॥ श्रीवेङ्कटेश क्षमात्रयस्त्रिंशच्छ्लोकी ॥

श्रीमद्वेङ्कटशैलवर्यशिखरे रत्नप्रदीपो महां त्रैलोक्यान्धतमिस्र चूषणकृते यो जाज्वलीति स्फुटम् । कल्याणव्रजरोध्यनादिसु दृढाघध्वान्त विध्वंसनं कुर्वन्मङ्गलमातनोतु नितरामात्मानुरूपं स नः ॥ १॥ महामोहमय्यां भवाब्ध्यन्तरीपे महाधन्वमह्यां मदीयं चरन्तम् । मृगं स्वान्तनामानमार्ते परीतं महांहोमृगेन्द्रै रमेशाशु रक्ष ॥ २॥ प्रभो वेङ्कटेश प्रभा भूयमी ते तमः सञ्छिनर्त्ति प्रदेशे ह्यशेषे । अहो मे हृदद्रेर्गुहागूढमन्धन् तमो नैति नाशं किमेतन्निदानम् ॥ ३॥ अथावैमि वैतन्निदानं हृदाहं सहा त्वत्सपर्याविपर्यासहेतौ । कुमार्गे महामोहमार्गे सनिष्ठः सुनिष्ठातृभावं प्रभो यद्वहामि ॥ ४॥ जनं तावकीनं किमेनं सुदीनं वृथाजातमेवं वृथोपेक्षसे त्वम् । रमेशैवमेवं वृथोपेक्षसे चेत् क्षमायाः प्रकाशो मदन्येन केन ॥ ५॥ मदन्यः क्व विप्रेषु वैश्येषु- राजस्वथो शूद्रजातिष्वथो सङ्करेषु । निकृष्टः क्व दृष्टः क्व वा ते क्षमायाः प्रकाशो रमेष ध्रुवं स्यात्प्रहीणः ॥ ६॥ रमा सा क्व याता क्षमोद्वोधिनी ते ममातुल्यमाता तवोरस्थलस्था । ममाभाग्यजातात्तवाभोग्यभूता रमापि प्रभो किं प्रमोदावहा ते ॥ ७॥ क्षमा यातु गुप्ता रमाया विधेयं क्व वात्सल्यभूमा यतो दोषिवृन्दम् । महानन्दमेति ह्यहो मत्प्रवर्जे प्रवृत्तिः किमस्य प्रभो वेङ्कटेश ॥ ८॥ दया सा क्व याता यया दुःखिबन्धो परेषां विषादो वृषाद्रीश नाश्यः । ममामन्ददुःखप्रणाशे प्रकाशं न सा यातुमर्हा किमस्याव्रतं किम् ॥ ९॥ परित्यज्य भोगं परव्योमनिस्वं महानन्दधामन्यपीहाहि शैले । यदर्थे समायास्तदर्थे विचिन्त्य प्रभो वेङ्कटेश द्रुतं मां सुरक्ष ॥ १०॥ पुरा कस्य चिद्रो महापापदाहात् अभूत्ते भिदा श्रीगिरे वेङ्कटेति । ममा तुल्यपाप प्रदाहात्तवाद्य अभिधा स्यान्नवीना रमेशाखिलेड्या ॥ ११॥ ममामन्द पापप्रवृत्तेर्निवृत्तिं यदीक्षेत भो भो भवान् रक्षितुं माम् । तदामन्दकल्लोलजालाकुलेब्धौ भवान् स्नातुमिच्छेद्विरामं निरीक्ष्य ॥ १२॥ क्व तञ्चक्रमास्ते निकृत्तारिचक्रं भवद्भक्तचक्रे शुभं येन चक्रे । हरे चक्रमेतत्तवैतज्जनस्य प्रभूंताघचक्रं न किम् छेत्तुमीष्टे ॥ १३॥ नियुज्य स्वचक्रं ममाघौघचक्रं न चेच्छेत्स्यसि त्वं नदा कस्य हानिः तवैवेति सत्यं यदेतज्जगत्या वशं कोऽपि यायादिनीक्षा कृतेयम् ॥ १४॥ निकृष्टोत्तमं मा विक्रुद्वं विवायानु कम्पां विदध्या यदि त्वं रमेश । तदैतत्समीक्ष्येह वश्या भवेयु स्तवानेकलोका निकृष्टाश्च शिष्टा ॥ १५॥ ममोत्तुङ्गचेतस्तुरंगोधिरोहो चितस्तेधिरूढो मनोजाधिराजा । निरस्याशु तं भोः सभारोह तं किं वृथोपेक्षसे त्वं त्वं त्वदीयं तुरङ्गम् ॥ १६॥ मदीये त्वदीयालयेनादिसिद्धे ह्वदीश त्वदन्ये परीवारयुक्ताः । कदाचित्समागत्य तिष्ठन्ति तान्नो निरस्येर्यदि स्यात्तदीयं गृहं तत् ॥ १७॥ महादुष्टकाम प्रभृत्यन्त्यवर्णो षितेस्वान्तसद्मन्यशुद्धे मदीये । निरस्याशु तं ते पदाम्भोजयुग्म प्रवेशे न शुद्धं गृहं तद्विधेहि ॥ १८॥ भवद्दिव्यदेह प्रभादीपजाल प्रभाभिर्विधुन्वन् प्रकृष्टं तमिस्रम् । त्वदीयैः सह त्वं कुटुम्बै रमेश वसास्मिन् गृहे मे सुखी स्वान्तनाम्नि ॥ १९॥ अविद्यार्कवृक्षं हृदावालरूढ ममानादिमूलं विभिन्दन् विमूलम् । समावाप्य बीजं त्वदीयांघ्रिभक्ति प्रकृष्टाम्रबीजम् रमेशेह रक्ष ॥ २०॥ त्वदाज्ञावशेनादधानोऽपि किञ्चित् स्वतन्त्रोऽहमेवं करोमी त्यहंयुः । सुधा भावमेनं वृथा भावय त्वं त्वदाधीन्यभावं सदा भावयेश ॥ २१॥ बहिर्भावयामि स्ववाचाखिलानि त्वदीयान्यमूनीति भो वेङ्कटेश । हृदि त्वध्यवस्ये ममैवोपभोग्य अन्यमूनीति नित्यं जहीदं रमेश ॥ २२॥ परस्वस्पृहा मे सदा वोभवीति प्रथीयस्यमुष्याशुभेनैमि मोदम् । परस्यासु नाशे तदीयं मदीयं भवेदिव्यहोमे दुराशां जहीश ॥ २३॥ परालाभलब्धप्रणाशाववेक्ष्य प्रपद्ये महालाभयुग्मप्रमोदम् । धनाप्तौ परस्य स्वीकीयस्य नाशं भजामीत्यसूयां जहि श्रीनिवास ॥ २४॥ परस्वापहारे मम स्वापहारः परानर्थदृष्टौ ममानर्थलाभः । परानन्दलाभे ममानन्दलाभो महानित्यमूं मे मनीषां विधत्स्व ॥ २५॥ महाकण्टकारिं महासङ्कटं भोस्त्वंघ्रिप्रफुल्लारविन्दार्पणेन । इमं देशमाधा मुदं संदधानं भवद्भक्तसंघं महान्तं रमेश ॥ २६॥ अकल्याणमेतं सकल्याणमाधाः किमत्रादिमूलं न जाने रमेश । अथावैमि हेतुं तवाध्याजभूयः कृपापारिसिन्धो प्ररीराहमेव ॥ २७॥ सकृते पदाब्जप्रचारेण नालं विवा यान्यदेशे निवासे निकामम् । इहैवास त्वं ममत्वं वह त्वं किमर्थे तवार्थे त्वदन्यः प्रपश्ये ॥ २८॥ अथैकोऽपि को वा त्वदर्थे त्वदन्यः समालक्षितुं वा समारक्षितुं वा । समर्थोऽस्ति लक्ष्मीपते वेङ्कटाद्रेः पते तत्र किम् वाधिकं नेह किं वा ॥ २९॥ यद्रप्यस्ति तत्र त्वदावासभूम्ना तदत्रापि च स्यत्त्वदीयागमश्चेत् । ममामन्द पापप्रवृत्तिं निरीक्ष्य अगमश्चेन्न ते स्यादत्ता कस्य हानिः ॥ ३०॥ अथाल्पस्य हेतोर्विहातुं बहु स्यात् तवेदं न युक्तं प्रभो वेङ्कटेश । अथानल्प पापप्रवृत्तिर्मदीया निवर्त्या न किं तेऽखिलाघौघनाशिन् ॥ ३१॥ मृगपतिपदं श्वारूढश्वेन्निबद्धसटाजटीम- प्यनलमिभराट्कुंभाभेदिप्रभूतरवे यया । प्रथमगुरुभिर्गीतं नेच्ये विडम्बयता मया शुनयसदृशं हास्यं प्राप्तं तथा नियतं त्विदम् ॥ ३२॥ इत्थं श्री वेङ्कटाद्रिप्रभुपदयुगली भक्तवर्यस्य गङ्गाविष्णोर्याञ्चाविशेषाद् व्यरचि कृतिरियं वेङ्कटेशक्षमायः । श्रीशैलानन्तवर्यान्वयसमुदयिना वेङ्कटार्येण भक्त्या निक्षिप्ता तत्पदाब्जे मुदमतितनुतां तन्वतां स्वान्तदेशे ॥ ३३॥ ॥ इति श्रीमदनन्ताचार्यविरचितं श्री वेङ्कटेश क्षमात्रयस्त्रिंशच्छ्लोकीस्तोत्रम् सम्पूर्णम् ॥
Encoded and proofread by YV Malleswara Rao malleswararaoy@yahoo.com Brihatstotraratnavali

% Text title            : venkaTeshakShamAtrayastriMshachChlokI
% File name             : venkaTeshakShamAtrayastriMshachChlokI.itx
% itxtitle              : veNkaTesha kShamAtrayastriMshach.hChlokI
% engtitle              : veNkaTesha kShamAtrayastriMshach.hChlokI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Texttype              : stotra
% Author                : madanantAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Description-comments  : Brihatstotraratnavali
% Latest update         : July 21, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP