५३॥
मन्ये य एतादृशमीश्वरं त्वां
प्रवर्तते हन्त जनो निरोद्धुम् ।
कलेस्स कोऽपि प्रभवः प्रमूढः
कथञ्च केनापि न शिक्षणीयः ॥ ५४॥
भोक्तव्यं कृतमिति निश्चिता मतिर्मे
खेदस्तु प्रतिदिनमप्यसह्य एषः ।
याचेऽहं वृषगिरिनाथ दीनदीनः
पापानि प्रशमय मे कटाक्षितैस्ते ॥ ५५॥
धन्यास्ते फणधरभूधरे तु वृक्षाः
धन्यास्ते प्रतिदिवसं तु किङ्करास्ते ।
धन्यास्ते विमलधियः स्तुवन्ति ये त्वां
धन्यस्स्यामहमिह ते कटाक्षितेन ॥ ५६॥
ब्रह्माद्याः प्रणिहितमानसास्सुरास्ते
सन्तीति श्रितदय मा भवानुदास्ताम् ।
सत्यं यत्तव न सुदुर्लभाः स्तवास्ते
दिष्ठ्या तु क्षणमिह दत्तदृष्टिरस्मि ॥ ५७॥
इष्टं यद्भवति तदाप्तये जगत्यां
सुस्पष्टं वदति जनो ह्युपायभेदान्
सन्त्वेते, यदि न भवान् दयेत किं स्यात्
त्तद्याचे द्रुतमिह मे फलं प्रयच्छ ॥ ५८॥
यस्यादरेण भवतो ननु वेङ्कटाख्यः
पापापनोदनविधौ पटुरेष शैलः
यस्यानुभावमनुमाय महर्षयस्ते
वाञ्छन्ति तत्र तृणतां तमहं भजामि ॥ ५९॥
श्रीश त्वया किमिति वाऽऽद्रियते वृषाद्रिः
तस्याथवा फलमिदं तपसस्तु कस्य ।
ज्ञानेन वा किमथ तस्य वृषाद्रिनाथ
चित्ते तु मे वस न किञ्चन कर्तुमीशे ॥ ६०॥
लज्जे न कर्तुमिह किञ्चन यन्निषिद्धम्
बद्धाञ्जलेस्त्वयि नतिस्तु न बुद्धिपूर्वा ।
भव्यं तथापि भवितेति वृषाद्रिनाथ
मन्ये दयार्द्रभवदीयकटाक्षलाभात् ॥ ६१॥
कदाचिदासाद्य वृषाद्रिशृङ्गं
विलोक्य ते वैभवमाश्रितस्त्वाम् ।
सत्यं हरे वेङ्कटशैलनाथ
विहातुमिच्छेन्न कदापि तु त्वाम् ॥ ६२२॥
अहमहमिकया सिसेविषूणां
यदि निचयं प्रतिवासरं जनानाम् ।
वृषगिरिशिखरे विलोक्य ऋध्नो-
त्यथ किमु ते पदसेविनां विचारः ॥ ६३॥
विसृत्वरो यस्य कटाक्ष एष
विनम्रमिष्टैरभिषिञ्चति द्राक् ।
भजे तमेतं वृषशैलदेवं
श्रियःपतिं शेखरमागमानाम् ॥ ६४॥
निरत्ययं खेलतु भावना मे
यथा च ते मङ्गलविग्रहेऽस्मिन् ।
तथा दयेथाः वृषशैलनाथ
यथा च नान्यत्र गतिर्ममास्तु ॥ ६५॥
यस्यानुभावं स्वयमैकमत्यात्
उच्चैर्वदन्ति श्रुतयो विभिन्नाः ।
अहीन्द्रशैलस्य शिरोमणिं तम्
आश्रित्य नारायणमस्मि तुष्टः ॥ ६६॥
हृदयेषु सतां वृषाद्रिशृङ्गे
निगमान्तेषु च नित्यमुल्लसन्तम् ।
कमपि श्रितवत्सलञ्च लक्ष्मी-
पदलाक्षाङ्कितवक्षसं स्मरामि ॥ ६७॥
अस्माकमार्तिशमनाय वृषाचलेऽस्मिन्
अध्यक्षितः कलशवारिधिकन्यकेशः ।
कारुण्यसारकलितेन कटाक्षितेन
श्रेयस्तनोतु शरणम् जगतां त्रयाणाम् ॥ ६८॥
निरीक्षमाणः कृपयाऽर्थिनं जनं
परीक्षमाणश्च वृषाचलेश तम् ।
यथा न खेदोऽस्य भवेत्तथा भवान्
हितं वितन्नन्नखिलञ्च रक्षति ॥ ६९॥
रमामुखाम्बुजोल्लासवीक्षणस्मेरचक्षुषः
प्रसीदन्तु कटाक्षास्ते वृषशैलेशितुर्मयि ॥ ७०॥
अर्थादौ प्रौढिमाभावेप्यपरित्याज्यतां विदन्
श्रीनिवासस्तुतिं वेगाद्व्यतानीद्वीरराघवः ॥ ७१॥
sएच्तिओन्
श्रीनिवासाय नमः
सम्यग् विभाव्य सकलं पुनरैहिकाद्यं
मायावशेन भवता कमलेश सृष्टम् ।
सर्वात्मकं सुखमयञ्च भवन्तमीहे
दृष्ट्वा गुरोश्च भवति स्वयमैकतान्यम् ॥ ७२॥
अत्यन्तसुन्दरमुखाम्बुजमन्दहासात्
नेत्रोत्पलप्रहितनिस्तुलवीक्षितैश्च ।
क्षेमं दधत्सकललोकनिदानमेष
शेषाद्रिशेखरमणिश्शरणं ममास्तु ॥ ७३॥
कलशपयोधिजाकमलसोदरनेत्रयुग-
प्रहितकटाक्षवर्षकृतनीलिममूर्तिरसौ ।
निगमशिरोभिराकलितनैजगुणांशकलः
कलयतु मङ्गलं सततमेष वृषाद्रिपतिः ॥ ७४॥
पद्मयाऽलङ्कृतोरस्स्थलं प्रार्थये
पूरुषञ्चोत्तमं शेषशैलेश्चरम् ।
दुःखमागन्तु मे दूरतः प्रक्षिपत्
भूरिकल्याणकृद्वीक्षितं प्रेष्यताम् ॥ ७५॥
सुरमौलिमकुटमण्डनमन्दारस्रङ्मरन्दमेदुरितम् ।
संवाहितं श्रिया नः श्रियं समेधयतु शौरिपदपद्मम् ॥ ७६॥
कलशाम्बुराशिकन्याकौस्तुभवनमालिकादिकलितं तत्
वक्षस्स्थलं विधत्तां वेङ्कटनाथस्य मङ्गलानि मम ॥ ७७॥
दिवि तिष्ठति वृक्ष इव स्तब्ध इति त्वां धरेऽत्र तिष्ठन्तम् ।
सकलफलकल्पवृक्षं पुरुषं श्रीमन् श्रुतिस्स्तौति ॥ ७८॥
कलयामि सन्ततमिमं कमपि कृपावारिशेवधिं देवम् ।
विनतजनजातरक्षादीक्षं श्रीभूमिवल्लभं शरणम् ॥ ७९॥
वेङ्कटभूधरशिखरद्योति परं किमपि धाम निर्हेतु ।
निखिलजगदेकहेतुर्नैसर्गिकगुणगभीरमस्तु हृदि ॥ ८०॥
आश्रितरक्षणसूचकहस्ताम्बुजमुद्रमखिलदेवमिमम् ।
शेषमहीधरभूषणमेष जनः श्रीनिधिं नमति ॥ ८१॥
अनिदम्प्रथमानि वचांस्यशेषतो बोधयन्ति यं देवम् ।
विनतातनयमहीधरशिखरपरिष्कारमाश्रये श्रीशम् ॥ ८२॥
सर्वत्र जगति तिष्ठन् सर्वस्याप्यश्रयः श्रियःकान्तः ।
नारायणशिखरिशिरःपरिष्कृतिश्शरणमस्तु देवो नः ॥ ८३॥
विद्युदुदञ्चितदीप्तिस्तरुणो धाराधरो यथा देवः ।
अञ्जनगिरिमधितिष्ठन्नञ्जनमखिलं व्यपोहतु श्रीशः ॥ ८४॥
जगतस्सुखमेधयते मेधां भक्तिञ्च सम्पदं ददते ।
वृषपर्वतशिखरजुषे श्रीमण्डितवक्षसे नमम्सततम् ॥ ८५॥
प्रह्लादमन्वगृह्णात्कृपानिधिः श्रीनृसिंहमूर्तिर्यः ।
सिंहाचलशिखरगतो देवः श्रीवल्लभस्स एष गतिः ॥ ८६॥
सप्ताचलाधिनाथो द्विसप्तलोकाधिराज एष हरिः ।
सङ्ख्यातीतै रूपैस्समुल्लसन् श्रीपतिः परं शरणम् ॥ ८७॥
सप्तशैलस्वामिने नमः ।
॥ श्रीमते हयवदनपरब्रह्मणे नमः ॥
॥ वर्णमालास्तवः ॥
अस्तु वस्त्विदमनन्तभूधरे निस्तुलद्युति समस्तदैवतम् ।
शस्तदं श्रितवतामुरस्तलन्यस्तमानितरमं परं हृदि ॥ ८८॥
आदरेण वृषभूधरेशितुर्मेदुरेण भयधैर्यनिश्चयैः ।
पङ्कजातसदृशे पदे नतिः पङ्कजातशमनीयमस्तु नः ॥ ८९॥
इज्ययाऽहमहिराजभूभृतः प्राज्यया परिबृढं प्रहर्षयन् ।
नित्यमस्य पदपद्मचिन्तया कृत्यकृद्भवितुमस्मि कामनः ॥ ९०॥
ईडितुं श्रुतिगणैस्सदोद्यतैः व्रीडितं हि यमनन्तभूमकम् ।
तस्य शेषगिरिशृङ्गवासिनः न्यस्य पद्यधिमुदस्मि मे भरम् ॥ ९१॥
उच्चनीचपदभेदचिन्तनां व्युच्चरन्त्यविकलं विना यतः ।
पद्मवासरसिकापतेर्दयासद्मनो दृश इमं श्रयेऽनिशम् ॥ ९२॥
ऊर्जितं किमपि धाम संश्रये वर्जितं स्वयमशेषहेयतः ।
शेषशैलशिखराग्र्यभूषणं शेषभूतनिखिलं श्रियःपतिम् ॥ ९३॥
ऋद्धिरत्र च परत्र चार्थ्यते सिद्धिरात्मशुभकर्मणो यतः ।
व्यक्तिमेत्य वृषपर्वते स्थितं सक्तिमेति तमवेक्षितुं मनः ॥ ९४॥
नॄनसावनुजिघृक्षुरादरादेनसा दिवमुपैतुमक्षमान् ।
अञ्जनाचलशिरः श्रितो रमारञ्जनो य इममाश्रयेमहि ॥ ९५॥
क्लप्तचेतसमदुष्टरक्षणे दृप्तदुष्टदमने च माधवम् ।
अंहसां निधिरयं जनो हरिं रंहसा शरणमेति विश्वसन् ॥ ९६॥
एति यो गिरिमुपैति ते पदं हेतिभूषणलसद्विभूतिक ।
स श्रयत्यभिमतानि सत्पदान्यश्रमेण भुवनेष्वपि त्रिषु ॥ ९७॥
ऐन्द्रमुख्यपदचिन्तनं वृथा चन्द्रकोटिजयिनो वृषेश्वर ।
व्याकृतानवधिनामरूप ते ह्याकृतेः पदमिदं परं पदम् ॥ ९८॥
ओजसैष विदधद्भुवं वशे भो जनाः नस्यति शेषभूभृति ।
विप्रतीपविधिभिः किमस्ति वः क्षिप्रमेष शरणं चिकीर्ष्यताम् ॥ ९९॥
औदरैकनिरतान् धनार्थिनोप्यादरेण हरिरेप मुक्तिदः ।
पश्यतीह वृपवल्लभो जनाः नश्यथ स्वयमुपेत्य किं परान् ॥ १००॥
अम्बुजाक्ष इह शेषभूधरे कम्बुचक्रलसदंसकुण्डलः ।
प्रत्ननव्यबहुभव्यभूषणो रत्नराशिरिव राजति स्थिरः ॥ १०१॥
अः परो यदिह तत्परः स्थितः, कः परश्शुभकरश्श्रयेम तम् ।
शेषवासरसिकेऽत्र शेषिता शेषतापि यदशेषतस्स्थिरा ॥ १०२॥
कमलदळविमलशीतळकर्णान्तविशाललोचनोदारम् ।
कमपि कमलासनाथं कलये वृषशैलविहरणं कृष्णम् ॥ १०३॥
खरशठकठोरहृदयस्वभावभेदिप्रभावभूमानम् ।
खरकिरणकोटिभास्वरमखरकराह्लादमच्युतं वन्दे ॥ १०४॥
गतिमन्येष्वात्मनि वा फलार्थिनामप्यनर्थिनाञ्च परम् ।
सर्वान्तरं समेतं समया रमया दयानिधिं नौमि ॥ १०५॥
घनसुकृतजनसमर्चित घनाघनप्रार्थ्यदिव्यभव्याभ ।
अघनोदन जीवघनात् परं श्रियस्त्वां पतिं समीक्षेय ॥ १०६॥
ङ्सङ्सिनित्यविचारो द्रव्यगुणस्पन्दसततघोषश्च ।
व्यर्थो वृषशैलपतेस्सन्तश्चिन्तयत सन्ततं रूपम् ॥ १०७॥
चरणं वृषशैलमणेस्तरणं जगतस्समाश्रये शरणम् ।
अरुणाम्बुजदळसुन्दर करुणारसनिर्भरायताक्ष तव ॥ १०८॥
छविभिस्सकलं तेजश्छादयते यस्स्वयम्प्रभः प्रभवः ।
तमहं तरुणपयोधरवर्णं वृषशैलविहरणं प्रणतः ॥ १०९॥
जगदवन-हरण-भवनाद्याश्चर्यक्रीडमञ्जनापीडम् ।
रमया सनाथममलं हृदये मे प्रार्थये स्थितये ॥ ११०॥
झटिति त्यजति भवन्तं सन्ततमभ्यस्तलोलुपं चित्तम् ।
वृषशैलशिखरविहरण विवरीतुं त्वां कदा नु ते कामः ॥ १११॥
ञाव् ञाविति कलहपरो भक्षे मार्जार इव जनो यत्र ।
परहानि-स्वात्मसुखप्रवणस्तस्माद्रमेश रक्ष भवात् ॥ ११२॥
टीकाश्शतं विधत्तां व्याचष्टां शृतिषु काममर्थशतम् ।
किं तेन यदि विरज्य न भृङ्क्तेन ध्यायतीह विष्णो त्वाम् ॥ ११३॥
ठक्किति यावत्प्राणाः न तनोर्निर्यान्ति तावदस्त्वेषः ।
परिपोषितभक्तिरसो भुवि भवति ध्यानपूजनैश्श्रीश ॥ ११४॥
डयत इति विहगमात्रं न कथञ्चन ते रथो यथा विष्णो ।
अहमपि तथा न विधिरिव तथापि नाथ स्तुतिप्रियेक्षस्व ॥ ११५॥
ढक्कादिवादनोल्बणनाट्यरसेन स्तवेन भव्येन ।
अनुभूय राधयति यं शम्भुस्तं सिंहशैलगं स्तौमि ॥ ११६॥
ण इति हि वर्णो वार्णासिद्धेर्विष्णोश्च वर्णने हेतुः ।
नारायणसंज्ञां त्वयि नियमयति श्रीवृषाद्रीश ॥ ११७॥
तटिदुज्ज्वलो घनो यो वनमालाशोभनो वृषाधीनः
तद्दृष्टौ न भवेयुः केकाः कथमत्र पक्षिणां मध्ये ॥ ११८॥
स्थिरकृष्ण पक्षरम्या हंसाः प्राप्ता अहं स इति यागम् ।
स्वपरभिदैकपरा इह चित्रं शुद्धाश्चरन्ति वृषे ॥ ११९॥
दक्षास्सन्ति गिरीशास्तदैव ते सर्वमङ्गलाकाराः ।
सद्गणपतयस्सुगुहाश्शेषगिरीशान भक्तौघाः ॥ १२०॥
धावन्ति च धोरन्ति च धयन्ति च त्वां स्तवैश्च धिन्वन्ति ।
लब्धञ्च धारयन्ति श्रीशेत्थं पञ्चधा भक्ताः ॥ १२१॥
नागेन्द्रनगवरं यो न गतो नगतो नरस्य नास्य भिदा ।
फलदं नगस्य जन्म स्यादस्य तु निष्फलं जन्म ॥ १२२॥
पाणिपयोजगतस्ते शङ्खो हंसस्सुदर्शनश्लिष्टः ।
श्रीमन् पदपद्मगतैर्हंसैर्दृष्टोऽथ मानसे लसति ॥ १२३॥
फलमिदमेवेति सतां फलदं त्वरयेति संसृतिं वहताम् ।
यत्र परा प्रतिपत्तिः तत् त्वद्रूपं वृषाद्रीश ॥ १२४॥
बेरैः पञ्चभिरेतैस्सव्यूहः पर इव त्वमुल्लससि ।
वृक्ष इवैकस्स्तब्धो दिवि तिष्ठ्न् शेषशैलशिखरे त्वम् ॥ १२५॥
भवतु भगवन्मुकुन्द श्रीवल्लभ वेङ्कटाद्रिशृङ्गमणे ।
कुलदैव कल्पवृक्षन्त्येवं त्वयि मे वचोऽजस्रम् ॥ १२६॥
मदनकदनैर्धंनायावेताल्या पारलौकिकैर्धर्मैः ।
भृशमत्र कर्शितानां परायणं त्वं रसायनं भगवन् ॥ १२७॥
यस्याः कणास्सरन्तो भाग्यवशात्संहतास्सुखाय भुवः ।
विलसन्ति तत्रतत्र श्रीमन् वात्सल्यदीर्घिका सा त्वम् ॥ १२८॥
रमयितुमेव रमां त्वं भूमिमविन्दः प्रजाश्च पासीति ।
गमयति घोषो नाम्नोः कथां रमारमण गोविन्द ॥ १२९॥
लक्ष्मीं शुकपुरि तपसा प्राप्य श्रीशैलशृङ्गशृङ्गारः ।
तपसो विदूरभविनस्तपस्विनो वीक्षसे दयया ॥ १३०॥
वन्दारुनन्दथुवहं वृन्दावनचारि वारिजाऽऽताम्रम् ।
शुभशेषभोगवासं श्रीवास त्वत्पदं विभातु हृदि ॥ १३१॥
शक्तो दिवि स्थितस्त्वं सर्वत्र तथापि शेषमायातः ।
असमर्थबद्धभक्तव्रातसमाश्लेषविरहसन्तप्तः ॥ १३२॥
षड्गुणमन्नं दिव्यं त्रिगुणरतान् सादरं समास्वाद्य ।
अक्लेशतो विरक्तिं वर्धयसे वृषगिरीश त्वम् ॥ १३३॥
सद्यः फलं प्रयच्छति कल्पतरौ सत्पशैलशिखरस्थे ।
अनुकल्पभूतमल्पदमन्यद्दैन्येन किं सेव्यम् ॥ १३४॥
हयवदनाद्यवतारैराब्रह्ममनुष्यमान्ध्यहर्तारम् ।
वेदगिरिशिखरशेखरमिमं नुमो भक्तिधीवृद्व्यै ॥ १३५॥
॥ इति वर्णमालास्तवः ॥
sएच्तिओन्
कुण्डलिराजगिरिस्थः खण्डितसकलान्तराय एष हरिः ।
कल्याणं कलयतु नः कलशाकूपारकन्यकानिलयः ॥ १३६॥
वृषगिरिशिखरविहारी वृषमुखविबुधाभिवन्द्यपदपद्मः ।
वृषमस्मासु विधत्तां वीक्षावलितैर्विशिष्टकारुण्यैः ॥ १३७॥
पुष्णासि भोगमखिलं क्लिश्नाति न किञ्चिदाश्रित इह त्वाम् ।
तमिमं मुकुन्द वन्दे देवं त्वां वृषगिरीशानम् ॥ १३८॥
अञ्जनाचलविभूषणं भजे कञ्जलोचनमशेषदैवतम् ।
आदरेण निगमान्तदेशिको यो बभूव जगदुद्दिधीर्षया ॥ १३९॥
श्रीनिधानमनपायि वत्सलं तन्निधानमधिशेषभूधरम् ।
सावधानमनुभोक्तुमादरात्संविधानपरमस्तु मे मनः ॥ १४०॥
आश्रये श्रितजनावने स्थितं धाम दिव्यमनघं दयानिधिम् ।
वेङ्कटाचलविहारि वारिदश्यामसुन्दरमघापनुत्तये ॥ १४१॥
कामये कमलकोमलं तव क्षान्तिसागर पदं परायणम् ।
काम एष मम कापथे बत प्रस्थितिं न पुनरेतु किञ्चन ॥ १४२॥
खेदवर्षकरकाभिराहते मोदहेतुरिह नो मनागपि ।
कापथे पुनरिदं प्रवर्तते कष्टमीश्वर मनो रुणत्सि नो ॥ १४३॥
इष्टमेतदिति वेङ्कटेश्वर स्वल्पमप्यमल नैव चिन्तये ।
पारतन्त्र्यपरिकर्मितस्य मे तन्न युज्यत इति स्थितः पुनः ॥ १४४॥
अञ्जनेश भुवि रञ्जयन्श्रितान् भञ्जनं न कुरुषे ममैनसः ।
कञ्जलोचन कृपानिधे कथं कल्मषक्षपणनामकीर्तन ॥ १४५॥
पापमच्युत कृतं पुनःपुनर्धीहरं खलु मयाऽनुभूयते ।
पुण्यमस्ति यदि मे यदृच्छया पद्मवासरसिकेश पाहि माम् ॥ १४६॥
दुष्कृतस्य करणे दृढं मनः दूयते पुनरथो मनागिव ।
प्रत्यहं यदिदमीदृशं हरे कीदृशी गतिरहो भविष्यति ॥ १४७॥
नास्ति मे गतिरनन्यवत्सल श्रीनिधे सकललोकरक्षक ।
देहि दिव्यजलदोपमद्युते तापशान्तिमभयङ्करो भव ॥ १४८॥
यावदच्युत पवित्रमानसप्राज्ञसादरसुभाषितास्पदम् ।
जीवितं सकललोकमानितं तावदस्तु न तु चेत् मृतिं कुरु ॥ १४९॥
देशिकैरनघदिव्यमानसैरादृते पथि भवन्मनोहरे ।
श्रीनिवास कृपया मनाग्गतं पार्श्वगर्तपतनाच्च पाहि माम् ॥ १५०॥
अम्बुजासनमुखैस्सुरैस्स्तुतं तुम्बुरुप्रभृतिगीतमप्यहम् ।
शम्बरारिविवशोच्युतं श्रये त्वं बलेन तव रक्ष माधव ॥ १५१॥
कामलेशहतचेतनो न यो माननीयविभवस्स संसृतौ ।
सर्वशेषिशुभदिव्यदम्पतिप्रीतिमात्रमपि किन्न काम्यते ॥ १५२॥
सर्वकामपरिपूर्णसेवया घोरकामवशता विनश्यति ।
अद्भुतं तमिममञ्चनाचलद्योतमाश्रय मनः परां गतिम् ॥ १५३॥
इन्द्रियाणि न वशे मनागपि श्रीनिवास तमसा वृत्तोऽस्म्यहम् ।
जातु हन्त भवता भवत्प्रियैश्चेक्षितं सपदि मामुपेक्षसे ॥ १५४॥
रक्ष सम्प्रति रमानिवास मां रागसम्भृतपरागपांसुलम् ।
कालमेघ करुणारसैश्शुभैश्शोधयन् विहितशुद्धजीवनः ॥ १५५॥
वेदपर्वतशिरस्स्थितं पदं वेद यत्तव रमानिधे जनः ।
वेदनाभिरनुपप्लुतस्सुखं वेद सोऽत्र च परत्र चाखिलम् ॥ १५६॥
इत्थमाश्रितजनावनप्रियं देवदेवमनघं दयानिधिम् ।
श्रीनिवासमिह वीरराघवो दुष्कृतोद्यमहतीप्सयाऽऽश्रितः ॥ १५७॥
उपनिषद्भिरुदीरितमादरादुदयतामुपबृंहणवर्णितम् ।
सुरमहर्षिमुखस्तुतमद्भुतं मनसि सिंहमहीधरणं महः ॥ १५८॥
किमिह नः कथया भवितान्यया त्वनयकल्पितया कथयानया ।
अवहितं भव वेङ्कटभूधरे तव हितं निहितं महितं मनः ॥ १५९॥
प्रणतलोकपरायणमानसं प्रणमत प्रणयेन परायणम् ।
निखिलवेदगवेषितमद्भुतं वृषमहीधरदीप्तमिदं महः ॥ १६०॥
निखिलतापनिबर्हणचुञ्चुना नियमितस्वकयुग्मविभूतिना ।
श्रितरमः करुणासहचारिणा दिशति वीक्षितकेन स नस्सुखम् ॥ १६१॥
सकलहंससमाश्रयणीयतां सकलहंसमिदं मणिनूपुरैः ।
सपदि नः प्रतिपादयतीव ते कमलकान्ति पदं कमलापते ॥ १६२॥
हितकृते कृपयेह महीतले महितमञ्जनशैलमधिश्रितम् ।
अनघमद्भुतमङ्गलविग्रहं कमपि यामि गतिं कमलानिधिम् ॥ १६३॥
आश्चर्यभूतनिरपायदयामयीभि-
रार्द्रीकृताखिलवृषाद्यचलस्थलाभिः ।
बद्धादराऽऽहितनिमज्जनपावनीभि-
र्धाराभिराढ्यमवनीधरमाश्रितोऽस्मि ॥ १६४॥
अभितो विशोभिगिरिकूटशेखर-
द्रुमशृङ्गतुङ्गतरशाखिकोज्ज्वलैः ।
अधिनीरजातललितैरनोकहै-
र्हृदि पापनाशशुभतीर्थमस्तु नः ॥ १६५॥
इतस्ततो भिन्ननिजप्रसारया
प्रभूतपापक्षयवारिधारया ।
अदभ्रवेगोत्थकणाऽऽहिताभ्रया
मनश्शरीरञ्च ममास्तु शोधितम् ॥ १६६॥
आकाशगं गामपि सम्प्रविष्टं
आकाशगङ्गासलिलं महान्तः ।
श्रेय प्रदं संविनियोजयन्तो
भजन्ति लक्ष्मीश भवत्प्रियत्वम् ॥ १६७॥
सहस्रसूर्योज्ज्वलदिव्यतेजस-
स्सरोजवासासहधर्मचारिणः ।
सुखैस्सुशीतैर्हरितैः प्रभाभरैः
वनं मुदे तद घनपत्रचित्रितम् ॥ १६८॥
वने निवासोऽप्यवनेन जीविता
जनेष्वसक्तिर्जनतापहारिता ।
घने स्थितिस्त्वय्यघनाशशीलता
त्वदद्रिलीनेषु हरे जनेरिताः ॥ १६९॥
हरे गिरेरस्य हि सर्वतोमुख-
प्रदानशुद्धान्तरभावशोभिताः ।
निवासिनोऽन्ते स्वयमात्तगौरवा
भवन्ति मान्या मुदिरा भवत्पदे ॥ १७०॥
न श्रधा न मतिः न शक्तिरथ मे किं स्याददृष्टं शुभम्
धूर्तानां मम चास्ति का खलु भिदा वेषः प्रजामोहनः ।
हे शेषाचलशेखरेश्वर रमानाथ प्रभो शाश्वत
ज्ञानानन्दविभूतिनायक नय त्वं मां स्वयं सत्पथम् ॥ १७१॥
अन्तर्मे न हि मात्रयापि भवति प्रेम श्रियः प्रेयसि
स्वामिन्यद्भुतनिस्समाधिकगुणग्रामे शुभालम्बने ।
कामोऽथापि भवद्विलोकनविधौ कामैकवश्यस्य मे
बाष्पस्वेदसगद्गदस्वरमुखप्राप्त्यै कथं युज्यते ॥ १७२॥
भक्ताः केचन पावितन्निजगतस्त्वय्येव् पातिव्रतीं
बिभ्राणास्तव पादपद्मनतये शैलं समायान्ति ये ।
तादृक्षाः मयि नित्यदुष्टहृदये नाथ प्रभो नीरद-
श्याम श्रीधर वीक्षणं सकरुणं याचे क्षिपन्तु स्वयम् ॥ १७३॥
कामार्तन्न कथं मनो मम हरे यन्नाम नारीमयीं
हा कष्टं प्रतिमामपीक्षणपदं प्राप्तां जहात्येव न ।
कल्याणे कमनीय उज्ज्वलतमे कालाम्बुदश्यामळे
काङ्क्षाकरुपतरौ वृषाचलमणौ कुर्यात्कदैतां रतिम् ॥ १७४॥
भाग्यं भूरि वृषाचलेश कलये स्त्रीजन्महेतुं यतः ।
तारुण्योज्ज्वल तोयवाहसुभगे त्वय्यस्तु लीनं मनः ।
एतत्साम्प्रतमम्बुजेक्षण यथा गोप्योऽपि कृष्णे त्वयि
प्रेमोद्गारकषायिकोमलहृदो नैवं मुनीन्द्रा यतः ॥ १७५॥
आचार्यैरुपदिष्टमस्ति सुदृढं सञ्चिन्तितञ्च स्वयं
नातो बाह्यकुदृष्टिमोहनवशं मन्ये मनो यास्यति ।
एवन्त्वेपि यदञ्जनाद्रिशिखरप्रद्योत लक्ष्मीनिधे
त्वद्रूपानुभवस्थमस्ति न मनः पापिष्ठमेतत्ततः ॥ १७६॥
आगत्यान्तरवेक्षणाय भवतश्चित्तं न यत्तं बत
प्रस्थाने कृपया बहिश्च मनुते प्रान्ते समायात्विति ।
ईदृक्तन्द्रि महाघमेतदनघं त्वाञ्चेत् दिदृक्षेत जा-
त्वेतद्वेङ्कटशैलनाथ भगवन् प्रत्यूहितं मा कुरु ॥ १७७॥
त्वामेष प्रणतोऽस्मि ते परिजनान् येऽन्ये त्वदीयाश्च तान्
मा मे जातु मनः क्रुधा कलुषितं भूयाद्वृषाद्रीश्वर ।
सह्यं सर्वमहो विचिन्त्य बहुना यज्जन्मना स्वार्जितम्
क्रोधः किन्तु महागसे पुनरतश्शान्तोऽस्मि वीक्षस्व माम् ॥ १७८॥
बुध्धा यानि कृतानि सम्प्रति कथं पापानि तानि प्रभो
न स्मर्यन्त इहाञ्जनेश्वर मनो धूर्तं मदीयं ध्रुवम् ।
स्थातव्यन्तु यथा तथा न भवितुं यत्नो भवन्तं पुन-
स्माक्षेपं स्मरयामि सर्वसमतां लक्ष्म्या सह त्वं हस ॥ १७९॥
दूरेऽपोहय दुष्कृतानि कृपया पुण्यानि चेत्सन्ति मे
तानि श्रीश बलात्समूहय मयि प्रेम स्वय पोषय ।
हे गोपीजनबान्धव प्रणिपताम्यन्या गतिर्नास्ति मे
तत् त्वं तत्त्वमनुत्तमं तव पदद्वन्द्वं सुखं दर्शय ॥ १८०॥
भ्राजत्पीतसुवर्णचित्रवसनं काञ्चीकृतालङ्क्रियं
सालग्रामसुवर्णरत्नकुसुमप्रख्यातमाल्याञ्चितम् ।
कान्तं ते घनसारपुण्ड्रललितस्मेरारविन्दोल्लस-
द्वक्त्रं दिव्यकिरीटमञ्जनपते रूपं स्वयं दर्शय ॥ १८१॥
विरक्तगृहस्थप्रार्थना
श्रीमानेष वृषाचलेन्द्रशिखरप्रान्तप्रदीपायित-
स्वैरव्यक्तसमस्तमङ्गलनिधिश्रीमूर्तिराधित्सताम् ।
पद्मापादपयोजयुग्मविगलल्लाक्षापदेशोज्ज्वल-
न्मन्दस्यन्दिमरन्दमेदुरमहोरस्को विरक्तिं मम ॥ १८२॥
कृत्याकृत्यविवेकदुर्विधमहानर्थोपनद्धोन्मद-
प्राज्ञंमन्यकरत्यजद्दरदृढप्रोन्माथि मन्मानसम् ।
तन्मे सम्प्रति तं प्रति प्रणतयस्सन्तु प्रियो यश्श्रियः
प्रेमार्द्रं प्रणिधापयेन्मन इदं कामञ्च निर्यापयेत् ॥ १८३॥
शृङ्गे शेषभुङ्गपुङ्गवगिरेस्तुङ्गे परं मङ्गलं
शृङ्गारं तमनङ्गभङ्गविधये सोऽहं शरण्यं गतः ।
यो लक्ष्मीमुखपद्मलम्भितमहामोदानघापाङ्गित-
श्रेणीभृङ्गपरम्परास्वरसमस्वाङ्घ्रिश्रितस्वागतः ॥ १८४॥
यत्खल्वाश्रममद्वितीयमनघं तत् सद्वितीयं श्रियः
प्रेयः प्राप्तमिदं द्वितीयमिह मे धर्मः परं वर्धताम् ।
मा भूदञ्जनशैलशेखर हरे त्वत्पादपङ्केरुह-
प्राप्तस्यास्य कदापि कामकदनस्वल्पप्रसङ्गोऽपि मे ॥ १८५॥
इज्यौपासनवैश्वदेवविधिना पूर्वं परञ्चाश्रमं
प्रत्यप्यन्नसमर्पणेन सुहितां वृत्तिं सुखं प्रेप्सतः ।
श्रीमन्नञ्जनशैलशृङ्गविलसत्सन्तान सङ्कल्पय
स्वेनैव स्वककिङ्करत्वविभवस्थैर्यं सयूथस्य मे ॥ १८६॥
त्वामेवानुभवन्निरन्तरमहं त्वत्पाददास्यप्रियः
त्वत्प्रीत्यै नियतं विधाय विधिवत्सर्वं गृहस्थोचितम् ।
कामोद्दामकदर्थनानि कमलाकान्त प्रभावेण ते
दूरीकृत्य कृतार्थयेयमनिशं दीनं मदीयञ्च माम् ॥ १८७॥
यस्तु प्राथमिकाश्रमस्स भगवन् क्षिप्रं व्यतीयाय मे
वानप्रस्थ इतीदमद्य जगति प्राप्तं भृशादर्शनम् ।
संन्यासस्तु गृहस्थधर्मवहनव्याक्षिप्तनैजस्थितिः
तद्गार्हस्थ्यमिदं विधत्स्व नियतं धर्म्यं प्रियं ते मम ॥ १८८॥
इत्थं वेङ्कटशैलशेखरपदाम्भोजद्वयैकप्रियः
कन्दर्पोद्भटदर्पधूननकृते देवं तमेव श्रयन् ।
धर्म्ये वर्त्मनि वीरराघवकविर्वाञ्छन् शुभं वर्तनं
तत्तः प्रार्थितवानथास्य पठिताप्यस्त्वेतदीक्षापदम् ॥ १८९॥
अधमर्णप्रार्थना
श्रीकान्त श्रितसर्वलोकशरण श्रेयोनिधे शाश्वत
स्वाधीनाखिल शान्त वत्सल शुभप्रज्ञानशक्त्युज्ज्वल ।
देवाधीश वृषाचलेश्वर दृढं त्वत्पादपद्मप्रियः
त्वद्भृत्यस्तव किङ्करोऽस्मि किमिति प्राप्तोऽस्मि कष्टां दशाम् ॥ १९०॥
वेदो मानमशेषतस्स भगवांस्त्वं दैवतं केशवः
मान्याः व्यासपराशरादिमुनयो निष्कम्पनिर्धारकाः ।
सत्येवं वृषशैलशेखर कथं त्वत्पादपद्मद्वयीम्
आश्रित्यापि जनोऽयमित्थमधुना कष्टस्य काष्टां गतः ॥ १९१॥
उद्दिश्याङ्घ्रिमुदार ते यदि भवेदेकोऽभिनीतोऽञ्जलिः
केनाप्यच्युत कृत्स्नमस्य वृजिनं मुष्णासि पुष्णासि शम् ।
तत्तादृक्प्रथपद्मवासरसिकालङ्कारवक्षस्स्थल
प्राज्ञैरित्थमुदीरितोऽसि तदिदं काले त्वया स्मर्यताम् ॥ १९२॥
कालोऽयं कलिरत्र कल्पितमभूज्जन्म त्वयेदं तु नः
तस्मादस्मदिहास्ति कर्म नतरां भूयः प्रतीक्ष्यं त्वया ।
कामं मोक्षपथस्स मास्तु सकलं त्वन्यत्तदेकोद्भवं
तत्किं नामनि वेङ्कटेश फणितोऽप्येवं न सन्तुष्यसि ॥ १९३॥
नाहं संसृतिसागरान्तरमहावर्तभ्रमं प्रार्थये
नो वा त्वामपहाय दभ्रचिदनुस्वादक्षणं कामये ।
नो वा सम्प्रति रङ्गलक्ष्मणमुनिन्यस्तात्मरक्षाभरः
त्वत्तस्त्वत्पदपद्मसेवनमहानन्दञ्च याचे स्वयम् ॥ १९४॥
श्रीमन्नञ्जनशैलशेखर हरे स्वामिन्निदं शिष्यते
यत्ते पादपयोजसेवनमिहाऽऽदेहावसानेप्सितम् ।
तत्तुभ्यं मयका मदीयकयुजा निर्वर्तय त्वं स्वयं
दूरीकृत्य भयं दयाजलनिधे दोषैकराशेर्मम ॥ १९५॥
उत्पाद्य स्वयमुत्तमे खलु कुले विद्यासु युक्तास्वपि
व्यत्पाद्याद्भुतदेशिकाङ्घ्रिकमलात्सम्पाद्य यत्साम्प्रतम् ।
वात्सल्येन वृषाचलेश नयतो वर्त्म स्वयं साधु माम्
अन्ते हन्त कथं नु घोरवृजिनारण्ये विसर्गे मतिः ॥ १९६॥
स्थातुं युक्तमसंशयं समधिया मानावमानद्वये
नैवाथापि निदेशलङ्घनकृतं सह्यं सतां गर्हणम् ।
आज्ञापालनतत्परस्य यदि मे कामो न सङ्कल्प्यते
पद्माकान्त सुपुत्रहानिविहितश्शोको भवन्तं दहेत् ॥ १९७॥
हा हा हन्त मुकुन्द हास्यति कदा चिन्ताज्वरो मानसं
सर्वोप्येष वृथैव याति समयो दास्येऽपि तिष्ठासतः ।
आकर्षन्ति यथायथं न च परीहारे मनाक् प्राभवं
नाथ त्वां शरणं गतस्य ऋणिता श्रीकान्त नैवोचिता ॥ १९८॥
अद्य श्वस्तदनन्तरे दिवस इत्येवं मृषाभाषितैः
अर्थापेक्षिणमुत्तमर्णनिवहं नित्यं हरे वञ्चयन् ।
सर्वं नारकमञ्जनाद्रिशिखरालङ्कार चेत्प्राप्नुयां
त्वत्कीर्तिर्मम दास्यवृत्तिरपि हा नूनं लयं यास्यतः ॥ १९९॥
श्रीमन्नीदृशसाधुवर्त्मनयनप्राप्तं यशस्ते स्थिरं
कर्तुं किञ्च ममापि जन्म सफलीकर्तुं व्यवस्यन्निह ।
दासे देव दयातरङ्गितशुभापाङ्गाल्पविक्षेपतः
क्षिप्रं सर्वमृणं विधूय मम देह्यत्यन्तदास्यं त्वयि ॥ २००॥
इत्थं वेङ्कटशैलशृङ्गनिलयं सर्वार्थविश्राणनं
श्रीमन्तं हरिचन्दनं कुलधनं देवं परं संश्रयन् ।
प्रेमोद्गारकषायितेन मनसा कैङ्कर्यविघ्नक्षयं
काङ्क्षन्नस्तुत वीरराघवकविः क्षेमाय देवोऽस्तु सः ॥ २०१॥
पाणिमुद्रास्तवः
पार्थं पुरा प्रणयतः पुरतो निषाद्य
पद्यं यदुत्तमरहस्यमसावगासीः ।
संसेव्य वेङ्कटपतेऽत्र तदर्थदर्शि
हस्तेङ्गितं तव किमप्यभिधित्सुरस्मि ॥ २०२॥
वाचामगोचरमनन्त पदाब्जयोस्ते
वेदेषु वैभवमशक्ततमेषु वक्त्रुम् ।
का नाम मादृशमहाजडदुष्टवाचाम्
कार्ये वृषाचलपतेऽत्र कथा प्रवृत्तौ ॥ २०३॥
आशावशेन बहुधा विरचय्य कर्मा-
प्याशाधिपा मकलेषु मतङ्गजेषु ।
न्यस्तासना इह पतन्ति जनाः फलं तत्
नित्यं लभध्वमिति वक्षि करेण किं त्वम् ॥ २०४॥
दिव्यस्समस्त्यकृतकस्तमसः परस्ता-
दन्यस्स कश्चिदिति किन्नु मुधाऽभिमत्या ।
भक्तैः प्रपत्तृभिरपि त्वपुनर्गतीदं
प्राप्यं परम् पदमिति प्रणयिन् ब्रवीषि ॥ २०५॥
क्षेत्रं महिष्ठमिदमादिवराहदेव
कारुण्यकन्दलकटाक्षविनष्टकष्टम् ।
दत्ते त्रिवर्गमपवर्गमपीह तस्मात् ।
वस्तव्यमित्युपदिशस्युचितं रमेश ॥ २०६॥
आरुह्य सप्त तव सेवनकाङ्क्षयाऽद्रीन्
आगच्छतः करुणया कमलेश पश्यन् ।
अत्रैव तिष्ठत मदद्भुतदिव्यरूप-
दृष्टिप्रनष्टदुरिता इति किं ब्रवीषि ॥ २०७॥
काकासुरेण कृतघोरविचेष्टितेन
काले जगत्रयपरिभ्रमणं विधाय ।
यस्मिन्पदे निपतितं शारणार्थिना प्राक्
एतत्तदाश्रयत श्रीघ्रमिति ब्रवीषि ॥ २०८॥
सन्ति प्रलोभनपराः फलमल्पमेव
दक्षाः प्रदातुमधरोत्तरमाशु देवाः ।
सर्वत्र तत्र भविनां न सुखावकाशः
तन्मे पदं शरणमाश्रयतेति वक्षि ॥ २०९॥
ये नाम केचन भवादृशवाञ्छितार्थ-
दोहप्रभावभरिताः प्रथितास्त्रिलोक्याम् ।
तेप्येतदङ्घ्रिसरसीरुहपूजनेन
प्राप्ताः प्रभुत्वमिति किन्नु हरि ब्रवीषि ॥ २०९॥
कामं भवेद्विविधनश्वरपूरुषार्थ-
लिप्साकुलं परवशं ललितं मनो वः ।
तत्तादृशं सकलमप्यधिकं लभेध्व-
मेतत्पदाम्बुजमुपाय इति ब्रवीषि ॥ २१०॥
अर्थ्यं फलं सकलमप्यचिरेण दातुम्
अर्चामिमामुपगतोऽस्मि दयैकरूपाम् ।
कर्तव्यमप्यतिलघु प्रणिपातरूप-
मेतत्पदाब्ज इति देव हितं ब्रवीषि ॥ २११॥
व्याजेन केनचिदशेषमपीश्वर त्व-
मानाध्य लोकमनुकम्पिकटाक्षितस्सन् ।
अन्यद्विमुञ्चत् फलं सकलं फलं वः
पादाब्जमेव मम नित्यमिति ब्रवीषि ॥ २१२॥
देवी दयेव दयिता हृदयं श्रिता सा
नित्याश्च केचन शुभायुधभूषणाद्यैः ।
रूपैर्यथोचितमवाप्तमदङ्गभागाः
तद्वः कृते पदमिदन्त्विति वक्षि सद्भ्यः ॥ २१३॥
मा नाम भूद्भयमुपाश्रयतां मनाग-
प्यह्नाय ते स्वयमिदं मम पादपद्मम् ।
यें वो भयानकमताः मम हेतिभीताः
प्राप्स्यन्ति जीवितुमिति प्रथयस्यनन्त ॥ २१४॥
कामैकभोगविवशांस्त्रिदशानुपेत्य
तेषां पशूभवितुमिच्छथ हन्त कस्मात् ।
तस्माद्वरं विविधसच्चरणार्हभूमा-
वत्रैव वस्तुमिति बोधयसि प्रभो त्वम् ॥ २१५॥
आराधनेषु विविधेष्वधिवेदमुक्ते-
प्वेतत्पदाब्जयजनं परमस्ति सन्तः ।
आराधनं परतरन्त्विदमाश्रिताना-
मित्यादरेण वृषशैलमणे ब्रवीषि ॥ २१६॥
एषा विभूतिरियतीदमुपर्यसौ मे
नित्या त्रिपादिति करेण परेण चोक्त्वा ।
बम्भ्रम्यमाणमिह भव्यजगन्मय त्वं
लोकं निनीषुरवलोकयसे पदं ते ॥ २१७॥
अत्युच्छितः परित एष धराधरेन्द्रः
पादेन पश्यत मयैवमधःकृतोऽत्र ।
इत्थं मवद्वृजिनराशिमधो विदध्या-
मातः पदं प्रणमतेति वदस्यनन्त ॥ २१८॥
गृह्णन्ति येऽत्र कुसुमानि कृतेषु साक्षा-
दभ्यर्चनेषु चरणैरमराः महान्तः ।
क्षिप्तानि तेत्विह वहन्ति शिरोभिरेता-
न्यर्च्यं पदं तदिदमित्यधिदेव वक्षि ॥ २१९॥
त्रैविक्रमश्चरण एष जगद्व्यधात्प्राक्
वज्रातपत्रमुखचिह्नविशिष्टशोभम् ।
एकातपत्रवहवज्रधरादिभाव-
लिप्सा यदि प्रणमतेति वदस्यनन्त ॥ २२०॥
स्थानात्सुदूरमवतीर्णवतस्ततस्ते
जङ्घान्तपादयुगलश्रमयापनाय ।
भक्तान्नियोजयसि यस्य तवाद्भुतस्य
प्रेक्षालवप्रशमितश्रम एष लोकः ॥ २२१॥
भक्तव्रजं वृषगिरीन्द्र विमोहनं त्वां
स्त्रीभावतस्त्वनुबुभूषुमनुग्रहीतुम् ।
प्राङ्मैथिलीपरिणयात्कृतगौतमस्त्री-
रूपं दृषद्यमल लम्भयसेऽङ्घिरेणुम् ॥ २२२॥
सा पादुकापि पदपङ्कजधारनात्प्राक्
साकेतराजपदमुत्तममध्यतिष्ठत् ।
तस्मादिदं शिरसि धारयतां करस्थः
क्षेमस्सयोग इति वक्षि वृषाचलेन्द्र ॥ २२३॥
मद्दिव्यशाखचरणैकपरायणत्वा
च्छाखेति वीक्ष्य चरणेत्यपि च प्रसिध्दिम् ।
वेदस्स मां गिरिवपुर्वहतीह भक्त्ये-
त्येवं सुपर्णगिरिशृङ्गमणे ब्रवीषि ॥ २२४॥
सत्यादिलोकनिलयांस्तव सेवनार्थे
वैकुण्ठलोकगमनोद्यमिनस्सुरान्त्त्वम् ।
अत्रागतोऽस्मि वृषशैल इति ब्रवाणो
वित्रासितासुर समाह्वयसीति मन्ये ॥ २२५॥
ज्ञानात्मके च भुवने जलधेश्च मध्ये
मान्येषु ते निगमराजशिरस्सु नित्यम् ।
तुल्यम् श्रियःकमन निस्स्वपरार्थबुद्धि-
ष्वप्याविभातमुपदर्शयसेंऽघ्रिपद्मम् ॥ २२६॥
संसारवारिधिरयं भवतामगाधो
जङ्घामितं जलमिवास्ति सुखेन लन्ध्यः ।
मत्पादपद्मयुगलप्रणिपातमात्रा-
दित्यादरेण वदसीव वृषाद्रिनाथ ॥ २२७॥
एवंविधानि विविधानि विबोधयंस्त्वं
विश्वं जनं निजपदाम्बुजसेवनेन ।
धन्यं तनोषि दयया वृषशैलशृङ्गे
नित्यं स्थितोऽत्र निरपायरमानिवास ॥ २२८॥
इति पाणिमुद्रास्तवः
sएच्तिओन्
नाथ श्रियो नळिनसुन्दरमाश्रयंस्ते
पादं पवित्रमपनीतसमस्तखेदः ।
सार्वज्ञ्यरम्यसकलाद्भुतशेषवृत्ति-
धन्यो बुभूषति दयाम्बुनिधे ममाऽऽत्मा ॥ २२९॥
नाथस्स एष नरकच्छिदपारशक्ति-
र्नाकस्य पृष्ठ इव नः प्रकटे प्रकृष्टे ।
नारायणाचल इह स्वयमावरात्मा
भूमा रमासहचरः स्वगुणैस्समिन्धे ॥ २३०॥
एष श्रिया सह हरिश्शुभदिव्यमूर्ति-
श्श्रेयो जनस्य सकलस्य विधित्सुरस्मिन् ।
शेषाचले जयति वेङ्कटनाथनामा
किं भो जनास्तदितरत्र भजध्वमेनम् ॥ २३१॥
ये नाम केचन रमेश समेश कर्म-
वैचित्र्यतः कलितबाह्यकुदृष्टिपक्षाः ।
तेपि त्वदीयमनघं विभवं समीक्ष्य
वश्या भवन्ति तव कस्सदृशस्ततोऽस्तु ॥ २३२॥
त्वामद्वितीयमखिलाश्श्रुतयो गृणन्ति
श्रीमन् सदैव रमयापि च सद्वितीयम् ।
त्वद्भूमदर्शनसुखाम्बुनिधौ निमग्नाः
नैवान्यदम्बुजविलोचन लोकयन्ति ॥ २३३॥
हा हा किमेतदधरोत्तरमद्य लोक-
स्सञ्चेष्टमान इति सात्त्विकसङ्घवादः ।
सर्वज्ञ भावि परिशीलयतः कलौ ते
साधुत्वबुध्दिरिह चेत न रमेश भीर्मे ॥ २३४॥
शक्तिस्तवास्त्यनवधिर्हि यथा तथैव
श्रीकान्त सन्त्यनवधीनि ममप्यधानि ।
सर्वाधिकस्य तव साम्यमिदं न युक्तं
तत्त्वं विचिन्त्य दययोचितमत्र कुर्याः ॥ २३५॥
आमञ्जुनृपुरमहामकुटं भवन्तम्
आस्थापरेण मनसा च दृशा विलोक्य ।
आनन्दसागरनिमज्जनभाग्यधन्याः
मान्याः श्रियः कमन सन्तु मयि प्रसन्नाः ॥ २३६॥
सा सर्वलोकजननी सकलार्तिहन्त्री
सामादिभिस्त्वयि दयामभिवर्धयन्ती
त्वय्येकतामुपगता लसतीह यैषा
त्वञ्च श्रियो निलय नश्शरणं भवेतम् ॥ २३७॥
सर्वान्तरात्मभवनं सकलेषु तुल्यां
वृत्तिं सदैव रमयापि च साहितीं ते ।
नारायणाचलनिवासरताभियुक्ताः
सम्यभ्विभाव्य सममेव भवन्तमाहुः ॥ २३८॥
तद्धाम दिव्यमनघं तपसाप्यगम्यं
सङ्कल्पितं हि भवता न ममात्र खेदः ।
यत् त्वां तथैव रमयाद्य वृषद्रिशृङ्गे
पश्यामि सादरमशेषसमन्वितोऽहम् ॥ २३९॥
आसेतुबन्धहिमशैलमनन्तभेदाः
लोका भवन्तमनपायदयानिधानम् ।
आनम्रवाञ्छितविधानपरावतार-
माराधयन्ति रमया सहितं स्वशक्या ॥ २४०॥
अम्भोजनेत्रमपहाय रमासहायं
कं भो जनाः भजथ हन्त वृथा विमुग्धाः ।
सर्वेष्टदस्सकलदेवपतिस्स एष
शेषाचले विहरतीह हि वो हिताय ॥ २४१॥
विश्वस्य याचतु फलं तदिहेति बुध्या
विश्वस्य विश्वमिहलोकफलं दुहानः ।
त्वल्लब्धभूतिविधिशम्भुमुखान्यदेव-
सेवारतिं शमयसीव वृषाद्रिवासिन् ॥ २४२॥
वैकुण्ठतो वृषगिरिं स्वयमच्युत त्वाम्
आनीय तेऽङ्घ्रियुगमाश्रयितुं जनौघम् ।
या प्रेरयत्यध इतोप्यवतीर्य तस्याः
प्रीत्यै श्रियो मयि निधेहि दयार्द्रदृष्टिम् ॥ २४३॥
दिव्ये प्लवे विविधवैद्युतदीपरत्न-
भव्ये भवन्तमिह सम्प्रति पुष्करिण्याम् ।
श्रीशैलनाथ सहितं रमया च भूम्या
दासस्समीक्ष्य च विनस्य च धन्य एषः ॥ २४४॥
सुस्निग्धवृत्तरुचिरस्फटिकावदात-
स्थूणोपशोभिनि विचित्रविमानमान्ये ।
विभ्राजमानशुभवैद्युतदीपङ्क्तौ
स्वज्योतिषा प्लव इहाऽद्रिपते विभासि ॥ २४५॥
श्रीमन् वृषाचलवराञ्चलवल्लभ त्वा-
माश्रित्य सन्ततभवत्पदपद्मसक्तः ।
पापादपायनिचयान्निरयाच्च सम्य-
गात्मानमात्मजनमप्यवितुं प्रयाचे ॥ २४६॥
सर्वज्ञ ते न विदितं किमिदं मनो गे
सर्वेषु शक्त न कुतस्स्तवने नियोज्ये ।
मुक्तादिनेव किमितोऽस्ति मया फलं ते
बद्धो यदस्मि भगवन् स परस्समाधिः ॥ २४७॥
आशावशाद्वृषगिरीश तथानुरूप्यात्
अज्ञातशक्तिरहमीडितुमध्यवस्यन् ।
अन्यत्र कालमखिलं सरसं क्षिपन् यत्
त्वां प्रस्मरामि तदिदं भगवन् क्षमस्व ॥ २४८॥
गीतोपदेशनिरतः पवनात्मजात-
केतोः पृथातनुभुवो रणदेशमध्ये ।
व्याख्याङ्कशोभिकरपद्मदलस्स नूनं
गोविन्दराज इह वेङ्कटवल्लभ त्वम् ॥ २४९॥
त्वय्येव मे मतिरियं नियता विभातु
त्वत्पादपङ्कजधनेन च धन्यता स्यात् ।
त्वत्सुन्दराङ्गपरिचिन्तनलब्धभूमा
त्वत्किङ्करः कमललोचन वर्तिषीय ॥ २५०॥
श्रीवेङ्कटाद्रिसदृशं न हि किञ्चिदस्ति
श्रीवेङ्कटेशसदृशो न च जातु कश्चित् ।
तत्पादपङ्कजपरागपवित्रितेन
देहेन तत्परिसरे सुकृती भवानि ॥ २५१॥
वज्रायुधादिविबुधव्रजवन्द्यमानं
वज्रैकभूषणविभूषितमुज्ज्वलम् त्वाम् ।
वज्रात्कठोरतरमप्यतिमूर्खचित्त-
माशु द्रवं रचयितुं प्रभुमाश्रितोऽस्मि ॥ २५२॥
किं नाम चिन्तयसि दासजने न जाने
देहान्तकालपरमावधि कार्यमत्र ।
शास्त्रश्रमेण विकलः कुत एव भक्तः
प्रत्यक्षितं स्वपरम्भावि कुतस्तरां स्यात् ॥ २५३॥
आलोडितानि निखिलान्यपि यैस्तु शास्त्रा-
ण्याचार्यतल्लजमुखैरवधारितं त्वाम् ।
नारायण श्रितवृषाचलतुङ्गशृङ्गं
नाथं नमामि नलिनाक्षमुदारमाढ्यम् ॥ २५४॥
पादारविन्दयुगले बलवन्मनो मे
निक्षिप्तमच्युत निरस्तसमस्तदोषे ।
तत्रैव मञ्जुलमनोहरदिव्यरुक्म-
मञ्जीरशोभिनि मधुस्वदनं विधत्ते ॥ २५५॥
नाथ श्रियो नयनयोर्युगलं मदीयं
निश्शेषमङ्गलनिधिं निधिमाश्रितानाम् ।
आपादचूडमनुभूय भवन्तमेति
साहस्रनेत्रमुखसेवित नैव तृप्तिम् ॥ २५६॥
रौक्मेण भव्यमहसा मकुटेन मान्यं
चक्रेण ते कमललोचन कम्बुना च ।
नित्यं श्रिया विहितशोभभुजान्तरालं
रूपं प्रभो वृषगिरीश विभातु चित्ते ॥ २५७॥
सा मे समस्तजगतीभमाग्यभूमा
कामातिशायिकमनीयगुणाभिरामा ।
श्यामा रमारमण दिव्यसुवर्णदामा
क्षेमाय मूर्तिरियमस्तु वृषाद्रिधामा ॥ २५८॥
सिंहाचलेश्वर दिशो विदिशश्च देव-
सिंहं समाश्रयितुमेत्य जना भवन्तम् ।
सिंहाद्भयादिव भृगैर्वृजिनैर्विमुक्ताः
सिंहासनेषु महितेषु सुखं जयन्ति ॥ २५९॥
नागा हि रत्नशिरसोऽर्थपरायणास्ते
नागेशपर्वतनिवास तथाऽवनिस्थाः ।
धर्मे रता दिविभवा अपि कायमग्नाः
त्रैवर्गिकेतरदिमां गमय त्रिलोकीम् ॥ २६०॥
मध्येऽवनेरिह तथा पयसां निधाने
व्योमन्यपेततमसि स्फुटरश्मिबिम्बे ।
नित्यं विभान्तमनघं मरुतामधीशं
त्वां सर्वभूतनिलयं कलयेऽञ्जनेश ॥ २६१॥
वेङ्कटमहीध्रवरशेखरमिह त्वां
याचति यदेष इदमस्ति न न युक्तम् ।
दीन इह निर्गतिरलब्धफल एष
त्वं तु विभुरद्भुतमहागुणनिधिश्च ॥ २६२॥
वेङ्कटाधीश ते वैभवं किंविधं
केन वा शक्यते ज्ञातुमत्यद्भुतम् ।
क्षेमभाजं जनं मां भवान् भूयसा
वीक्षितेन स्वयं देव नित्यं कुरु ॥ २६३॥
दयासिन्धुः श्रीमान् दलितनिखिलारातिरधिकं
श्रियं नः पुष्णन् यश्शरणमसि कृत्स्नस्य जगतः ।
प्रभुत्वं सौलभ्यं परमपुरुषत्वं तव हरे
कदा वा को वा स्याद्गदितुमिह शक्तः कियदपि ॥ २६४॥
असामान्यं मान्यं ह्यतिवचनसौलभ्यमधुरं
प्रभुत्वं श्लाघन्ते परमपुरुष ब्रह्मनिरताः ।
अलीकस्तोत्राणामविषयमनन्ताद्भुतगुणं
तदेकस्थानं त्वां वृषगिरिपते यामि शरणम् ॥ २६५॥
अस्मादृशामयमनारतदुष्कृतानाम्
अव्याजवत्सलतया शमिताञ्जनस्सन् ।
शेषाचलेश भगवन् भवसिन्धुपोतः
पारे परत्र तनुषे परमं च साम्यम् ॥ २६६॥
प्रपद्येऽहं सद्यः पदयुगमविद्यैकनिलयो
निषद्या दोषाणां निरवधिगुणग्राममनघम् ।
मृगेन्द्रक्षोणिभृन्महितशिखरोद्यानविहृति-
प्रियश्रीवैवश्यक्षतदुरितदृष्टेस्तव हरे ॥ २६७॥
सूरीन्द्रा अपि नाथयामुनमुनिश्रीपूर्णरामानुज-
श्रुत्यन्तार्यमुखास्तथा मम गुरुस्त्रय्यन्तरामानुजः ।
शिष्यस्तस्य च रङ्गलक्ष्मणमुनिर्यं श्रीनिधिं संश्रिताः
सोऽयं सर्वगुरुस्तुतोऽस्तु नियतं श्रेयःप्रदो नः प्रभुः ॥ २६७॥
यदायत्तं विश्वं यदुपरि न किञ्चित् यत इदं
निलीनं यत्रेदं यदिदमिति चाम्नायविदितम् ।
भजे तन्निर्दोषं निरवधिकनिस्सङ्ख्यविभवं
प्रबुद्धैराराध्यं प्रपदनवशं श्रीश्रियमिह ॥ २६८॥
मनो मे मा किञ्चन्मधुमथन मृद्गातु मदनो
मृडे वाऽन्यस्मिन् वा मम भवतु मा रक्षकमतिः ।
अशेषेशे शेषाचलनिलयिनि श्रीपरिबृढे
मुकुन्दे भावो मे भवतु मुनिलोकैकसुगमः ॥ २६९॥
महत्यानन्देऽस्मिन्महितगुणसिन्धौ स्फुरति तं
विहायायं लोकः किमिति विषये हन्त सजति ।
क्षुधश्चोदन्यायाः प्रशमनमिमं ध्यायत जनाः
शरीरे जीर्णेऽस्मिन्नहि भवति तातो न जननी ॥ २७०॥
त्वयि सति खगराजक्ष्माधराधीश लक्ष्मी-
परीबृढ सकलन्नः क्षेममातन्वति द्राक् ।
किमिति कलयतीदं मानसं त्वद्विभिन्नं
भवसि च परमस्त्वं प्रापकस्सन् फलञ्च ॥ २७१॥
नियन्त्रा व्याप्तं यन्निखिलमपि लोकेषु भवता
तदेष स्वाच्छन्द्यं विजहदिह जीवो नियतधीः ।
उपेक्ष्यैतद्बाह्यं निपुणमथ सर्वान्तरमिमं
भवन्तं भुञ्जीत श्रितरम दुराशाविरहितः ॥ २७२॥
तत्तद्वर्णाश्रमसमुचितं कर्म यस्सात्विकस्सन्
यावज्जीवं त्वयि भगवति श्रीश भक्तो विदध्यात् ।
अर्वाचीनैर्न खलु स पुमान् लिप्यते लब्धशेष-
प्रख्यक्षोणीधरशिखरसंवास कारुण्यतस्ते ॥ २७३॥
पादाम्भोजयुगे प्रणम्य निहितं जङ्घागतं मानसं
जानुद्वन्द्वमुपेयिवत् परिगतश्रेष्ठोरु लब्ध्वा कटिम् ।
वक्षः श्रीमणिशोभि संश्रितमथो लोलं भुजेषु क्रमा-
द्वक्त्राब्जं समवाप्य कृत्स्नमचिरादालम्बते श्रीपते ॥ २७४॥
इत्थं निस्तुलतीर्थसप्तशिखरिप्रख्यातशृङ्गाटवी-
कुञ्जैकान्तरमाविहारपरमानन्दं परं पूरुषम् ।
श्रीवत्सान्वयवीरराघवकविः कालेषु यैर्भक्तिमान्
अस्तौषीदिह तानि सङ्कलितवान्पद्यानि सोऽयं स्वयम् ॥ २७५॥
इति तर्कार्णवेन पण्डितरत्नेन शिरोमणिना उत्तमूर्ति
वीरराघवाचार्येण विरचितं श्रीपद्मावतीस्तोत्रसहितं
श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् ॥
॥ शुभमस्तु ॥
From a telugu book veNkaTeshakAvyakalApa
Encoded and proofread by Malleswara Rao Yellapragada
malleswararaoy at yahoo.com